बृहत्संहिता/अध्यायः ५७
← अध्यायः ५६ | बृहत्संहिता अध्यायः ५७ वराहमिहिरः |
अध्यायः ५८ → |
५७ प्रतिमालक्षणाध्यायः । ।।
जालान्तरगे भानौ यदणुतरं दर्शनं रजो याति ।
तद्विन्द्यात्परमाणुं प्रथमं तद्धि प्रमाणानाम् ।। ५७.०१ ।।
परमाणुरजो बालाग्र[क्.वालाग्र]लिक्षयूकं[क्.यूका] यवो +अङ्गुलं चैति ।
अष्टगुणानि यथोत्तरं अङ्गुलं एकं भवति संख्या[क्.मात्रा] ।। ५७.०२ ।।
देवागारद्वारस्याष्टाम्शऊनस्य यस्तृतीयो +अंशः ।
तत्पिण्डिकाप्रमाणं प्रतिमा तद्द्विगुणपरिमाणा ।। ५७.०३ ।।
स्वैरङ्गुलप्रमाणैर्द्वादश वीस्तीर्णम्[ऊ.विस्तीर्णम्] आयतं च मुखम् ।
नग्नजिता तु चतुर्दश दैर्घ्येण द्राविडं कथितम् ।। ५७.०४ ।।
नासाललाटचिबुकग्रीवाश्चतुराङ्गुलास्तथा कर्णौ ।
द्वे अङ्गुले च हनुनी[क्.हनुके] चिबुकं च द्व्यङ्गुलं विततम्[क्.विस्तृतम्] ।। ५७.०५ ।।
अष्टाङ्गुलं ललाटं विस्ताराद्द्व्यङ्गुलात्परे शङ्खौ ।
चतुरङ्गुलौ तु शङ्खौ कर्णौ तु द्व्यङ्गुलौ[क्.द्व्यङ्गुलं] पृथुलौ ।। ५७.०६ ।।
कर्णौपान्तः कार्यो +अर्धपञ्चमे भ्रूसमेन सूत्रेण ।
कर्णस्रोतः सुकुमारकं च नेत्र[क्.नयन]प्रबन्धसमम् ।। ५७.०७ ।।
चतुरङ्गुलं वसिष्ठः कथयति नेत्रान्तकर्णयोर्विवरम् ।
अधरो +अङ्गुलप्रमाणस्तस्यार्धेनौत्त्रोष्ठश्च ।। ५७.०८ ।।
अर्धाङ्गुला तु गोच्छा वक्त्रं चतुरङ्गुलऽयतं कार्यम् ।
विपुलं तु सार्धं अङ्गुलं *अव्यात्तं त्र्यङ्गुलं[क्.अध्यात्तत्त्र्यङ्गुलं] व्यात्तम् ।। ५७.०९ ।।
द्व्यङ्गुलतुल्यौ नासापुटौ च नासा पुटाअग्रतो ज्ञेया ।
स्याद्द्व्यङ्गुलं उच्छ्रायश्चतुरङ्गुलं अन्तरं चाक्ष्णोः ।। ५७.१० ।।
द्व्यङ्गुलमितो +अक्षिकोशो द्वे नेत्रे तत्त्रिभागिका तारा ।
दृक्तारा पञ्चांशो नेत्रविकाशो +अङ्गुलं भवति ।। ५७.११ ।।
पर्यन्तात्पर्यन्तं दश भ्रुवो +अर्धाङ्गुलं भ्रुवोर्लेखा ।
भ्रूमध्यं द्व्यङ्गुलकं भूर्[ऊ.भ्रूर्] धैर्घ्येणाङ्गुलचतुष्कम् ।। ५७.१२ ।।
कार्या तु केशरेखा भ्रूबन्धसमाङ्गुलार्धविस्तीर्णा ।
नेत्रान्ते करवीरकं उपन्यसेदङ्गुलप्रमितम् ।। ५७.१३ ।।
द्वात्रिंशत्परिणाहाच्चतुर्दशऽयामतो +अङ्गुलानि शिरः ।
द्वादश तु चित्रकर्मणि दृश्यन्ते विंशतिरदृश्याः ।। ५७.१४ ।।
आस्यं सकेशनिचयं षोडश दैर्घ्येण नग्निजित्[ऊ.नग्नजित्]प्रोक्तम् ।
ग्रीवा दश विस्तीर्णा परिणाहाद्विंशतिः सएका ।। ५७.१५ ।।
कण्ठाद्द्वादश हृदयं हृदयान्नाभी[क्.नाभिश्] च तत्प्रमाणेन ।
नाभीमध्याद्मेढ्रान्तरं च तत्तुल्यं एवौक्तम् ।। ५७.१६ ।।
ऊरू चाङ्गुलमानैश्चतुर्युता विंशतिस्तथा जङ्घे ।
जानुकपिच्छे चतुरङ्गुले च पादौ च तत्तुल्यौ ।। ५७.१७ ।।
द्वादशदीर्घौ षट्पृथुतया च पादौ त्रिकऽयताङ्गुष्ठौ ।
पञ्चाङ्गुलपरिणाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा ।। ५७.१८ ।।
अष्टांशांशऊनाः शेषाङ्गुल्यः[क्.शेषाङ्गुलयः] क्रमेण कर्तव्याः ।
सचतुर्थभागं अङ्गुलं उत्सेधो +अङ्गुष्ठकस्यौक्तः ।। ५७.१९ ।।
अङ्गुष्ठनखः कथितस्चतुर्थभागऊनं अङ्गुलं तज्ज्ञैः ।
शेषनखानां अर्धाङ्गुलं क्रमात्किंचिदूनं वा ।। ५७.२० ।।
जङ्घाग्रे परिणाहश्चतुर्दशौक्तस्तु विस्तरात्[क्.विस्तरः] पञ्च ।
मध्ये तु सप्त विपुला परिणाहात्त्रिगुणिताः सप्त ।। ५७.२१ ।।
अष्टौ तु जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः ।
विपुलौ चतुर्दशऊरू मध्ये द्विगुणश्च तत्परिधिः ।। ५७.२२ ।।
कटिरष्टादश विपुला चत्वारिंशच्चतुर्युता परिधौ ।
अङ्गुलं एकं नाभी[क्.नाभिर्] वेधेन तथा प्रमाणेन ।। ५७.२३ ।।
चत्वारिंशद्द्वियुता नाभीमध्येन मध्यपरिणाहः ।
स्तनयोः षोडश चान्तरं ऊर्ध्वं कक्ष्ये[क्.कक्षे] षडङ्गुलिके ।। ५७.२४ ।।
*अष्टावंसौ द्वादश बाहू कार्यौ[क्.कार्यावष्टावंसौ द्वादश बाहू] तथा प्रबाहू च ।
बाहू षड्विस्तीर्णौ[क्.षड्विस्तिर्णौ] प्रतिबाहू त्वङ्गुलचतुष्कम् ।। ५७.२५ ।।
षोडश बाहू मूले परिणाहाद्द्वादशाग्रहस्ते च ।
विस्तारेण करतलं षडङ्गुलं सप्त दैर्घ्येण ।। ५७.२६ ।।
पञ्चाङ्गुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना ।
अनया तुल्या चानामिका कनिष्ठा तु पर्वऊना ।। ५७.२७ ।।
पर्वद्वयं अङ्गुष्ठः शेषाङ्गुल्यस्[क्.शेषाङ्गुलयस्] त्रिभिस्त्रिभिः कार्याः ।
नखपरिमाणं कार्यं सर्वासां पर्वणो +अर्धेन ।। ५७.२८ ।।
देशानुरूपभूषणवेषालङ्कारमूर्तिभिः कार्या ।
प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति ।। ५७.२९ ।।
दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम् ।
द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः ।। ५७.३० ।।
कार्यो +अष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः ।
श्रीवत्साङ्कितवक्षाः कौस्तुभमणिभूषितौरस्कः ।। ५७.३१ ।।
अतसीकुसुमश्यामः पीताम्बरनिवसनः प्रसन्नमुखः ।
कुण्डलकिरीटधारी पीनगलौरःस्थलांसभुजः ।। ५७.३२ ।।
खड्गगदाशरपाणिर्दक्षिणतः शान्तिदश्चतुर्थकरः ।
वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च ।। ५७.३३ ।।
अथ च चतुर्भुजं इच्छति शान्तिद एको गदाधरश्चान्यः ।
दक्षिणपार्श्वे त्व्[क्.ह्य्] एवं वामे शङ्खश्च चक्रं च ।। ५७.३४ ।।
द्विभुजस्य तु शान्तिकरो दक्षिणहस्तो +अपरश्च शङ्खधरः ।
एवं विष्णोः प्रतिमा कर्तव्या भूतिं इच्छद्भिः ।। ५७.३५ ।।
बलदेवो हलपाणिर्मदविभ्रमलोचनश्च कर्तव्यः ।
विभ्रत्[क्.बिभ्रत्] कुण्डलं एकं शङ्खैन्दुमृणालगौरतनुः[क्.वपुः] ।। ५७.३६ ।।
एकानंशा कार्या देवी बलदेवकृष्णयोर्मध्ये ।
कटिसंस्थितवामकरा सरोजं इतरेण चौद्वहती ।। ५७.३७ ।।
कार्या चतुर्भुजा या वामकराभ्यां सपुस्तकं कमलम् ।
द्वाभ्यां दक्षिणपार्श्वे वरं अर्थिष्वक्षसूत्रं च ।। ५७.३८ ।।
*वामो +अथ वाअष्टभुजायाः[क्.वामेष्वष्टभुजायाः] कमण्डलुश्चापं अम्बुजं शास्त्रम् ।
वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च ।। ५७.३९ ।।
शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत्सुरूपश्च ।
अनयोः स्त्रियौ च कार्ये खेटकनिस्त्रिंशधारिण्यौ ।। ५७.४० ।।
ब्रह्मा कमण्डलुकरश्चतुर्मुखः पण्कजऽसनस्थश्च ।
स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ।। ५७.४१ ।।
शुक्लचतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम् ।
तिर्यग्ललाटसंस्थं तृतीयं अपि लोचनं चिह्नम् ।। ५७.४२ ।।
शम्भोः शिरसिइन्दुकला वृषध्वजो +अक्षि च तृतीयं अपि चऊर्ध्वम् ।
शूलं धनुः पिनाकं वामार्धे वा गिरिसुताअर्धम् ।। ५७.४३ ।।
पद्माङ्कितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च ।
पद्मासनौपविष्टः पिताइव जगतो भवति[क्.भवेत्] बुद्धः ।। ५७.४४ ।।
आजानुलम्बबाहुः श्रीवत्साङ्कः प्रशान्तमूर्तिश्च ।
दिग्वासास्तरुणो रूपवांश्च कार्यो +अर्हतां देवः ।। ५७.४५ ।।
नासाललाटजङ्घऊरुगण्डवक्षांसि चौन्नतानि रवेः ।
कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ।। ५७.४६ ।।
बिभ्राणः स्वकररुहे बाहुभ्यां[क्.पाणिभ्यां] पङ्कजे मुकुटधारी ।
कुण्डलभूषितवदनः प्रलम्बहारो वियद्ग[क्ऽस्त्र्. वियङ्ग]वृतः ।। ५७.४७ ।।
कमलौदरद्युतिमुखः कञ्चुकगुप्तः स्मितप्रसन्नमुखः ।
रत्नौज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरो +अर्कः ।। ५७.४८ ।।
सौम्या तु हस्तमात्रा वसुदा हस्तद्वयौच्छ्रिता प्रतिमा ।
क्षेमसुभिक्षाय भवेत्त्रिचतुर्हस्तप्रमाणा या ।। ५७.४९ ।।
नृपभयं अत्यङ्गायां हीनाङ्गायां अकल्यता कर्तुः ।
शातौदर्यां क्षुद्भयं अर्थविनाशः कृशाङ्गायाम्[क्.कृशायां च] ।। ५७.५० ।।
मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत्कर्तुः ।
वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः ।। ५७.५१ ।।
अन्धत्वं ऊर्ध्वदृष्ट्या करोति चिन्तां अधोमुखी दृष्टिः ।
सर्वप्रतिमास्वेवं शुभाशुभं भास्करौक्तसमम् ।। ५७.५२ ।।
लिङ्गस्य वृत्तपरधिं दैर्घ्येणऽसूत्र्य तत्त्रिधा विभजेत् ।
मूले तच्चतुरस्रं[क्.चतुरश्रं] मध्ये त्वष्टाश्रिं वृत्तं अतः ।। ५७.५३ ।।
चतुरस्रम्[क्.चतुरश्रम्] अवनिखाते मध्यं कार्यं तु पिण्डिकाश्वभ्रे ।
दृश्यौच्छ्रायेण समा समन्ततः पिण्डिका[क्.पिण्डका] श्वभ्रात् ।। ५७.५४ ।।
कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशय ।
यस्य क्षतं भवेद्मस्तके विनाशाय तल्लिङ्गम् ।। ५७.५५ ।।
मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः ।
रेवन्तो +अश्वऽरूढो मृगयाक्रीडाआदिपरिवारः ।। ५७.५६ ।।
दण्डी यमो महिषगो हंसऽरूढश्च पाशभृद्वरुणः ।
नरवाहनः कुबेरो वामकिरीटी बृहत्कुक्षिः ।। ५७.५७ ।।
प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारधारी स्यात् । [क्.५८.५८अब् ।।
एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ।।] क्.५८.५८च्द् ।।