बृहत्संहिता/अध्यायः ६८
← अध्यायः ६७ | बृहत्संहिता अध्यायः ६८ वराहमिहिरः |
अध्यायः ६९ → |
६८ पञ्चमनुष्यविभागाध्यायः ।।
ताराग्रहैर्बलयुतैः स्वक्षेत्रस्वौच्चगैश्चतुष्टयगैः ।
पञ्च पुरुषाः प्रशस्ता जायन्ते तानहं वक्ष्ये ।। ६८.०१ ।।
जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च ।
भद्रो बुधेन बलिना मालव्यो दैत्यपूज्येन ।। ६८.०२ ।।
सत्त्वं अहीनं सूर्यात्शारीरं मानसं च चन्द्रबलात् ।
यद्राशिभेदयुक्तावेतौ तल्लक्षणः स पुमान् ।। ६८.०३ ।।
तद्धातुमहाभूतप्रकृतिद्युतिवर्णसत्त्वरूपऽद्यैः ।
अबलरविइन्दुयुतैस्तैः सङ्कीर्णा लक्षणैः पुरुषाः ।। ६८.०४ ।।
भौमात्सत्त्वं गुरुता बुधात्सुरेज्यात्स्वरः सितात्स्नेहः ।
वर्णः सौरादेषां गुणदोषैः साध्वसाधुत्वम् ।। ६८.०५ ।।
सङ्कीर्णाः स्युर्न नृपा दशासु तेषां भवन्ति सुखभाजः ।
रिपुगृहनीचौच्चच्युतसत्पापनिरीक्षणैर्भेदाः[क्.भेदः] ।। ६८.०६ ।।
षण्णवतिरङ्गुलानां व्यायामो दीर्घता च हंसस्य ।
शशरुचकभद्रमालव्यसंज्ञितास्त्र्यङ्गुलविवृद्ध्या ।। ६८.०७ ।।
यः सात्त्विकस्तस्य दया स्थिरत्वं
सत्त्वऽर्जवं ब्राह्मणदेवभक्तिः ।
रजोअधिकः काव्यकलाक्रतुस्त्री
संसक्तचित्तः पुरुषो +अतिशूरः ।। ६८.०८ ।।
तमोअधिको वञ्चयिता परेषां
मूर्खो +अलसः क्रोधपरो +अतिनिद्रः ।
मिश्रैर्गुणैः सत्त्वरजस्तमोभिर्
मिश्रास्तु ते सप्त सह प्रभेदैः ।। ६८.०९ ।।
मालव्यो *नागनासः समभुज[क्.नागनाससमभुज]युगलो जानुसम्प्राप्तहस्तो
मांसैः पूर्णाङ्गसन्धिः समरुचिरतनुर्मध्यभागे कृशश्च ।
पञ्चाष्टौ चऊर्ध्वं आस्यं श्रुतिविवरं अपि त्र्यङ्गुलऊनं च तिर्यग्
दीप्ताक्षं सत्कपोलं समसितदशनं नातिमांसाधरोष्ठम् ।। ६८.१० ।।
मालवान्स भरुकच्छसुराष्ट्रान्
लाटसिन्धुविषयप्रभृतींश्च ।
विक्रमऽर्जितधनो +अवति राजा
पारियात्रनिलयान्[क्.निलयः] कृतबुद्धिः ।। ६८.११ ।।
सप्ततिवर्षो मालव्यो +अयं त्यक्ष्यति सम्यक्प्राणांस्तीर्थे ।
लक्षणं एतत्सम्यक्प्रोक्तं शेषनराणां चातो वक्ष्ये ।। ६८.१२ ।।
उपचितसमवृत्तलम्बबाहुर्
भुजयुगलप्रमितः समुच्छ्रयो +अस्य ।
मृदुतनुघनरोमनद्धगण्डो
भवति नरः खलु लक्षणेन भद्रः ।। ६८.१३ ।।
त्वक्शुक्रसारः पृथुपीनवक्षाः
सत्त्वाधिको व्याघ्रमुखः स्थिरश्च ।
क्षमान्वितो धर्मपरः कृतज्ञो
गजेन्द्रगामी बहुशास्त्रवेत्ता ।। ६८.१४ ।।
प्राज्ञो वपुष्मान्सुललाटशङ्खः
कलास्वभिज्ञो धृतिमान्सुकुक्षिः ।
सरोजगर्भद्युतिपाणिपादो
योगी सुनासः समसंहतभ्रूः ।। ६८.१५ ।।
नवाम्बुसिक्तावनिपत्रकुङ्कुम
द्विपेन्द्रदानागुरुतुल्यगन्धता ।
शिरोरुहाश्चएकजकृष्णकुञ्चितास्
तुरङ्गनागौपमगुह्यगूढता[क्.गूढगुह्यता] ।। ६८.१६ ।।
हलमुशलगदाअसिशङ्खचक्र
द्विपमकराब्जरथाङ्किताङ्घ्रि[क्.अन्ह्रि]हस्तः ।
विभवं अपि जनो +अस्य बोभुजीइति
क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः ।। ६८.१७ ।।
अङ्गुलानि नवतिश्च षडूनान्य्
उच्छ्रयेण तुलयाअपि हि भारः ।
मध्यदेशनृपतिर्यदि पुष्टाश्
ञ्यादयो +अस्य सकलावनिनाथः ।। ६८.१८ ।।
भुक्त्वा सम्यग्वसुधां शौर्येणौपार्जितां अशीत्यब्दः ।
तीर्थे प्राणांस्त्यक्त्वा भद्रो देवऽलयं याति ।। ६८.१९ ।।
ईषद्दन्तुरकस्तनुद्विजनखः कोशईक्षणः शीघ्रगो
विद्याधातुवणिक्क्रियासु निरतः सम्पूर्णगण्डः शठः ।
सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः
शूरो मातृहितो वनाचलनदीदुर्गेषु सक्तः शशः ।। ६८.२० ।।
दीर्घो +अङ्गुलानां शतं अष्टहीनं
साशङ्कचेष्टः पररन्ध्रविच्च ।
सारो +अस्य मज्जा निभृतप्रचारः
शशो ह्यतो[क्.अयं] नातिगुरुः प्रदिष्टः ।। ६८.२१ ।।
मध्ये कृशः खेटकखड्गवीणा
पर्यङ्कमालामुरजानुरूपाः ।
शूलौपमाश्चऊर्ध्वगताश्च रेखाः
शशस्य पादौपगताः करे वा ।। ६८.२२ ।।
प्रात्यन्तिको माण्डलिको +अथ वाअयं
स्फिक्स्रावशूलाभिभवार्तमूर्तिः ।
एवं शशः सप्ततिहायनो +अयं
वैवस्वतस्यऽलयं अभ्युपैति ।। ६८.२३ ।।
रक्तं पीनकपोलं उन्नतनसं वक्त्रं सुवर्णौपमं
वृत्तं चास्य शिरो +अक्षिणी मधुनिभे सर्वे च रक्ता नखाः ।
स्रग्दामाङ्कुशशङ्खमत्स्ययुगलक्रत्वङ्गकुम्भाम्बुजैश्
चिह्नैर्हंसकलस्वनः सुचरणो हंसः प्रसन्नैन्द्रियः ।। ६८.२४ ।।
रतिरम्भसि शुक्रसारता द्विगुणा चाष्टशतैः पलैर्मितिः ।
परिमाणं अथास्य षड्युता नवतिः सम्परिकीर्तिता बुधैः ।। ६८.२५ ।।
भुनक्ति हंसः खसशूरसेनान्गान्धारगङ्गायामुनाअन्तरालम् ।
शतं दशऊनं शरदां नृपत्वं कृत्वा वनान्ते समुपैति मृत्युम् ।। ६८.२६ ।।
सुभ्रूकेशो रक्तश्यामः कम्बुग्रीवो व्यादीर्घऽस्यः ।
शूरः क्रूरः श्रेष्ठो मन्त्री चौरस्वामी व्यायामी च ।। ६८.२७ ।।
यन्मात्रं आस्यं रुचकस्य दीर्घं
मध्यप्रदेशे चतुरस्रता[क्.चतुरश्रता] सा ।
तनुच्छविः शोणितमांससारो
हन्ता द्विषां साहससिद्धकार्यः ।। ६८.२८ ।।
खट्वाङ्गवीणावृषचापवज्र
शक्तिइन्द्रशूलाङ्कितपाणिपादः ।
भक्तो गुरुब्राह्मणदेवतानां
शताङ्गुलः स्यात्*तु सहस्रमानः[क्.तुलया सहस्रम्] ।। ६८.२९ ।।
मन्त्राभिचारकुशलः कृशजानुजङ्घो
विन्ध्यं ससह्यगिरिं उज्जयिनीं च भुक्त्वा ।
सम्प्राप्य सप्ततिसमा रुचको नरेन्द्रः
शस्त्रेण मृत्युं उपयात्यथ वा +अनलेन ।। ६८.३० ।।
पञ्चापरे वामनको जघन्यः
कुब्जो +अथ वा मण्डलको +अथ साची[क्.समी] ।
पूर्वौक्तभूपानुचरा भवन्ति
सङ्कीर्णसंज्ञः[क्.संज्ञाः] शृणु लक्षणैस्तान् ।। ६८.३१ ।।
सम्पूर्णाङ्गो वामनो भग्नपृष्ठः
किञ्चिच्चऊरूमध्यकक्ष्य[क्.कक्ष]अन्तरेषु ।
ख्यातो राज्ञां ह्येष भद्रानुजीवी
स्फीटो राजा[क्.दाता] वासुदेवस्य भक्तः ।। ६८.३२ ।।
मालव्यसेवी तु जघन्यनामा
खण्डेन्दुतुल्यश्रवणः सुसन्धिः ।
शुक्रेण सारः पिशुनः कविश्च
रूक्षच्छविः स्थूलकराङ्गुलीकः ।। ६८.३३ ।।
क्रूरो धनी स्थूलमतिः प्रतीतस्
ताम्रच्छविः स्यात्परिहासशीलः ।
उरोअङ्घ्रि[क्.अन्ह्रि]हस्तेष्वसिशक्तिपाश
परश्वध*अङ्कः स[क्.अङ्कश्च] जघन्यनामा ।। ६८.३४ ।।
कुब्जो नाम्ना यः स शुद्धो ह्यधस्तात्
खीणः किञ् चित्पूर्वकाये नतश्च ।
हंसऽसेवी नास्तिको +अर्थैरुपेतो
विद्वान्शूरः सूचकः स्यात्कृतज्ञः ।। ६८.३५ ।।
कलास्वभिज्ञः कलहप्रियश्च
प्रभूतभृत्यः प्रमदाजितश्च ।
सम्पूज्य लोकं प्रजहात्यकस्मात्
अब्जो +अयं उक्तः सततौद्यतश्च ।। ६८.३६ ।।
*मण्डलकक्षणं अतो[क्.मण्डलकनामधेयो. ऊ.मण्डलकलक्षणं अतो] रुचकानुचरो +अभिचारवित्कुशलः ।
कृत्यावेताल[क्.वैताल]आदिषु कर्मसु विद्यासु चानुरतः ।। ६८.३७ ।।
वृद्धऽकारः खर*परुषमूर्धजश्[क्.रूक्षमूर्धजश्] च शत्रुनाशने कुशलः ।
द्विजदेवयज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान् ।। ६८.३८ ।।
साचीइति[क्.सामीति] यः सो +अतिविरूपदेहः
शशानुगामी खलु दुर्भगश्च ।
दाता महारम्भसमाप्तकार्यो
गुणैः शशस्यएव भवेत्समानः ।। ६८.३९ ।।
पुरुषलक्षणं उक्तं इदं मया
मुनिमतानि निरीक्ष्य समासतः ।
इदं अधीत्य नरो नृपसम्मतो
भवति सर्वजनस्य च वल्लभः ।। ६८.४० ।।