← अध्यायः ६८ बृहत्संहिता
अध्यायः ६९
वराहमिहिरः
अध्यायः ७० →

६९ कन्यालक्षणाध्यायः ।।

स्निग्धौन्नताग्रतनुताम्रनखौ कुमार्याः
पादौ समौपचितचारुनिगूढगुल्फौ ।
श्लिष्टाङ्गुली कमलकान्तितलौ च यस्यास्
तां उद्वहेद्यदि भुवो +अधिपतित्वं इच्छेत् ।। ६९.०१ ।।

मत्स्याङ्कुशाब्जयववज्रहलासिचिह्न
अवस्वेदनौ मृदुतलौ चरणौ प्रशस्तौ ।
जङ्घे च रोमरहिते विशिरे सुवृत्ते
जानुद्वयं समं अनुल्बणसन्धिदेशम् ।। ६९.०२ ।।

ऊरू घनौ करिकरप्रतिमावरोमाव्
अश्वत्थपत्रसदृशं विपुलं च गुह्यम् ।
श्रोणीललाटं उरुकूर्मसमुन्नतं च
गूढो मणिश्च विपुलां श्रियं आदधाति ।। ६९.०३ ।।

विस्तीर्णमांसौपचितो नितम्बः
गुरुश्च धत्ते रशना[क्.रसना]कलापम् ।
नाभिर्गभीरा[क्.गम्भीरा] विपुलाङ्गानां
प्रदक्षिणऽवर्तगता *च शस्ता[क्.प्रशस्ता] ।। ६९.०४ ।।

मध्यं स्त्रियास्त्रिवलिनाथं अरोमशं च
वृत्तौ घनावविषमौ कठिनावुरस्यौ ।
रोमप्रवर्जितम्[क्.अपवर्जितम्] उरो मृदु चाङ्गनानां
ग्रीवा च कम्बुनिचितार्थसुखानि दत्ते[क्.धत्ते] ।। ६९.०५ ।।

बन्धुजीवकुसुमौपमो +अधरो
मांसलो रुचिरबिम्बरूपभृत् ।
कुन्दकुड्मलनिभाः समा द्विजा
योषितां पतिसुखामितार्थदाः ।। ६९.०६ ।।

दाक्षिण्ययुक्तं अशठं परपुष्टहंस
वल्गु प्रभाषितं अदीनं अनल्पसौख्यम् ।
नासा समा समपुटा रुचिरा प्रशस्ता
दृग्नीलनीरजदलद्युतिहारिणी च ।। ६९.०७ ।।

 नो सङ्गते नातिपृथू न लम्बे शस्ते भ्रुवौ बालशशाङ्कवक्रे ।
 अर्धेन्दुसंस्थानं अरोमशं च शस्तं ललाटं न नतं न तुङ्गम् ।। ६९.०८ ।।

 कर्णयुग्मं अपि युक्तमांसलं शस्यते म्र्दु *समाहितं समम्[क्.समं समाहितम्] ।
 स्निग्धनीलमृदुकुञ्चितएकजा मूर्धजाः सुखकराः समं शिरः ।। ६९.०९ ।।

भृङ्गारऽसनवाजिकुञ्जररथश्रीवृक्षयूपैषुभिर्
मालाकुण्डलचामराङ्कुशयवैः शैलैर्ध्वजैस्तोरणैः ।
मत्स्यस्वस्तिकवेदिकाव्यजनकैः शङ्खऽतपत्राम्बुजैः
पादे पाणितले +अथ वा[क्.अपि वा] युवतयो गच्छन्ति राज्ञीपदम् ।। ६९.१० ।।

निगूढमणिबन्धनौ तरुणपद्मगर्भौपमौ
करौ नृपति*योषितस्[क्.योषितां] तनुविकृष्टपर्वाङ्गुली ।
न निम्नं अति नौन्नतं करतलं सुरेखाअन्वितं
करोत्यविधवां चिरं सुतसुखार्थसम्भोगिनीम् ।। ६९.११ ।।

मध्याङ्गुलिं या मणिबन्धनौत्था
रेखा गता पाणितले +अङ्गनायाः ।
उर्ध्वस्थिता पादतले +अथ वा या
पुंसो +अथ वा राज्यसुखाय सा स्यात् ।। ६९.१२ ।।

कनिष्ठिकामूलभवा गता या
प्रदेशिनीमध्यमिकान्तरालम् ।
करोति रेखा परमऽयुषः सा
प्रमाणं ऊना तु तदूनं आयुः ।। ६९.१३ ।।

अङ्गुष्टमूले प्रसवस्य रेखाः
पुत्रा बृहत्यः प्रमदास्तु तन्व्यः ।
अच्छिन्नमध्या[क्.दीर्घा] बृहदायुषस्[क्.बृहदायुषां] ताः
स्वल्पऽयुषां छिन्नलघुप्रमाणाः ।। ६९.१४ ।।

इतिइदं उक्तं शुभं अङ्गनानाम्
अतो विपर्यस्तं अनिष्टं उक्तम् ।
विशेषतो +अनिष्टफलानि यानि
समासतस्तान्यनुकीर्तयामि ।। ६९.१५ ।।

कनिष्ठिका वा तदनन्तरा वा
महीं न यस्याः श्पृशति स्त्रियाः स्यात् ।
गताअथ वाअङ्गुष्ठं अतीत्य यस्याः
प्रदेशिनी सा कुलटा +अतिपापा ।। ६९.१६ ।।

उद्बद्धाभ्यां पिण्डिकाभ्यां शिराले
शुष्के जङ्घे लोमशे[क्.ऊ.रोमशे] चातिमांसे
वामऽवर्तं निम्नं अल्पं च गुह्यं
कुम्भऽकारं चौदरं दुःखितानाम् ।। ६९.१७ ।।

 ह्रस्वयाअतिनिःस्वता दीर्घया कुलक्षयः ।
 ग्रीवया पृथुउत्थया योषितः प्रचण्डता ।। ६९.१८ ।।

नेत्रे यस्याः केकरे पिङ्गले वा
सा दुःशीला श्यावलोलईक्षणा च ।
कूपौ यस्या गण्डयोश्च स्मितेषु
नि:सन्दिग्धं बन्धकीं तां वदन्ति ।। ६९.१९ ।।

प्रविलम्बिनि देवरं ललाटे
श्वशुरं हन्त्युदरे स्फिजोः पतिं च ।
अतिरोमचयान्वितौत्तरओष्ठी
न शुभा भर्तुरतीव या च दीर्घा ।। ६९.२० ।।

स्तनौ सरोमौ मलिनौल्बणौ च
क्लेशं दधाते विषमौ च कर्णौ ।
स्थूलाः कराला विषमाश्च दन्ताः
क्लेशाय चौर्याय च कृष्णमांसाः ।। ६९.२१ ।।

क्रव्यादरूपैर्वृककाककङ्क
सरीसृपौलूकसमानचिह्नैः
शुष्कैः शिरालैर्विषमैश्च हस्तैर्
भवन्ति नार्यः सुखवित्तहीनाः ।। ६९.२२ ।।

या तुउत्तरोष्ठेन समुन्नतेन
रूक्षाग्रकेशी कलहप्रिया सा ।
प्रायो विरूपासु भवन्ति दोषा
यत्रऽकृतिस्तत्र गुणा वसन्ति ।। ६९.२३ ।।

 पादौ सगुल्फौ प्रथमं प्रदिष्टौ जङ्घे द्वितीयं तु सजानुचक्रे ।
 मेढ्रऊरुमुष्कं च ततस्तृतीयं नाभिः कटिश्चएव[क्.च इति] चतुर्थं आहुः ।। ६९.२४ ।।

 उदरं कथयन्ति पञ्चमं हृदयं षष्ठं अतस्स्तनान्वितम् ।
 अथ सप्तमं अंसजत्रुणी कथयन्त्यष्टमं ओष्ठकन्धरे ।। ६९.२५ ।।

 नवमं नयने च सभ्रुणी सललाटं दशमं शिरस्तथा ।
 अशुभेष्वशुभं दशाफलं चरणऽद्येषु शुभेषु शोभनम् ।। ६९.२६ ।।