← अध्यायः ८० बृहत्संहिता
अध्यायः ८१
वराहमिहिरः
अध्यायः ८२ →

८१ पद्मरागलक्षणाद्यायः ।।

 सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः[क्ऽस्त्र्. पद्मरागो सम्भूतिः] ।
 सौगन्धिकजा भ्रमराञ्जनाब्जजम्बूरसद्युतयः ।। ८१.०१ ।।

 कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः ।
 स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ।। ८१.०२ ।।

 स्निग्धः प्रभानुलेपी स्वच्छो +अर्चिष्मान्गुरुः सुसंस्थानः ।
 अन्तःप्रभो +अतिरागो[क्.अतिरागा] मणिरत्नगुणाः समस्तानाम् ।। ८१.०३ ।।

 कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः ।
 दुर्विद्धा न मनोज्ञाः सशर्कराश्चैति मणिदोषाः ।। ८१.०४ ।।

 भ्रमरशिखिकण्ठवर्णो दीपशिखासप्रभो भुजङ्गानाम् ।
 भवति मणिः किक मूर्धनि यो +अनर्घेयः स विज्ञेयः ।। ८१.०५ ।।

यस्तं बिभर्ति मनुजाधिपतिर्न तस्य
दोषा भवन्ति विषरोगकृताः कदा चित् ।
राष्ट्रे च नित्यं अभिवर्षति तस्य देवः
शत्रूंश्च नाशयति तस्य मणेः प्रभावात् ।। ८१.०६ ।।

 षड्विंशतिः सहस्राण्येकस्य मणेः पलप्रमाणस्य ।
 कर्षत्रयस्य विंशतिरुपदिष्टा पद्मरागस्य ।। ८१.०७ ।।

 अर्धपलस्य द्वादश कर्षस्य एकस्य षट्सहस्राणि ।
 यच्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ।। ८१.०८ ।।

 माषकचतुष्टयं दशशतक्रयं द्वौ तु पञ्चशतमूल्यौ ।
 परिकल्प्यं अन्तराले मूल्यं हीनाधिकगुणानाम् ।। ८१.०९ ।।

 वर्णन्यूनस्यार्धं तेजोहीनस्य मूल्यं अष्टांशम् ।
 अल्पगुणो बहुदोषो मूल्यात्प्राप्नोति विंशांशम् ।। ८१.१० ।।

 आधूम्रं व्रणबहुलं स्वल्पगुणं चाप्नुयाद्द्विशतभागम् ।
 इति पद्मरागमूल्यं पूर्वाचार्यैः समुद्दिष्टम् ।। ८१.११ ।।