बृहत्संहिता/अध्यायः ८७
← अध्यायः ८६ | बृहत्संहिता अध्यायः ८७ वराहमिहिरः |
अध्यायः ८८ → |
८७ विरुताध्यायः ।।
श्यामाश्येनशशघ्नवञ्जुलशिखिश्रीकर्णचक्राह्वयाश्
चाषाण्डीरकखञ्जरीटकशुकध्वाङ्क्षाः कपोतास्त्रयः[क्.त्रयाः] ।
भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिः
फेण्टः कुक्कुटपूर्णकूट*चटकाः प्रोक्ता[क्.चटकाश्च उक्ता] दिवासञ्चराः ।। ८७.०१ ।।
लोमाशिका पिङ्गलच्छिप्पिकाआख्यौ
वल्गुलीउलूकौ शशकश्च रात्रौ ।
सर्वे स्वकालौत्क्रमचारिणः स्युर्
देशस्य नाशाय नृपान्तदा वा ।। ८७.०२ ।।
हयनरभुजगौष्ट्रद्वीपिसिंहऋक्षगोधा
वृकनकुलकुरङ्गश्वाजगोव्याघ्रहंसाः ।
पृषतमृगशृगालश्वाविदाख्यान्यपुष्टा
द्युनिशं अपि बिडालः सारसः सूकरश्च ।। ८७.०३ ।।
भषकूटपूरि[ऊ.कूटपूरि]कुरबककरायिकाः पूर्णकूटसण्ज्ञाः स्युः ।
नामान्युलूकचेट्याः पिङ्गलिका पेचिका हक्का ।। ८७.०४ ।।
कपोतकी च श्यामा वञ्जुलकः कीर्त्यते खदिरचञ्चुः ।
छुच्छुन्दरी नृपसुता वालेयो गर्दभः प्रोक्तः ।। ८७.०५ ।।
स्रोतस्*तडागभेद्य[क्.तडागभेद्येक]एकपुत्रकः कलहकारिका च रला ।
भृङ्गारवच्च विरुवति[क्.वाशति] निशि भूमौ द्व्यङ्गुलशरीरा ।। ८७.०६ ।।
दुर्बलिको भाण्डीकः प्राच्यानां दक्षिणः प्रशस्तो +असौ ।
धिक्कारो मृगजातिः कृकवाकुः कुक्कुटः प्रोक्तः ।। ८७.०७ ।।
गर्ताकुक्कुटकस्य प्रथितं तु कुलालकुक्कुटो नाम ।
गृहगोधिकाइति संज्ञा विज्ञेया कुड्यमत्स्यस्य ।। ८७.०८ ।।
दिव्यो धन्वन उक्तः क्रोडः स्यात्सूकरो +अथ गौरुस्रा ।
श्वा सारमेय उक्तो जात्या चटिका च सूकरिका ।। ८७.०९ ।।
एवं देशे देशे तद्विद्भ्यः समुपलभ्य नामानि ।।
शकुनरुतज्ञानार्थं शास्त्रे सञ्चित्य[क्.सञ्चिन्त्य] योज्यानि ।। ८७.१० ।।
वञ्जुलकरुतं तित्तिडिति दीप्तं अथ किल्किलिइति तत्पूर्णम् ।
श्येनशुकगृध्रकङ्काः प्रकृतेरन्यस्वरा दीप्ताः ।। ८७.११ ।।
यानऽसनशय्यानिलयनं कपोतस्य सद्मविशनं वा ।
अशुभप्रदं नराणां जातिविभेदेन कालो +अन्यः ।। ८७.१२ ।।
आपाण्डुरस्य वर्षाच्चित्रकपोतस्य चएव षण्मासात् ।
कुङ्कुमधूम्रस्य फलं सद्यः पाकं कपोतस्य ।। ८७.१३ ।।
चिचिदिति शब्दः पूर्णः श्यामायाः शूलिशूलिति च धन्यः ।
चच्चैति दीप्तः स्यात्स्वप्रियलाभाय[क्.योगाय] चिक्चिगिति ।। ८७.१४ ।।
हारीतस्य तु शब्दो गुग्गुः पूर्णो +अपरे प्रदीप्ताः स्युः ।
स्वरवैचित्र्यं सर्वं भारद्वाज्याः शुभं प्रोक्तम् ।। ८७.१५ ।।
किष्किषिशब्दः पूर्णः करायिकायाः शुभः कहकहैति ।
क्षमाय[क्.ऊ.क्षेमाय] केवलं करकरैति न त्वर्थसिद्धिकरः ।। ८७.१६ ।।
कोटुक्लिइति क्षेम्यः स्वरः कटुक्लिइति वृष्टये तस्याः ।
अफलः कोटिकिलिइति च दीप्तः खलु गुं कृतः शब्दः ।। ८७.१७ ।।
शस्त्रं[क्.ऊ.शस्तम्] वामे दर्शनं दिव्यकस्य
सिद्धिर्ज्ञेया हस्तमात्रौच्छ्रितस्य ।
तस्मिन्नेव प्रोन्नतस्थे शरीराद्
धात्री वश्यं सागरान्ताअभ्युपैति ।। ८७.१८ ।।
फणितो +अभिमुखागमो +अरिसङ्गं
कथयति बन्धु[क्.बन्ध]वधात्ययं च यातुः ।
अथ वा समुपैति सव्यभागात्
न स सिद्ध्यै कुशलो गमागमे च ।। ८७.१९ ।।
अब्जेषु मूर्धसु च वाजिगजौरगाणां
राज्यप्रदः कुशलकृत्शुचिशाद्वलेषु ।
भस्मास्थिकाष्ठतुषकेशतृणेषु दुःखं
दृष्टः करोति खलु खञ्जनको +अब्दं एकम् ।। ८७.२० ।।
किलिकिल्किलि तित्तिरस्वनः
शान्तः शस्तफलो +अन्यथाअपरः ।
शशको निशि वामपार्श्वगो
वाशन्शस्तफलो निगद्यते ।। ८७.२१ ।।
किलिकिलिविरुतं कपेः प्रदीप्तं
न शुभफलप्रदं उद्दिशन्ति यातुः ।
शुभं अपि कथयन्ति चुग्लुशब्दं
कपिसदृशं च कुलालकुक्कुटस्य ।। ८७.२२ ।।
पूर्णाननः कृमिपतङ्गपिपीलकाआद्यैश्
चाषः प्रदक्षिणं उपैति नरस्य यस्य ।
खे स्वस्तिकं यदि करोत्यथ वा यियासोस्
तस्यार्थलाभं अचिरात्सुमहत्करोति ।। ८७.२३ ।।
चाषस्य काकेन विरुध्यतश्चेत्
पराजयो दक्षिणभागगस्य ।
वधः प्रयातस्य तदा नरस्य
विपर्यये तस्य जयः प्रदिष्टः ।। ८७.२४ ।।
केकैति पूर्णकुटवद्यदि वामपार्श्वे
चाषः करोति विरुतं जयकृत्तदा स्यात् ।
क्रेक्रैति[क्.क्रक्रेति] तस्य विरुतं न शिवाय दीप्तं
सन्दर्शनं शुभदं अस्य सदैव यातुः ।। ८७.२५ ।।
अण्डीरकष्टीइति रुतेन पूर्णष्
टिट्टिट्टिशब्देन तु दीप्त उक्तः ।
फेण्टः शुभो दक्षिणभागसंस्थो
न वाशिते तस्य कृतो विशेषः ।। ८७.२६ ।।
श्रीकर्णरुतं तु दक्षिणे
क्वक्वक्वैति शुभं प्रकीर्तितम् ।
मध्यं खलु चिक्चिकिइति यच्
शेषं सर्वं उशन्ति निष्फलम् ।। ८७.२७ ।।
दुर्बलेरपि चिरिल्विरिल्विति
प्रोक्तं इष्टफलदं हि वामतः ।
वामतश्च यदि दक्षिणं व्रजेत्
कार्यसिद्धिं अचिरेण यच्छति ।। ८७.२८ ।।
चिक्चिकिवाशितं एव तु कृत्वा
दक्षिणभागं उपैति तु वामात् ।
क्षेमकृदेव न साधयते +अर्थान्
व्यत्ययगो वधबन्धभयाय ।। ८७.२९ ।।
क्रक्रैति च सारिका द्रुतं त्रेत्रे वाअप्यभया विरौति या ।
सा वक्ति यियासतो +अचिराद्गात्रेभ्यः[क्.गात्रेभ्य] क्षतजस्य विस्रुतिम् ।। ८७.३० ।।
फेण्टकस्य वामतश्चिरिल्विरिल्विति स्वनः ।
शोभनो निगद्यते प्रदीप्त उच्यते +अपरः ।। ८७.३१ ।।
श्रेष्ठं खरं स्थास्नुं उशन्ति वामम्
ओंकारशब्देन हितं च यातुः ।
अतो +अपरं[क्.अतः परं] गर्दभनादितं यत्
सर्वऽश्रयं तत्प्रवदन्ति दीप्तम् ।। ८७.३२ ।।
आकाररावी समृगः कुरङ्ग
ओकाररावी पृषतश्च पूर्णः ।
ये +अन्ये स्वरास्ते कथिताः प्रदीप्ताः
पूर्णाः शुभाः पापफलाः प्रदीप्ताः ।। ८७.३३ ।।
भीता रुवन्ति कुकुकुक्विति ताम्रचूडास्
त्यक्त्वा रुतानि भयदान्यपराणि रात्रौ ।
स्वस्थैः स्वभावविरुतानि निशावसाने
ताराणि राष्ट्रपुरपार्थिववृद्धिदानि ।। ८७.३४ ।।
नानाविधानि विरुतानि हि छिप्पिकायास्
तस्याः शुभाः कुलुकुलुर्न शुभास्तु शेषाः ।
यातुर्बिडालविरुतं न शुभं सदैव
गोस्तु क्षुतं मरणं एव करोति यातुः ।। ८७.३५ ।।
हुंहुंगुग्लुगिति प्रियां अभिलषन्क्रोशत्युलूको मुदा
पूर्णः स्याद्गुरुलु प्रदीप्तं अपि च ज्ञेयं सदा किस्किसि ।
विज्ञेयः कलहो यदा बलबलं तस्य[क्.तस्याः] असकृद्वाशितं
दोषायएव टटट्टटैति न शुभाः शेषास्तु दीप्त[क्.दीप्ताः]स्वराः ।। ८७.३६ ।।
सारसकूजितं इष्टफलं तद्यद्युगपद्विरुतं मिथुनस्य ।
एकरुतं न शुभं यदि वा स्यादेकरुते प्रविरौति[क्.प्रतिरौति] चिरेण ।। ८७.३७ ।।
चिरिल्विरिल्विति स्वरैः शुभं करोति पिङ्गलाः[क्.पिङ्गला] ।
अतो +अपरे तु ये स्वराः प्रदीप्तसंज्ञितास्तु ते ।। ८७.३८ ।।
इशिविरुतं गमनप्रतिषेधि
कुशुकुशु चेत्कलहं प्रकरोति ।
अभिमतकार्यगतिं च यथा सा
कथयति तं च विधिं कथयामि ।। ८७.३९ ।।
दिनान्तसन्ध्यासमये निवासम्
आगम्य तस्याः प्रयतश्च वृक्षम् ।
देवान्समभ्यर्च्य पितामहऽदीन्
नवाम्बरस्तं च तरुं सुगन्धैः ।। ८७.४० ।।
एको निशीथे +अनलदिक्स्थितश्च
दिव्यैतरैस्तां शपथैर्नियोज्य ।
पृच्छेद्यथाचिन्तितं अर्थं एवम्
अनेन मन्त्रेण यथाआशृणोति ।। ८७.४१ ।।
विद्धि भद्रे मया यत्त्वं इमं अर्थं प्रचोदिता ।
कल्याणि सर्ववचसां वेदित्री त्वं प्रकीर्त्यसे ।। ८७.४२ ।।
आपृच्छे +अद्य गमिष्यामि वेदितश्च पुनस्त्वहम् ।
प्रातरागम्य पृच्छे त्वां आग्नेयीं दिशं आश्रितः ।। ८७.४३ ।।
प्रचोदयाम्यहं यत्त्वां तन्मे व्याख्यातुं अर्हसि ।
स्वचेष्टितेन कल्याणि यथा वेद्मि निराकुलम् ।। ८७.४४ ।।
इत्येवं उक्ते तरुमूर्धगायाश्
चिरिल्विरिल्विइति रुते +अर्थसिद्धिः ।
अत्याकुलत्वं[ऊ.अव्याकुलत्वम्] दिशिकारशब्दे
कुचाकुचाइत्येवं उदाहृते वा ।। ८७.४५ ।।
अवाक्प्रदाने *+अपि हित[क्.विहित]अर्थसिद्धिः
पूर्वौक्तदिक्चक्रफलैरतो +अन्यत् ।
वाच्यं फलं चौत्तममध्यनीच
शाखास्थितायां वरमध्यनीचम् ।। ८७.४६ ।।
दिङ्मण्डले +अभ्यन्तरबाह्यभागे
फलानि विन्द्याद्गृहगोधिकायाः ।
छुच्छुन्दरी चिच्चिडिति प्रदीप्ता
पूर्णा तु सा तित्तिडिति स्वनेन ।। ८७.४७ ।।