← अध्यायः ८७ बृहत्संहिता
अध्यायः ८८
वराहमिहिरः
अध्यायः ८९ →

८८ श्वचक्राध्यायः ।।

नृतुरगकरिकुम्भपर्याणसक्षीरवृक्षैष्टकासञ्चयच्छत्रशय्याआसनौलूखलानि ध्वजं चामरं शाद्वलं पुष्पितं वा प्रदेशं यदा श्वाअवमूत्र्याग्रतो याति यातुस्तदा कार्यसिद्धिर्भवेदार्द्रके गोमये मिष्टभोज्यऽगमः शुष्कसम्मूत्रणे शुष्कं अन्नं गुडो मोदकावाप्तिरेवाथ वा
अथ विषतरुकण्ठकीकाष्ठपाषाणशुष्कद्रुमास्थिश्मशानानि मूत्र्यावहत्याथ वा यायिनो +अग्रेसरो +अनिष्टं आख्याति शय्याकुलालऽदि भाण्डान्यभुक्तान्यभिन्नानि वा मूत्रयन्कन्यकादोषकृद्भुज्यमानानि चेद्दुष्टतां तद्गृहिण्यास्तथा स्यादुपानत्फलं गोस्तु सम्मूत्रणे +अवर्णजः[क्.वर्णजः] सङ्करः ।
गमनमुखं उपानहं सम्प्रगृह्यौपतिष्ठेद्यदा स्याद्तदा सिद्धये मांसपूर्णऽनने +अर्थऽप्तिराद्रेण चास्थ्ना शुभं साग्न्यलातेन शुष्केण चास्थ्ना गृहीतेन मृत्युः प्रशान्तौल्मुकेनाभिघातो +अथ पुंसः शिरोहस्तपादऽदि वक्त्रे भुवो +अभ्यागमो[क्.ह्यागमो] वस्त्रचीरऽदिभिर्व्यापदः के चिदाहुः सवस्त्रे शुभम्
प्रविशति तु गृहं सशुष्कास्थिवक्त्रे प्रधानस्य तस्मिन्वधः शृङ्खलाशीर्णवल्लीवरत्राआदि वा बन्धनं चौपगृह्यौपतिष्ठेद्यदा स्यात्तदा बन्धनं लेढि पादौ विधुन्वन्स्वकर्णावुपर्याक्रमंश्चापि विघ्नाय यातुर्विरोधे विरोधस्तथा स्वाङ्गकण्डूयने स्यात्स्वपंश्चऊर्ध्वपादः सदा दोषकृत् ।। ८८.०१ ।।

सूर्यौदये +अर्काभिमुखो विरौति
ग्रामस्य मध्ये यदि सारमेयः ।
एको यदा वा बहवः समेताः
शंसन्ति देशाधिपं अन्यं आशु ।। ८८.०२ ।।

सूर्यौन्मुखः श्वाअनलदिक्स्थितश्च
चौरानलत्रासकरो +अचिरेण ।
मध्याह्नकाले +अनलमृत्युशंसी
सशोणितः स्यात्कलहो +अपराह्णे ।। ८८.०३ ।।

रुवन्दिनेशाभिमुखो +अस्तकाले
कृषीबलानां भयं आशु दत्ते[क्.धत्ते] ।
प्रदोषकाले +अनिलदिङ्मुखश्च[क्.तु]
दत्ते[क्.धत्ते] भयं मारुततस्करौत्थम् ।। ८८.०४ ।।

उदङ्मुखश्चापि निशार्धकाले
विप्रव्यथां गोहरणं च शास्ति ।
निशावसाने शिवदिन्मुखश्च
कन्याअभिदूषानलगर्भपातान् ।। ८८.०५ ।।

उच्चैः स्वराः स्युस्तृणकूटसंस्थाः
प्रासादवेश्मौत्तमसंस्थिता वा ।
वर्षासु वृष्टिं कथयन्ति तीव्राम्
अन्यत्र मृत्युं दहनं रुजश्च ।। ८८.०६ ।।

प्रावृट्काले +अवग्रहे +अम्भो +अवगाह्य
प्रत्यावर्तै[क्.प्रत्यावृत्तै] रेचकैश्चाप्यभीक्षणम्[क्.अभीक्ष्णम्] ।
आधुन्वन्तो वा पिबन्तश्च तोयं
वृष्टिं कुर्वन्त्यन्तरे द्वादशाहात् ।। ८८.०७ ।।

द्वारे शिरो न्यस्य बहिः शरीरं
रोरूयते श्वा गृहिणीं विलोक्य ।
रोगप्रदः स्यादथ मन्दिरान्तर्
बहिर्मुखो *वक्ति च[क्.शंसति] बन्धकीं ताम् ।। ८८.०८ ।।

 कुड्यं उत्किरति वेश्मनो यदा तत्र खानकभयं भवेत्तदा ।
 गोष्ठं उत्किरति गोग्रहं वदेद्धान्यलब्धिं अपि धान्यभूमिषु ।। ८८.०९ ।।

एकेनाक्ष्णा साश्रुणा दीनदृष्टिर्
मन्दऽहारो दुःखकृत्तद्गृहस्य ।
गोभिः साकं[क्.सार्धं] क्रीडमाणः सुभिक्षं
क्षेमऽरोग्यं चाभिधत्ते मुदं च ।। ८८.१० ।।

वामं जिघ्रेज्जानु वित्तऽगमाय
स्त्रीभिः साकं विग्रहो दक्षिणं चेत् ।
ऊरुं वामं चैन्द्रियार्थौपभोगः[क्.उपभोगाः]
सव्यं जिघ्रेदिष्टमित्रैर्विरोधः ।। ८८.११ ।।

पादौ जिघ्रेद्यायिनश्चेदयात्रां
प्राहार्थऽप्तिं वाञ्छितां निश्चलस्य ।
स्थानस्थस्यौपानहौ चेद्विजिघ्रेत्
क्षिप्रं यात्रां सारमेयः करोति ।। ८८.१२ ।।

उभयोरपि जिघ्रणे हि बाह्वोर्
विज्ञेयो रिपुचौरसम्प्रयोगः ।
अथ भस्मनि गोपयीत भक्षान्
मांसास्थीनि च[क्.वा च] शीघ्रं अग्निकोपः ।। ८८.१३ ।।

ग्रामे भषित्वा च बहिः श्मशाने
भषन्ति चेदुत्तमपुंविनाशः ।
यियासतश्चाभिमुखो विरौति
यदा तदा श्वा निरुणद्धि यात्राम् ।। ८८.१४ ।।

उकार*वर्णे विरुते[क्.वर्णेन रुते] +अर्थसिद्धिर्
ओकारवर्णेन च वामपार्श्वे ।
व्याक्षेपं औकाररुतेन विन्द्यान्
निषेधकृत्सर्वरुतैश्च पश्चात् ।। ८८.१५ ।।

  • खंखैति[क्.सङ्खेति] चौच्चैश्च मुहुर्मुहुर्ये

रुवन्ति दण्डैरिव ताड्यमानाः ।
श्वानो +अभिधावन्ति च मण्डलेन
ते शून्यतां मृत्युभयं च कुर्युः ।। ८८.१६ ।।

प्रकाश्य दन्तान्यदि लेढि सृक्विणी
तदाअशनं मृष्टम्[क्.मिष्टम्] उशन्ति तद्विदः ।
यदाआननं *लेढि पुनर्[क्.च अवलिहेन्] न सृक्विणी
प्रवृत्तभोज्ये +अपि तदाअन्नविघ्नकृत् ।। ८८.१७ ।।

ग्रामस्य मध्ये यदि वा पुरस्य
भषन्ति संहत्य मुहुर्मुहुर्ये ।
ते क्लेशं आख्यान्ति तदीश्वरस्य
श्वाअरण्यसंस्थो मृगवद्विचिन्त्यः ।। ८८.१८ ।।

वृक्षौपगे क्रोशति तोयपातः
स्यादिन्द्रकीले सचिवस्य पीडा ।
वायोर्गृहे सस्यभयं गृहान्तः
पीडा पुरस्यएव च गोपुरस्थे ।। ८८.१९ ।।

भयं च शय्यासु तदीश्वराणां
याने भषन्तो भयदाश्च पश्चात् ।
अथापसव्या जनसन्निवेशे
भयं भषन्तः कथयन्त्यरीणाम् ।। ८८.२० ।।