← अध्यायः ८ बृहत्संहिता
अध्यायः ९
वराहमिहिरः
अध्यायः १० →

९ शुक्रचाराध्यायः ।।

 नागगजाइरावतवृषभगोजरद्गवमृगाजदहनऽख्याः ।
 अश्विन्याद्याः कैश्चित्त्रिभाः क्रमाद्वीथयः कथिताः ।। ९.०१ ।।

 नागा तु पवनयाम्यानलानि पैतामहात्त्रिभास्तिस्रः ।
 गोवीथ्यां अश्विन्यः पौष्णं द्वे चापि भद्रपदे ।। ९.०२ ।।

 जारद्गव्यां श्रवणात्त्रिभं मृगऽख्या त्रिभं तु मैत्रऽद्यम् ।
 हस्तविशाखात्वाष्ट्राण्यजैत्यषाढाद्वयं दहना ।। ९.०३ ।।

 तिस्रस्तिस्रस्तासां क्रमादुदङ्मध्ययाम्यमार्गस्थाः ।
 तासां अप्युत्तरमध्य*दक्षिणेन स्थितएकैका[क्.दक्षिणावस्थितैकैका] ।। ९.०४ ।।

 वीथीमार्गानपरे कथयन्ति यथास्थितान्भमार्गस्य ।
 नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।। ९.०५ ।।

 उत्तरमार्गो याम्यऽदि निगदितो मध्यमस्तु भाग्यऽद्यः ।
 दक्षिणमार्गोआषाढाआदि कैश्चिदेवं कृता मार्गाः ।। ९.०६ ।।

 *ज्यौतिषम्[क्.ज्योतिसम्] आगमशास्त्रं विप्रतिपत्तौ न योग्यं अस्माकम् ।
 स्वयं एवा विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये ।। ९.०७ ।।

 उत्तरवीथिषु शुक्रः सुभिक्षशिवकृद्गतो +अस्तं उदयं *च[क्.वा] ।
 मध्यासु मध्यफलदः कष्टफलो दक्षिणस्थासु ।। ९.०८ ।।

 अत्युत्तमौत्तमोनं सममध्यन्यूनं अधमकष्टफलम् ।
 *कष्टतरं[क्.कष्टतमं] सौम्यऽद्यासु वीथिषु यथाक्रमं ब्रूयात् ।। ९.०९ ।।

 भरणीपूर्वं मण्डलं ऋक्षचतुष्कं सुभिक्षकरं आद्यम् ।
 वङ्गाङ्गमहिष*बाह्लिक[क्.वाह्लिक]कलिङ्गदेशेषु भयजननम् ।। ९.१० ।।

 अत्रौदितं आरोहेद्ग्रहो +अपरो यदि सितं ततो हन्यात् ।
 भद्राश्वशूरसेनकयौधेयककोटिवर्षनृपान् ।। ९.११ ।।

 भचतुष्टयं आर्द्राआद्यं द्वितीयं अमिताम्बुसस्यसम्पत्त्यै ।
 विप्राणां अशुभकरं विशेषतः क्रूरचेष्टानाम् ।। ९.१२ ।।

 अन्येनात्रऽक्रान्ते म्लेच्छा*आटविक[क्.& ऊ.आतविका]श्वजीविगोमन्तान् ।
 गोनर्दनीचशूद्रान्वैदेहांश्चानयः स्पृशति ।। ९.१३ ।।

 विचरन्मघाआदिपञ्चकं उदितः सस्यप्रणाशकृत्शुक्रः ।
 क्षुत्तस्करभयजननो नीचौन्नतिसङ्करकरश्च ।। ९.१४ ।।

 पित्र्याद्ये +अवष्टब्धो हन्त्यन्येनऽविकान्शबरशूद्रान् ।
 पुण्ड्राअपरान्त्यशूलिकवनवासिद्रविडसामुद्रान् ।। ९.१५ ।।

 स्वात्याद्यं भत्रितयं मण्डलं एतच्चतुर्थं अभयकरम् ।
 ब्रह्मक्षत्रसुभिक्षाभिवृद्धये मित्रभेदाय ।। ९.१६ ।।

 अत्राक्रान्ते मृत्युः किरातभर्तुःपिनष्टि चैक्ष्वाकून् ।
 प्रत्यन्तावन्तिपुलिन्दतङ्गणान्शूरसेनांश्च ।। ९.१७ ।।

 ज्येष्ठाआद्यं पञ्चऋक्षं क्षुत्तस्कररोगदं प्रबाधयते ।
 काश्मीराश्मकमत्स्यान्सचारुदेवीनवन्तींश्च ।। ९.१८ ।।

 *अत्रारोहेद्द्रविडऽभीराम्बष्ठ[क्.आरोहे +अत्राभीरान्द्रविडाम्बष्ठ]त्रिगर्तसौराष्ट्रान् ।
 नाशयन्ति सिन्धुसौवीरकांश्च काशिईश्वरस्य वधः ।। ९.१९ ।।

 षष्ठं षण्नक्षत्रं शुभं एतन्मण्डलं धनिष्ठाआद्यम् ।
 भूरिधनगोकुलऽकुलं अनल्पधान्यं क्व चित्सभयम् ।। ९.२० ।।

 अत्र*आरोहेच्[क्.आरोहे]शूलिकगान्धारावन्तयः प्रपीड्यन्ते ।
 वैदेहवधः प्रत्यन्तयवनशकदासपरिवृद्धिः ।। ९.२१ ।।

 अपरस्यां स्वात्याद्यं ज्येष्ठाआद्यं चापि मण्डलं शुभदम् ।
 पित्र्यऽद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ।। ९.२२ ।।

 दृष्टो *+अनस्तमिते[क्.+अनस्तगते +अर्के] भयकृत्क्षुद्रोगकृत्समस्तं अहः ।
 *अर्धदिवसे[क्.अर्थदिवसं] च सैन्दुर्नृपबलपुरभेदकृत्शुक्रः ।। ९.२३ ।।

 भिन्दन्गतो +अनलऋक्षं कूलातिक्रान्तवारिवाहाभिः ।
 अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री ।। ९.२४ ।।

 प्राजापत्ये शकटे भिन्ने कृत्वाइव पातकं वसुधा ।
 केशास्थिशकलशबला कापालं इव व्रतं धत्ते ।। ९.२५ ।।

 सौम्यौपगतो रससस्यसंक्षयायौशनाः समुद्दिष्टः ।
 आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकरकरः ।। ९.२६ ।।

 अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः ।
 पुष्ये पुष्टा वृष्टिर्*विद्याधररण[ऊ.विद्याधर]विमर्दश्च ।। ९.२७ ।।

 आश्लेषासु भुजङ्गमदारुणपीडावहश्चरन्शुक्रः ।
 भिन्दन्मघां महामात्रदोषकृद्भूरिवृष्टिकरः ।। ९.२८ ।।

 भाग्ये शबरपुलिन्दप्रध्वंसकरो +अम्बुनिवहमोक्षाय ।
 आर्यम्णे कुरुजाङ्गलपाञ्चालघ्नः सलिलदायी ।। ९.२९ ।।

 कौरवचित्रकराणां हस्ते पीडा जलस्य च निरोधः ।
 कूपकृदण्डजपीडा चित्रास्थे शोभना वृष्टिः ।। ९.३० ।।

 स्वातौ प्रभूतवृष्टिर्दूतवणिग्नाविकान्स्पृशत्यनयः ।
 ऐन्द्राग्ने +अपि सुवृष्टिर्वणिजां च भयं विजानीयात् ।। ९.३१ ।।

 मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः ।
 मौलिकभिषजां मूले त्रिष्वपि चएतेष्वनावृष्टिः ।। ९.३२ ।।

 आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति ।
 श्रवणे श्रवणव्याधिः *पाखण्डि[क्.पाषण्डि]भयं धनिष्ठासु ।। ९.३३ ।।

 शतभिषजि शौण्डिकानां *अजैकभे[क्.अजैकपे] द्यूतजीविनां *पीडां[क्.पीडा] ।
 कुरुपाञ्चालानां अपि करोति चास्मिन्सितः सलिलम् ।। ९.३४ ।।

 आहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् ।
 अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् ।। ९.३५ ।।

 *चतुर्दशीं पञ्चदशीं तथाअष्टमीं[क्.चतुर्दशे पञ्चदशे तथाष्टमे] तमिस्रपक्षस्य *तिथिं[क्.तिथौ] भृगोः सुतः ।
 यदा व्रजेद्दर्शनं अस्तं एति वा तदा मही वारिमयीव लक्ष्यते ।। ९.३६ ।।

 गुरुर्भृगुश्चापरपूर्वकाष्ठयोः परस्परं सप्तमराशिगौ यदा ।
 तदा प्रजा रुग्भयशोकपीडिता न वारि पश्यन्ति पुरन्दरौज्झितम् ।। ९.३७ ।।

 यदा स्थिता जीवबुधऽरसूर्यजाः सितस्य सर्वे +अग्रपथानुवर्तिनः ।
 नृनागविद्याधरसङ्गरास्तदा भवन्ति वाताश्च समुच्छ्रितान्तकाः ।। ९.३८ ।।

 न मित्रभावे सुहृदो व्यवस्थिताः क्रियासु सम्यग्न रता द्विजातयः ।
 न चाल्पं अप्यम्बु ददाति वासवो भिनत्ति वज्रेण शिरांसि भूभृताम् ।। ९.३९ ।।

 शनैश्चरे म्लेच्छविडालकुञ्जराः खरा महिष्यो +असितधान्यशूकराः ।
 पुलिन्दशूद्राश्च सदक्षिणापथाः क्षयं व्रजन्त्यक्षिमरुद्गदौद्भवैः ।। ९.४० ।।

 निहन्ति शुक्रः क्षितिजे +अग्रतः *प्रजां[क्.प्रजा] हुताशशस्त्रक्षुदवृष्टितस्करैः ।
 चराचरं व्यक्तं अथौत्तरापथं दिशो +अग्निविद्युद्रजसा च पीड्येत् ।। ९.४१ ।।

 बृहस्पतौ हन्ति पुरःस्थिते सितः सितं समस्तं द्विजगोसुरालयान् ।
 दिशं च पूर्वां करकासृजो +अम्बुदा गले गदा भूरि भवेच्च शारदम् ।। ९.४२ ।।

सौम्यो +अस्तौदयोः पुरो भृगुसुतस्यावस्थितस्तोयकृद्
रोगान्पित्तज*कामलांश्[क्.कामलां क्ऽस्त्र्. कामलाम्शोर्कामलाश्] च कुरुते पुष्णाति च *ग्रैष्मिकान्[क्.ग्रैष्मिकम्] ।
हन्यात्प्रव्रजितऽग्निहोत्रिकभिषग्रङ्गोपजीव्यान्हयान्
वैश्यान्गाः सह वाहनैर्नरपतीन्पीतानि पश्चाद्दिशम् ।। ९.४३ ।।

शिखिभयं अनलाभे शस्त्रकोपश्च रक्ते
कनकनिकषगौरे व्याधयो दैत्यपूज्ये ।
हरितकपिलरूपे श्वासकासप्रकोपः
पतति न सलिलं खाद्भस्मरूक्षासिताभे ।। ९.४४ ।।

 दधिकुमुदशशाङ्ककान्तिभृत्स्फुटविकसत्किरणो बृहत्तनुः ।
 सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ।। ९.४५ ।।