बृहत्संहिता/अध्यायः ९७
← अध्यायः ९६ | बृहत्संहिता अध्यायः ९७ वराहमिहिरः |
अध्यायः ९८ → |
९७ नक्षत्रकर्मगुणाध्यायः ।।
शिखिगुणरसैन्द्रियानलशशिविषयगुणऋतुपञ्चवसुपक्षाः ।
विषयएकचन्द्रभूतार्णवाग्निरुद्राश्विवसुदहनाः ।। ९७.०१ ।।
भूतशतपक्षवसवो द्वात्रिंशच्चैति तारकामानम् ।
क्रमशो +अश्विन्यादीनां कालस्ताराप्रमाणेन ।। ९७.०२ ।।
नक्षत्रजं उद्वाहे फलं अब्दैस्तारकामितैः सदसत् ।
दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा वाच्यः ।। ९७.०३ ।।
अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः ।
योन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राश्च ।। ९७.०४ ।।
शक्रो निरृतिस्तोयं विश्वे ब्रह्मा हरिर्वसुर्वरुणः ।
अजपादो +अहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ।। ९७.०५ ।।
त्रीण्युत्तराणि तेभ्यो रोहिण्यश्च ध्रुवाणि तैः कुर्यात् ।
अभिषेकशान्तितरुनगरधर्मबीजध्रुवऽरम्भान् ।। ९७.०६ ।।
मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति ।
अभिघातमन्त्रवेतालबन्धवधभेदसंबन्धाः ।। ९७.०७ ।।
उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु ।
योज्यानि बन्धविषदहनशस्त्रघातऽदिषु च सिद्ध्यै ।। ९७.०८ ।।
लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु ।
शिल्पाउषधयानऽदिषु सिद्धिकराणि प्रदिष्टानि ।। ९७.०९ ।।
मृदुवर्गो[क्.मृदुवर्गस्त्व्] +अनूराधाचित्रापौष्णाइन्दवानि मित्रार्थे ।
सुरतविधिवस्त्रभूषणमङ्गलगीतेषु च हितानि ।। ९७.१० ।।
हौतभुजं सविशाखं मृदुतीक्ष्णं तद्विमिश्रफलकारि ।
श्रवणत्रयं आदित्यऽनिले च चरकर्मणि हितानि ।। ९७.११ ।।
हस्तत्रयं मृगशिरः श्रवणत्रयं[क्.श्रवनात्त्रयं] च
पूषाश्विशक्रगुरुभानि पुनर्वसुश्च ।
क्षौरे तु कर्मणि हितान्युदये क्षणे वा
युक्तानि चौडुपतिना शुभतारया च ।। ९७.१२ ।।
न स्नातमात्रगमनौन्मुख[क्.उत्सुक]भूषितानाम्
अभ्यक्तभुक्तरणकालनिरासनानाम् ।
सन्ध्या*निशाशनिकुजार्कतिथौ[क्.निशोः कुजयमार्कदिने] च रिक्ते
क्षौरं हितं न नवमे +अह्नि न चापि विष्ट्याम् ।। ९७.१३ ।।
नृपाज्ञया ब्राह्मणसम्मते च विवाहकाले मृतसूतके च ।
बद्धस्य मोक्षे क्रतुदीक्षणासु सर्वेषु शस्तं क्षुरकर्म भेषु ।। ९७.१४ ।।
[क्.ओने वेर्से इन्सेर्तेद् ।।
हस्तो मूलं श्रवणा पुनर्वसुर्मृगशिरस्तथा पुष्यः ।
पुंसञ्ज्ञितेषु कार्येष्वेतानि शुभानि धिष्ण्यानि ।।] क्.९८ ।।
सावित्रपौष्णानिलमैत्रतिष्यत्वाष्ट्रे तथा चौडुगणाधिपऋक्षे ।
संस्कारदीक्षाव्रतमेखलादि कुर्याद्गुरौ शुक्रबुधैन्दुयुक्ते ।। ९७.१५ ।।
[क्.ओने वेर्से इन्सेर्तेद् ।।
लाभे तृतीये च शुभैः समेते पापैर्विहीने शुभराशिलग्ने ।
वेध्यौ तु कर्णौ त्रिदशेज्यलग्ने तिष्येन्दुचित्राहरिरेवतीषु ।।] क्.९८ ।।
शुद्धैर्द्वादशकेन्द्रनैधनगृहैः पापैस्त्रिषष्ठायगैर्
लग्ने केन्द्रगते +अथ वा सुरगुरौ दैत्यैन्द्रपूज्ये +अपि वा ।
सर्वऽरम्भफलप्रसिद्धिरुदये राशौ च कर्तुः शुभे
सग्राम्यस्थिरभौदये च भवनं कार्यं प्रवेशो +अपि वा ।। ९७.१६ ।।