बृहत्संहिता/अध्यायः ९८
← अध्यायः ९७ | बृहत्संहिता अध्यायः ९८ वराहमिहिरः |
अध्यायः ९९ → |
९८ तिथिकर्मगुणाध्यायः ।।
कमलजविधातृहरियमशशाङ्कषड्वक्त्रशक्रवसुभुजगाः ।
धर्मईशसवितृमन्मथकलयो विश्वे च तिथिपतयः ।। ९८.०१ ।।
पितरो +अमावस्यायां संज्ञासदृशाश्च तैः क्रियाः कार्याः ।
नन्दा भद्रा विजया रिक्ता पूर्णा च तास्त्रिविधाः ।। ९८.०२ ।।
यत्कार्यं नक्षत्रे तद्दैवत्यासु तिथिषु तत्कार्यम् ।
करणमुहूर्तेष्वपि तत्सिद्धिकरं देवतासदृशम् ।। ९८.०३ ।।