← अध्यायः ९ बृहद्यात्रा
अध्यायः १०
अध्यायः ११ →

अध्यायः-१० ग्रहस्थानबलम् सम्पाद्यताम्

सन्तापशोकगदविघ्नकृद् उद्गमेऽर्कः कल्याणमानबलहार्दिहरो द्वितीये।

हेमान्नविद्रुममणिक्षितिदस् तृतीये वैराग्यबन्धुकलहारतिदश् चतुर्थे॥

पुत्रापदं सुतगृहेऽध्वनि चार्थसिद्धिं षष्ठेऽभिवांछितफलाप्तिम् अरिक्षयं च।

द्यूने कलत्रकलहं धनसंक्षयं च मृत्युं करोति निधने सविता रुजं च॥

धर्मं हिनस्ति नवमे सवितार्थदश् च हत्वा वियत्यविदितं श्रमकर्मदाता।

रत्नागमं सुबहु लाभगतः करोति कृत्वा व्ययं व्ययगतः कुरुतेऽर्थम् अल्पम्॥

लग्ने शशी कलहशोककरो न पूर्णः स्त्रीवाजिरत्नसुहृदात्मजदः कुटुम्बे।

दुश्चिक्यगो युवतिरत्नधनप्रदाता बन्ध्वाप्तिदः सुहृदि तत्क्षयदश् च कृष्णे॥

अर्थप्रदस् तनयगः सुतशोककृच् च मित्रारितां प्रकुरुते न सुखं च षष्ठे।

अस्तेऽर्थभूयुवतिदोऽर्थविनाशदोऽणुश् चन्द्रोऽष्टमे निधनशोककरः प्रयातुः॥

प्रत्येति चाशु नवमे कुरुते च कार्यं क्षीणे क्षयो वियति वृद्धिरतोऽन्यथास्थे।

ऐश्वर्यसौख्यधनलाभम् उपैते लाभे क्लेशक्षयव्ययभयानि च रिष्फयाते॥

लग्ने विषाग्निरुधिरागमशस्त्रबाधा भिन्द्याद् बलं धनगतोऽर्थकरश् च पश्चात्।

दुश्चिक्यगो युवतिरत्नधनाम्बराप्तिं बन्धुक्षयारिभयदो हिबुके महीजः॥

पुतापदं क्षितिसुतः कुरुते सुतस्थः शत्रुप्रणाशम् अचिराद् अरिगः करोति।

अर्थक्षयारतिगदार्दनमस्तसंस्थो बन्धार्थहानिगदमृत्युभयानि मृत्यौ॥

धर्मं न साधयति धर्मगतो महीजः शस्तोऽम्बरे न शुभदः कथितोऽपरिश् च।

लाभेऽर्थसिद्धिविभवागमदः प्रयातुर् वित्तक्षयं बहु करोति गतश् च रिष्फे॥

लग्ने कीर्तिसुखार्थबुद्धिविजयान् प्राप्नोति वित्तं धने

सोत्कण्ठं स विरागमेति सहजे कामान् लभेताखिलान्।

पाताले शयनान्नपानविभवान् पुत्रागमं पञ्चमे

षष्ठे यात्य् अरिबाध्यतां शशिसुते क्लेशश् च यातुर् भवेत्॥

जायास्थे प्रवराङ्गनाम्बरधनप्राप्तिर् बुधेऽर्काच्युते

केचित् क्लेशम् उशन्ति नैधनगते शंसन्ति केचिच् छुभम्।

धर्मे धर्मविवृद्धिर् अम्बरगते सिद्धिर् भवेद् ईप्सिता

विद्यार्थाप्तिर् अयत्नतश् च परतो रिष्फे च वाच्यो व्ययः॥

कीर्तिर् लग्नेऽर्थाथसिद्धिर् द्वितीये दुश्चिक्यस्थे क्षुच्छ्रमार्तिः सुरेज्ये।

पातालस्थे धर्मतत्वाभिमाना कार्यं सिध्यत्य् आत्मजस्थेऽप्य् असाध्यम्॥

षष्ठे जीवे शत्रुरायाति वश्यं केचित् प्राहुर् वश्यतां याति शत्रोः।

विन्दन्त्य् अस्तेऽरिष्टयोषायशांसि मृत्यौ प्राणान् हन्त्य् अथान्ये जगुर् न॥

पुत्रोत्पत्तिर् धर्मसिद्धिश् च धर्मे जीवे कर्मण्य् अर्थसिद्धिर् यशश् च।

लाभे कार्यं वाञ्छितं याति सिद्धिः रिष्फे प्राप्ते क्लिश्यतेऽनेकदुःखैः॥

वेश्यार्थाम्बरमाल्यभोजनसुखप्राप्तिर् विलग्ने भृगौ

लाभोऽर्थे सहजे न सीदति गतः प्राप्नोति श्रेष्ठां श्रुतिम्।

पाताले सुहृदागमः सुतगृः स्थानार्थमानागमः

षष्ठे शत्रुपराभवारतिशुचं स्थानेऽन्यथा तज्जगुः॥

दत्त्वा स्त्रीधनम् अस्तगः स्वविषयव्युच्छित्तिदो भार्गवः

कार्यं साधयतेऽष्टमेऽथ नवमे क्षिप्रं करोतीप्सितम्।

यातुः कर्मगतः प्रभूतधनदो लाभे जयार्थप्रदो

व्यर्थं द्वादशगो व्ययं प्रकुरुते शस्तोऽपरैर् द्वादशे॥

बन्धं वधं चार्कसुते विलग्ने धने अर्थहानिं लभते शुभं च।

शत्रोर् बलं हन्ति गतस् तृतीये चतुर्थगो बन्धुभयं परेभ्यः॥

नार्थस्य सिद्धिः सुतगेऽर्कपुत्रे रिपून् रिपुस्थे सृजयत्य् अयत्नात्।

उत्साहभङ्गोऽक्षिरुजश् च दारे विषाग्निशस्त्रादिवधोऽष्टमस्थे॥

धर्मे न धर्मं लभते सुखञ् च यानावृतिं कर्मफलं च स्वस्थे।

एकादशस्थे जयवित्तलाभान् मन्देऽन्त्यगे नार्थम् उपैति याता॥

प्रायो जगुः सहजशत्रुदशायसंस्थाः

पापाः शुभाः सवितृजं परिहृत्य खस्थम्।

सर्वत्रगाः शुभफलं जनयन्ति सौम्यास्

त्यक्त्वास्तसंस्थममरारिगुरुं जिगीषोः॥

केचित् प्राहुर् अरिव्ययास्तसहजस्थानानि हित्वा भृगुः

श्रेष्ठश् चन्द्रसुतोऽन्त्यधर्मसहजद्यूनस्थितो नेतरः।

चन्द्रो लाभसुतार्थधर्मसहजव्योमस्थितः पूजितो

जीवः सर्वगतो मणित्थकथितो नेष्टोऽन्त्यषट्स्त्र्याश्रितः॥

एकीयपक्षेऽपि हि कैश्चिद् उक्तो भृगुः शुभोऽन्त्यात्मजलाभवर्जम्।

चन्द्रस्त्रिषष्ठायदशास्तसंस्थो बुधोऽस्तलग्नायसुहृद्व्ययस्थः॥E२२