← अध्यायः ८ बृहद्यात्रा
अध्यायः ९
अध्यायः १० →

अध्यायः-९ लग्नभेदः

सम्पाद्यताम्

ऊर्ध्वा तिर्यग् वानता स्याच् च होरा मुक्ता क्रान्ता नागतार्का क्रमेण।

इत्य् एताः स्युर् जीवशर्मोपदेशे ज्ञेयो राशिर् ब्रह्मषण्डस्य पक्षे॥

ऊर्ध्वा स्याद् या षट्चराद्येषु होरा भूयो भूयो मण्डले कैश्चिद् उक्ता।

राशौ राशौ प्राग्विलग्नोपयातैः द्रेक्काणैस् तु प्राह होरां वसिष्ठः॥

सर्वं प्रमाणं मुनिचोदितत्वात् किं त्व् अत्र योज्यं दलम् एव होरा।

यस्मिन् सहस्रांशुरवस्थितोऽर्धे तिर्यङ्मुखी सा गणये ततोऽन्याः॥

धत्ते वांछितकार्यम् ऊर्ध्ववदना क्लेशाद् विना लग्नगा

क्लेशायासपरिक्षयांश् च कुरुते तिर्यङ्मुखी गच्छतः।

सैन्यभ्रंशम् अधोमुखी प्रकुरुते कृच्छ्राद् गृहे चागमं

स्र्वाः पुष्टफलप्रदाः स्वपतिना दृष्टा न पापग्रहैः॥

ग्रहदिवसफलं यद् एव यातुर् तद् अखिलम् एव करोति तस्य होरा।

हिमसलिलसृजो विनाह कश्चिद् युवतिसमाश्रयरत्नदेति चान्द्री॥

द्रेक्काणाकारचेष्टागुणसदृशफलं योजयेद् वृद्धिहेतोर्

द्रेक्काणे सौम्यरूपे कुसुमफलयुते रत्नभाण्डान्विते च।

सौम्यैर् दृष्टे जयः स्यात् प्रहरणसहिते पापदृष्टे च भङ्गः

साग्नौ दाहोऽथ बन्धः सभुजगनिगले पाशयुक्ते च यातुः॥

नृपभूर्तिर् लग्नगते द्रेक्काणे मन्त्रिणो द्वितीये च।

वैद्यपुरोहितसाम्बत्सरास् तृतीये परे भृत्याः॥

स्थानपराक्रमचिन्ता व्यापारपराक्रमौ चमूपबलम्।

अभ्यवहार्यं शयनासने च तत्पंचसु क्रमशः॥

यानासनशय्यावाहनानि दशमेऽपरेऽन्नपानानि।

वाहनयोधाः परतस् त्रयोदशे भवति युवराजा॥

ज्ञेयं बलं प्रयातुर् मन्त्रस्य विनिश्चयश् च तत्परतह्।

तरतः पञ्चदशाद्ये द्रेक्काणचतुष्टये रिपवः॥

एकोनविंशके सैनिकाम्बुशयने धनानि परतोऽर्थाः।

परतोऽस्य दण्डनेता सैम्यस्योपद्रवः प्ररतः॥

सेनाच्छिद्रं तस्मात् सेनानेता भवेच् चतुर्विंशे।

सैन्यारोग्यं सैन्यं चतुष्पदं च क्रमात् त्रितये॥

कार्यं कोशः फलसिद्धयस् त्रये भूमिपास् त्रये परतः।

धर्मक्रियाथ योधार्चनं च यात्रासमाप्तिश् च॥

इत्य् उदयाद्या भावा द्रेक्काणैर् ये मया समुद्दिष्टाः।

सदसत्फलम् आदेश्यं सदसद्युतवीक्षणात् तेषाम्॥

नवभागे तिग्मांशोर्वाहननाशो विलग्नसंप्राप्ते।

कृच्छ्रात् स्वगृहागमनं प्रतापमृदुता च चन्द्रांशे॥

कौजेऽग्निभयं बौधे मित्रप्राप्तिर् धनागमो जैवे।

भोगविवृद्धिः शौक्रे भृत्यविनाशो रविसुतांशे॥

यद् उदयति फलं ग्रहे प्रदिष्टं जनयति तस्य नवांशको व्लग्ने।

सुभभवननवांशे सहायो रिपुबलभागम् उपैति यातुर् अत्र॥

यत् प्रोक्तं राश्य् उदये द्वादशभागेऽपि तत् फलं वाच्यम्।

यच् च नवांशकविहितं त्रिंशांशस्योदये तत् स्यात्॥E१८