← अध्यायः १२ बृहद्यात्रा
अध्यायः १३
अध्यायः १४ →

अध्यायः-१३ देहस्पन्दनम् सम्पाद्यताम्

दक्षिणपार्श्वस्पन्दनम् अभिधास्ये तत्फलक्षयो वामे।

पृथिवीलाभः शिरसि स्थानविवृद्धिर् ललाटे स्यात्।

भ्रूनासिकान्तरे प्रियसमागमो भृत्यलब्धिर् अक्षिणोस् तु।

दृक्पर्यन्तेऽर्थाप्तिः पूर्वे ज्ञेयात्र चोत्कण्ठा॥

योषित्सौख्यं गण्डे दृक्चरमाधश् च सङ्गरे विजयः।

श्रवणे च हितश्रवणं नासायां प्रीतिसौख्यं च॥

अधरोत्तरौष्ठयोः प्रियसमागमविजयौ गले च भोगाप्तिः।

अंसे भोगविवृद्धिर् वाहाविष्टेन संयोगः॥

हस्तेऽर्थाप्तिः पृष्ठे पराजयो वक्षसि स्मृतो विजयः।

प्रीत्युत्पत्तिः पार्श्वे स्तने त्व् अपूर्वा विषयलब्धिः॥

कट्यां बलप्रमोदः स्थानभ्रंशः प्रकीर्तितो नाभौ।

हस्ते कोशविवृद्धिः क्लेशो हृदयेऽर्थपर्यन्तः॥

वाहनलाभः स्फिग्यायुर्वृषणे योषिदागमः शिश्ने।

मुष्के तनयोत्पत्तिर् वस्ताव् अन्तःपुराभ्युदयः॥

पृष्ठत ऊर्वोर् दोषः पुरतश् चलने तु शचिवहितलब्धिः।

प्रचलति च जानुसन्धाव् अरिसन्धानं बलवद् उक्तम्॥

देशैकदेशनाशो जंघायां स्थानलब्धिरंध्र्य् उपरि।

अध्वागमनम् अलाभं चरणतले स्पन्दमाने तु॥

व्रणपिटकतिलकलांछनमशकादायस् त्व् एव निर्दिष्टाः (स्युः)।

कण्डूयनं नरपतेर् दक्षिणपाणौ जयायैति॥E१०