← अध्यायः १३ बृहद्यात्रा
अध्यायः १४
अध्यायः १५ →

अध्यायः-१४ चित्तशुद्धिः

सम्पाद्यताम्

पृष्टव्यो दैवविदा विश्रब्धम् उपह्वरे नराधिपतिः।

रिपुनिधनप्रणिधानं प्रति भवतः किं मनः कुरुते॥

ब्रूयात् स चेन् मम मनः प्रोत्सहते हर्षयेत् ततश् चैवम्।

चित्तानुकूलता सिद्धिलक्षणं तत्र च श्लोकाः॥

शुभाशुभानि सर्वाणि निमित्तानि स्युर् एकतः।

एकतश् च मनश्शुद्धिस् तद् धि शुद्धं जयावहम्॥

कियच् चिरं न लभ्येत निमित्तं गमनानुगम्।

न त्व् एव तु मनोऽनर्थं चिरेणाप्य् अनुमन्यते॥

निमित्तानुचरं सूक्ष्मं देहेन्द्रियमहत्तरम्।

तेजो ह्य् एतच् छरीरस्थं त्रिकालफलदं नृणाम्॥

प्रीयते न मनोऽनर्थैर् नासिद्धाव् अभिनन्दति।

तस्मात् सर्वात्मना यातुर् अनुमेयं सदा मनः॥E६