बृहद्यात्रा/अध्यायः २४
← अध्यायः २३ | बृहद्यात्रा अध्यायः २४ |
अध्यायः २५ → |
अध्यायः-२४ शिवारुतम्
सम्पाद्यताम्पृष्ठतः पूजिता शान्ता शिवा मांसास्थिवर्जिता।
क्रूरशब्दातिदीप्ता च क्रूरकर्मणि पूजिता॥
पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता।
धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान्॥
[राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।
गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशम्॥]
सर्वदिक्ष्व् अशुभा दीप्ता विशेषेणाह्न्यशोभना।
पुरे सैन्येऽपसव्या च कष्टा पूर्वोन्मुखा शिवा॥
याहीत्य् अग्निभयं शास्ति टाटेति मृतिचोदिताfओओत्नोते{Bष् ८९.६ब् मृतवेदिका}।
धिग्धिक् दुष्कृतम् आचKषे सज्वाला देशनाशिनी॥
नैव दारुणताम् एके स्वज्वालायाःfओओत्नोते{Bष् ८९.७ब् सज्वालायाः} प्रचक्षते।
अर्काद्यनलवत् तस्या वक्त्राज् ज्वाला स्वभावतःfओओत्नोते{Bष् ८९.७द् वक्त्रं लालास्वभावतः}॥
अन्यप्रतिरुता याम्या सा बन्दहवधशंसिनी/fओओत्नोते{Bष् ८९.८ब् सोद्बन्धमृतशंसिनी}
वारुण्याभिरुताfओओत्नोते{Bष् ८९.८च् अनुरुता} सैव संसते सलिले मृतिम्॥
अक्षोभ्यश्रवणं चेष्टं धनप्राप्तिः प्रियागमः।
क्षोभात् प्रधानभेदश् च वाहनानाम् असम्पदःfओओत्नोते{Bष् ८९.९द् च सम्पदः}।
फलम् आ सप्तमाद् एतद् अग्राह्यं परतो रुते।
याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमाद् रुतेfओओत्नोते{Bष् ८९.१०द् ऋते}॥
या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम्।
रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा॥
मौनं गता प्रतिरुते नरद्विरदवाजिभिः।
या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति॥E११