← अध्यायः ३० बृहद्यात्रा
अध्यायः ३१
अध्यायः ३२ →

अध्यायः - ३१ सेनावातवृष्ट्युल्काभूगर्जितसन्ध्या

सम्पाद्यताम्

विद्विष्टप्रवरनरप्रतापहीना निःशौचा मृतवरवारणाश् च योधाः।

सोत्पातप्रकृतिविपर्ययानुयाता शोकार्ता रिपुवशम् आशु याति सेना॥

संग्रामे वयम् अमरद्विजप्रसादाज् ज्योष्यामो रिपुबलम् आश्व् असंशयेन।

यस्यैवं भवति बले जनप्रवादः सोऽल्पोऽपि प्रचुरबलं रिपुं निहन्ति॥

प्रोत्क्षिप्तक्षुपपांशुपत्रविहगच्छत्रध्वजाग्रान्तकृद्

दुर्गन्धिः करिदानशेषजनकः सावर्त्तलोष्टोत्करः।

यातुर् वायुर् अनिष्टदः शुभकरो यात्रानुलोमोद्यमः

प्रह्लादी सुरभिप्रदक्षिणगतिः स्वादुश् च सिद्धिप्रदः॥

पृथुघनम् अनुलोमं स्निग्धम् अम्भोदवृन्दं तरुनगनगरेष्टद्रव्यसत्वानुकारि।

जयदम् उभयपार्श्वाधिष्ठितं पृष्ठतो वा न शुभकरम् अतोऽन्यद् यानकाले नृभर्तुः॥

निन्दितसत्त्वपिशाचविचित्राः पिशितमृगाकृतयः परुषाश् च।

वज्रमुचः क्षतजाश्ममुचो वा बलभयम् आशु जनाः कथयन्ति॥

भृशं क्षरन्तो रुधिरारुणा वा सशक्रचापा खररूक्षनादाः।

रणोपयोज्याकृतिचित्ररूपा रणाय दृष्टा गगनेऽम्बुवाहाः॥

सप्ताहान्तर्बलभयकरी वृष्टिर् अन्यर्तुजाता

केचिद् यात्राम् असितजलदैः प्रोत्थितां पूजयन्ति।

चित्राभ्रायां बलपतिवधो रुक् च पीताम्बुदायां

क्ष्च् चोष्णायां भवति न चिराद् अम्बुदायां विनाशः॥

वाहनानि सव्यगो हन्ति योषितोऽन्यथा।

पंजराकृतिस्थितः सर्वतो बलेश्वरम्॥

चापम् ऐन्द्रम् अनुलोमम् अखण्डं प्रोज्ज्वलं बहुलम् आयतम् इष्टम्।

स्फूर्जनं सलिलकुम्भनिषेकं क्षोभितार्णवसमं विजयाय॥

तन्वी प्रलम्बा विजयाय दीर्घा तडिद् घनस्फूर्जथुवर्जिता च।

शस्ताशनिश् चाप्य् असमीपजातः प्रदक्षिणेनाप्स्यति पातशब्दः॥

लग्नेऽर्केन्दू निघ्नती शस्ति पौरान् उल्का हन्याद् यातुपौरान् ग्रहाश् च।

यातुः शस्ता सम्भृता वा ध्रुवर्क्षे नेष्टातोऽन्या धूमिनी श्यावरक्ता॥

हन्यान् नृपपौरराष्ट्रिकान् भृत्याम्भोरुहतस्करान् द्विजांश् च।

वेला क्रमशो दिनादितः काष्ठायां च स यत्र भूस्वनश् च॥

शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुषवना च।

पांशुध्वस्ता जनपदनाशं धत्ते रूक्षा रुधिरनिभा वा॥E१३