← अध्यायः ३ बृहद्यात्रा
अध्यायः ४
अध्यायः ५ →

अध्यायः-४ नक्षत्रबलम्

सम्पाद्यताम्

दिशि दिशि बहुलाद्याः सप्तकाः प्राक्प्रवृत्ताः

पवनदहनदिक्स्थस् तिर्यग् अत्युग्रदण्डः।

सुरपतिर् अपि कृच्छ्रं याति तं लंघयित्वा

ननु भवति विरोधो दिक्षु दण्डैकगासु॥

प्राग्द्वारिकैर् अनलदिङ् न विरोधम् एति शेषाः प्रदक्षिणगताः विदिशः प्रकल्प्याः।

उल्लंघ्य दण्डम् अपि कामम् इयान् नरेन्द्रः शूलं विहाय यदि दिङ्मुखलग्नशुद्धिः॥

ज्येष्ठायां पुरुहूतदिङ्मुखगतः प्राप्तो बलिर् बन्धनं

याम्याम् आजपदे मुरश् चलितवान् यातो मुरारेर् वशम्।

रोहिण्यां नमुचिः प्रतीच्य् अभिगतः पूर्तिं गतो वज्रिणा

सौम्याम् अर्यमदैवते च गतवान् मृत्योर् वशं शम्बरः॥

पुष्योऽथ हस्तः श्रवणः श्रविष्ठा प्राच्यादिमुख्यान्य् उदग् अश्वियुक् च।

नैशाकरं त्वाष्ट्रम् अथानुराधा पौष्णं च मध्यानि तथाहुर् एके॥

सर्वद्वारिकसंज्ञितानि गुरुभं हस्ताश्विमैत्राणि च

श्रेष्ठान्य् ऐन्दवपौष्णविष्णुवसुभान्य् आद्यैः सहाष्टौ सदा।

रौद्राजाहियमानिलानलमघाशाक्ताग्निभिर् निन्दितं

यानं त्वष्ट्रनिलान्तरेऽग्नियमयोः पित्र्योरजे चान्तरे॥

स्वे स्वे कर्मणि पूजितानि मुनिभिः शुद्धानि सर्वाण्य् अपि

त्यक्त्वार्कोदयम् आनलेऽरिविषयं यात्रा दिघक्षोः शुभा।

रोहिण्यां त्रिषु चोत्तरेषु विजयो यातुर् विशाखासु च

त्यक्त्वा वासरपूर्वभागम् अवदद् गर्गोऽधिराज्यार्थिनः॥

मूलेन्दूरगशङ्करेष्व् अरिवधे यायाद् दिनार्धं विना

भृत्यर्थं पवनाश्विसूर्यगुरुभेष्व् अह्नोऽपरार्धं विना।

रात्र्यादौ तु न पौष्णमैत्रशशिभत्वाष्ट्रेषु वांछन् द्युतिं

रात्रेर् मध्यम् अपास्य पूर्वभरणीपित्र्येषु हन्तुं पराः॥

निशान्तभागे त्रिषु वैष्णवाद्येष्व् इयाद् धनार्थी न पुनर्वसौ च।

निषेधयन्त्य् अम्बुपसंज्ञकस्य मध्याह्नम् एके सनिशान्तभागम्॥

यथेष्टवेलागमनं प्रशस्तं हस्तैन्दवोपेन्द्रसुरेज्यभेषु।

कृत्वा प्रयाणं श्रवणे श्रियोऽर्थी विशेन् न जातुः क्षितिपः स्वसीम्नि॥

सौम्ये गत्वाध्युष्य रौद्रेऽदितीशे संप्रस्थाता बाधते शत्रुसंघान्।

मैत्रे गत्वा पौरुहूते समुष्य? मूले यायाच् छत्रुनाशाय भूपः॥

हस्ते गत्वा स्वातिचित्रे समुष्य शक्राग्न्यृक्षे प्रस्थितो बाधतेऽरीन्।

तिष्ये पौष्णे वासवे चैकरात्रं सीम्नि स्थित्वा भूतिम् आप्नोति याता॥

ऋक्षे पापैः संयुतेऽन्तः प्रकोपो लक्ष्मीभ्रंशो राहुणार्केण रोगः।

केतूल्काभ्यां पीडिते देशनाशः क्लेशः सौरे सोष्णरश्म्यात्मजे च॥

दिङ्म्(आर्ग)धूपपरिवेशविकम्पपांसुयुक्तेष्व् अथानयगदश्रमरोगपीडाः।

भिन्ने ग्रहेण वशताम् उपयाति शत्रोः सन्ध्यारात्रेऽशनिहतेऽजविघात उक्तः॥

जन्मादि कर्म ततो दृशन् न(व)मं संघातिकं चोडुभागम्।

समुदयम् (आ)द्याद् दश(मं) भ्रमविनाशसंज्ञं च त्रयोर्विंशम्॥

आद्यात् तु पंचविंशं मानसमेतं नरः षडृक्षः स्यात्।

मानवनक्षत्रो नृपतिर् आद्यात् तद् एवाभिषेकर्क्षम्॥

नामानुरूपम् एषां सदसत्फलम् इष्टपापगुणदोषैः।

जन्मर्क्षादिविशुद्धौ याता शत्रून् जयत्य् अचिरात्॥

जन्मभकर्माधानोदितास् तु सम्पद्विपत्कराः क्षेमाः।

प्रत्यरिसाधकवैनाशिकाः स्युर् मित्रातिमित्रे च॥

मित्रातिमित्रसाधकसम्पदः क्षेमेषु कर्मभे यथा।

प्राप्नोति नावशेषेष्व् अभिषेकपुरस्ताद् यातस् तु॥

सितसिद्धार्थकशालिप्रियङ्गुमदयन्तिकाम्बुभिः पुष्ये।

स्नात्वा यायात् प्राचीं सौम्ये सहस्रमणितोयैः॥

गोशृङ्गाप्यनदीगिरिवल्मीकतडागमृत्समायुक्तैः।

तोयैः स्नात्वा नृपतिर् यायाद् याम्यां दिशं हस्ते॥

सरिदभ्याकुलमृड्भिः स्नात्वा (च)चैत्रे प्राग्दिशं यायात्।

श्रवणे तु नदीसङ्गममृत्सलिलैः पच्चिमाम् एव॥

मधुभद्रदारुसहितैः स्नात्वा तोयैर् उदक् श्रविष्ठासु।

गोगजविषाणकोशैर् मधुघृतपूर्णैर् उदक् पौष्णे॥

उदग् वै वैश्वदेवे स्नात्वा मधुपूथिकापूर्तसलिलैः।

नक्सत्रदेवमन्त्रैश् चाग्निं हुत्वा जयं लभते॥

अक्षतमाषाः खिन्नास् तिलसहितास् तण्डुला दधि च गव्यम्।

वृषभपिशितं मृगस्य च पञ्चानाम् आश्विनादीनाम्॥

रुधिरविलायनपायसभुजङ्गमांसानि शाङ्करादीनाम्।

पित्र्ये तिलौदनं षष्टिकान्नम् ऋक्षद्वये परतः॥

प्राश्याः प्रियङ्गुचित्राण्डजाः फलं यावकं कुलत्थाश् च।

मधुसर्पिषी च हस्तान् मूलान्य् अम्बूनि सक्तवो मूलात्॥

श्रवणादीनाम् अद्याच् छालिं शाकं बिडालमांसं च।

आज्यं यथेष्टमांसं च सक्तवो माषसंयुक्ताः॥

प्राश्यादि घृतं तिलौदनं मत्स्याः क्षीरम् इति प्रदक्षिणम्।

अद्यान् नृपतिर् यथादिशं नक्षत्राभिहितं च सिद्धये॥

अस्वादु च्युतकचमक्षिकानुविद्धं दुर्गन्धि क्षयकृद् अभूरि यच् च दग्धम्।

सुस्विन्नं मुदु रुचिरं मनोनुकूलं स्वाद्वन्नं बहु विजयाय यानकाले॥

गुणवति तिथाव् ऋक्षेऽनिष्टे दिवा गमनं हितं

निशि च भगने शस्तं यानं तिथौ गुणवर्जिते।

भतिथिगदितान् दोषान् प्राप्नोत्य् अतः प्रतिलोमगो

गुणम् अपि तयोः सम्यग् यातुर् जगाद भृगुर् मुनिः॥E३०