← अध्यायः ४ बृहद्यात्रा
अध्यायः ५
अध्यायः ६ →

अध्यायः-५ वारफलम् सम्पाद्यताम्

उदरनयनरोगश्वापदारण्यवाधाः सवितृदिवसयाताप्यश्नुतेऽर्थक्षयं च।

अनिलकफजरोगान् शक्तिमानान्नहानिं सलिलजनितपीडां चाह्नि याता हिमांशोः॥

ज्वलनवधविषासृक्पित्तरुक् शत्रुपीडाम् अवनिजदिनयाता वाध्यते शत्रुसंघैः।

अहनि सवितृसूनोर् दैन्यम् आप्नोति गच्छन् स्वजनधनवियोगं मृत्युबन्धामयांश् च॥

बुधदिवसगतोऽरीन् बाधते मन्त्रशक्त्या स्रवणसुखकथाप्तिं शिल्पिमित्रागमांश् च।

क्षितिधनजयरत्नस्त्रीप्रतापप्रमोदान् अतिबलम् अचिरेण स्वीकरोत्य् अह्नि सूरेः॥

प्रवरयुवतिशय्यावस्त्रगन्धान्नपानस्मरसुखधनरत्रान्य् अह्नि भुंक्ते सितस्य।

अनुपचयगतोऽहः शस्तम् अप्य् अप्रशस्तं शुभम् उपचयसंस्थः पापसंज्ञो विधत्ते॥E४