← अध्यायः ७ बृहद्यात्रा
अध्यायः ८
अध्यायः ९ →

अध्यायः-८ लग्नबलम् सम्पाद्यताम्

द्विपदवशगाः सर्वे सिंहं विहाय चतुष्पदाः सलिलनिलयाभर्क्षावश्याः सरीसृपजातयः।

मृगपतिवशे तिष्ठन्त्य् एते विहाय सरीसृपान् न कथितगृहेषूह्यं वश्यं जनव्यवहारतः॥

स्थलजलजसरीसृपाः स्वकानां बलम् अभिवीक्ष्य विधेयतां भजन्ते।

विषमगृहवशे समा द्युसंस्था निशि विषमा वशवर्तिनः समानाम्॥

शीर्षोदये समभिवांछितकार्यसिद्धिः पृष्ठोदये विफलतां बलविद्रवश् च।

यातव्यदिङ्मुखगतस्य सुखेन सिद्धिर् व्यर्थश्रमो भवति दिक्प्रतिलोमलगेन्॥

शस्तं दिवा दिनबले निशि नक्तवीर्ये राशौ विपर्ययबले गमनं न शस्तम्।

इन्द्वर्कलग्नसहितेषु गमश्चराद्येष्व् अन्यस्वकोभयमहीप्रतिवृद्धिदाता॥

मीनोदये प्रवसतः कुटिलः सदोषो मार्गे भवत्य् अकृतकार्यनिवर्तनम् च।

अन्यांशकेष्व् अपि झषे फलम् एतद् एव मीनांशकेषु च परर्क्षसमाश्रितेषु॥

रिपुनिधने रिपुनिधनं रिपुषष्ठे लग्नगे वधो यातुः।

सत्यानुशासनम् इदं वासिष्ठे नायम् एकान्तः॥

शत्रोः प्रसूतिसमये यदि निधनं संयुतं ग्रहैः पापैः।

सौम्ययुतं वा षष्ठं सदसत्फलता ततस् ताभ्याम्॥

क्लेशाद् विना फलम् अरिक्षयम् अर्थसिद्धिं प्राप्नोति लग्नसहिते प्रवसन् स्वलग्ने।

अर्थक्षयं श्रममनर्थमतो द्वितीये कल्याणसौख्यविभवागमम् आहुर् एके॥

भृत्यार्थवाहनसहायजयास् तृतीये बन्धार्थनाशभयसैन्यवधाश् चतुर्थे।

मन्त्रोपजापविपदात्मजभेऽरिवृद्धिः षष्ठेऽरिवित्तबलदीप्तिजयागमाश् च॥

द्यूनेऽध्ववाहनविपत्क्षुदतिश्रमार्तिर् बन्धो वधः परिभवो निधने रुजश् च।

धर्मेऽर्थनाशगदकार्यविपद्भयानि कार्यं विना बलभयं दशमे क्षयश् च॥

केचिद् वदन्त्य् उपचयोपगृहीतम् एतत् तस्माच् छुभं दशमभे गमनं विलगेन्।

अर्थाप्तिदीप्तिशुभसिद्धिजयाश् च लाभे रिप्फे छलं व्यअय्भये विजितेऽपि भेदः॥

रोगाज् जन्मगृहोदये सुतवधोऽसिद्धिश् च तत्पञ्चमे

द्यूने क्लेशम् अवाप्य जन्मभवनात् प्राप्नोति पश्चात् सुखम्।

मार्गाद् एव निवर्तनं नवमभे मेषूरणेऽर्थागमः

शेषर्क्षेषु यथैव लग्नभवनात् तद्वत् फलं जन्मतः॥

क्षुत्तृष्णार्तिमार्गनाशोऽक्षिरोगः क्लेशावाप्तिस् तिग्मगोः प्राग्विलग्ने।

शस्ता चान्द्रे देवतार्थं स्वदेशे कौजे पित्तव्यालशस्त्राग्निपीडा॥

बौधे तुष्टिर् वांछिताप्तिर् यशश् च जैवेऽथाप्तिः स्थानमानारिनाशाः।

स्त्रीरत्नाप्तिः कार्यसिद्धिश् च शौक्रे मान्दे बन्धव्याधिनीचावमानाः॥

सौम्योऽपि जन्मनि न यः शुभपुष्टिदाता स्थानं न तस्य शुभदं व्रजतो विलगेन्।

पापोऽपि यः शुभफलं प्रकरोति पुंसां स्थानं विलग्नगतम् इष्टम् उशन्ति तस्य॥

अविधेयं भवनं यत् स्वजन्मलग्नर्क्षयोः प्रयातृणाम्।

अप्य् अनुकूलं लग्नं धनक्षयायासदं भवति॥

सखिवश्यताम् उपेते स्वजन्मलग्नर्क्षयोर् विलग्नर्क्षे।

अपचयकरेऽपि यातुर् जयधनमानागमाः क्षिप्रम्॥

केचिद् वदन्ति यस्मिन् ग्रहो निरंशं करोति तल्लग्नम्।

भवनं यातुर् अनिष्टं भयशोकोद्वेगदं यस्माद्॥

वृषवृश्चिककर्कटैर् नृणाम् अनुकूलैर् अपि लग्नम् आश्रितैः।

गमनं प्रवद्नय् अशोभनं मुनयोऽन्यर्क्षसमाश्रितैर् अपि॥

वेशिर्विलग्नोपगतो यियासोर् विनापि यत्नात् कुरुते फलाप्तिम्।

गौयानम् इष्टं जलराशिलग्ने तद् अंशके चान्यगृहोदयेऽपि॥E२०