बोधिचर्यावतारः/तृतीयः परिच्छेदः
← द्वितीयः परिच्छेदः | बोधिचर्यावतारः तृतीयः परिच्छेदः [[लेखकः :|]] |
चतुर्थः परिच्छेदः → |
परिच्छेद ३
अपायदुःखविश्रामं सर्वसत्त्वैः कृतंशुभं ।
अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥ ३.१ ॥
संसारदुःखनिर्मोक्षमनुमोदे शरीरिणां ।
बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम् ॥ ३.२ ॥
चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् ।
सर्वसत्त्वहिताधानाननुमोदे च शासिनाम् ॥ ३.३ ॥
सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः ।
धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥ ३.४ ॥
निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः ।
कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत् ॥ ३.५ ॥
एवं सर्वमिदं कृत्वा यन्मयासादितं शुभं ।
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥ ३.६ ॥
ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च ।
तदुपस्थायकश्चैव यावद्रोगापुनर्भवः ॥ ३.७ ॥
क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः ।
दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥ ३.८ ॥
दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः ।
नानोपकरणाकारैरुपतिष्ठेयमग्रतः ॥ ३.९ ॥
आत्मभावांस्तथा भोगान् सर्वत्राध्वगतं शुभं ।
निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥ ३.१० ॥
सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः ।
त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयतां ॥ ३.११ ॥
यथासुखीकृतश्चात्मा मयायं सर्वदेहिनां ।
घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांसुभिः ॥ ३.१२ ॥
क्रीडन्तु मम कायेन हसन्तु विलसन्तु च ।
दत्तस्तेभ्यो मया कायश्चिन्तया किं मयानया ॥ ३.१३ ॥
कारयन्तु च कर्माणि यानि तेषां सुखावहं ।
अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन ॥ ३.१४ ॥
येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत् ।
तेषां स एव हेतुः स्यान्नित्यं सर्वार्थसिद्धये ॥ ३.१५ ॥
अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः ।
उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः ॥ ३.१६ ॥
अनाथानामहं नाथः सार्थवाहश्च यायिनां ।
पारेप्सूनां च नौभूतः सेतुः सङ्क्रम एव च ॥ ३.१७ ॥
दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहं ।
दासार्थिनामहं दासो भवेयं सर्वदेहिनां ॥ ३.१८ ॥
चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः ।
भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनां ॥ ३.१९ ॥
पृथिव्यादीनि भूतानि निःशेषाकाशवासिनां ।
सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा ॥ ३.२० ॥
एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा ।
भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः ॥ ३.२१ ॥
यथा गृहीतं सुगतैर्बोधिचित्तं पुरातनैः ।
ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथा स्थिताः ॥ ३.२२ ॥
तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते ।
तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमं ॥ ३.२३ ॥
एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः ।
पुनः पृष्ठस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत् ॥ ३.२४ ॥
अद्य मे सफलं जन्म सुलब्धो मानुषो भवः ।
अद्य बुद्धकुले जातो बुद्धपुत्रोऽस्मि साम्प्रतं ॥ ३.२५ ॥
तथाधुना मया कार्यं स्वकुलोचितकारिणां ।
निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा ॥ ३.२६ ॥
अन्धः सङ्करकूटेभ्यो यथा रत्नमवाप्नुयात् ।
तथा कथंचिदप्येतद्बोधिचित्तं ममोदितं ॥ ३.२७ ॥
जगन्मृत्युविनाशाय जातमेतद्रसायनं ।
जगद्दारिद्र्यशमनं निधानमिदमक्षयं ॥ ३.२८ ॥
जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमं ।
भवाध्वभ्रमणश्रान्तो जगद्विश्रामपादपः ॥ ३.२९ ॥
दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनां ।
जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः ॥ ३.३० ॥
जगदज्ञानतिमिर-प्रोत्सारणमहारविः ।
सद्धर्मक्षीरमथनान्नवनीतं समुत्थितं ॥ ३.३१ ॥
सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः ।
सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणं ॥ ३.३२ ॥
जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा ।
पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः ॥ ३.३३ ॥
बोधिचर्यावतारे बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः ॥