बोधिचर्यावतारः/द्वितीयः परिच्छेदः
← प्रथमः परिच्छेदः | बोधिचर्यावतारः द्वितीयः परिच्छेदः [[लेखकः :|]] |
तृतीयः परिच्छेदः → |
परिच्छेद २
तच्चित्तरत्नग्रहणाय सम्यक्पूजां करोम्येष तथागतानां ।
सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनां ॥ २.१ ॥
यावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति ।
रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥ २.२ ॥
महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः ।
लताः सपुष्पाभरणोज्ज्वलाश्च द्रुमाश्च ये सत्फलनम्रशाखाः ॥ २.३ ॥
देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः ।
सरांसि चाम्भोरुहभूषणानि हंसस्वनात्यन्तमनोहराणि ॥ २.४ ॥
अकृष्टजातानि च शस्यजातान्यन्यानि वा पूज्यविभूषणानि ।
आकाशधातुप्रसराविधीनि सर्वाण्यपीमान्यपरिग्रहाणि ॥ २.५ ॥
आदाय बुद्ध्या मुनिपुङ्गवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः ।
गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः ॥ २.६ ॥
अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् ।
अतो ममार्थाय परार्थचिन्ता गृह्णन्तु नाथा इदमात्मशक्त्या ॥ २.७ ॥
ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः ।
परिग्रहं मे कुरुताग्रसत्त्वाः युष्मासु दासत्वमुपैमि भक्त्या ॥ २.८ ॥
परिग्रहेणास्मि भवत्कृतेन निर्भीर्भवे सत्त्वहितं करोमि ।
पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥ २.९ ॥
रत्नोज्ज्वलस्तम्भमनोरमेषु मुक्तामयोद्भासिवितानकेषु ।
स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु ॥ २.१० ॥
मनोज्ञगन्धोदकपुष्पपूर्णैः कुम्भैर्महारत्नमयैरनेकैः ।
स्नानं करोम्येष तथागतानां तदात्मजानां च सगीतवाद्यं ॥ २.११ ॥
प्रधूपितैर्धौतमलैरतुल्यैर्वर्स्त्रैश्च तेषां तनुमुन्मृशामि ।
ततः सुरक्तानि सुधूपितानि ददामि तेभ्यो वरचीवराणि ॥ २.१२ ॥
दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर्वस्त्रैरलङ्कारवरैश्च तैस्तैः ।
समन्तभद्राजितमञ्जुघोष-लोकेश्वरादीनपि मण्डयामि ॥ २.१३ ॥
सर्वत्रिसाहस्रविसारिगन्धैर्गन्धोत्तमैस्ताननुलेपयामि ।
सूत्तप्तसून्मृष्टसुधौतहेम-प्रभोज्ज्वलान्सर्वमुनीन्द्रकायान् ॥ २.१४ ॥
मन्दारवेन्दीवरमल्लिकाद्यैः सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः ।
अभ्यर्चयाम्यर्च्यतमान्मुनीन्द्रान् स्रग्भिश्च संस्थानमनोरमाभिः ॥ २.१५ ॥
स्फीतस्फुरद्गन्धमनोरमैश्च तान्धूपमेघैरुपधूपयामि ।
भौज्यैश्च स्वाद्यैर्विविधैश्च पेयैस्तेभ्यो निविद्यं च निवेदयामि ॥ २.१६ ॥
रत्नप्रदीपांश्च निवेदयामि सुवर्णपद्मेषु निविष्टपङ्क्वीन् ।
गन्धोपलिप्तेषु च कुट्टिमेषु किरामि पुष्पप्रकरान्मनोज्ञान् ॥ २.१७ ॥
प्रलम्बमुक्तामणिहारशोभानाभास्वरान्दिग्मुखमण्डनांस्तान् ।
विमानमेघान् स्तुतिगीतरम्यान्मैत्रीमयेभ्योऽपि निवेदयामि ॥ २.१८ ॥
सुवर्णदण्डैः कमनीयरूपैः संसक्तमुक्तानि समुच्छ्रितानि ।
प्रधारयाम्येष महामुनीनां रत्नातपत्राण्यतिशोभनानि ॥ २.१९ ॥
अतः परं प्रितष्ठन्तां पूजामेघा मनोरमाः ।
तूर्यसङ्गीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः ॥ २.२० ॥
सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च ।
पुष्परत्नादिवर्षाश्च प्रवर्त्तन्तां निरन्तरम् ॥ २.२१ ॥
मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान् ।
तथा तथागतान्नाथान् सपुत्रान्पूजयाम्यहम् ॥ २.२२ ॥
स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन् ।
स्तुतिसङ्गीतिमेघाश्च संभवन्त्वेष्वनन्यथा ॥ २.२३ ॥
सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहं ।
सर्वत्राध्वगतान्बुद्धान् सहधर्मगणोत्तमान् ॥ २.२४ ॥
सर्चचैत्यानि वन्देऽहं बोधिसत्त्वाश्रयांस्तथा ।
नमः करोम्युपाध्यायानभिवन्द्यान्यतींस्तथा ॥ २.२५ ॥
बुद्धं गच्छामि शरणं यावदाबोधिमण्डतः ।
धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा ॥ २.२६ ॥
विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् ।
महाकारुणिकांश्चापि बोधिसत्त्वान्कृताञ्जलिः ॥ २.२७ ॥
अनादिमति संसारे जन्मन्यत्रैव वा पुनः ।
यन्मया पशुना पापं कृतं कारितमेव वा ॥ २.२८ ॥
यच्चानुमोदितं किंचिदात्मघाताय मोहतः ।
तदत्ययं देशयामि पश्चात्तापेन तापितः ॥ २.२९ ॥
रत्नत्रयेऽपकारो यो मातापितृषु वा मया ।
गुरुष्वन्येषु वा क्षेपात्कायवाग्बुद्धिभिः कृतः ॥ २.३० ॥
अनेकदोषदुष्टेन मया पापेन नायकाः ।
यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥ २.३१ ॥
कथं च निःसराम्यस्मान्नित्योद्वेगोऽस्मि नायकाः ।
मा भून्मे मृत्युरचिरादक्षीणे पापसंचये ॥ २.३२ ॥
कथं च निःसराम्यस्मात्परित्रायत सत्वरं ।
मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति ॥ २.३३ ॥
कृताकृतापरीक्षोऽयं मृत्युर्विश्रम्भघातकः ।
स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः ॥ २.३४ ॥
प्रियाप्रियनिमित्तेन पापं कृतमनेकधा ।
सर्वमुत्सृज्य गन्तव्यमिति न ज्ञातमीदृशम् ॥ २.३५ ॥
तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते ।
स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते ॥ २.३६ ॥
अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति ।
अहं च न भविष्यामि सर्वं च न भविष्यति ॥ २.३७ ॥
इहैव तिष्ठतस्तावद्गता नैके प्रियाप्रियाः ।
तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः ॥ २.३८ ॥
एवमागन्तुकोऽस्मीति न मया प्रत्यवेक्षितं ।
मोहानुनयविद्वैषैः कृतं पापमनेकधा ॥ २.३९ ॥
रात्रिन्दिवमविश्राममायुषो वर्धते व्ययः ।
आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम् ॥ २.४० ॥
इह शय्यागतेनापि बन्धुमध्येऽपि तिष्ठता ।
मयैवैकेन सोढव्या मर्मच्छेदादिवेदना ॥ २.४१ ॥
यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत् ।
पुण्यमेकं तदा त्राणं मया तच्च न सेवितम् ॥ २.४२ ॥
अनित्यजीवितासङ्गादिदं भयमजानता ।
प्रमत्तेन मया नाथा बहु पापमुपार्जितम् ॥ २.४३ ॥
अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति ।
पिपासितो दीनदृष्टिरन्यदेवेक्षते जगत् ॥ २.४४ ॥
किं पुनर्भैरवाकारैर्यमदूतैरधिष्ठितः ।
महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः ॥ २.४५ ॥
कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशं ।
को मे महाभयादस्मात्साधुस्त्राणं भविष्यति ॥ २.४६ ॥
त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः ।
तदाहं किं करिष्यामि तस्मिन्स्थाने महाभये ॥ २.४७ ॥
अद्यैव शरणं यामि जगन्नाथान्महाबलान् ।
जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरांजिनान् ॥ २.४८ ॥
तैश्चाप्यधिगतं धर्मं संसारभयनाशनं ।
शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥ २.४९ ॥
समस्तभद्रायात्मानं ददामि भयविह्वलः ।
पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना ॥ २.५० ॥
तं चावलोकितं नाथं कृपाव्याकुलचारिणं ।
विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम् ॥ २.५१ ॥
आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः ।
सर्वान्महाकृपांश्चापि त्राणान्वेषी विरौम्यहम् ॥ २.५२ ॥
यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशं ।
यमदूतादयो दुष्टास्तं नमस्यामि वज्रिणम् ॥ २.५३ ॥
अतीत्य युष्मद्वचनं साम्प्रतं भयदर्शनात् ।
शरणं यामि वो भीतो भयं नाशयत द्रुतम् ॥ २.५४ ॥
इत्वरव्याधिभीतोऽपि वैद्यवाक्यं न लङ्घयेत् ।
किमु व्याधिशतैर्ग्रस्तश्चतुर्भिश्चतुरुत्तरैः ॥ २.५५ ॥
एकेनापि यतः सर्वे जम्बुद्वीपगता नराः ।
नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते ॥ २.५६ ॥
तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः ।
वाक्यमुल्लङ्घयामीति धिङ्मामत्यन्तमोहितम् ॥ २.५७ ॥
अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि ।
किमु योजनसाहस्त्रे प्रपाते दीर्घकालिके ॥ २.५८ ॥
अद्यैव मरणं नेति न युक्ता मे सुखासिका ।
अवश्यमेति सा वेला न भविष्याम्यहं यदा ॥ २.५९ ॥
अभयं केन मे दत्तं निःसरिष्यामि वा कथं ।
अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः ॥ २.६० ॥
पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितं ।
येषु मेऽभिनिविष्टेन गुरूणां लङ्घितं वचः ॥ २.६१ ॥
जीवलोकमिमं त्यक्त्वा बन्धून्परिचितांस्तथा ।
एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥ २.६२ ॥
इयमेव तु मे चिन्ता युक्ता रात्रिन्दिवं सदा ।
अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥ २.६३ ॥
मया बालेन मूढेन यत्किंचित्पापमाचितं ।
प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च ॥ २.६४ ॥
तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः ।
कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥ २.६५ ॥
अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः ।
न भद्रकमिदं नाथा न कर्त्तव्यं पुनर्मया ॥ २.६६ ॥
इति द्वितीयः परिच्छेदः ॥