बौधायनश्रौतसूत्रम्/प्रश्नः ०१
आमावास्येन वा पौर्णमासेन वा हविषा यक्ष्यमाणो भवति
स पुरस्तादेव हविरातञ्चनमुपकल्पयत एकाहेन वा द्व्यहेन वा यथर्त्वथ वै ब्राह्मणं भवति
दध्नातनक्ति सेन्द्र त्वायाग्निहोत्रोच्छेषणमभ्यातनक्ति यज्ञस्य संतत्या इति
चन्द्र मसं वानिर्ज्ञाय संपूर्णं वा विज्ञायाग्नीनन्वादधाति
त्रीणि काष्ठानि गार्हपत्येऽभ्यादधाति त्रीण्यन्वाहार्यपचने त्रीण्याहवनीये
परिसमूहन्त्युपवसथस्य रूपं कुर्वन्त्यथास्य व्रतोपेतस्य पर्णशाखामाच्छैति प्राङ्वोदङ्वा वाचंयमो यत्र वा वेत्स्यन्मन्यते
सा या प्राची वोदीची वा बहुपर्णा बहुशाखाप्रतिशुष्काग्रा भवति तामाच्छिनत्ति इषे त्वोर्जे त्वेति
तया वत्सानपाकरोति वायव स्थोपायव स्थेत्यथैषां मातॄः प्रेरयति देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमघ्निया देवभागमूर्जस्वतीः पयस्वतीः प्रजावतीरनमीवा अयक्ष्मा मा व स्तेन ईशत माघशँ सो रुद्र स्य हेतिः परि वो वृणक्त्विति
ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानमीक्षतेऽथैताँ शाखामग्रेणाहवनीयं पर्याहृत्य पूर्वया द्वारा प्रपाद्य जघनेन गार्हपत्यमग्निष्ठेऽनस्युत्तरार्धे वाग्न्यगारस्योद्गूहति यजमानस्य पशून्पाहीति नु यदि संनयति
यद्यु वै न संनयति बर्हिः प्रतिपदेव भवति १
1.2
अथ जघनेन गार्हपत्यं तिष्ठन्नसिदं वाश्वपर्शुं वादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयते यज्ञस्य घोषदसीति
गार्हपत्ये प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इति त्रिरथाहवनीयमभिप्रैति प्रेयमगाद्धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा त आवहन्ति कवयः पुरस्ताद्देवेभ्यो जुष्टमितीह बर्हिरासद इति वेदिं प्रत्यवेक्षतेऽथ तां दिशमेति यत्र बर्हिर्वेत्स्यन्मन्यते
दर्भस्तम्बं परिगृह्णाति यावन्तमलं प्रस्तराय मन्यते देवानां परिषूतमसीत्यथैनमूर्ध्वमुन्मार्ष्टि वर्षवृद्धमसीत्यसिदेनोपयच्छति देवबर्हिर्मा त्वान्वङ्मा तिर्यक्पर्व ते राध्यासमित्याच्छिनत्त्याच्छेत्ता ते मा रिषमित्याच्छेदनान्यभिमृशति देवबर्हिः शतवल्शं विरोहेति
सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्यभिमृशते
सर्वश एवैनँ स्तम्बं लुनोति
कृत्वा प्रस्तरं निदधाति पृथिव्याः संपृचः पाहीति
तूष्णीमत ऊर्ध्वमयुजो मुष्टीन्लुनोति
त्रीन्वा पञ्च वा सप्त वा नव वैकादश वा यावतो वालं मन्यतेऽथ त्रिरन्वाहितँ शुल्बं कृत्वापसलैरावेष्टयत्यदित्यै रास्नासीति
तदुदीचीनाग्रं निधाय
तस्मिन्प्रस्तरमभिसंभरति सुसंभृता त्वा संभरामीति
संनह्यतीन्द्राण्यै संनहनमिति
ग्रन्थिं करोति पूषा ते ग्रन्थिं ग्रथ्नात्विति
स ते मास्थादिति पश्चात्प्राञ्चमुपगूहत्यथैनदुद्यच्छत इन्द्रस्य त्वा बाहुभ्यामुद्यच्छ इति
शीर्षन्नधिनिधत्ते बृहस्पतेर्मूध्ना हरामीत्यैत्युर्वन्तरिक्षमन्विहीत्येत्योत्तरेण गार्हपत्यमनधः सादयति देवंगममसीति
तदुपरीव निदधाति यत्र गुप्तं मन्यते
तूष्णीं परिभोजनीयानि लुनोति
सकृदाच्छिन्नं पितृभ्य आच्छिनत्त्यथ तथैव त्रिरन्वाहितँ शुल्बं कृत्वैकविँ शतिदारुमिध्मँ संनह्यति यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविँ शतिधा संभरामि सुसंभृतेति
वेदं करोति वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृतं तेजस्कामस्योर्ध्वाग्रँ स्वर्गकामस्य
वेदिं करोति प्रागुत्तरात्परिग्राहादथापराह्णे पिण्डपितृयज्ञेन चरति २ 1.2
अथैतस्यै शाखायै पर्णानि प्रच्छिद्याग्रेण गार्हपत्यं निवपत्यथैनामधस्तात्परिवास्य जघनेन गार्हपत्यं स्थविमदुपवेषाय निदधात्यथास्याः प्रादेशमात्रं प्रमाय दर्भनाडीः प्रवेष्ट्य तत्त्रिवृच्छाखापवित्रं करोति त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु म इत्य्
अथ सायँ हुतेऽग्निहोत्र उत्तरेण गार्हपत्यं तृणानि सँ स्तीर्य तेषु चतुष्टयँ सँ सादयति दोहनं पवित्रँ साम्नाय्यतपन्यौ स्थालावित्यथैनान्यद्भिः प्रोक्षति शुन्धध्वं दैव्याय कर्मणे देवयज्याया इति त्रिरथ जघनेन गार्हपत्यमुपविश्योपवेषेणोदीचोऽङ्गारान्निरूहति मातरिश्वनो घर्मोऽसीति
तेषु सांनाय्यतपनीमधिश्रयति द्यौरसि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृँ हस्व मा ह्वारिति
तस्यां प्राचीनाग्रँ शाखापवित्रं निदधाति वसूनां पवित्रमसि शतधारं वसूनां पवित्रमसि सहस्रधारमिति
तदन्वारभ्य वाचंयम आस्तेऽथ गा आयतीः प्रतीक्षत एता आचरन्ति मधुमद्दुहानाः प्रजावतीर्यशसो विश्वरूपाः । बह्वीर्भवन्तीरुपजायमाना इह व इन्द्रो रमयतु गाव इति महेन्द्र इति वा यदि महेन्द्र याजी भवत्यथाहोपसृष्टां मे प्रब्रूतादित्युपसृष्टां प्राहुर्दोह्यमानामनुमन्त्रयते हुत स्तोको हुतो द्र प्सोऽग्नये बृहते नाकाय स्वाहा द्यावापृथिवीभ्यामित्यथ पुरस्तात्प्रत्यगानयन्तं पृच्छति कामधुक्ष इत्यमूमितीतरः प्रत्याह
तामनुमन्त्रयते सा विश्वायुरिति
द्वितीयमानयन्तं पृच्छति कामधुक्ष इत्यमूमित्येवेतरः प्रत्याह
तामनुमन्त्रयते सा विश्वव्यचा इति
तृतीयमानयन्तं पृच्छति कामधुक्ष इत्य्
अमूमित्येवेतरः प्रत्याह
तामनुमन्त्रयते सा विश्वकर्मेति
तिसृषु दुग्धासु वाचं विसृजते बहु दुग्धीन्द्रा य देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः पुनर्दोहाय कल्पतामिति महेन्द्रा येति वा यदि महेन्द्र याजी भवति
विसृष्टवागनन्वारभ्य तूष्णीमुत्तरा दोहयित्वा
दोहनेऽप आनीय संक्षालनमानयति संपृच्यध्वमृतावरीरूर्मिणीर्मधुमत्तमा मन्द्रा धनस्य सातय इत्यथैनत्तप्त्वोदगुद्वास्य शीतीकृत्वा तिरः पवित्रं दध्नातनक्ति सोमेन त्वा तनच्मीन्द्रा य दधीति महेन्द्रा येति वा यदि महेन्द्र याजी भवति
यावता मूर्च्छयिष्यन्मन्यते तावदानयत्यग्निहोत्रोच्छेषणमभ्यातनक्ति यज्ञस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीत्यथैनदुदन्वता कँ सेन वा चमसेन वापिदधात्यदस्तमसि विष्णवे त्वा यज्ञायापिदधाम्यहम्। अद्भिररिक्तेन पात्रेण याः पूताः परिशेरत इति
तदुपरीव निदधाति यत्र गुप्तं मन्यते विष्णो हव्यँ रक्षस्वेत्येतस्मिन्काले दर्भैः प्रातर्दोहाय वत्सानपाकरोति तूष्णीम् ३ 1.3
अथ प्रातर्हुतेऽग्निहोत्रे हस्तौ संमृशते कर्मणे वां देवेभ्यः शकेयमिति
नक्तं परिस्तीर्णा एवैतेऽग्नयो भवन्ति
यद्यु वा अपरिस्तीर्णा भवन्त्याहवनीयमेवाग्रे पुरस्तात्परिस्तृणात्यथ दक्षिणतोऽथ पश्चादथोत्तरत एवमेवान्वाहार्यपचनं परिस्तृणात्य्
एवं गार्हपत्यम्
अथाग्रेण गार्हपत्यं तृणानि सँ स्तीर्य तेषु द्वन्द्वं न्यञ्चि यज्ञायुधानि सँ सादयति
स्फ्यं च कपालानि चाग्निहोत्रहवणीं च शूर्पं च कृष्णाजिनं च शम्यां चोलूखलं च मुसलं च दृषदं चोपलां च जुहूं चोपभृतं च स्रुवं च ध्रुवां च प्राशित्रहरणं चेडापात्रं च मेक्षणं च पिष्टोद्वपनीं च प्राणीताप्रणयनं चाज्यस्थालीं च वेदं च दारुपात्रीं च योक्त्रं च वेदपरिवासनं च धृष्टिं चेध्मप्रव्रश्चनं चान्वाहार्यस्थालीं च मदन्तीं च यानि चान्यानि पात्राणि तान्येवमेव द्वन्द्वँ सँ साद्य
ब्रह्माणं दक्षिणत उपवेश्य
पृष्ठ्याँ स्तृणाति संततां गार्हपत्यादाहवनीयाद्यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्य स्तृणामीत्यथ बर्हिषः पवित्रे कुरुते प्रादेशमात्रे समे अप्रतिच्छिन्नाग्रे अनखच्छिन्ने इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरताम्पवित्रे हव्यशोधने इत्यथैने अद्भिरनुमार्ष्टि पवित्रे स्थो वैष्णवी स्थो यज्ञिये स्थो वायुपूते स्थो विष्णोर्मनसा पूते स्थो यज्ञस्य पवने स्थ इत्यथोत्तरेण गार्हपत्यमुपविश्य कँ सं वा चमसं वा प्रणीताप्रणयनम्याचति
तस्मिँ स्तिरः पवित्रमप आनयन्नाह ब्रह्मन्नपः प्रणेष्यामि यजमान वाचं यच्छेति
प्रसूतः समं प्राणैर्धारयमाणोऽविषिञ्चन्हृत्वोत्तरेणाहवनीयं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य
पवित्रमादाय्क्त प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्यादत्ते दक्षिणेनाग्निहोत्रहवणीँ सव्येन शूर्पं वेषाय त्वेति
गार्हपत्ये प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इति त्रिरथ जघनेन गार्हपत्यमग्निष्ठमनो भवति
तस्योत्तरां धुरमभिमृशति धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वाम इत्यनोऽभिमन्त्रयते त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममह्रुतमसि हविर्धानं दृँ हस्व मा ह्वारिति ४ 1.4
अथ विष्णोः क्रमोऽसीति दक्षिणमक्षपालिं क्रमित्वाभ्यारुह्य प्रौगे शूर्पं निदधाति
शूर्पे स्रुचं स्रुचि पवित्रे
अथ पुरोडाशीयान्प्रेक्षते मित्रस्य त्वा चक्षुषा प्रेक्षे मा भेर्मा संविक्थार्मा त्वा हिँ सिषमित्युरु वातायेति तृणं वा किँ शारु वा निरस्यत्यथाप उपस्पृश्य दशहोतारं व्याख्याय हविर्निर्वप्स्यामीति यजमानमामन्त्र्! य पवित्रवत्याग्निहोत्रहवण्या निर्वपति
यद्यु वै नानो भवति जघनेन गार्हपत्यँ स्फ्यं निदधाति स्फ्योपरि पात्रीं पात्र्! यां पुरोडाशीयानावपत्यथ पूर्वार्धं पात्र्! या अभिमृशति धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वामस्त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममह्रुतमसि हविर्धानं दृँ हस्व मा ह्वा इत्यथ पुरोडाशीयान्प्रेक्षते मित्रस्य त्वा चक्षुषा प्रेक्षे मा भेर्मा संविक्थार्मा त्वा हिँ सिषमित्युरु वातायेति तृणं वा किँ शारु वा निरस्यत्यथाप उपस्पृश्य दशहोतारं व्याख्याय हविर्निर्वप्स्यामीति यजमानमामन्त्र्! य पवित्रवत्याग्निहोत्रहवण्या निर्वपत्य्
ॐ निर्वपेति यजमानोऽनुजानात्यथ निर्वपति
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टं निर्वपामीति त्रिरेतेन यजुषा
सकृत्तूष्णीम्
एतामेव प्रतिपदं कृत्वाग्नीषोमाभ्यामिति पौर्णमास्यामिन्द्रा य वैमृधायेति चेन्द्रा ग्निभ्यामित्यमावास्यायामसंनयत इन्द्रा येति संनयतो महेन्द्रा येति वा यदि महेन्द्र याजी भवत्यथ निरुप्तानभिमृशतीदं देवानामितीदमु नः सहेति येऽतिशिष्टा भवन्ति
स्फात्यै त्वा नारात्या इत्यथाहवनीयमीक्षते सुवरभिविख्येषं वैश्वानरं ज्योतिरित्यथ गृहानन्वीक्षते दृँ हन्तां दुर्या द्यावापृथिव्योरित्यथैनानादायोपोत्तिष्ठत्यैत्युर्वन्तरिक्षमन्विहीत्येत्योत्तरेण गार्हपत्यमुपसादयत्यदित्यास्त्वोपस्थे सादयामीति
गार्हपत्यमभिमन्त्रयतेऽग्ने हव्यँ रक्षस्वेति ५ 1.5
अथैतस्यामेव स्रुचि तिरः पवित्रमप आनीयोदीचीनाग्राभ्यां पवित्राभ्यां त्रिरुत्पुनाति देवो वः सवितोत्पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति पच्छोऽथैना उन्महयन्नुपोत्तिष्ठत्यापो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये यूयमिन्द्र मवृणीध्वं वृत्रतूर्य द्भिरेवापः प्रोक्षति प्रोक्षिता स्थ प्रोक्षिता स्थेति त्रिरथ पुरोडाशीयान्प्रोक्षति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्याममुष्मा अमुष्मा इति यथादेवतं त्रिर्
उत्तानानि पात्राणि कृत्वा प्रोक्षति शुन्धध्वं दैव्याय कर्मणे देवयज्याया इति त्रिरतिशिष्टाः प्रोक्षणीर्निधाय
कृष्णाजिनमवधूनोत्यूर्ध्वग्रीवमुदङ्ङावृत्यावधूतँ रक्षोऽवधूता अरातय इति त्रिरथैनत्पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणात्यदित्यास्त्वगसि प्रति त्वा पृथिवी वेत्त्विति
तस्मिन्नुलूखलमध्यूहत्यधिषवणमसि वानस्पत्यं प्रति त्वादित्यास्त्वग्वेत्त्विति
तस्मिन्पुरोडाशीयानावपत्यग्नेस्तनूरसि वाचो विसर्जनं देववीतये त्वा गृह्णामीति
मुसलमवदधात्यद्रि रसि वानस्पत्यः स इदं देवेभ्यो हव्यँ सुशमि शमिष्वेत्यथ हविष्कृतमाह्वयति हविष्कृदेहि हविष्कृदेहीति त्रिः समाहन्तवा इति च अथ दृषदुपले वृषारवेणोच्चैः समाहन्तीषमावदोर्जमावद द्युमद्वदत वयँ संघातं जेष्मेत्यवहत्योत्तुषान्कृत्वोत्तरतः शूर्पमुपयच्छति वर्षवृद्धमसीति
तस्मिन्पुरोडाशीयानुद्वपति प्रति त्वा वर्षवृद्धं वेत्त्वित्यथोदङ्पर्यावृत्य परापुनाति परापूतँ रक्षः परापूता अरातय इति
सव्येन तुषानुपहत्येमां दिशं निरस्यति रक्षसां भागोऽसीत्यथाप उपस्पृश्य विविनक्ति वायुर्वो विविनक्त्विति
पात्र्! यां तण्डुलान्प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्यवहन्त्र्! यै प्रयच्छन्नाह त्रिष्फलीकर्तवै त्रिष्फलीकृतान्मे प्रब्रूतादिति
त्रिष्फलीकृतान्प्राहुस्त्रिष्फलीक्रियमाणानां यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहतादित इति तण्डुलप्रक्षालनमन्तर्वेदि निनयत्युत्करदेशे वैतस्मिन्काले प्रातर्दोहं धेनूर्दोहयत्युदगग्रेण पवित्रेण
नात्रातनक्ति ६ 1.6
अथ प्रोक्तेषु त्रिष्फलीकृतेषु तथैव कृष्णाजिनमवधूनोत्यूर्ध्वग्रीवमुदङ्ङावृत्यावधूतँ रक्षसवधूता अरातय इति त्रिरथैनत्पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणात्यदित्यास्त्वगसि प्रति त्वा पृथिवी वेत्त्विति
तस्मिन्नुदीचीनकुम्बाँ शम्यां निदधाति दिव स्कम्भनिरसि प्रति त्वादित्यास्त्वग्वेत्त्विति
तस्यां प्राचीं दृषदमध्यूहति धिषणासि पर्वत्या प्रति त्वा दिव स्कम्भनिर्वेत्त्विति
दृषद्युपलामध्यूहति धिषणासि पार्वतेयी प्रति त्वा पर्वतिर्वेत्त्विति
तस्यां पुरोडाशीयानधिवपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नीषोमाभ्याममुष्मा अमुष्मा इति यथादेवतम्
अधिवदते धान्यमसि धिनुहि देवान्धिनुहि यज्ञं धिनुहि यज्ञपतिं धिनुहि मां यज्ञनियमिति
पिँ षति प्राणाय त्वापानाय त्वा व्यानाय त्वेति
बाहू अन्ववेक्षते दीर्घामनु प्रसितिमायुषे धामिति
कृष्णाजिने पिष्टानि प्रस्कन्दयति देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति
हविःपेष्यै प्रयच्छन्नाहासंवपन्ती पिँ षाणूनि कुरुतादिति
पिँ षन्ति पुरोडाशीयान्
नि चरव्यान्दधति
यदि चरुं करिष्यन्भवति प्रागधिवपनाच्चरुपुरोडाशीयान्विभजेरन् ७ 1.7
अथैतानि कपालानि प्रक्षालितानि जघनेन गार्हपत्यमुपसादयत्यष्टौ दक्षिणत एकादशोत्तरतोऽथ जघनेन गार्हपत्यमुपविश्य धृष्टिमादत्ते धृष्टिरसि ब्रह्म यच्छेति
गार्हपत्यमभिमन्त्रयतेऽपाग्नेऽग्निमामादं जहीति
निष्क्रव्यादँ सेधेति दक्षिणाङ्गारं निरस्यत्यथान्यमावर्तयत्या देवयजं वहेति
तं दक्षिणेषां कपालानां मध्यमेनाभ्युपदधाति ध्रुवमसि पृथिवीं दृँ हायुर्दृँह प्रजां दृँ ह सजातानस्मै यजमानाय पर्यूहेत्यङ्गारमधिवर्तयति निर्दग्धँ रक्षो निर्दग्धा अरातय इत्यथ पूर्वार्ध्यमुपदधाति धर्त्रमस्यन्तरिक्षं दृँ ह प्राणं दृँ हापानं दृँ ह सजातानस्मै यजमानाय पर्यूहेत्यथापरार्ध्यमुपदधाति धरुणमसि दिवं दृँ ह चक्षुर्दृँ ह श्रोत्रं दृँ ह सजातानस्मै यजमानाय पर्यूहेत्यथ दक्षिणार्ध्यमुपदधाति धर्मासि दिशो दृँ ह योनिं दृँ ह प्रजां दृँ ह सजातानस्मै यजमानाय पर्यूहेत्यथ पूर्वमुपधिमुपदधाति चित स्थ प्रजामस्मै रयिमस्मै सजातानस्मै यजमानाय पर्यूहेत्यथापरमेवमेव
द्वे उत्तरतः सँ स्पृष्टे उपदधाति चित स्थ प्रजामस्मै रयिमस्मै सजातानस्मै यजमानाय पर्यूहेत्य्
अथैनान्यङ्गारैरधिवासयति भृगूणामङ्गिरसां तपसा तप्यध्वमित्यथैनानि योगेन युनक्ति यानि घर्मे कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्र वायू युङ्क्तामित्येवमेवोत्तराणि कपालान्युपदधात्यभीन्धते कपालान्युपेन्धते चरुस्थालीम्
अध्यस्यन्ति श्रपणानि
तपन्ति पिष्टसंयवनीया आपः ८ 1.8
अथोत्तरेण गार्हपत्यमुपविश्य वाचंयमस्तिरः पवित्रं पात्र्! यां कृष्णाजिनात्पिष्टानि संवपति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टँ संवपाम्यग्नीषोमाभ्याममुष्मा अमुष्मा इति यथादेवतम्
अथ परिकर्मिणमाहाहराप आनयेत्याहरति प्रैषकारः प्रणीताभ्यः स्रुवेणोपहत्य वेदेनोपयम्य पाणिं वान्तर्धायैवं मदन्तीभ्यस्
ता उभयीरानीयमानाः प्रतिमन्त्रयते समापो अद्भिरग्मत समोषधयो रसेन सँ रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिः सृज्यध्वमित्यथानुपरिप्लावयत्यद्भ्यः परि प्रजाता स्थ समद्भिः पृच्यध्वमिति
संयौति जनयत्यै त्वा संयौमीति
संयुत्य व्यूह्याभिमृशत्यग्नये त्वाग्नीषोमाभ्याममुष्मा अमुष्मा इति यथादेवतम्पिण्डं करोति मखस्य शिरोऽसीति
तं दक्षिणेषां कपालानां प्रत्यूह्याङ्गाराँ स्तेष्वधिपृणक्ति घर्मोऽसि विश्वायुरिति
प्रथयत्युरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति
तं तन्वन्तं कूर्मप्रकारं करोति
सर्वाणि कपालान्यभिप्रथयतीति ब्राह्मणम् ९ 1.9
अथ तिरः पवित्रमाज्यस्थाल्यामाज्यं निर्वपति महीनां पयोऽस्योषधीनाँ रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्याया इत्यथोत्तरतो भस्ममिश्रानङ्गारान्निरूह्य तेष्वधिश्रयत्येवमेवोत्तरं पुरोडाशमधिपृणक्त्यथ शृतमथ दध्यथ पात्र्! यामप आनीय दक्षिणस्य पुरोडाशस्य त्वचं ग्राहयति त्वचं गृह्णीष्व त्वचं गृह्णीष्वेति त्रिरथोत्तरस्याथ पर्यग्नि करोत्यन्तरितँ रक्षोऽन्तरिता अरातय इति त्रिरथ दक्षिणं पुरोडाशँ श्रपयति देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाकेऽग्निस्ते तनुवं माति धागिति
गार्हपत्यमभिमन्त्रयते अग्ने हव्यँ रक्षस्वेत्येवमेवोत्तरं पुरोडाशँ श्रपयत्यथ दक्षिणं पुरोडाशं भस्मनाभिवास्य वेदेनाभिवासयति सं ब्रह्मणा पृच्यस्व सं ब्रह्मणा पृच्यस्वेति त्रिरथोत्तरम्
अविदहन्त श्रपयतेति वाचं विसृजतेऽत्रैतत्पात्रीसंक्षालनं गार्हपत्यादङ्गारेणाभितप्य हृत्वान्तर्वेदि प्रतीचीनं तिसृषु लेखासु निनयत्येकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहेत्यथ वेदमादत्तेऽयं वेदः पृथिवीमन्वविन्दद्गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोत्विति
वेदेन वेदिं त्रिः संमार्ष्टि वेदेन वेदिं विविदुः पृथिवीँ सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिरिति १० 1.10
अथ जघनेन वेद्यै तिष्ठन्स्फ्यमादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयत इन्द्र स्य बाहुरसि दक्षिणः सहस्रभृष्टिः शततेजा इत्यथैनं बर्हिषा सँ श्यति वायुरसि तिग्मतेजाः शतभृष्टिरसि वानस्पत्यो द्विषतो वध इत्यथान्तर्वेद्युदीचीनाग्रं बर्हिर्निदधाति पृथिव्यै वर्मासि वर्म यजमानाय भवेति
तस्मिँ स्फ्येन प्रहरति पृथिवि देवयजन्योषध्यास्ते मूलं मा हिँ सिषमित्यपहतोऽररुः पृथिव्या इत्यादत्ते
व्रजं गच्छ गोस्थानमिति हरति
वेदिं प्रत्यवेक्षते वर्षतु ते द्यौरिति
हृत्वोत्करे निवपति बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति
द्वितीयं प्रहरति पृथिवि देवयजन्योषध्यास्ते मूलं मा हिँ सिषमित्यपहतोऽररुः पृथिव्यै देवयजन्या इत्यादत्ते
व्रजं गच्छ गोस्थानमिति हरति
वेदिं प्रत्यवेक्षते वर्षतु ते द्यौरिति
हृत्वोत्करे निवपति बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगिति
तृतीयं प्रहरति पृथिवि देवयजन्योषध्यास्ते मूलं मा हिँ सिषमित्यपहतोऽररुः पृथिव्या अदेवयजन इत्यादत्ते
व्रजं गच्छ गोस्थानमिति हरति
वेदिं प्रत्यवेक्षते वर्षतु ते द्यौरिति
हृत्वोत्करे निवपति बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगररुस्ते दिवं मा स्कानित्यत्रानुवर्तयति
तूष्णीं चतुथँ र्! हरति सह बर्हिषाथ पूर्वं परिग्राहं परिगृह्णाति वसवस्त्वा परिगृह्णन्तु गायत्रेण छन्दसेति दक्षिणतो रुद्रा स्त्वा परिगृह्णन्तु त्रैष्टुभेन छन्दसेति पश्चादादित्यास्त्वा परिगृह्णन्तु जागतेन छन्दसेत्युत्तरतोऽथ करणं जपतीमां नराः कृणुत वेदिमेत्य वसुमतीँ रुद्र वतीमादित्यवतीं वर्ष्मन्दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येदित्यथ प्राचीँ स्फ्येन वेदिमुद्धन्ति देवस्य सवितुः सवे कर्म कृण्वन्ति वेधस इत्यथाग्नीध्रमाहाग्नीदितस्त्रिर्हरेति
ततस्त्रिराग्नीध्रो हरति
यदाग्नीध्रस्त्रिर्हरत्यथ संप्रैषमाह ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामीति
प्रसूत उत्तरं परिग्राहं परिगृह्णात्यृतमसीति दक्षिणत ऋतसदनमसीति पश्चादृतश्रीरसीत्युत्तरतोऽथ प्रतीचीँ स्फ्येन वेदिं योयुप्यते धा असि स्वधा अस्युर्वी चासि वस्वी चासि पुरा क्रूरस्य विसृपो विरप्शिन्नुदादाय पृथिवीं जीरदानुर्यामैरयञ्चन्द्र मसि स्वधाभिस्तां धीरासो अनुदृश्य यजन्त इत्यथान्तर्वेदि तिर्यञ्चँ स्फ्यँ स्तब्ध्वा संप्रैषमाह प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि पत्नीँ संनह्याज्येनोदेहीत्याहरन्त्येताः प्रोक्षणीरभिपूर्य
दक्षिणेनाध्वर्युस्ता स्फ्य उपनिनीय स्फ्यस्य वर्त्मन्सादयत्यथोत्करे स्फ्यं निहन्ति यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः । यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मीति
हस्तौ प्रक्षाल्य स्फ्यं च प्रक्षालयत्युपसादयन्त्येतदिध्माबर्हिर्दक्षिणमिध्ममुत्तरं बर्हिः ११ 1.11
अथैताः स्रुचः समादत्ते दक्षिणेन स्रुवं जुहूपभृतौ सव्येन ध्रुवां प्राशित्रहरणं वेदपरिवासनानीति
गार्हपत्ये प्रतितपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयोऽग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीत्यथ स्रुवँ संमार्ष्टि गोष्ठं मा निर्मृक्षम्वाजिनं त्वा सपत्नसाहँ संमार्ज्मीति
त्रिरन्तरतस्त्रिर्बाह्यतस्त्रिरेवं मूलैर्दण्डँ संमृज्याद्भिः सँ स्पर्श्य प्रतितप्योत्प्रयच्छत्यथ जुहूँ संमार्ष्टि वाचं प्राणं मा निमृक्षम्वाजिनीं त्वा सपत्नसाहीँ संमार्ज्मीति
तथिव संमृज्याद्भिः सँ स्पर्श्य प्रतितप्योत्प्रयच्छत्यथोपभृतँ संमार्ष्टि चक्षुः श्रोत्रं मा निर्मृक्षम्वाजिनीं त्वा सपत्नसाहीँ संमार्ज्मीति
तथैव संमृज्याद्भिः सँ स्पर्श्य प्रतितप्योत्प्रयच्छत्यथ ध्रुवाँ संमार्ष्टि प्रजां योनिं मा निर्मृक्षम्वाजिनीं त्वा सपत्नसाहीँ संमार्ज्मीति
तथैव संमृज्याद्भिः संस्पर्श्य प्रतितप्योत्प्रयच्छत्यथ प्राशित्रहरणँ संमार्ष्टि रूपं वर्णं पशुभ्यो मा निर्मृक्षम्वाजिनं त्वा सपत्नसाहँ संमार्ज्मीति
तथैव संमृज्याद्भिः सँ स्पर्श्य प्रतितप्योत्प्रयच्छत्यथैतानि स्रुक्संमार्जनान्यद्भिः सँ स्पर्श्य गार्हपत्येऽनुप्रहरति दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितं तेन वयँ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेत्यथाग्रेणोत्करं तृणानि सँ स्तीर्य तेषु स्रुचः सादयित्वाथैतां पत्नीमन्तरेण वेद्युत्करौ प्रपाद्य जघनेन दक्षिणेन गार्हपत्यमुदीचीमुपवेश्य योक्त्रेण संनह्यत्याशासाना सौमनसं प्रजाँ सौभाग्यं तनूमग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कमिति
अथैनां वाचयति युक्तं क्रियाता आशीः कामे युज्याता इति
अथैनां तिरः पवित्रमप आचामयति पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजेत्यथैनां गार्हपत्ये समिध आधापयत्यग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहा वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताँ स्वाहेत्यथ जघनेन गार्हपत्यमुपसीदति सुप्रजसस्त्वा वयं सुपत्नीरुपसेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यम्॥ इन्द्रा णीवाविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वाय ॥ मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट्
उताहमस्मि संजया पत्युर्मे श्लोक उत्तम इति
अथैनां वाचयत्यूनेऽतिरिक्तं धीयाता इति च
अथैनां गार्हपत्यमीक्षयत्यग्ने गृहपत उप मा ह्वयस्व देवानां पत्नीरुप मा ह्वयध्वम्पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिँ सीरित्यथैनामाज्यमवेक्षयति महीनां पयोऽस्योषधीनाँ रसोऽदब्धन त्वा चक्षुषावेक्षे सुप्रजास्त्वायेत्यथैनद्गार्हपत्येऽधिश्रयति तेजोऽसीति
समिधमुपयत्य प्राङ्हरति तेजोऽनु प्रेहीत्यथैनदाहवनीयेऽधिश्रयत्यग्निस्ते तेजो मा विनैदित्यत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधाति स्वाहेति
अथैनदग्रेण प्रोक्षणीः पर्याहृत्य दक्षिणार्धे वेद्यै निधाय यजमानमाज्यमवेक्षयति निमील्यावेक्षेतेति ब्राह्मणम्
अथैनद्यथाहृतं प्रतिपर्याहृत्योत्तरार्धे वेद्यै निधायाध्वर्युरवेक्षतेऽग्नेर्जिह्वासि सुभूर्देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवेत्यथैनदुदीचीनाग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पुनाति शुक्रमसि ज्योतिरसि तेजोऽसीत्यथ प्रोक्षणीरुत्पुनाति देवो वः सवितोत्पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति पच्छः
प्रोक्षणीषु पवित्रे अवधायादत्ते दक्षिणेन स्रुवं सव्येन जुहूं वेदे प्रतिष्ठाप्य तस्यां गृह्णीते शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामीत्येतेन यजुषा चतुर्गृहीतं गृहीत्वा संमृश्योत्प्रयच्छत्य्
अथोपभृति गृह्णीते ज्योतिस्त्वा ज्योतिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामीत्येतेन यजुषाष्टगृहीतं गृहीत्वा भूयसो ग्रहान्गृह्णानः कनीय आज्यं गृह्णीते
तथैव संमृश्योत्प्रयच्छत्यथ ध्रुवायां गृह्णीतेऽर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामीत्येतेन यजुषा चतुर्गृहीतं गृहीत्वाभिपूर्य तथैव संमृश्योत्प्रयच्छति १२ 1.12
अथैतामाज्यस्थालीँ सस्रुवां जघनेन वेद्यै निधाय प्रोक्षणीरुन्महयन्नुपोत्तिष्ठत्यापो देवीरग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिम्धत्त युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये यूयमिन्द्र मवृणीध्वं वृत्रतूर्य इत्यद्भिरेवापः प्रोक्षति प्रोक्षिता स्थ प्रोक्षिता स्थेति त्रिरथेध्मं विस्रस्य प्रोक्षति कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहेति
वेदिं प्रोक्षति वेदिरसि बर्हिषे त्वा स्वाहेति
बर्हिः प्रोक्षति बर्हिरसि स्रुग्भ्यस्त्वा स्वाहेत्याहरन्त्येतद्बर्हिरन्तरेण प्रणीताश्चाहवनीयं च
तदन्तर्वेदि पुरोग्रन्थ्यासाद्य प्रोक्षति दिवे त्वेत्यग्राण्यन्तरिक्षाय त्वेति मध्यानि पृथिव्यै त्वेति मूलानि
सह स्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्ष्यातिशिष्टाः प्रोक्षणीर्निनयति दक्षिणायै श्रोणेरोत्तरायै श्रोणेः स्वधा पितृभ्य ऊर्ग्भव बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छतेत्युदूह्य प्रोक्षणीधानं बर्हिर्विस्रस्य पुरस्तात्प्रस्तरं गृह्णाति विष्णो स्तूपोऽसीति
तस्मिन्पवित्रे अपिसृजति यजमाने प्राणापानौ दधामीति वा तूष्णीं वा
तं यजमानाय वा ब्रह्मणे वा प्रयच्छत्यथैतानि बर्हिःसंनहनान्यायातयति दक्षिणायै श्रोणेरोत्तरादँ सादथ दक्षिणे वेद्यन्ते बर्हिर्मुष्टिँ स्तृणाति देवबर्हिरूर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्य इति
तां बहुलां पुरस्तात्प्रतीचीं त्रिवृतमनतिदृश्नँ स्तृणात्यथ प्रस्तरपाणिः प्राङभिसृप्य परिधीन्परिदधाति गन्धर्वोऽसि विश्वावसुर्विश्वस्मादीषत यजमानस्य परिधिरिड ईडित इति मध्यममिन्द्र स्य बाहुरसि दक्षिण यजमानस्य परिधिरिड ईडित इति दक्षिणम्मित्रावरुणौ त्वोत्तरतः परिधत्तां ध्रुवेण धर्मणा यजमानस्य परिधिरिड ईडित त्तरम्
अथ सूर्येण पुरस्तात्परिदधाति सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्या इत्यूर्ध्वे समिधावादधाति वीतिहोत्रं त्वा कवे द्युमन्तँ समिधीमह्यग्ने बृहन्तमध्वर इति दक्षिणां तूष्णीमुत्तरामभ्याधायान्तर्वेद्युदीचीनाग्रे विधृती तिरश्ची सादयति विशो यन्त्रे स्थ इति
विधृत्योः प्रस्तरम्वसूनाँ रुद्रा णामादित्यानाँ सदसि सीदेति
प्रस्तरे जुहूं जुहूरसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीदेत्युत्तरामुपभृतमुपभृदसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीदेत्युत्तरां ध्रुवां ध्रुवासि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीदेत्यथ स्रुचः सन्ना अभिमृशत्येता असदन्त्सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञम्पाहि यज्ञपतिम्पाहि मां यज्ञनियमित्य्
अथ विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानीत्याज्यान्यभिमन्त्रयते १३ 1.13
अथादत्ते दक्षिणेनाज्यस्थालीँ सस्रुवाँ सव्येन पात्रीं वेदमित्येतत्समादाय प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य जघनेन गार्हपत्यमुपविश्य पात्र्! यां द्वेधोपस्तृणीते स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्त्सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इत्यथ धृष्टिमादाय दक्षिणस्य पुरोडाशस्याङ्गारानपोहतीदमहँ सेनाया अभीत्वर्यै मुखमपोहामीत्यथैनं विदर्शयति सूर्य ज्योतिर्विभाहि महत इन्द्रि यायेति
वेदेन विरजसं कृत्वाभिघारयत्याप्यायतां घृतयोनिरग्निर्हव्यानुमन्यताम्। खमङ्क्ष्व त्वचमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिघारयामीति
यद्देवत्यो वा भवत्यथैनमुद्वासयति शृत उत्स्नाति जनिता मतीनामित्याज्येन सुसंतर्पयत्यार्द्र ः! प्रथस्नुर्भुवनस्य गोपा इत्युपरिष्टादभ्यज्याधस्तादुपानक्ति यस्त आत्मा पशुषु प्रविष्टस्तमङ्क्ष्वेत्येवमेवोत्तरं पुरोडाशमुद्वासयत्यथ शृतमथ दध्यथ सांनाय्ये अलंकरोति यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्त्सोम घृतवान्हि भूत्वा देवान्गच्छ सुवर्विन्द यजमानाय मह्यमिति
प्रत्यज्य कपालान्युद्वासयतीरा भूतिः पृथिव्यै रसो मोत्क्रमीदिति
संख्यायोद्वासयति यजमानस्य गोपीथायेति ब्राह्मणम्
अथैनँ स्रुवमाज्यस्य पूरयित्वानतरेण पुरोडाशाववदधात्यथैनानि संपरिगृह्यान्तर्वेद्यासादयति भूर्भुवः सुवरित्येताभिर्व्याहृतीभिर्मध्यतः पुरोडाशावासादयति दक्षिणतः शृतमुत्तरतो दध्यथैनँ स्रुवमग्रेण स्रुचः पर्याहृत्य दक्षिणेन जुहूं प्रसत्रे सादयति स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्ना इत्यथैनं यथाहृतं प्रतिपर्याहृत्य ध्रुवायामवदधात्यृषभोऽसि शाक्वरो घृताचीनाँ सूनुः प्रियेण नाम्ना प्रिये सदसि सीदेति १४ 1.14
अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यथ यत्र होतुरभिजानाति प्र वो वाजा अभिद्यव इति तत्प्रथमामभ्यादधाति
प्रणवेप्रणवेऽभ्यादधात्यथ यत्र होतुरभिजानाति समिद्धो अग्न आहुतेति तदन्ततोऽभ्यादधाति
परि समिधँ शिनष्ट्यथ यत्र होतुरभिजानात्याजुहोता दुवस्यतेति तदेतेन वेदेन त्रिराहवनीयमुपवाजयत्यनूक्तासु सामिधेनीषु ध्रुवाज्यात्स्रुवेणोपहत्य वेदेनोपयम्य प्राजापत्यं तिर्यञ्चमाघारमाघारयति प्रजापतये स्वाहेति मनसाथ संप्रैषमाहाग्नीदग्नीँ स्त्रिस्त्रिः संमृड्ढीत्यथैष आग्नीध्र इध्मसंनहनानि स्फ्य उपसंगृह्य परिधीन्संमार्ष्टि त्रिर्मध्यमं त्रिर्दक्षिणार्ध्यं त्रिरुत्तरार्ध्यं त्रिराहवनीयमुपवाजयत्यग्ने वाजजिद्वाजं त्वाग्ने सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्यायेत्यथाग्रेण जुहूपभृतौ प्राञ्चमञ्जलिं करोति भुवनमसि विप्रथस्वाग्ने यष्टरिदं नम इत्यथादत्ते दक्षिणेन जुहूं जुह्वेह्यग्निस्त्वा ह्वयति देवयज्याया इति
सव्येनोपभृतमुपभृदेहि देवस्त्वा सविता ह्वयति देवयज्याया इति
सव्येनात्याक्रामञ्जपत्यग्नाविष्णू मा वामवक्रमिषम्विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कृणुतमिति
स्थानं कल्पयते विष्णो स्थानमसीत्यन्वारब्धे यजमाने मध्यमे परिधौ सँ स्पर्श्यर्जुमाघारमाघारयति संततं प्राञ्चमव्यवच्छिन्दन्नित इन्द्रो अकृणोद्वीर्याणि समारभ्योर्ध्वो अध्वरो दिविस्पृशमह्रुतो यज्ञो यज्ञपतेरिन्द्रा वान्त्स्वाहेति
बृहद्भा इति स्रुचमुद्गृह्णात्यथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रामञ्जपति पाहि माग्ने दुश्चरितादा मा सुचरिते भजेति
जुह्वा ध्रुवाँ समनक्ति मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्तामिति त्रिरथ यथायतनँ स्रुचौ सादयित्वा प्रवरं प्रवृणीत उत्कर इध्मसंनहनानि स्फ्य उपसंगृह्य पृष्ठमाग्नीध्रोऽनूपश्लिष्यत्य्
अथाश्रावयत्यो श्रावयास्तु श्रौषडग्निर्देवो होता देवान्यक्षद्विद्वाँ श्चिकित्वान्मनुष्वद्भरतवदमुवदमुवद्ब्रह्मण्वदेह वक्षद्ब्राह्मणा अस्य यज्ञस्य प्रावितार इत्यसौ मानुष इति होतुर्नाम गृह्णात्युपोत्थाय होता विमुञ्चति
विमुक्तोऽध्वर्युरुपविशति
प्रसवमाकाङ्क्षन्नास्ते १५ 1.15
अथ यत्र होतुरभिजानाति घृतवतीमध्वर्यो स्रुचमास्यस्वेति तज्जुहूपभृतावादायात्याक्रम्याश्राव्याह समिधो यजेति
वषट्कृते जुहोति यज यजेति
चतुर्थं यक्ष्यन्नर्धमौपभृतस्याज्यस्य जुह्वाँ समानयते
पञ्च प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सँ स्रावेणानुपूवँ र्! हवीँ ष्यभिघारयति ध्रुवामेवाग्रेऽथ दक्षिणं पुरोडाशमथ ध्रुवामथोत्तरं पुरोडाशमथ शृतमथ दध्युपभृतमन्ततोऽथ चतुर आज्यस्य गृह्णान आहाग्नयेऽनुब्रूहीत्यत्याक्रम्याश्राव्याहाग्निं यजेति
वषट्कृत उत्तरार्धपूर्वार्धे प्रतिमुखं प्रबाहुग्जुहोत्यथोदङ्ङत्याक्रम्य चतुर एवाज्यस्य गृह्णान आह सोमायानुब्रूहीत्यत्याक्रम्याश्राव्याह सोमं यजेति
वषट्कृते दक्षिणार्धपूर्वार्धे प्रतिमुखं प्रबाहुग्जुहोत्यथोपस्तीर्य दक्षिणस्य पुरोडाशस्य पूर्वार्धादवद्यन्नाहाग्नयेऽनुब्रूहीत्यथैनमुपतिष्ठते मा भेर्मा संविक्थार्मा त्वा हिँ सिषम्मा ते तेजोऽपक्रमीदित्य्
अथैनमभिमृशति भरतमुद्धरे मनुषिञ्चावदानानि ते प्रत्यवदास्यामि नमस्ते अस्तु मा मा हिँ सीरिति
पूर्वार्धादवदायापरार्धादवद्यत्यभिघारयति प्रत्यनक्ति यदवदानानि तेऽवद्यन्विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तत्त आप्यायतां पुनरित्यत्याक्रम्याश्राव्याहाग्निं यजेति
वषट्कृते जुहोत्यथ चतुर आज्यस्य गृह्णान आह प्रजापतय इत्युपाँ श्वनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह प्रजापतिमित्युपाँ शु यजेत्युच्चैर्वषट्कृते जुहोत्यथोपस्तीर्योत्तरस्य पुरोडाशस्यापरार्धादवद्यन्नाहाग्नीषोमाभ्यामिति पौर्णमास्यामिन्द्रा य वैमृधायेति चेन्द्रा ग्निभ्यामित्यमावास्यायामसंनयत इन्द्रा येति संनयतो महेन्द्रा येति वा यदि महेन्द्र याजी भवति १६ 1.16
समान उपस्थानः
समानोऽभिमर्शनोऽपरार्धादवदाय पूर्वार्धादवद्यत्यभिघारयति
समानः प्रत्यञ्जनोऽत्याक्रम्याश्राव्याहाग्नीषोमौ यजेति
वषट्कृते जुहोत्यथोपस्तीर्य द्विः पुरोडाशस्यावद्यन्नाहेन्द्रा यानुब्रूहीति महेन्द्रा येति वा यदि महेन्द्र याजी भवति
द्विः पुरोडाशस्यावद्यति द्विः शृतस्य द्विर्दध्नोऽभिघारयति
प्रत्यनक्त्यत्याक्रम्याश्राव्याहेन्द्रं यजेति महेन्द्र मिति वा यदि महेन्द्र याजी भवति
वषट्कृते जुहोत्यथोपस्तीर्य दक्षिणस्य पुरोडाशस्योत्तरार्धादवद्यन्नाहाग्नये स्विष्टकृतेऽनुब्रूहीति
सकृद्दक्षिणस्य पुरोडाशस्योत्तरार्धादवद्यति सकृद्ध्रुवाज्यात्सकृदुत्तरस्य पुरोडाशस्य सकृच्छृतस्य सकृद्दध्नो द्विरभिघारयति
न प्रत्यनक्त्यवत्ते स्विष्टकृति स्रुवेण पार्वणौ होमौ जुहोत्यृषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताँ सुवीयँ र्! रायस्पोषँ सहस्रिणम्। प्राणाय सुराधसे पूर्णमासाय स्वाहेति पौर्णमास्याम्
अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहताँ सुवीयँ र्! रायस्पोषँ सहस्रिणम्। अपानाय सुराधसेऽमावास्यायै स्वाहेत्यमावास्यायाम्
अत्याक्रम्याश्राव्याहाग्निँ स्विष्टकृतं यजेति
वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यत्रैतन्मेक्षणमाहवनीयेऽनुप्रहरत्यथैनत्सँ स्रावेणाभिजुहोत्यथोदङ्ङत्याक्रम्य जुह्वामप आनीय संक्षालनमन्तःपरिधि निनयति वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सँ शतधारमेतम्। स नः पितरं पितामहं प्रपितामहँ सुवर्गे लोके गच्छतु पिन्वमानँ स्वधा नम इति
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वा बहिःपरिधि निनयतीमँ समुद्र ँ! शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिँ सीः परमे व्योमन्नित्यत्रैतदौपभृतमाज्यँ सर्वश एव जुह्वाँ समानयतेऽथ यथायतनँ स्रुचौ सादयित्वा प्राशित्रमवद्यति दक्षिणस्य पुरोडाशस्योत्तरार्धाद्यवमात्रमज्यायो यवमात्रादाव्याधात्कृत्यतामिदम्। मा रूरुपाम यज्ञस्य शुद्धँ स्विष्टमिदँ हविरित्यथैनत्स्रुवदण्डेनाभिघार्य जघनेन प्रणीताः सादयित्वाद्भिः स्रुवदण्डँ संस्पर्श्यावदधाति १७ 1.17
अथ कँ सं वा चमसं वेडोपहवनं याचति
तमन्तर्वेदि निधाय तस्मिन्नुपस्तीर्य दक्षिणस्य पुरोडाशस्य दक्षिणार्धात्प्ररुज्यावदधाति मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम्। दक्षिणार्धादसंभिन्दन्नवद्याम्येकतोमुखामिति
द्वितीयमवदानानि संभिद्यावदधात्यथ दक्षिणस्यैव पुरोडाशस्य पूर्वार्धात्त्र्! यङ्गुलं वा चतुरङ्गुलं वाज्येन सुसंतृप्तँ संतर्प्याग्रेण ध्रुवां यजमानभागं निदधाति
द्विर्ध्रुवाज्यादवद्यति द्विरुत्तरस्य पुरोडाशस्य द्विः शृतस्य द्विर्दध्नोऽभिघारयत्यथ होतुर्द्विरङ्गुलावनक्ति
निघ्रेण भक्षयित्वा
चतुरवान्तरेडामवद्यत्युपस्तृणाति
द्विरादहात्यभिघारयति
समन्वारभन्तेऽध्वर्युश्च यजमानश्च ब्रह्मा चाग्नीध्रश्चाथ यत्र होतुरभिजानाति दैव्या अध्वर्यव उपहूता उपहूता मनुष्या इति तद्दक्षिणं पुरोडाशं चतुर्धा कृत्वा बर्हिषदं करोत्यथ यत्र होतुरभिजानात्युपहूतोऽयं यजमान इति तर्हि यजमानो होतारमीक्षमाणो वायुं मनसा ध्यायेदित्युपहूतायामिडायामग्नीध आदधाति षडवत्तम्
उपस्तृणात्यादधात्यभिघारयत्युपस्तृणात्यादधात्यभिघारयति
प्राश्नन्ति
मार्जयन्तेऽथाह ब्रह्मणे प्राशित्रं परिहरेति
परि प्राशित्रँ हरन्त्यन्वपोऽनु वेदेन ब्रह्मभागम्
अथान्वाहार्यं याचत्युद्वासयन्त्येतद्धविरुच्छिष्टम् १८ 1.18
अथ संप्रैषमाह ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीदग्नीन्सकृत्सकृत्संमृड्ढीति
प्रसूतोऽत्रैताँ समिधं मध्यत आहवनीयस्याभ्यादधात्य्
अथैष आग्नीध्रोऽस्फ्यैरेवेध्मसंनहनैः परिधीन्संमार्ष्टि सकृन्मध्यँ सकृद्दक्षिणाध्यँ र्! सकृदुत्तरार्ध्यं सकृदाहवनीयमुपवाजयत्यग्ने वाजजिद्वाजं त्वाग्ने ससृवाँ सं वाजं जिगिवाँ सं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्यायेत्यथैतानीध्मसंनहनान्यद्भिः सँ स्पर्श्याहवनीयेऽनुप्रहरति यो भूतानामधिपती रुद्र स्तन्तिचरो वृषा । पशूनस्माकं मा हिँ सीरेतदस्तु हुतं तव स्वाहेत्यथ जुहूपभृतावादायात्याक्रम्याश्राव्याह देवान्यजेति
वषट्कृते जुहोति यज यजेति
त्रीन्प्रतीचोऽनूयाजान्यजति
प्राचान्ततः संभिनत्त्यथोदङ्ङत्याक्रम्य यथायतनँ स्रुचौ सादयित्वा वाजवतीभ्याँ स्रुचौ व्यूहति वाजस्य मा प्रसवेनोद्ग्राभेणोदग्रभीदिति
दक्षिणेन जुहूमुद्गृह्णात्यथा सपत्निआँ! न्द्रो मे निग्राभेणाधराँ अकरिति सव्येनोपभृतं निगृह्णात्युद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्निति प्राचीं जुहूऊहत्यथा सपत्नानिन्द्रा ग्नी मे विषूचीनान्व्यस्यतामिति प्रतीचीमुपभृतं प्रत्यूहति
प्राच्या परिधीननक्ति वसुभ्यस्त्वेति मध्यमं रुद्रे भ्यस्त्वेति दक्षिणमादित्येभ्यस्त्वेत्युत्तरम्
अथोपभृतमद्भिः सँ स्पर्श्य ययायतनँ स्रुचौ सादयित्वा स्रुक्षु प्रस्तरमनक्त्यक्तँ रिहाणा इति जुह्वामग्राणि वियन्तु वय इत्युपभृति मध्यानि प्रजां योनिं मा निर्मृक्षमिति ध्रुवायां मूलान्यथ प्रस्तरात्तृणं प्रच्छिद्य जुह्वामवदधात्य्
अथाश्रावयत्यो श्रावयास्तु श्रौषडिषिता दैव्याहोतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीति
तमुपरीव प्राञ्चं प्रहरति नात्यग्रं प्रहरति न पुरस्तात्प्रत्यस्यति न प्रतिशृणाति न विष्वञ्चं वियौत्यूर्ध्वमुद्यौत्याप्यायन्तामाप ओषधयो मरुतां पृषतय स्थ दिवं गच्छ ततो नो वृष्टिमेरयेत्यथाग्नीध्रमीक्षतेऽग्नीदिति
तमाहाग्नीध्रः संवदस्वेत्यगानग्नीधेत्याहाध्वर्युरगनित्याहाग्नीध्रः
श्रावयेत्याहाध्वर्युः
श्रौषडित्याहाग्नीध्र इदं ब्रूहीत्याहाध्वर्युरनुप्रहरेत्याहाग्नीध्रोऽनुप्रहरति
स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीत्यथोपोत्थायाहवनीयमुपतिष्ठत आयुष्पा अग्नेऽस्यायुर्मे पाह्य्चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहीत्यथेमामभिमृशति ध्रुवासीति
मध्यमं परिधिमनुप्रहरति यं परिधिं पर्यधत्था अग्ने देव पणिभिर्वीयमाणः । तं त एतमनु जोषं भरामि नेदेष त्वदपचेतयाता इत्यथेतरावुपसमस्यति यज्ञस्य पाथ उप समितमित्यथैनान्सँ स्रावेणाभिजुहोति
जुह्वामुपभृतँ संप्रस्रावयति सँ स्रावभागा स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवा इमां वाचमभि विश्वे गृणन्त आसद्यास्मिन्बर्हिषि मादयध्वँ स्वाहेत्यथ प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य धुरि स्रुचौ विमुञ्चत्यग्नेर्वामपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनी सुम्ने मा धत्तं धुरि धुर्यौ पातमिति
यद्यु वै नानो भवत्युत्कर एवैने स्फ्ये विमुञ्चत्येतेनैव मन्त्रेण १९ 1.19
अथादत्ते दक्षिणेनाज्यस्थालीँ सस्रुवाँ सव्येन जुहूं होत्रे वेदं प्रदाय
प्रदक्षिणमावृत्य प्रत्यञ्चावाद्र वतो दक्षिणेनाध्वर्युर्गार्हपत्यं परिक्रामत्युत्तरेण होता
तौ जघनेन गार्हपत्यं पश्चात्प्राञ्चावुपविशतो दक्षिण एवाध्वर्युरुत्तरो होताथाध्वर्युर्वेदमुपभृतं कृत्वा चतुर आज्यस्य गृह्णान आह सोमायेत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याह सोममित्युपाँ शु यजेत्युच्चैर्वषट्कृते जुहोति
चतुर एवाज्यस्य गृह्णान आह त्वष्ट्र इत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याह त्वष्टारमित्युपाँ शु यजेत्युच्चैर्वषट्कृते जुहोति
चतुर एवाज्यस्य गृह्णान आह देवानां पत्नीभ्य इत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याह देवानां पत्नीरित्युपाँ शु यजेत्युच्चैर्वषट्कृते परिश्रिते देवानां पत्नीर्जुहोत्यथ चतुर एवाज्यस्य गृह्णान आहाग्नये गृहपतय इत्युपाँ श्वनुब्रूहीत्युच्चैराश्राव्याहाग्निं गृहपतिमित्युपाँ शु यजेत्युच्चैर्वषट्कृत उत्तरार्धपूर्वार्धेऽतिहाय पूर्वा आहुतीर्जुहोत्यथाग्रेण होतारमुपातीत्य होतुर्द्विरङ्गुलावनक्ति
निघ्रेण भक्षयित्वा
चतुर्हस्तेडाँ संपादयत्याज्यस्यैव
समन्वारभेते अध्वर्युश्चैव पत्नी चोपहूतायामिडायामग्नीध आदधाति षडवत्तम्प्राश्नीतो मार्जयेते
अथ स्रुचि चतुर्गृहीतं गृहीत्वापसलैः पर्यावृत्यान्वाहार्यपचने प्रायश्चित्तं जुहोत्युलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि कृष्णाजिने यत्कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम्। यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सहुता जुहोमि स्वाहेत्य्
अपरं चतुर्गृहीतं गृहीत्वान्वाहार्यपचन एवेध्मप्रव्रश्चनान्यभ्याधाय फलीकरणानोप्य फलीकरणहोमं जुहोत्यग्नेऽदब्धायोऽशीततनो पाहि माद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितादविषं नः पितुं कृणु सुषदा योनिँ स्वाहेत्यथैतेनैव यथेतमेत्य वेदे यजमानं वाचयति वेदोऽसि वित्तिरसीत्यान्तादनुवाकस्य्क्त होत्रे वेदं प्रदाय पत्नीं विष्यतीमं विष्यामि वरुणस्य पाशं यमबध्नीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके स्योनं मे सह पत्या करोमीत्यथास्यै योक्त्रमञ्जलावाधायोदपात्रमानयति समायुषा सं प्रजया समग्ने वर्चसा पुनः । सं पत्नी पत्याहं गच्छे समात्मा तनुवा ममेत्यथ मुखं विमृष्टे यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्धि सरस्वतीत्यपो निनयत्यवभृथस्यैव रूपं कृत्वोत्तिष्ठतीति ब्राह्मणम् २० 1.20
अथैनां तथैव तिरः पवित्रमप आचामयति पयस्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन मामिन्द्र सँ सृजेत्य्
अथैनां गार्हपत्ये समिध आधापयत्यग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहा वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेत्यथ यथाप्रपन्नं निष्क्रामयत्यथ प्राङेत्य ध्रुवामाप्याययत्याप्यायतां ध्रुवा घृतेन यज्ञंयज्ञं प्रति देवयद्भ्यः । सूर्याया ऊधोऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन्नित्यथाज्यस्थाल्याः स्रुवेणोपघातं प्रायश्चित्तानि जुहोत्याश्रावितमत्याश्रावितम्वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन्। स्वाहाकृताहुतिरेतु देवान्त्स्वाहेत्यथ यज्ञसमृद्धीर्जुहोतीष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा दौरार्द्ध्यै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहा ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा सर्वसमृद्ध्यै स्वाहा भूः स्वाहा भुवः स्वाहा सुवः स्वाहा भूर्भुवः सुवः स्वाहेमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्यया सन्मनसा हितः । अया सन्हव्यमूहिषे अया नो धेहि भेषजँ स्वाहायाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हवमूहिषेऽया नो धेहि भेषजँ स्वाहा यदस्मिन्कर्मण्यन्तरगाम मन्त्रतः कर्मतो वा । अनयाहुत्या तच्छमयामि सर्वं तृप्यन्तु देवा आवृषन्तां घृतेन स्वाहा यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम्। अग्निष्टत्स्विष्टकृद्विद्वान्सवँ र्! स्विष्टँ सुहुतम्करोतु मे । अग्नये स्विष्टकृते सुहुतहुत आहुतीनां कामानाँ समर्धयित्रे स्वाहा । प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयँ स्याम पतयो रयीणाँ स्वाहेत्य्
अथ बर्हिषो धातूनाँ संप्रलुप्य ध्रुवायाँ समनक्ति समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रे ण विश्वेभिर्देवेभिरङ्क्तामित्यथैनदाहवनीयेऽनुप्रहरति दिव्यं नभो गच्छतु यत्स्वाहेत्यथोपोत्थाय दक्षिणेन पदा वेदिमवक्रम्य ध्रुवया समिष्टयजुर्जुहोति देवा गातुविदो गातुं वित्त्वा गातुमित मनसस्पत इमं नो देव देवेषु यज्ञँ स्वाहा वाचि स्वाहा वाते धाः स्वाहेत्युदूहति स्रुचं निनयति प्रणीता उपोत्थाय यजमानो दक्षिणेन पदा विष्णुक्रमान्क्रमते
संतिष्ठत आमावास्यं वा पौर्णमास्यं वा हविः २१ 1.21