बौधायनश्रौतसूत्रम्/प्रश्नः १५
15.1
अश्वमेधेन यक्ष्यमाणो भवति राजा विजिती सार्वभौमः
स एतद्देवयजनं जोषयत आश्विनं प्रागाश्विनं दक्षिणाश्विनं प्रत्यगाश्विनमुदक्
छिन्दन्ति वृक्षान्प्र स्थलानि भिन्दन्ति प्रति निम्नान्पूरयन्ति किँ शारूणि निरस्यन्ति
नदीनां तीर्थानि सर्वतःप्रस्रवणानि पल्वलानि कुर्वन्त्यथैतौ ह्रदौ मध्यतो देवयजनस्य जोषयते सँ स्राविणावनुपदासिनौ पुण्यनामानौ यद्येवं विन्दन्ति
यद्यु वा एवं न विन्दन्ति खात्वैनावभिवाह्याभिर्वाभिहार्याभिर्वाद्भिः पूरयन्ति
यथा त्वेव सँ स्राविणावनुपदासिनौ पुण्यनामानौ भवतस्तथा
तावपरेण मध्यतो देवयजनं जोषयते द्विस्तावद्यथाग्नेर्विधायां तच्छालां कुर्वन्ति प्राचीनवँ शां दिक्ष्वतीकाशां दक्षिणतो वर्षीयसीं तस्यै दक्षिणतोऽश्वशालां कुर्वन्ति
तदश्वत्थानाँ श्लीषाणामवाचीनाग्राणामश्वव्रजं कुर्वन्त्यथास्यैते संभारा उपकॢप्ता भवन्त्यश्वो रूपीयो योऽस्य सदश्वानाँ सत्तमस्तस्यान्येऽपरिमिता निरमणा निरष्टाः कृष्णश्च चतुरक्षो द्वौ दासावनुजायै च पुत्रोऽन्वाधेयायै च जरत्पूर्वा चैषीकश्चाभ्यूहः सैध्रकं च मुसलं पौँ श्चलेयश्च चत्वारि शतानि गोप्तृणाँ शतं तल्प्यानाँ राजपुत्राणाँ शतमराज्ञामुग्राणाँ शतँ सूतग्रामणीनाँ शतं क्षत्तसंग्रहीतृणां चत्वारो महान्त ऋत्विजस्
तानन्वितरे
तान्कालेऽपदातीन्समावहन्ति १
15.2
आ सुब्रह्मण्यायाश्चतुष्टयीरापो दिग्भ्यः संभृताश्चतुरः साहस्रान्निष्कान्सुवर्णरजतौ च रुक्मौ द्वे अन्ये हिरण्ये द्वौ वीणागाथिनौ ब्राह्मणं च राजन्यं च द्वे रशने मौञ्जीं च कुशमयीं चोभे त्रयोदशारत्न्यवेतेनोपकॢप्तेन चित्रामायतीमुपरमत्यथ चित्रयेत्यरण्योरग्नीन्समारोह्य शालामभिप्रैति ये ते पन्थानः सवितः पूर्व्यासोऽरेणवो वितता अन्तरिक्षे । तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च देव ब्रूहीत्युत्तरेण शालां परीत्य पूर्वया द्वारा शालां प्रपाद्य गार्हपत्यस्यायतने मथित्वाग्नीन्विहृत्य गार्हपत्यमुपतिष्ठते नमोऽग्नये पृथिविक्षिते लोकस्पृते लोकमस्मै यजमानाय देहीति
नमो वायवेऽन्तरिक्षक्षिते लोकस्पृते लोकमस्मै यजमानाय देहीत्यन्वाहार्यपचनं
नमः सूर्याय दिविक्षिते लोकस्पृते लोकमस्मै यजमानाय देहीत्याहवनीयम्
अथास्यैतत्पुरस्तादेव जघनेनाश्वशालामेकापस्रावं विमितं कारितं भवति
तद्वृथाग्निमुपसमाधाय मृत्यवे स्वाहा मृत्यवे स्वाहेति नवतिमाहुतीर्जुहोति प्रयासाय स्वाहेत्येकादश
शतायुर्वै पुरुषः शतवीर्य आत्मैकशतो यावानेव पुरुषस्तस्मान्मृत्युमवयजत इति ब्राह्मणम्
अथ केशश्मश्रु वापयित्वा लोमानि सँ हृत्य नखानि निकृत्य दतो धाव्य स्नातावहते वाससी परिदधाते
उभौ मानुषेणालङ्कारेणालङ्कृतौ भवतोऽहतवाससवथाभ्यां व्रतोपायनीयं पाचयति
तस्याशितौ भवतः सर्पिर्मिश्रस्य पयोमिश्रस्याथापराह्णे मुखयोर्हिरण्ये अन्वस्येते २
15.3
सुवर्णं यजमानो रजतं पत्नी रजतानि वा यदि बह्व्यो भवन्त्यथास्य वाचंयमस्य सायमग्निहोत्रं जुहोत्युपसंगच्छन्त एनमेते राजगृहाः सूतग्राम्ण्यः क्षत्तसंग्रहीतारः कारुविशा इति
तेभ्यः पष्ठौहीं वेहतं ददाति
तां ते पचमाना रमयन्तो जागरयन्त आसतेऽथ प्रातराचाममाचामन्तौ हिरण्ये प्रोथतस्
ते पौँ श्चलेय आदत्तेऽथादित्यमुद्यन्तमुपतिष्ठन्ते द्र ष्ट्रे नम उपद्र ष्ट्रे नमोऽनुद्र ष्ट्रे नमः ख्यात्रे नम उपख्यात्रे नमोऽनुख्यात्रे नमः शृण्वते नम उपशृण्वते नमोऽनुशृण्वते नमः सते नमोऽसते नमो जाताय नमो जनिष्यमाणाय नमो भूताय नमो भविष्यते नम इत्य्
अथ वैश्वदेवीँ सांग्रहणीं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठते
यावदेवात्राध्वर्युश्चेष्टति तावदेष प्रतिप्रस्थाता चतुष्टयीष्वप्सु ब्रह्मौदनँ श्रपयित्वाभिघार्योदञ्चमुद्वासयत्यथैतां पात्रीं निर्णिज्योपस्तीर्य तस्यामेतँ रजतँ रुक्मं प्रक्षालितमवदधाति
तस्यामेनमसंघ्नन्निवोद्धरति सर्पिरासेचनं कृत्वा प्रभूतमाज्यमानीयाथोपरिष्टात्सुवणँ र्! रुक्मं प्रक्षालितमवदधात्यथैतान्महत ऋत्विज उत्तरतोऽनुदिशमुपवेश्य ताननुपूर्वमाचमय्य तेभ्य एनं भूमिँ स्पृशन्ननुच्छिन्दन्निवोपोहति ३
15.4
स आह ब्राह्मणाश्च राजानश्चानेन माश्वेन मेध्येन स्वस्ति समापयाता ब्रह्मज्यताया इति
तं तथेतीतरे प्रत्याहुरनेन त्वामश्वेन मेध्येन स्वस्ति समापयिष्यामो ब्रह्मज्यताया इत्यथ ब्रह्मज्यतामस्मै संजानतेऽथैनान्सँ शास्ति सकृत्सकृत्प्राश्याप्रत्यवमृशन्तो धारयाध्वा इत्यथैतस्मिन्सर्पिरासेचने रशने संतर्प्य परिकर्मिणे प्रयच्छति
द्विरपरं प्राश्य प्रशँ सन्ति राद्धस्ते ब्रह्मौदन इति
तेभ्यश्चतुरः साहस्रान्निष्कान्ददाति सुवर्णरजतौ च रुक्मवत्र ये क्षत्रस्याभिषेक्तारस्तेऽध्वर्युमभिषिञ्चन्ति
स आह ब्राह्मणाश्च राजानश्चाध्वर्युरेतौ द्वौ संवत्सरौ राजा भविष्यति तस्य शुश्रूषध्वं यो हास्य न शुश्रूषिष्यते सर्वस्वं तं ज्यास्यन्तीत्यथाध्वर्युरेतौ द्वौ संवत्सरौ राजा भवति
यजमान इतीतरमाचक्षते
स आह ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति
बधानेतीतरः प्रत्याह देवेभ्यः प्रजापतये तेन राध्नुहीति ४
15.5
अथ रशनामादत्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद इत्यादायाभिमन्त्रयत इमामगृभ्णन्रशनामृतस्येति
तयाश्वमभिदधात्यभिधा असि भुवनमसि यन्तासि धर्तासि सोऽग्निं वैश्वानरँ सप्रथसं गच्छ स्वाहाकृतः पृथिव्यां यन्ता राड्यन्तासि यमनो धर्तासि धरुण इत्येवमेव द्वितीयाँ रशनामादत्ते
तयैवमेवाश्वमभिदधाति
ते अश्वस्यानुपृष्ठमनुपृणक्त्येतस्मिन्कालेऽनुजायै च पुत्रोऽन्वाधेयायै च श्वबन्धाभ्याँ श्वानमभिधत्तोऽथैष पौँ श्चलेयो जरत्पूर्वया सव्यं जानु वेष्टयित्वा सैध्रकेण मुसलेन श्वानमनूपतिष्ठतेऽथाध्वर्युः पुरस्तात्प्रतिपद्यते सह शतेन तल्प्यानाँ राजपुत्राणाम्ब्रह्मा दक्षिणतः सह शतेनाराज्ञामुग्राणां होता पश्चात्सह शतेन सूतग्रामणीनाम्
उद्गातोत्तरतः सह शतेन क्षत्तसंग्रहीतृणाम्मध्येऽश्वः श्वा चाथ दक्षिणँ ह्रदमभिप्रयान्ति
द्यौस्ते पृष्ठं क्रमैरत्यक्रमीद्वाज्याक्रान्वाजीति त्रिभिरनुवाकैरा क्रोडादश्वमभिधावयन्ति
तमध्वर्युः पुरस्तात्प्रत्यङ्मुखस्तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायँ राजा वृत्रं वध्यादिति
तस्यानु प्रोक्षणँ शतं तल्प्या राजपुत्राः प्रोक्षन्ति
ब्रह्मा दक्षिणत उदङ्मुखस्तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायँ राजाप्रतिधृष्योऽस्त्विति
तस्यानु प्रोक्षणँ शतमराजान उग्राः प्रोक्षन्ति
होता पश्चात्प्राङ्मुखस्तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायँ राजास्यै विशो बहुग्वै बह्वश्वायै बह्वजाविकायै बहुव्रीहियवायै बहुमाषतिलायै बहुहिरण्यायै बहुहस्तिकायै बहुदासपुरुषायै रयिमत्यै पुष्टिमत्यै बहुरायस्पोषायै बहुसर्वधनायै राजास्त्विति
तस्यानु प्रोक्षणँ शतँ सूतग्रामण्यः प्रोक्षन्त्युद्गातोत्तरतो दक्षिणामुखस्तिष्ठन्प्रोक्षत्यनेनाश्वेन मेध्येनेष्ट्वायँ राजा सर्वमायुरेत्विति
तस्यानु प्रोक्षणँ शतं क्षत्तसंग्रहीतारः प्रोक्षन्ति
दिग्भ्योऽश्वँ समुक्षन्तीति ब्राह्मणम्
अथास्यैष पौँ श्चलेयः सँ शिष्टोः भवति यदा त्वोपमी वाम्यथ शुनः प्रहरासीत्य्
उपमीवत एष पौँ श्चलेयः सैध्रकेण मुसलेन शुनः प्रहन्ति
तमत एवानुमन्त्रयते ५
15.6
यो अर्वन्तं जिघाँ सति तमभ्यमीति वरुण इति
तमश्वस्याधस्पदमुपास्य दक्षिणापप्लावयति परो मर्तः परः श्वेत्यथास्य ब्रह्मा हस्तं गृह्णाति ब्रह्मणो वा यजमानोऽहं च त्वं च वृत्रहन्त्संबभूव सनिभ्य आ । अरातीवा चिदद्रि वोऽनु नौ शूर मँ सतै भद्रा इन्द्र स्य रातय इत्यत्रैतमैषीकमभ्यूहं मौञ्जीभ्याँ रज्जुभ्यामन्तयोरभिदधाति
तत्सह वेतसशाखोपसंबद्धा भवति
तदेतेन शतं तल्प्या राजपुत्रा विविच्यन्ते
तेषामनु विवेकमितरे
द्वे अन्यतरमन्तँ शते गृह्णीतो द्वे अन्यतरमन्तँ शते
अथैनान्सँ शास्त्यनेनैषीकेणाभ्यूहेनाभ्युदूहन्त इव पुरस्तात्प्रत्यञ्चमूर्मिणाश्वमभिधावयाता इत्यभिधाव्यमानेऽध्वर्युर्यजमानं वाचयत्यभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानँ रजाँ सि । स्वेना हि वृत्रँ शवसा जघन्थ न शत्रुरन्तं विविदद्युधा त इत्यथैनँ संवेष्ट्य दक्षिणापप्लावयत्यथैतमश्वं प्रदक्षिणमावर्त्य शालामानयति यद्वातो अपो अगमदिन्द्र स्य तनुवं प्रियाम्। एतँ स्तोतरेतेन पथा पुनरश्वमावर्तयासि न इति
तमध्वर्युः पूर्वाभि स्तोकीयाभिरन्वैत्यग्नये स्वाहा सोमाय स्वाहेत्येतेनानुवाकेन पुनःपुनरभ्युपाकारं यावदस्य स्तोका उपरमन्त्यथैतमश्वमग्रेण शालां प्राञ्चँ स्थापयित्वा प्रपद्याश्वस्य सावित्राणि जुहोत्यग्नये स्वाहा वायवे स्वाहेति सप्ताथ सावित्रमष्टाकपालं प्रातर्निर्वपत्यासाद्य पुरस्ताद्भागञ्जुहोत्यग्नये स्वाहा स्वाहेन्द्रा ग्निभ्यामिति पञ्च
पुरस्तात्स्विष्टकृतस्त्र्! योऽशीतिमश्वचरितान्युपजुहोतींकाराय स्वाहेंकृताय स्वाहेत्यसमुदिते त्रयोदश प्रद्रा वाञ्जुहोत्यायनाय स्वाहा प्रायणाय स्वाहेति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथैतमश्वं प्रदक्षिणमावर्त्य पूर्वया द्वारा शालाम्प्रपाद्यान्तर्वेदि प्राञ्चँ स्थापयित्वाह ६
15.7
यद्वा इदमाहुः पदेपदे ह वा अश्वस्य मेध्यस्याध्वर्युर्जुहोतीहैव वयं तद्धोष्यामो यथा नः पदेपदे हुतं भविष्यतीति
तस्य पत्सु धृतीर्जुहोत्यक्ष्णया वा पर्यारिणीर्वेह धृतिः स्वाहेह विधृतिः स्वाहेह रत्निः स्वाहेह रमतिः स्वाहेत्यथैनं प्राञ्चमुत्क्रामय्य प्रोक्षति प्रजापतये त्वेति पुरस्तादिन्द्रा ग्निभ्यां त्वेति दक्षिणतो वायवे त्वेति पश्चाद्विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतो देवेभ्यस्त्वेत्यधस्तात्सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टादथैनमतिप्रोक्षेण प्रोक्षति कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वा सते त्वासते त्वाद्भ्यस्त्वौषधीभ्यस्त्वा विश्वेभ्यस्त्वा भूतेभ्य इत्य्
अथास्य रूपाणि जुहोत्यञ्ज्येताय स्वाहाञ्जिसक्थाय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्येताभ्यामनुवाकाभ्याम्
अथास्योपोत्थायाश्वनामभिर्दक्षिणं कर्णमाजपति विभूर्मात्रा प्रभूः पित्राश्वोऽसि हयोऽस्यत्योऽसि नरोऽस्यर्वासि सप्तिरसि वाज्यसि वृषासि नृमणा असि ययुर्नामासीत्यथैनमुपतिष्ठत आदित्यानां पत्वान्विहीत्यथैनँ रशनाभ्यामुत्सृजति भूरसि भुवे त्वा भव्याय त्वा भविष्यते त्वा विश्वेभ्यस्त्वा भूतेभ्य इत्यथैनं देवताभ्यः परिददाति देवा आशापाला एतं देवेभ्योऽश्वं मेधाय प्रोक्षितं गोपायतेत्यत्रास्मा एतानपरिमितान्निरमणान्निरष्टानुपावसृजन्त्यत्रैनमेतानि चत्वारि शतानि गोप्तृणामनुयुञ्जते प्रास्तकवचा विततवरूथा यथा युद्धाय तथा
तेभ्यः पक्वाशनं प्रसौति ७
15.8
स आह ब्राह्मणाश्च राजानश्च यस्येमे पक्वाशनमुपावहरिष्यन्ते मयाप्रसूता मोपवादिष्टेति
स आह ब्राह्मणाश्च राजानश्च बहिर्देवयजनाद्वाहनं व्युदचध्वं यस्यायं वडबाधिः सँ सृज्यते सर्वस्वं तं ज्यास्यन्तीति
ते बहिर्देवयजनाद्वाहनं व्युदचन्तेऽश्वैश्चैव साण्डैश्चरन्त्यश्वतरैश्च
न वडबाभिर्नाश्वतरीभिर्
अथैतौ वीणागाथिनावतिप्रगृह्णीतोऽथैष ब्राह्मणो वीणागाथी गायतीत्यददा इत्ययजथा इत्यपचथा इत्येवं मिश्रास्तिस्रो गाथाः कामचारोऽश्वस्य
स्नानाच्चैवैनं गोपायन्ति वाहनाच्चाथ यद्यश्वमुपतपद्विन्दत्याग्नेयोऽष्टाकपालः सौम्यश्चरुः सावित्रोऽष्टाकपालः पौष्णश्चरू रौद्र श्चरुरित्यथ यदि नावगच्छत्यग्नये वैश्वानराय द्वादशकपालो मृगाखर इत्यथ यदि वडबाधिः सँ सृज्यतेऽग्नयेऽँ! होमुचेऽष्टाकपालः सौर्यं पयो वायव्य आज्यभागो यद्यभिवाति रौद्रो यदि स्रावः पौष्णो यद्यप्सु वारुणो यदि काणः सौर्य एतासामार्तीनां यां कां च न्येति
सकृत्त्वेव प्रायश्चित्तिरथ योऽस्य सदश्वानाँ सत्तमस्तमुत्सृजत्यथातो रशनाभ्यामेव प्रतिपद्यते
समानं कर्मा परिदानात् ८
15.9
उत्सृज्याश्वं वैश्वदेवान्पशूनालभन्ते
तेषां पशुपुरोडाशाननुवर्तन्ते वैश्वदेवहवीँ षि
वैश्वदेवहवीँ षि वैवैषां पशुपुरोडाशा भवन्ति
ताननुवर्तते मध्यमा सावित्री
प्रसिद्धाः पशवः संतिष्ठन्तेऽथापराह्णे सवित्र आसवित्रे पुरोडाशं द्वादशकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निवर्तयतेऽथैतौ वीणागाथिनावतिप्रगृह्णीतोऽथैष राजन्यो वीणागाथी गायतीत्यजिना इत्ययुध्यथा इत्यमुँ संग्राममहन्नित्येवं मिश्रास्तिस्रो गाथाः
प्रातरग्निहोत्रे हुते ब्राह्मणो वीणागाथी गायति सायमग्निहोत्रे हुते राजन्यस्
तावेवमेव संवत्सरं गायतोऽथ सावित्रमष्टाकपालं प्रातर्निर्वपत्यासाद्य पुरस्ताद्भागाञ्जुहोत्यसमुदिते धृतीश्च जुहोति प्रद्रा वाँ श्च जुहोति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ मध्यंदिने सवित्रे प्रसवित्रे पुरोडाशमेकादशकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथापराह्णे सवित्र आसवित्रे द्वादशकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ श्वो भूते सावित्रीभिरेव प्रतिपद्यते
स एवमेव सावित्रीभिरहरहर्यजमानश्चतुरो मास एति काममिष्ट्या कामं पशुबन्धेन कामं यवाग्रयणेनाथ चतुर्षु मासेषु पर्यवेतेषु सावित्र्! येष्ट्येष्ट्वा वरुणप्रघासान्पशूनालभन्ते ९
15.10
तेषां पशुपुरोडाशाननुवर्तन्ते वरुणप्रघासहवीँ षि
वरुणप्रघासहवीँ षि वैवैषां पशुपुरोडाशा भवन्ति
ताननुवर्तते मध्यमा सावित्री
प्रसिद्धाः पशवः संतिष्ठन्तेऽथापराह्णे सवित्र आसवित्रे पुरोडाशं द्वादशकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निवर्तयतेऽथ श्वो भूते सावित्रीभिरेव प्रतिपद्यते
स एवमेव सावित्रीभिरहरहर्यजमानोऽपराँ श्चतुरो मास एति काममिष्ट्या कामं पशुबन्धेन कामँ श्यामाकाग्रयणेनाथ चतुर्षु मासेषु पर्यवेतेषु पौर्णमास्या उपवसथ आनीकवतं पशुमालभते
तस्य पशुपुरोडाशमनुवर्तत आनीकवतँ हविरानीकवतो वैवास्य पशुपुरोडाशो भवति
तमनुवर्तते प्रथमा सावित्री
प्रसिद्धः पशुः संतिष्ठतेऽथ मध्यंदिने संतपनं पशुमालभते
तस्य पशुपुरोडाशमनुवर्तते संतपनँ हविः
संतपनो वैवास्य पशुपुरोडाशो भवति
तमनुवर्तते मध्यमा सावित्री
प्रसिद्धः पशुः संतिष्ठतेऽथापराह्णे सवित्र आसवित्रे पुरोडाशं द्वादशकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ सायं गृहमेधीयेन चरत्यथापररात्रे पूर्णदर्व्येण चरत्यथ प्रातः क्रैडिनं हविः
क्रैडिनो वैवास्य पशुपुरोडाशो भवति
तमनुवर्तते प्रथमा सावित्री
प्रसिद्धः पशुः संतिष्ठतेऽथ मध्यंदिने साकमेधान्पशूनालभन्ते १०
15.11
तेषां पशुपुरोडाशाननुवर्तन्ते महाहवीँ षि
महाहवीँ षि वैवैषां पशुपुरोडाशा भवन्ति
ताननुवर्तते मध्यमा सावित्री
प्रसिद्धाः पशवः संतिष्ठन्तेऽथापराह्णे पितृयज्ञेन चरति
पितृयज्ञेन चरित्वा त्रैयम्बकैश्चरति
त्रैयम्बकैश्चरित्वादित्यं पशुमालभते
तस्य पशुपुरोडाशमनुवर्तत आदित्यँ हविरादित्यो वैवास्य पशुपुरोडाशो भवति
तमनुवर्तत उत्तमा सावित्री
प्रसिद्धः पशुः संतिष्ठतेऽथ पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निवर्तयतेऽथ श्वो भूते सावित्रीभिरेव प्रतिपद्यते
स एवमेव सावित्रीभिरहरहर्यजमानोऽर्धचतुर्थान्मास एति काममिष्ट्या कामं पशुबन्धेन कामं व्रीह्याग्रयणेनाथामावास्याया उपवसथीयेऽहन्सावित्र्! येष्ट्येष्ट्वाग्निकानि सावित्राणि हुत्वोखाः संभृत्य पशुशीर्षाणि च वायव्यं पशुमालभते
तस्य प्राजापत्यस्तूपर उपालम्भ्यो भवति
तयोः प्रसिद्धं वपाभ्यां चरित्वा पशुपुरोडाशौ निर्वपति
तावनुवर्तते मध्यमा सावित्री
प्रसिद्धौ पशू संतिष्ठेते
अथापराह्णे सवित्र आसवित्रे पुरोडाशं द्वादशकपालं निर्वपति
सा प्रसिद्धेष्टिः संतिष्ठतेऽथ श्वो भूते सावित्रीभिरेव प्रतिपद्यते
स एवमेव सावित्रीभिरहरहर्यजमान एतमर्धमासमेति काममिष्ट्या कामं पशुबन्धेनाथ चतुर्षु मासेषु पर्यवेतेषु सावित्र्! येष्ट्येष्ट्वा ११
15.12
शुनासीरीयान्पशूनालभन्ते
तेषां पशुपुरोडाशाननुवर्तन्ते शुनासीरीयहवीँ षि
शुनासीरीयहवीँ षि वैवैषां पशुपुरोडाशा भवन्ति
ताननुवर्तते मध्यमा सावित्री
प्रसिद्धाः पशवः संतिष्ठन्तेऽथापराह्णे सवित्र आसवित्रे पुरोडाशं द्वादशकपालं निर्वपति
सा प्र्सिद्धेष्टिः संतिष्ठतेऽथ पौर्णमासवैमृधाभ्यामिष्ट्वा यजमानायतन उपविश्य त्रेण्या शलल्या लोहितायसस्य च क्षुरेण शीर्षन्नि च वर्तयते परि च वपते पुरस्तादेवाग्रेऽथ दक्षिणतोऽथ पश्चादथोत्तरतोऽथोपरिष्टात्
संतिष्ठन्ते चातुर्मास्याः पशवः संतिष्ठन्ते सावित्र्! यः १२
15.13
अथाश्वशालायामश्वं निग्रथ्नन्त्यथैनं तीर्थादानीय पवयित्वा त्रिहविषमग्निदीक्षणीयामिष्टिं निर्वपति
तस्यै तावन्त्युत्सीदन्ति यावन्ति दीक्षणीयाया अथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य पत्नीः संयाज्य प्राङेत्य्ध्रुवामाप्याय्य त्रीणि पूर्वाणि वैश्वदेवानि जुहोति स्वाहाधिमाधीताय स्वाहेत्यथ सप्त प्राणाहुतीर्जुहोति प्राणाय स्वाहा व्यानाय स्वाहेत्येकविँ शिनीं दीक्षां जुहोति पृथिव्यै स्वाहान्तरिक्षाय स्वाहेति
पञ्चाध्वरदीक्षाहुतीर्जुहोति षडग्निदीक्षा एकामृतुदीक्षां भुवो देवानां कर्मणेति
सप्ताहान्येतयेष्ट्या यजत इति
स त्रीणित्रीण्येव पूर्वाणि वैश्वदेवानि जुहोत्युत्तरामुत्तरामृतुदीक्षां द्वे अन्तत ऋतुदीक्षे जुहोति महीमू षु सुत्रामाणमित्येतदेवाहर्दीक्षते
संवत्सरमुख्यं बिभर्ति
द्वादशोपसदोऽत्रैनमेता यथाम्नातं विशः पर्यवस्यन्ति
नेदीय एनमेते कर्मकृत उपसंगच्छन्ते तक्षाणश्च रथकृतश्च मयस्कृतश्च कुलालाश्च द्वयाः कर्मारा नखकृतः सप्तमेऽथैताँ स्तक्ष्णः सँ शास्ति १३
15.14
एकशतं बैल्वानि दार्वाचितानि छिन्दत तानि प्रवकलानि कृत्वाचाय चिनुतैकविँ शतिं यूपाञ्छिन्दतैकविँ शत्यरत्नीन्राज्जुदालमग्निष्ठं पौतुद्र वावुपस्थावानौ षड्बैल्वान्षट्खादिरान्षट्पालाशान्पालाशमुपशयं पालाशं पात्नीवतं पालाशं विशालयूपमेकतयानि दारुमयाणि पात्राणि कुरुत षट्त्रिँ शतँ स्रुवान्दीर्घदण्डान्षट्त्रिँ शतमनुवेषान्दीर्घदण्डाँ श्चत्वारि वाष्टौ वेन्द्रा णसानि चतुश्चक्राणि बृहच्चक्राणि यथा समानि यूपाग्रैः स्युरपरिमितान्यारोहणमहानसानि कुरुतैकं वैतसं कटं कुरुताश्वस्योपस्तरणायेत्यथेतान्रथकृतः सँ शास्ति स्वरथं कुरुतापरिमितान्रथान्कुरुतेत्य्
अथैतान्मयस्कृतः सँ शास्त्यपरिमितं चर्मण्यं कुरुतेत्यथैनान्कुलालान्सँ शास्ति यथैकविँ शतिविधायाग्नय एवमिष्टकाः कुरुत तिस्रो महतीः कुम्भीः कुरुत यथाश्वं तूपरं गोमृगमित्येतान्साङ्गाञ्छ्रपयेयुरपरिमिता स्थालीः कुरुतेति १४
15.15
अथैतान्कालायसकृतः सँ शास्ति सायकं कुरुत सित्तिमंकल्पोदकं कृष्णं कृष्णत्सरुँ सुवणँ र्! सुवर्णत्सरुं चतुरः कालायसान्लोहायसत्सरूँ श्चतुरो लोहायसान्कालायसत्सरून्षट्त्रिँ शतँ सुवर्णान्रजतत्सरून्षट्त्रिँ शतँ रजतान्सुवर्णत्सरूँ स्त्रीणि च शतानि त्रयस्त्रिँ श्तं च सौवर्णानाँ सूचीनां त्रीणि च शतानि त्रयस्त्रिँ शतं च राजतानां त्रीणि च शतानि त्रयस्त्रिँ शतं च सीसानामेकं कालायसस्य कमण्डलुं कुरुताश्वतेजन्यै श्रपणायेत्यथैतान्सुवर्णकृतः सँ शास्ति परःशतँ शतपलान्निष्कान्कुरुत सुवर्णरजते महिम्नोः पात्रे कुरुतैकतयानि सौवर्णानि पात्राणि कुरुत यावत्यः पत्नयस्तावतः सौवर्णानुपशयान्कुरुत रजतग्रन्थीन्राजतान्वा सुवर्णग्रन्थीन्यावत्यः पत्नयस्तावन्ति सौवर्णानि कुम्बकुरीराणि कुरुत रजतशङ्कूनि राजतानि वा सुवर्णशङ्कूनि यावत्यः पत्नयस्तावतः सौवर्णान्कमण्डलून्कुरुत रजतरास्नान्राजतान्वा सुवर्णरास्नानेकँ सौवर्णं विधवनं कुरुत त्रीणि सौवर्णानि धवित्राणि कुरुत रजतदाण्डानि राजतानि वा सुवर्णदण्डानि सहस्रँ सौवर्णान्काचान्कुरुत सहस्रँ राजतान्सहस्रँ सामुद्रा न्हिरण्मयं कशिपु हिरण्मयं षड्बीशँ हिरण्मयँ संदानमिति १५
15.16
अथैतान्नखकृतः सँ शास्त्यपरिमितान्यष्टमानि कुरुतेत्यथास्यैतान्यन्यान्युपकॢप्तानि भवन्ति शतं घृतचर्माणि शतं मधुचर्माणि शतं तण्डुलचर्माणि शतं पृथुकचर्माणि शतं लाजाचर्माणि शतं करम्भचर्माणि शतं धानाचर्माणि शतँ सक्तुचर्माणि शतं मसूस्यचर्माणि शतं प्रियङ्गुतण्डुलचर्माणीत्यथास्यैत एकविँ शतिः प्रतिप्रस्थातारः सँ शिल्ष्टा भवन्त्यात्मना द्वाविँ शस्
तेजनपदेभ्यः पशून्समचन्ति तथारूपान्यथारूपाँ स्ते विदुर्
ग्रामेषु ग्राम्यान्रक्षन्त्यरण्य आरण्यान्गिरिषु गैरेयान्नदीषु नादेयान्पञ्जरेषु वयाँ सि कुम्भीषु सरीसृपानिति १६
15.17
प्रसिद्धः संनिवापोऽथ प्रायणीयेन चरति
प्रायणीयेन चरित्वा पदेन चरति
पदेन चरित्वार्षभे चर्मन्सहस्रेण राजानं क्रीत्वोह्यातिथ्यं निर्वपत्य्
आतिथ्येन प्रचर्याथान्वहं प्रवर्ग्योपसद्भ्यां प्रचरति
द्वादशाह एवैष एकविँ शतिविधोऽग्निर्निष्ठीयते
तस्यैकविँ शतिच्छदिः सदो भवत्यथाहवनीयं प्रणयत्याहवनीयं प्रणीय सदोहविर्धाने संमिनोति
सदोहविर्धाने संमित्याग्नीषोमौ प्रणयत्यग्नीषोमौ प्रणीय यूपस्यावृता यूपमुच्छ्रयति
स्वर्वन्तँ राज्जुदालमग्निष्ठमुत्सृज्याग्नीषोमीयं पशुमुपाकरोति
तस्य प्रसिद्धं वपया चरित्वा वसतीवरीर्गृह्णात्यथ पशुपुरोडाशं निर्वपति
तमनुवर्तन्तेऽष्टौ देवसुवाँ हवीँ ष्यग्नये गृहपतय इत्येतान्यग्नये गायत्रायेत्येषा च दशहविरिष्टिस्
तस्या एता याज्यापुरोऽनुवाक्या भवन्ति समिद्दिशामाशया नः सुवर्विदितीडान्ताः पशुपुरोडाशाः संतिष्ठन्ते
पत्नीसंयाजान्तः पशुर्हृदयशूलान्त इत्येकेऽथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्त्यथातो महारात्र एव बुध्यन्ते
समानं कर्मा परिधीनां परिधानात्
परिधिष्वनुवर्तयति कस्त्वा युनक्ति स त्वा युनक्त्विति षण्मध्यमे षड्दक्षिणार्ध्ये पञ्चोत्तरार्ध्येऽथ राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यद्भिरुदैत्यग्निष्टोमं क्रतुमुपैति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्मा पवमानात्
पवमानँ स्रप्स्यन्याचति बर्हिश्च शतपलं चाथाहोद्गातर्बर्हिश्च ते शतपलं चाश्वो म उद्गायत्विति
तेऽश्वस्य वालधिँ समन्वारभन्तेऽग्निस्ते वाजिन्युङ्ङनु त्वारभे स्वस्ति मा संपारय वायुस्ते वाजिन्युङनु त्वारभे स्वस्ति मा संपारयादित्यस्ते वाजिन्युङ्ङनु त्वारभे स्वस्ति मा संपारयेत्यथोदञ्चोऽभि पवमानँ सर्पन्त्युत्तरत एष वडबाव्रज उच्छ्राय्या परिश्रितो भवति
तं विव्र्ण्वन्त्यभ्यश्वं वडबाः क्रन्दन्त्यभ्यश्वो वडबाः क्रन्दति
सोऽश्वस्योद्गीथस्
तत्पुण्या वाचः संप्रवदन्ति १७
15.18
उदगासीद्वा अयमश्वो मेध्य आयुरुदगासीत्सुभूतमुदगासीद्ब्रह्मवर्चसमुदगासीदिदमुदगासीदिदमुदगासीदिति पुण्या वाचः संप्रवदन्त्युत्सृजन्ति वडबा अश्वशालायामश्वं निग्रथ्नन्त्यत्रास्मा आमुकुष्मिकमन्नमुपकिरन्त्यथाहोद्गातर्धेनुशतं च ते शतपलं च त्वं म उद्गायेति
तस्य चतसृषु बहिष्पवमानोऽष्टास्वष्टास्वाज्यानि
द्वादशो माध्यंदिनः पवमानः
षोडशानि पृष्ठानि
सविँ श आर्भवः पवमानश्
चतुर्विँ शमग्निष्टोमसाम
तं चतुष्टोम इत्याचक्षते
समानं कर्माश्विनाद्ग्रहादाश्विनं ग्रहं गृहीत्वैकादश रशना आदाय यूपमभ्यैति
स्वर्वन्तँ राज्जुदालमग्निष्ठमुत्सृज्यैकादशिनान्पशूनुपाकरोति
तेषां प्रसिद्धं वपाभिश्चरित्वा प्रसर्पन्ति प्रातःसवनाय
तदृजुधा संतिष्ठते
प्रसर्पन्ति माध्यंदिनाय सवनाय
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्मा दाक्षिणेभ्यो दाक्षिणानि हुत्वाष्टौ संवर्गाहुतीर्जुहोत्यर्वाङ्यज्ञः संक्रामत्विति
तृतीयं दक्षिणानां ददाति
वैश्वकर्मणानि हुत्वा नव पर्याप्तीर्जुहोति भूतं भव्यं भविष्यदिति
नात्राग्न्यभिषेकोऽहीनसंततिं करोत्यृजुधा माध्यंदिनँ सवनँ संतिष्ठते
प्रसर्पन्ति तृतीयसवनाय
प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं गृह्णाति
समानं कर्मा पवमानात्
पवमानेन चरित्वा स्वे धामन्पशुभिश्चरति
तेषां नाना मनोता नाना देवता नाना प्रत्यभिमर्शना नाना वसाहोमाः समानो वनस्पतिः समानः स्विष्टकृत्प्रैषवान्समानीडा समान्यो दिशो नाना दिश इत्येके
समानं कर्मा पत्नीसंयाजेभ्य उपकाश एवैषोऽग्निष्टोमश्चतुष्टोमः संतिष्ठते पत्नीसंयाजान्तः १८
15.19
अथास्यैतानि शतमौक्षाणि चर्माण्युपस्तीर्णानि भवन्त्युत्तराँ श्रोणिमुत्तरेण पक्षसँ हितान्यथैतेषां घृतचर्मणां विँ शतिं वा चतुर्विँशतिं वापोद्धृत्याथेतरैरन्नानि संप्रयुवन्त्यथैतेषांदार्वाचितानां विँ शतिं वा चतुर्विँ शतिं वा मध्येऽग्नेरचायं चित्वाथेतराणि संछिद्यसंछिद्यैव संप्रकिरन्ति
तदेतां चतुरश्रां देवपुरमध्यात्मनायातयत्यपि वा पक्षपुच्छानभिनिरूहति यथा समावती यूपाग्रैः स्यादथैनाँ समुच्छ्रित्य परिश्रयन्ति
तस्योदीचीं द्वारं कुर्वन्ति
तदेतानीन्द्रा णसान्युपवर्तयन्ति चत्वार्यनुदिशमवान्तरदिशास्वितराणि यद्यष्टौ भवन्ति
तेषां चत्वारश्चत्वार एकैकमधिरोहन्ति दशान्ये रात्रिकर्मिणोऽथैभ्य स्थालीभिराज्यान्यभिहरन्त्यष्टमैरन्नान्यथाध्वर्युरादत्ते स्रुवं च दीर्घदण्डं दर्विं च दीर्घदण्डाम्
आददत एकविँ शतिं प्रतिप्रस्थातारो दशान्ये रात्रिकर्मिणोऽथाध्वर्युः स्रुवेणाज्यस्योपहत्य त्रीणि पूर्वाणि वैश्वदेवानि जुहोति
स्वाहाधिमाधीताय स्वाहेति स्रुवैरेवाज्यानां जुह्वति दत्वते स्वाहेति दर्वैरन्नानामदन्तकाय स्वाहेति
त एवमेवैतमनुवाकं यदैतस्यानुवाकस्य पारं यन्त्यथैतेनानुवाकेन व्यवदधाति १९
15.20
पूर्वा स्तोकीया अथैतमनुवाकं दिश्या अथैतमनुवाकमुत्तरा स्तोकीया अथैतमनुवाकमेकविँ शिनीं दीक्षामथैतमनुवाकमृतुदीक्षा अथैतमनुवाकमश्वस्य सावित्राण्यथैतमनुवाकं
त एवमेवैताननुवाकानेतेनैवानुवाकेन
यदैतेषामनुवाकानां पारं यन्त्यथैताननुवाकानुपसंक्रामन्ति वैश्वदेवानि चाश्वाङ्गानि च द्वावश्वरूपाणामोषधीनां च वनस्पतीनां च द्वावपाँ संधानानां चाभिधानानां च संप्लवस्यैक उक्तः खारीहोमस्
त एवमेवैताननुवाकानेतेनैवानुवाकेन
यदैतेषामनुवाकानां पारं यन्त्यथैतानौवाकानभिनिवर्तन्ते २०
15.21
एकस्मै स्वाहा द्वाभ्याँ स्वाहेति
त एवमेवैताननुवाकानेतेनैवानुवाकेन पुनःपुनरभ्युपाकारं जुह्वत्यथ वसतीवरीणां परिहरणकालेऽधिद्र वन्ति
परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायां पुनरेवाधिद्र वन्ति
त एवमेवैताननुवाकानेतेनैवानुवाकेन पुनःपुनरभ्युपाकारं जुह्वतः समाप्नुवन्ति
तानि वा एतान्यश्वस्य सर्वायुषाणीत्याचक्षते २१
15.22
समाप्तय इति हैक आहुरेतैर्हि सवाँ र्! रात्रिम्जुह्वत्यथ प्रातरनुवाकमुपाकरिष्यन्ताववद्र वतोऽध्वर्युश्च प्रतिप्रस्थाता च द्वावन्यावधिद्र वतो रात्रिकर्मिणवथ राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यद्भिरुदैत्युक्थ्यं क्रतुमुपैति
समानम्कर्मोपाँ शोरुपाँ शुँ होष्यन्निन्द्रा णसमधिद्रुत्य चतस्रः स्रुवाहुतीर्जुहोत्युषसे स्वाहा व्युष्ट्यै स्वाहोदेष्यते स्वाहोद्यते स्वाहेति
प्रसिद्धोऽभिषवः
समानं कर्मान्तर्यामाद्
अन्तर्यामँ होष्यन्निन्द्रा णसमधिद्रुत्य चतस्रः स्रुवाहुतीर्जुहोत्युदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहेत्यत्रैतदुदित आदित्य उपरमन्ति रात्रिकर्मिणो व्यविच्छिन्दन्ति परिश्रयणानि
निवर्तयन्तीन्द्रा णसानि
प्रसिद्धँ सुवर्णमयैर्ग्रहा गृह्यन्ते
समानं कर्माग्रयणाद्ग्रहादाग्रयणं गृहीत्वा सुवर्णरजताभ्यां द्वौ महिमानौ ग्रहौ गृह्णाति यः प्राणतो य आत्मदा इत्यथोक्थ्यं गृह्णाति
समानं कर्माश्विनाद्ग्रहादाश्विनं ग्रहं गृहीवा चतुर्विँशतिँ रशना आदाय यूपानभ्यायन्ति चतस्रश्चतस्र इतरे परिकर्मिणः
स्वर्वन्तँ राज्जुदालमग्निष्ठमुत्सृज्य तस्माद्दक्षिणमेव पूर्वं पौतुद्र वमुपस्थावानमुच्छ्रयति २२
15.23
अथोत्तरं त्रीन्दक्षिणतो बैल्वाँ स्त्रीनुत्तरतस्त्रीन्दक्षिणतः खादिराँ स्त्रीनुत्तरतस्त्रीन्दक्षिणतः पालाशाँ स्त्रीनुत्तरतोऽत्रैतं पालाशमुपशयं दक्षिणतो न्यस्यति तूष्णीं स्वर्वन्तान्यूपानुत्सृज्याथाध्वर्युरग्निष्ठ उपाकरोत्यश्वं तूपरं गोमृगमित्येताँ स्त्रीन्प्राजापत्यान्
अथ पर्यङ्ग्यानुपाकरोत्याग्नेन्द्रं कृष्णललाममैन्द्रा पौष्णं पौष्णमाग्नेयौ कृष्णग्रीवौ त्वाष्ट्रौ लोमशसक्त्यौ शितिपृष्थौ बार्हस्पत्यौ धात्रे पृषोदरँ सौर्यं बलक्षं पेत्वमित्यथाध्वर्युरग्निष्ठ एवोपाकरोत्यग्नयेऽनीकवते रोहिताञ्जिरनड्वानित्येकादशाथाध्वर्युरग्निष्ठ एवोपाकरोति सोमाय स्वराज्ञेऽनोवाहावनड्वाहाविति द्वन्द्विनोऽथाध्वर्युरग्निष्ठ एवोपाकरोतीन्द्रा य राज्ञे सूकर इत्येकादशारण्यान्
सैषाग्निष्ठे पशुषष्टिर्भवत्यथ रोहितो धूम्ररोहित इति दशाष्टादशिनोऽनुवाकास्
तेषां पूर्वा एव नवतो दक्षिणेषु यूपेषूपस्थापयन्त्युत्तरा नवत उत्तरेष्वाग्नेन्द्रा दक्षिणेषां मुख्या भवन्त्यैन्द्रा सूरा उत्तरेषाम्
अथ मयुः प्राजापत्य इति दश दशिनोऽनुवाकास्
तेषां पूर्वा एव पञ्चतो दक्षिणेषु यूपेषूपस्थापयन्त्युत्तराः पञ्चत उत्तरेषु
सोमापौष्णा दक्षिणेषां मुख्या भवन्त्यैन्द्रा पौष्णा उत्तरेषाम्
अथैतस्मिन्नुपशये मनसैव यं द्वेष्टि तमुपाकरोति
यद्यु वै न द्वेष्ट्याखुस्ते पशुरित्यनुदिशत्येतम्सिन्काल आहवनीये स्रुवाहुतिं जुहोत्युपाकृताय स्वाहेति २३
15.24
अथैतमश्वमग्रेण यापान्स्वरथे युनक्ति युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुष इत्यथास्य पृष्ठं मर्मृज्यते रोचन्ते रोचना दिवीत्येवमेवोत्तरं योग्यं युनक्ति
तस्यैवमेवोत्तरतः प्रष्टिमुपनियुनक्ति
तयोः पृष्ठं मर्मृज्यते युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसेत्य्
अथ केतुं कृण्वन्नकेतव इति ध्वजं प्रतिमुञ्चत्यथ यजमानं वर्मसंनहनीयाभिः संनह्यति जीमूतस्येव भवति प्रतीकमिति चतुर्दशभिर्यथारूपम्
अथ रथमुपतिष्ठते वनस्पते वीड्वङ्गो हि भूया इति तिसृभिरनुच्छन्दसम्
अथ दुन्दुभिमुपश्वासयत्युपश्वासय पृथिवीमुत द्यामिति तिसृभिरनुच्छन्दसम्
अथ दक्षिणँ ह्रदमभिप्रयाति द्यौस्ते पृष्ठं क्रमैरत्यक्रमीद्वाज्याक्रान्वाजीति त्रिभिरनुवाकैरा क्रोडेभ्योऽश्वानभिधावयन्त्यथैतँ रथं प्रदक्षिणमावर्त्य शालामानयति यद्वातो अपो अगमदिन्द्र स्य तनुवं प्रियाम्। एतँ स्तोतरेतेन पथा पुनरश्वमावर्तयासि नसिति
तानध्वर्युरुत्तराभि स्तोकीयाभिरन्वैत्यग्नये स्वाहा सोमाय स्वाहेत्येतेनानुवाकेन पुनःपुनरभ्युपाकारं यावदेषाँ स्तोका उपरमन्त्यथैतमश्वमग्रेण यूपान्स्वरथात्प्रमुच्य सौवर्णेन संदानेन संदित्याध्वर्योरावसथं द्वियोगं वर्तयन्त्यथ महिषी वावाता परिवृक्तीत्येता अस्मै गन्धान्गणान्मणीँ श्चादायाभ्यायन्त्यश्वं तस्य यत्प्राक्क्रोडात्तन्महिष्यभ्यनक्ति वसवस्त्वाञ्जन्तु गायत्रेण छन्दसेति पौतुद्र वेण प्रतिहितानां जायाभिः सहाथ यत्प्रतीचीनं क्रोडादा नाभेस्तद्वावाताभ्यनक्ति रुद्रा स्त्वाञ्जन्तु त्रैष्टुभेन छन्दसेति २४
15.25
गौल्गुलवेनाराज्ञां जायाभिः सहाथ यत्प्रतीचीनं नाभेरा पुच्छात्तत्परिवृक्त्यभ्यनक्त्यादित्यास्त्वाञ्जन्तु जागतेन छन्दसेति मौस्तेन सूतग्रामणीनां च क्षत्तसंग्रहीतृणां च जायाभिः सह
तस्य ये प्राचीनं वहसः केशास्तेषु महिषी सहस्रँ सौवर्णान्काचानावयति भूरिति प्रतिहितानां जायाभिः सहाथ ये प्रतीचीनं वहसः केशास्तेषु वावाता सहस्रँ राजतान्काचानावयति भुव इत्यराज्ञां जायाभिः सहाथैषा परिवृक्ती वालेषु सहस्रँ सामुद्रा न्काचानावयति सुवरिति सूतग्रामणीनां च क्षत्तसंग्रहीतृणां च जायाभिः सह
यथेतं पत्नयो यन्त्यथ महिषी वावाता परिवृक्ती माहानसी दासीत्येता अस्मै मधुमिश्रान्लाजानुपकिरन्ति २५
15.26
लाजी३ञ्छाची३न्यशो ममा३ं! यव्यायै गव्याया एतद्देवा अन्नमत्तैतदन्नमद्धि प्रजापत इति
यस्यै हान्नमत्ति तस्यै हार्धुका प्रजा भवतीति विज्ञायतेऽथैतमश्वँ संदानात्प्रमुच्य निर्मन्थ्यस्यावृता निर्मन्थ्येन प्रचरति प्रहृत्याभिहुत्याथाध्वर्युरग्निष्ठे नियुनक्त्यश्वं तूपरं गोमृगमित्यथास्य पर्यङ्ग्यान्नियुनक्त्याग्नेन्द्रं कृष्णललाममैन्द्रा पौष्णं पौष्णमित्येताँ स्त्रीन्ललाट
आग्नेयौ कृष्णग्रीवौ ग्रीवासु
त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः
शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे
धात्रे पृषोदरमुदरे
सौर्यं बलक्षं पेत्वं पुच्छ इत्यथाध्वर्युरग्निष्ठ एव नियुनक्त्यग्नयेऽनीकवते रोहिताञ्जिरनड्वानित्यथाध्वर्युरग्निष्ठ एव नियुनक्ति सोमाय स्वराज्ञेऽनोवाहावनड्वाहवित्यथाध्वर्युरग्निष्ठ एव नियुनक्तीन्द्रा य राज्ञे सूकर इति
सर्वानेवारण्यान्नियोजनेनैवानुवर्तयते याँ श्च ग्राम्याणां पशूनामुत्स्रक्ष्यन्भवत्यारण्याँ श्चाथ दक्षिणान्प्रतिप्रस्थातारो नियुञ्जन्त्यथोत्तरान्
अथैतमश्वं नित्येन प्रोक्षेण प्रोक्ष्यातिप्रोक्षेण प्रोक्षति जज्ञि बीजमिति
नित्येनैवेतरान्पशून्
अथ दक्षिणान्प्रतिप्रस्थातारः पोक्षन्त्यथोत्तरान्
अथैतमश्वमग्रेण यूपान्प्रोक्षणीरवघ्रापयति २६
15.27
अग्निः पशुरासीत्तेनायजन्त स एतं लोकमजयद्यस्मिन्नग्निः स ते लोकस्तं जेष्यस्यथावजिघ्र । वायुः पशुरासीदादित्यः पशुरासीदिति
यदि नावजिघ्रति पुनरेवावघ्रापयत्यग्निः पशुरासीत्तेनायजन्त स एतं लोकमजयद्यस्मिन्नग्निः स ते लोकस्तस्मात्त्वान्तरेष्यामि यदि नावजिघ्रसि । वायुः पशुरासीदादित्यः पशुरासीदिति
यदि नावजिघ्रति पुनरेवावघ्रापयत्यग्निः पशुरासीत्तेनायजन्त स एतं लोकमजयद्यस्मिन्नग्निः स ते लोकस्तं जेष्यसि यद्यवजिघ्रसि । वायुः पशुरासीदादित्यः पशुरसीदित्य्
एतस्मिन्काल आहवनीये स्रुवाहुतिं जुहोत्यालब्धाय स्वाहेति २७
15.28
अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूहीत्यभ्यादधातीध्मम्परि समिधँ शिनष्टि
वेदेनोपवाजयत्यनूक्तासु सामिधेनीषु स्रुवेणाघारमाघारयति
संमृष्ट् स्रुग्भ्यामुत्तरम्
अथासँ स्पर्शयन्स्रुचावुदङ्ङत्याक्रम्य जुह्वाश्वं तूपरं गोमृगमित्येतान्समनक्त्यथ पर्यङ्ग्यान्
अथेतरान्
अथ दक्षिणान्
अथोत्तरान्
अथ यथायतनँ स्रुचौ सादयित्वा प्रवरं प्रवृणीते
प्रसिद्धमृत्विजो वृणीते
सीदति होता
प्रसवमाकाङ्क्षति
प्रसूतः स्रुचावादायात्याक्रम्याश्राव्याह समिद्भ्यः प्रेष्येति
समिद्धो अञ्जन्कृदरं मतीनामित्येता अश्वस्याप्रियो भवन्ति
वषट्कृते जुहोति प्रेष्य प्रेष्येति चतुर्थाष्टमयोः समानयमानोऽष्टमे सवँ र्! समानयते
परि स्वाहाकृतीभ्यः सँ स्रावँ शिनष्टि
दश प्रयाजानिष्ट्वोदङ्ङत्याक्रम्य सुवर्णं च सायकं च याचति
तौ जुह्वामक्त्वा ताभ्यामश्वं तूपरं गोमृगमित्येतान्समनक्ति
कालायसैः पर्यङ्ग्यान्लोहायसैरितरान्सुवर्णैर्दक्षिणान्रजतैरुत्तरान्
अथ यथायतनँ स्रुचौ सादयित्वाह पर्यग्नये क्रियमाणायानुब्रूहीति
नित्ये पर्यग्निकरणेऽनुवर्तयति मेषस्त्वा पचतैरवतु लोहितग्रीवश्छागैः शल्मलिरिति
पर्यग्निकृतानामेतेषां पशूनामुत्सृजन्त्यवी द्वे धेनू भौमी दिग्भ्यो वडबे द्वे धेनू भौमी वैराजी पुरुषी द्वे धेनू भौमी इन्द्रा य राज्ञे सूकर इति सर्वानेवात्रारण्यान्
अथ पर्यग्निकृतैः पशुभिरुदञ्चः प्रतिपद्यन्ते
तेषामैन्द्रा सूरा उत्तरार्ध्या भवन्त्यश्व उपचारतोऽश्वमेवाध्वर्युर्वपाश्रपणीभ्यामन्वारभते
पृथगितरान्परिकर्मिण उदञ्चो नयन्त्यनुपूर्वमव्यतिषजन्तोऽथ याचति बर्हिश्च शतपलं च कृत्तिं चाधीवासं च कशिपु तार्प्यं चेत्युत्तरत एतद्बहुलँ सँ स्तीर्णं भवति
तदश्वाय निहन्यमानायोपास्यति बर्हिश्च शतपलं च कृत्तिं चाधीवासं च कशिपु चेत्येतत्पञ्चतयं तार्प्येण संज्ञप्यमानं यामेन साम्ना प्रस्तोतानूपतिष्ठते
पृथगितरेभ्यस्
तत इतरान्प्राचो वोदीचो वा निघ्नन्त्यकृण्वतो मायून्संज्ञपयतेत्युक्त्वैतेनैव यथेतमेत्य पृषदाज्यावकाश आसतेऽथैतौ ब्रह्मोद्यं वदतो होता च ब्रह्मा चान्तरेण यूपं चाहवनीयं च
दक्षिणतो ब्रह्मा भवत्युत्तरतो होता
होता ब्राह्मणं पृच्छति २८
15.29
किँ स्विदासीत्पूर्वचित्तिः किँ स्विदासीद्बृहद्वयः । किँ स्विदासीत्पिशंगिला किँ स्विदासीत्पिलिप्पिलेति
तमितरः प्रत्याह द्यौरासीत्पूर्वचित्तिरश्व आसीत्बृहद्वयः । रात्रिरासीत्पिशंगिला अविरासीत्पिलिप्पिलेति
तमितरः पृच्छति कः स्विदेकाकी चरति क उ स्विज्जायते पुनः । किँ स्विद्धिमस्य भेषजं किँ स्विदावपनं महदिति
तमितरः प्रत्याह सूर्य एकाकी चरति चन्द्र मा जायते पुनः । अग्निर्हिमस्य भेषजम्भूमिरावपनं महदिति
तमितरः पृच्छति पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम्। पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योमेति
तमितरः प्रत्याह वेदिमाहुः परमन्तं पृथिव्या यज्ञमाहुर्भुवनस्य नाभिम्। सोममाहुर्वृष्णो अश्वस्य रेतो ब्रह्मैव वाचः परमं व्योमेति
संज्ञप्तान्प्राहुर्जुहोति संज्ञप्ताहुतिं यत्पशवो मायूनकृषतेत्यथ सप्त प्राणाहुतीर्जुहोति प्राणाय स्वाहा व्यानाय स्वाहेति
ष्ट्त्रिँ शतमश्वस्तोमीयाञ्जुहोति यदक्रन्दः प्रथमं जायमानो मा नो मित्रो वरुणो अर्यमा ये वाजिनं परिपश्यन्ति पक्वमुत स्मास्य द्र वतस्तुरण्यत इत्यथाभ्यायन्ति शमितार उपेतनेति
पाशेभ्यः पशून्प्रमुच्यमानाननुमन्त्रयतेऽदितिः पाशान्प्रमुमोक्त्वेतानिति
पृथगविशाखाभिरुपसज्येमां दिशं निरस्यन्त्यरातीयन्तमधरं कृणोमि यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशानित्यथैताः पत्नयः सौवर्णैरुदकमण्डलुभिरुदायन्ति
ता अश्वस्यानुपृष्ठं प्राणानाप्याययन्त्यो यन्त्यनुपूर्वमितरेषां पशूनाम्
अथैषा महिषी प्रास्य केशान्वासः परिधाय सौवर्णेन विधवनेन विधुवाना त्रिरपसलैरश्वं पर्येत्यवन्ती स्थावन्तीस्त्वावन्तु प्रियं त्वा प्रियाणां वर्षिष्ठमाप्यानां निधीनां त्वा निधिपतिँ हवामहे वसो ममेति
त्रिः परीत्योत्तरतस्तिष्ठति प्रतिहितानां जाल्याभिः सहैवं वावाताराज्ञां जायाभिः सहैवं परिवृक्तीसूतग्रामणीनां च क्षत्तसंग्रहीतृणां च जायाभिः सह
यथेतं पत्नयो यन्त्यथैतमश्वँ सर्वैरलङ्कारैरलङ्कृत्य परिश्रयन्ति
तस्योदीचीं द्वारं कुर्वन्त्यथैतां महिषीँ सर्वैरलङ्कारैरलङ्कृत्य तां निह्नुवानां गर्हमाणामध्वर्युरुदानयत्यम्बे अम्बाल्यम्बिके न मा नयति कश्चन । ससस्त्यश्वक इति
साश्वमुत्तरत उपसंविश्य शिरस्तो वास उपधत्ते
तावध्वर्युस्तार्प्येण संप्रोर्णोति सुभगे काम्पीलवासिनि सुवर्गे लोके संप्रोर्ण्वाथामित्यथैषा महिष्युपस्थे शेफमाधत्त आहमजानि गर्भधमा त्वमजासि गर्भधम्। तौ सह चतुरः पदः संप्रसारयावहा इति
तामध्वर्युरनुमन्त्रयते वृषा वाँ रेतोधा रेतो दधात्विति प्रतिपद्य य आसां कृष्णे लक्ष्मणि सर्दिगृदिं परावधीदित्यातोऽथैषा पत्नी गर्हते २९
15.30
अम्बे अम्बाल्यम्बिके न मा यभति कश्चन । ससस्त्यश्वक इति
तां यजमानोऽभिमेथत्यूर्ध्वामेनामुच्छ्रयतादिति
सा तथैव गर्हते
तां वावाताभिमेथति यद्धरिणी यवमत्तीति
सा तथैव गर्हते
तां परिवृक्त्यभिमेथतीयं यका शकुन्तिकेति
सा तथैव गर्हते
ताँ सर्वे गणा अभिमेथन्ते माता च ते पिता च त इति
नात्र गर्हते
मुहूर्तमश्वमुपसंविश्योपोत्थाय वासः परिधायाद्भिर्मार्जयत आपो हि ष्ठा मयोभुव इति तिसृभिरनुच्छन्दसं दधिक्राव्णो अकारिषमिति चतुर्थीं सर्व एव सुरभिमतीमृचं जपन्ति ये यज्ञेऽपूतं वदन्ति
नयन्ति पत्नीम्व्यवच्छिन्दन्ति परिश्रयणम्
अश्वस्यालङ्करणमध्वर्योरावसथँ हरन्त्यथैतस्मिञ्छल्मलिशर्च आशुपिष्टानि संयुत्य तैरनुलोममश्वं प्रलिम्पन्त्यथ महिषी वावाता परिवृक्तीत्येता अस्मै गणान्सूचीश्चादायाभ्यायन्त्यश्वं तस्य यत्प्राक्क्रोडात्तस्मिन्महिषी सौवर्णाभिः सूचीभिरसिपथान्कल्पयन्त्येति गायत्री त्रिष्टुब्द्विपदा या चतुष्पदेति द्वाभ्यां प्रतिहितानां जायाभिः सहाथ यत्प्रतीचीनं क्रोडादा नाभेस्तस्मिन्वावाता राजताभिरुत्तराभ्यां द्वाभ्यामराज्ञां जायाभिः सहाथ यत्प्रतीचीनं नाभेरापुच्छात्तस्मिन्परिवृक्ती सीसाभिरुत्तराभ्यां द्वाभ्याँ सूतग्रामणीनां च क्षत्तसंग्रहीतृणां च जायाभिः सह
यथेतं पत्नयो यन्त्यध्वर्योरावसथँ सूचीर्हरन्त्यथ सुवर्णं च सायकं च याचति
ताभ्यामश्वस्य क्रोडमापिनष्टीत्थमश्वं विशासतेति
कस्त्वा छ्यति कस्त्वा विशास्तीत्येतत्षडृचं यजमानं वाचयति
यदैतस्य सूक्तस्य पारमेत्यथाध्वर्युरश्वस्य क्रोडात्पिशितमुत्पिनष्टीत्थमश्वं विशासतेत्था३मिति
नाश्वस्य वपा भवति
चन्द्र मिव मेदः परिवृक्तँ साश्वस्य वपा
वपा तूपरस्यैवं गोमृगस्य
कालायसैः पर्यङ्ग्याणां लोहितायसैरितरेषाँ सुवर्णैर्दक्षिणेषाँ रजतैरुत्तरेषाम् ३०
15.31
अश्वस्यैवाध्वर्युर्वपया प्रथमया प्रतिपद्यतेऽनूचीरितरा आहरन्त्यश्वस्यैव वपायै प्रतितप्यमानायै बर्हिषोऽग्रमुपास्यत्युपेतरा यच्छन्त्युत्तरतोऽश्वस्य तूपरस्य गोमृगस्येति वपाः श्रपयन्ति दक्षिणत इतरेषां पशूनाम्
अश्वस्यैव वपाँ स्रुवाहुत्याभिजुहोत्युपेतरा यच्छन्त्यथ स्वाहाकृतिप्रैषेण चरित्वा सँ स्रावेण पृषदाज्यमभिघार्याश्वस्यैव वपामभिघारयत्युपेतरा यच्छन्त्यथ पुरस्तात्स्वाहाकृतिँ स्रुवाहुतिँ हुत्वा सुवर्णेन महिमानं जुहोति तस्य ते द्यौर्महिमेत्यथोपस्तीर्य द्विः स्रुवेणाश्वस्यैव वपाँ समवलुम्पन्नाह प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य वपानां मेदसोऽवदीयमानस्यानुब्रूहीत्युच्चैर्यावतीः स्रुक्संभवत्यथेतराः पात्र्या वेडसूनेन वोपोद्यच्छन्ते
द्विरभिघारयत्य्
अत्याक्रम्याश्राव्याह प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य वपामेदः प्रस्थितं प्रेष्येत्युच्चैर्वषट्कृते वपा जुहोत्यथोपरिष्टाद्र जतेन महिमानं जुहोति तस्य ते पृथिवी महिमेत्यथ पर्यङ्ग्याणां वपाभिश्चरत्यथेतरेषाम्
अथ दक्षिणेषां प्रतिप्रस्थातारो वपाभिश्चरन्त्यथोत्तरेषां याँ श्च ग्राम्याणां पशूनामुदस्राक्षीदारण्याँ श्च स्रुवाहुत्यस्तेषां वपाभ्यः प्रतिजुहोत्युपाँ श्वेतेषां पशुजातानां वपाभिश्चरन्ति प्राजापत्यानाँ सावित्राणाँ सारस्वतानां पौष्णानां यामानां पितृदेवतानां द्यावापृथिव्यानां वायव्यानाँ सौर्याणां वैश्वकर्मणानामित्यथोपरिष्टात्स्वाहाकृतिँ स्रुवाहुतिँ हुत्वा वपाश्रपणीरनुप्रहृत्य समुत्क्रम्य चात्वाले मार्जयन्तेऽथ पशून्विशास्ति शमितरित्याह माश्वस्य लोमापिकृतीर्माश्वस्यास्थि सँ शारीर्यथाङ्गमेनं विकृत्य शामित्रे कुम्भ्याँ समवशमयतादेवं तूपरमेवं गोमृगमथ दक्षिणमश्वशफं गोमृगकण्ठमिति शामित्रे निष्पचतादयस्मयेन कमण्डलुनाश्वतेजनीँ श्रपयतादित्यथ सावित्रँ हुत्वा प्रसर्पन्ति प्रातःसवनाय
तदृजुधा संतिष्ठते ३१
15.32
अथ सावित्रँ हुत्वा प्रसर्पन्ति माध्यंदिनाय सवनाय
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहाः गृह्यन्ते
समानं कर्मा दाक्षिणेभ्यो दाक्षिणानि हुत्वाष्टौ संवर्गाहुतीर्जुहोत्यर्वाङ्यज्ञः संक्रामत्विति
कामं दक्षिणानां ददाति
वैश्वकर्मणानि हुत्वा नव पर्याप्तीर्जुहोति भूतं भव्यं भविष्यदिति
प्रसिद्धोऽग्न्यभिषेकोऽहीनसंततिं करोत्यृजुधा माध्यंदिनँ सवनँ संतिष्ठतेऽथ सावित्रँ हुत्वा प्रसर्पन्ति तृतीयसवनाय
प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं गृह्णात्यथोक्थ्यं गृह्णाति
समानं कर्मा पवमानात्
पवमानेन चरित्वाथैतान्पशून्याचत्यश्वं तूपरं गोमृगमित्यथ पर्यङ्ग्यानथेतरानथ दक्षिणानथोत्तरान्
उत्तरतोऽश्वस्य तूपरस्य गोमृगस्येति हविरुपसादयन्ति दक्षिणत इतरेषां पशूनाम्
अथ वैतसे कटेऽश्वस्य हृदयं निधाय सुवर्णेन च सायकेन च तस्याग्रेऽवद्यन्नाह ३२
15.33
मनोतायै हविषोऽवदीयमानस्यानुब्रूहीत्येकादशावदानान्यवद्यत्येवं तूपरस्यैवं गोमृगस्य
कालायसैः पर्यङ्ग्याणां लोहायसैरितरेषाँ सुवर्णैर्दक्षिणेषाँ रजतैरु त्तरेषां नाश्वस्य तूपरस्य गोमृगस्येति स्विष्टकृतेऽवद्यत्यवद्यन्तीतरेषां पशूनां
नाश्वस्य तूपरस्य गोमृगस्येतीडामवद्यत्यवद्यन्तीतरेषां पशूनाम्
अथैतमश्वं वैतसे कटे यथाङ्गं चिनोति
पुरस्तात्प्रत्यञ्चं तूपरमायातयति
पश्चात्प्राचीनं गोमृगम्
अथ जुहूपभृतावाददान आह प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य हविषोऽनुब्रूहीत्युच्चैरत्याक्रम्याश्राव्याह प्रजापतय इत्युपाँ शु हयस्य छागस्योस्रस्य हविः प्रस्थितं प्रेष्येत्युच्चैर्वषट्कृते तान्सहैव कटेनाग्नावनुप्रहरति ३३
15.34
द्यौस्ते पृष्ठं क्रमैरत्यक्रमीद्वाज्याक्रान्वाजीति त्रिभिरनुवाकैरथ पर्यङ्ग्याणाँ हविर्भिश्चरत्यथेतरेषाम्
अथ दक्षिणेषां प्रतिप्रस्थातारो हविर्भिश्चरन्त्यथोत्तरेषां याँ श्च ग्राम्याणां पशूनामुदस्राक्षीदारण्याँ श्च स्रुवाहुत्यस्तेषाँ हविर्भ्यः प्रतिजुहोत्युपाँ श्वेतेषां पशुजातानाँ हविर्भिश्चरन्तीत्युक्तमेतदथ पुरस्ताद्वनस्पतेः समान्यो दिशः प्रतियजत्यथ वनस्पतिना चरत्यथ पुरस्तात्स्विष्टकृतो गोमृगकण्ठेन प्रथमामश्वतेजनीमुपजुहोत्यथ स्विष्टकृता चरत्येतस्मिन्काल आहवनीये स्रुवाहुतिं जुहोति हुताय स्वाहेति ३४
15.35
अथैतं प्रसेकमग्नावायातयति दक्षिणतो वोदञ्चं पश्चाद्वा प्राञ्चं तस्य स्रुगिव पूर्वार्धो भवत्येवमेव मध्यं चमस इव बुध्नस्
तस्मिँ श्चतुर उपस्तृणान आहाप्रमत्तः संततमानय स्तेगान्निगदिष्यामीति
स यत्र धाराग्निं प्राप्नोति तत्प्रतिपद्यते स्तेगान्दँ ष्ट्राभ्यां मण्डूकाञ्जुम्भ्येभिरिति चतुर्दशानुवाकान्प्रयासाय स्वाहेति पञ्चदशम्
अथ द्वे आहुती जुहोतीलुवर्दाय स्वाहा बलिवर्दाय स्वाहेति षट्त्रिँ श्तमश्वस्तोमीयाँ स्तिस्रो द्विपदा इमा नु कं भुवना सीषधेमापो हि ष्ठा मयोभुव इति चात्रैतं प्रसेकमग्नावनुप्रहरत्यथैतँ सँ स्रावेणाभिजुहोति
समानं कर्मानूयाजेभ्योऽथ पुरस्तादुत्तमस्यानूयाजस्याश्वशफेनाश्वतेजनीमुपजुहोति
समानं कर्मा पत्नीसंयाजेभ्योऽथ पुरस्तादुत्तमस्य पत्नीसंयाजस्यायस्मयेन कमण्डलुनाश्वतेजनीमुपजुहोत्यृजुधैकविँ श उक्थ्यः संतिष्ठते पत्नीसंयाजान्तोऽथ वसतीवरीः परिहृत्य पयाँ सि विशिष्योपवसन्ति ३५
15.36
अथातो महारात्र एव बुध्यन्ते
प्रातराज्यानि गृहीत्वा राजानमुपावहृत्य प्रातरनुवाकमुपाकरोति
परिहिते प्रातरनुवाकेऽपोऽच्छैत्यद्भिरुदैत्यतिरात्रं क्रतुमुपैति
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्माश्विनाद्ग्रहादाश्विनं ग्रहं गृहीत्वैकादश रशना आदाय यूपमभ्यैति
स्वर्वन्तँ राज्जुदालमग्निष्ठमुत्सृज्यैकादश प्रातर्गव्यान्प्रजापत्यान्पशूनुपाकरोति
तेषां प्रसिद्धं वपाभिश्चरित्वा प्रसर्पन्ति प्रातःसवनाय
तदृजुधा संतिष्ठते
प्रसर्पन्ति माध्यंदिनाय सवनाय
प्रसिद्धोऽभिषवः
प्रसिद्धं ग्रहा गृह्यन्ते
समानं कर्मा दाक्षिणेभ्यो दाक्षिणानि हुत्वाष्टौ संवर्गाहुतीर्जुहोत्यर्वाङ्यज्ञः संक्रामत्वित्यवशिष्टं दक्षिणानां ददाति
वैश्वकर्मणानि हुत्वा नव पर्याप्तीर्जुहोति भूतं भव्यं भविष्यदित्युत्सन्नोऽग्न्यभिषेको नात्राहीनसंततिं करोत्यृजुधा माध्यंदिनँ सवनँ संतिष्ठते
प्रसर्पन्ति तृतीयसवनाय
प्रसिद्धमादित्यग्रहेण चरित्वाग्रयणं गृह्णात्यथोक्थ्यं गृह्णाति
समानं कर्मा पवमानात्
पवमानेन चरित्वा स्वे धामन्पशुभिश्चरति
तेषाँ समानी मनोता समानी देवता समानः प्रत्यभिमर्शनः समानो वसाहोमः समानो वनस्पतिः समानः स्विष्टकृत्प्रैषवान्समानीडा समान्यो दिशः
समानं कर्मा पत्नीसंयाजेभ्यः
पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्याभूतीश्चानुभूतीश्च जुहोत्या मे गृहा भवन्त्वग्निना तपोऽन्वभवदित्येताभ्यामनुवाकाभ्याम्
अथ भूताभव्यौ होमौ जुहोति भूताय स्वाहा भविष्यते स्वाहेत्यथाध्वरिकाणि समिष्टयजूँ षि हुत्वा दशाग्निकान्युपजुहोति
समानं कर्मावभृथादथैतस्मिन्नवभृथे द्वितीयामवभृथाहुतिँ हुत्वा दश वारुणान्युपजुहोति नमो राज्ञे नमो वरुणायेत्यथ मृत्यवे स्वाहा मृत्यवे स्वाहेति नवतिमाहुतीर्जुहोति प्रयासाय स्वाहायासाय स्वाहेत्येकादश
शतायुर्वै पुरुषः शतवीर्य आत्मैकशतो यावानेव पुरुषस्तस्मान्मृत्युमवयजत इति ब्राह्मणम् ३६
15.37
अथैष आत्रेयो विहृतः शुक्लो विक्लिधस्तिलकवान्पिङ्गाक्षः खलतिर्विकटः कुनखी कुब्जः शिपिविष्टो नग्न उपमज्जति
तस्य मूर्ध्नि जुहोति जुम्बकाय स्वाहेत्यत्रास्मा एतच्छतं विपथं ददात्यथैनमिषुजितात्प्रधमन्ति मा मे राष्ट्रे वात्सीरिति
प्रसिद्धोऽवभृत उदयनीययेष्ट्येष्ट्वा मैत्रावरुणीं वशामुपाकरोति
तस्यै सौरीर्नव श्वेता वशा इत्युपालम्भ्या भवन्ति
तासां प्रसिद्धं वपाभिश्चरित्वाग्रेण गार्हपत्यं पात्नीवतमुच्छ्रित्य तस्मिञ्छगलं कल्माषं किकिदीविं विदीगय मिति त्वाष्ट्रान्पशूनुपाकरोति
तान्पर्यग्निकृतानुत्सृज्याज्येन सँ स्थां करोत्यथ पशुपुरोडाशान्निर्वपति पशुपुरोडाशौ वाथ पुरस्तात्पशुपुरोडाशस्विष्टकृतो दश यव्यान्युपजुहोति नमो राज्ञे नमो वरुणायेत्य्
अथ पुरस्तात्पशुस्विष्टकृतो दश गव्यान्युपजुहोति मयोभूर्वातो अभिवातूस्रा इति
प्रसिद्धं पशवः संतिष्ठन्तेऽथोदवसानीययेष्ट्येष्ट्वाग्रेणाहवनीयं विशालयूपमुच्छ्रित्य तस्मिन्नेतान्पशूनुपाकरोत्याग्नेयमैन्द्रा ग्नमाश्विनमिति
तेषां प्रसिद्धं वपाभिश्चरित्वा पशुपुरोडाशान्निर्वपति
ताननुवर्तन्तेऽष्टौ देवसुवाँ हवीँ ष्यग्नयेऽँहोमुचेऽष्टाकपाल इत्येषा च दशहविरिष्टिस्
तस्या एता याज्यापुरोऽनुवाक्या भवन्ति ३७
15.38
अग्नेर्मन्वे प्रथमस्य प्रचेतस इत्यथ पुरस्तात्पशुपुरोडाशस्विष्टकृतो दश ब्रह्मवर्चसान्युपजुहोत्या ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामित्यथ पुरस्तात्पशुस्विष्टकृतो दश संनतिहोमानुपजुहोत्यग्नये समनमत्पृथिव्यै समनमदिति
प्रसिद्धं पशवः संतिष्ठन्तेऽत्रैतैरन्वहं द्वादशभिर्ब्रह्मौदनैश्चरति
तेषामुक्तं चरणं यथामुत्रैकस्यान्यत्र रशनाभ्याम्
अत्रैभ्य एतान्परःशतं शतपलान्निष्कान्ददाति
सुवर्णरजते महिम्नोः पात्रे ददात्येकतयानि सौवर्णानि पात्राणि ददाति हिरण्मयं कशिपु हिरण्मयं पड्बीशँ हिरण्मयँ संदानमित्य्
अथ वीणागाथिभ्याँ शतं विपथौ ददात्यथर्तुपशुभिर्यजत ऋतुपर्यायं वा समानेषु वाग्न्यायतनेषु पिशङ्गास्त्रयो वासन्ताः सारङ्गास्त्रयो ग्रैष्माः पृषन्तस्त्रयो वार्षिकाः पृश्नयस्त्रयः शारदाः पृश्निसक्थास्त्रयो हैमन्तिका अवलिप्तास्त्रयः शैशिराः संवत्सराय निवक्षस इत्यथ देविकाहविर्भिर्यजतेऽथ त्रैधातवीयया यजतेऽथ सौत्रामण्या यजते
संतिष्ठतेऽश्वमेधस्त्रिभिः संवत्सरैः
संतिष्ठतेऽश्वमेधः संतिष्ठतेऽश्वमेधः ३८