बौधायनश्रौतसूत्रम्/प्रश्नः २०
20.1
उपवसथ इति ॥
कथमु खलूपवसथं जानीयात्
संध्यः स्विदेवोपपाद्योऽथऽपूरि नादर्शीति
साधु खलु संध्यः साधु संधेरुपपादनं ननु खलु संध्यः सूपपादय इव सर्वेषां त्वेव संध्य इवेति
स ह स्माह बौधायन यत्रैतदुपवसतोऽस्तमित आदित्ये पुरस्ताच्चन्द्र मा लोहितीभवन्निवोदियात्तमप्युपवसथं जानीयादित्य्
अत्रो ह स्माह शालीकिरतिपन्नः खल्वेष भवति
स संध्यं वैवोपपादयिषेत्पूर्णं वाभियजेत
तस्य चेदुपवसतोऽस्तमित आदित्ये पुरस्ताच्चन्द्रं लोहितीभवन्निवोदियादारमताग्निहोत्रेणेत्युक्त्वा पार्वणेन प्रक्रामेत्
सँ स्थिते पार्वणेऽग्निहोत्रं जुहुयादिति नु खलु पौर्णमास्याम्
अथामावास्यायामिति
स ह स्माह बौधायनोऽदृश्यमान एवोपवसेन्न दृश्यमान इत्येवं चैव खलु कुर्यादिति शालीकिरस्ति त्वपि दृश्यमान उपवसथो
यत्रैतद्रा त्रीभिरुपपन्नोऽणुश्चन्द्र माः परिनक्षत्रमुपव्युषं भवति न स श्वो भूते दृश्यते तमप्युपवसथं जानीयादिति ॥
अग्नीनामन्वाधान इति ॥
सूत्रमौपमन्यवीपुत्रस्यात्रो ह स्माह बौधायनो विहव्याभिरग्नीनन्वादध्यात्तिसृभिस्तिसृभिरेकैकं ये नव समामनेयुरथ येऽष्टौ प्रथमां वोत्तमां वा द्विरभ्यावर्तयेयुरथ ये दश तिसृभिस्तिसृभिरेकैकमन्वाधायोत्तरेणाहवनीयं तिष्ठन्दशमीं निगदेदित्यत्रो ह स्माह शालीकिर्यो नु खलु गार्हपत्यः सकृदन्वाहित एष भवति
ग्रामयोनिरन्वाहार्यपचन आहवनीयमेवैकं विहव्ययान्वादध्यादथातिशिष्टा उत्तरेणाहवनीयं तिष्ठन्निगदेदित्यत्रो ह स्माहौपमन्यवो विहव्याभिरेवाग्नीनन्वादध्यादेकैकमेकैकयाथातिशिष्टा उत्तरेणाहवनीयं तिष्ठन्निगदेदित्यत्रो ह स्माह मौद्गल्य आहवनीयमेवैकमन्वादध्यादग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमं श्वो यज्ञाय रमतां देवताभ्यः ॥
वसून्रुद्रा नादित्यानिन्द्रे ण सह देवताः । ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥
इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान्देवान्परिगृह्णामि पूर्वः । अग्निर्हव्यवाडिह तानावहतु पौर्णमासँ हविरिदमेषां मयीति पौर्णमास्याम्
आमावास्यँ हविरिदमेषां मयीत्यमावास्यायामित्यत्रो ह स्माह मैत्रेय आहवनीयमेवैकं विहव्यान्वादध्यात्तूष्णीमितरावथातिशिष्टा उत्तरेणाहवनीयं तिष्ठन्निगदेदिति
व्याहृतीभिरेवाग्नीनन्वादध्यादिति राथीतरः ॥
आतञ्चनेष्विति ॥
स ह स्माह बौधायनो हविरातञ्चनान्येतानि भवन्तीत्यत्रो ह स्माह शालीकिर्दधि खल्वातञ्चनार्थे दृष्टं भवति
तस्मिन्नविद्यमान एतेषामेकेनातञ्च्यादिति ॥
व्रतोपायन इति ॥
स ह स्माह बौधायनः संगवकाले वा व्रतमुपेयाद्धेनुषु वा दोह्यमानासु प्रणीतासु वा प्रणेष्यत्सु हविःषु वासन्नेष्वित्यत्रो ह स्माह शालीकिः पूर्वेद्युःकालं खलु व्रतोपायनं भवतीति ब्राह्मणं बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायामिति स संगवकाल एव व्रतमुपेयादित्यन्वाधानप्रभृतीत्यौपमन्यवः ॥
अभ्युदितेष्ट्यामिति ॥
स ह स्माह बौधायनः सिद्धैरेवामावास्यैर्हविर्भिरिष्ट्वा पुनरुपोष्य श्वो भूते काल्यामनभ्युदितामव्यापन्नां यजेतेत्यत्रो ह स्माह शालीकिर्यैषा ब्राह्मणजेष्टिस्तया व्यक्तयेष्ट्वा पुनरुपोष्य श्वो भूते काल्यामनभ्युदितामव्यापन्नां यजेतेति नु खलु संनयतोऽथासंनयतः
समानः कल्पो बौधायनस्यात्रो ह स्माह शालीकिरप्स्वेवैतानि हवीँ षि श्रपयित्वा पुनरुपोष्य श्वो भूते काल्यामनभ्युदितामव्यपन्नां यजेतापि वोपवसथ एवातिप्रवर्धेतेति ॥
आच्छायन इति ॥
स ह स्माह बौधायनो वाचंयम एव शाखामाच्छेयाद्वाचंयम एवाहरेदेवं एवाहरित्येवं चैव खलु कुर्यादिति शालीकिर्ब्राह्मणेन च यथार्थमन्तर्हसन्नेव संभाषेत नाब्राह्मणेनेति ॥
शाखाया आच्छेदन इति ॥
स ह स्माह बौधायन इषे त्वेति शाखामाच्छिन्द्यादूर्जे त्वेत्यनुमृज्याद्वान्वीक्षेत वेत्यन्वीक्षेतैवेति शालीकिः ॥
वत्सापाकरण इति ॥
स ह स्माह बौधायनो वायव स्थेति पुँ स एवापाकुर्यादुपायव स्थेति स्त्रियोऽथ यद्यन्यतरे स्युर्नैव मन्त्रं परिजह्यात्
सँ सृष्टेनैवेति शालीकिः १
20.2
शाखायै संचर इति ।
अग्रेणाहवनीयँ संचारयेदिति बौधायनो जघनेन गार्हपत्यमिति शालीकिरेष सर्वकल्पे शाखायै संचरः पयसां चान्यत्र प्रावर्गिकादित्युभयोरेवापरेण प्रावर्गिकं संचारयेदित्यौपमन्यवः ॥
प्रवसतो याजमान इति ॥
स ह स्माह बौधायनः सहयाजमानः खल्वयं यजमानः प्रवसति
स यत्र स्यात्तदेनं मनसा ध्यायेत्
स यदि विसँ स्थित आगच्छेत्कृतमनुमन्त्र्! य कर्मान्तेन प्रक्रामेदित्यत्रो ह स्माह शालीकिर्यद्यस्य पुत्रो वान्तेवासी वालंकर्मीणः स्यात्तं तत्र प्रेष्येत्
स यदि विसँ स्थित आगच्छेत्कृतान्ताद्वा प्रक्रामेन्ना वा द्रि येतोभौ त्वेव यजमानभागं प्राश्नीयातामिति ॥
इध्माबर्हिषोरुपकल्पन इति ॥
सूत्रमाचार्ययोरपराह्णे पितृभ्यो दत्त्वेध्माबर्हिः संनह्येदित्याञ्जीगविः
श्वो भूते हविष्कृदन्त इत्यौपमन्यवः ॥
असिदस्य प्रतितपन इति ॥
स ह स्माह बौधायनः प्रतितपेदेवासिदमेवमश्वपर्शुँ रक्षोऽपहननायेत्यत्रो ह स्माह शालीकिर्न तेजसि तेजः प्रतितपेदश्वपर्श्वां खल्वेते मन्त्रा दृष्टा भवन्ति
सोऽश्वपर्शुमेव प्रतितपेन्नासिदं क्रूरापहननायेति ॥
प्रक्रमेष्विति ॥
स ह स्माह बौधायन आहवनीयादेवाग्रे त्रीन्वा चतुरो वा प्राचः प्रक्रमान्प्रक्रम्याथ तां दिशमभिप्रव्रजेद्यत्र बर्हिर्वेत्स्यन्मन्येतेत्याहवनीयादेव यथार्थं गच्छेन्न तु दक्षिणया द्वारेति शालीकिः ॥
परिषवण इति ॥
स ह स्माह बौधायनस्त्रिरेव मन्त्रं ब्रूयात्त्रिः कर्मावतयेदेवं यूपावटस्य परिलेखन एवँ सोमक्रयण्यै पद एवमौदुम्बर्या अवट एवमुपरवेष्विति
सकृदेव मन्त्रं ब्रूयात्त्रिः कर्मावर्तयेदिति शालीकिः ॥
आच्छेदनेष्विति ॥
सूत्रं बौधायनस्य
प्रत्यगाशीः खल्वेष मन्त्रो दृष्टो भवति
मन्त्रप्रत्यभिमर्शनमेवैतत्स्यादिति शालीकिः ॥
प्रस्तरस्य संनहन इति ॥
स ह स्माह बौधायनोऽभ्यर्धाच्चैनँ संनह्येदन्यत्र चैतस्मादयुग्मायुग्मं निधनानि कुर्यादित्यत्रो ह स्माह शालीकिः प्रस्तरस्य खलु मन्त्रप्रतिलाभात्सर्वं बर्हिर्मन्त्रं लभते न चैनमभ्यर्धात्संनह्येदेतच्चैवायुग्मतमँ स्यादिति ॥
शुल्बस्य करण इति ॥
अधिकरणं चतुथँ र्! स्या दिति बौधायनोऽधिकरणमेव तृतीयमिति शालीकिः ॥
बर्हिषः संबरण इति ॥
स ह स्माह बौधायनो यान्यन्यानि याजुषान्निधनानि तानि पूर्वाणि मन्त्रेण संभृत्याथोपरिष्टाद्याजुषं मन्त्रेणैव संभरेदित्यत्रो ह स्माह शालीकिर्यान्यन्यानि याजुषान्निधनानि तानि पूर्वाणि तूष्णीँ संभृत्याथोपरिष्टाद्याजुषं मन्त्रेणैव संभरेदित्यत्रो ह स्माहौपमन्यवो य एवादिर्लवने ससंभरणे सयाजुषमेवाग्रे मन्त्रेण संभृत्य तूष्णीमितराणि संभृत्य विपरिकृष्य ग्रन्थिं कुर्यादिति २
20.3
ग्रन्थिकरण इति ॥
सूत्रं बौधायनस्य
समायच्छन्नेवैतं मन्त्रं जपेदिति शालीकिः ॥
पश्चात्प्राञ्चमुपगूहतीति ॥
सूत्रं बौधायनस्य
पुरस्तात्प्रत्यञ्चमिति शालीकिः ॥
बर्हिषो निधान इति ॥
स ह स्माह बौधायनः स्फ्यं वा शकलं वान्तर्वेदि निधाय तस्मिन्मन्त्रेण प्रतिष्ठाप्य ततो यथासुष्ठु निधध्यादिति
यत्रैव निधास्यन्स्यात्तन्मन्त्रेणैव निदध्यादिति शालीकिः ॥
परिधीनां करण इति ॥
स ह स्माह बौधायन उरःसंमितो मध्यमः स्यादथेतरौ बाहुमात्रौ स्यातामिति
सर्व एव बाहुमात्राः स्युरिति शालीकिः ॥
इध्मस्य करण इति ॥
अनुसामिधेनीध्मं कुर्यादिति बौधायनोऽपरिमितमिति शालीकिः ॥
वेदस्य करण इति ॥
वत्सज्ञुं कुर्यादिति बौधायनो मूतकार्यमिति शालीकिस्
त्रिवृतमित्यौपमन्यव ऊर्ध्वाग्रमित्यौपमन्यवीपुत्रः ॥
पितृयज्ञबर्हिषीति ॥
समूलमेतद्बर्हिर्भवतीति बौधायनः पितृयज्ञसामान्यादिति
महापितृयज्ञ एवैतद्दृष्टं भवत्यमूलमेवैतद्बर्हिः स्यादिति शालीकिः ॥
इष्टिसंनिपात इति ॥
स ह स्माह बौधायनो याः काश्चेष्टयः समानेऽहनि संनिपतेयुस्तन्त्रायतन्त्राय चासां बर्हिर्लावो गच्छेल्लूनं वासादयेत्तन्त्रेतन्त्रे चासां व्रतमुपेत्य तन्त्रापवर्गे व्रतं विसृजेतेत्य्
अत्रो ह स्माह शालीकिर्याः काश्चेष्टयः समानेऽहनि संनिपतेयुः सकृदेवासाँ सर्वासां बर्हिर्लावो गच्छेल्लूनं वासादयेदादितश्चासां व्रतमुपेत्य सर्वासां पारे व्रतं विसृजेतेति ॥
पर्णत्सरूणां निवपन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्तृतीअमग्न्यगार उद्वपेत्तृतीयमन्तर्वेदि निवपेत्तृतीयेन वत्सानां धूननं कुर्यादेवमिव हि पशूनां नेदीयान्भवतीति ॥
पौर्णमास्यामुपवेषकरण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
दोहनपवित्रस्य करण इति ॥
स ह स्माह बौधायनो मूले मूलानि बद्ध्वा द्विगुणाँ रज्जुँ संप्रसार्याग्रे निग्रथ्नीयादेवमस्याग्रमग्रैरभिसंपन्नं भवतीत्यत्रो ह स्माह शालीकिर्मूले मूलानि बद्ध्वा द्विगुणाँ रज्जुँ संप्रसार्य मूले परिहृत्य त्रिगुणाँ रज्जुँ संप्रसार्याग्रे निग्रथ्नीयाद्
एवमस्याग्रमग्रैरभिसंपन्नं भवतीति ३
20.4
अग्निहोत्रोच्छेषणस्य करण इति ॥
स ह स्माह बौधायनो यद्यस्याज्येन वौषधेन वा प्रक्रान्तँ स्यात्पयसैव ताँ रात्रिं जुहुयात्पयस एवाग्निहोत्रोच्छेषणं कुर्यादित्यत्रो ह स्माह शालीकिर्नासमाप्ते काम आवर्तयेद्यद्यस्याज्येन वौषधेन वा प्रक्रान्तँ स्यात्तस्य हुत्वा तस्यैवाग्निहोत्रोच्छेषणं कुर्यादिति ॥
सांनाय्यपात्राणां प्रोक्षण इति ॥
तूष्णीँ सँ स्कृताभिरद्भिः प्रोक्षेदिति बौधायनः
कमण्डलुगताभिरिति शालीकिः ॥
अथ जघनेन गार्हपत्यमुपविश्योपवेषेणोदीचोऽङ्गारान्निरूहतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्तूष्णीमङ्गारान्निरूहेत्
सर्व एवैषोऽधिश्रयणमन्त्रः स्यादिति ॥
दोहनपवित्रस्याधान इति ॥
मन्त्रेण कृत्वा मन्त्रेण स्थाल्यामादध्यादिति बौधायनस्
तूष्णीं कृत्वा मन्त्रेण स्थाल्यामादध्यादिति शालीकिरर्धेन कृत्वार्धेन स्थाल्यामादध्यादित्यौपमन्यवः ॥
धेनूनामनुमन्त्रण इति ॥
स ह स्माह बौधायन एकैकामेवासामनुमन्त्रयेताथासामेकैकां दोहयेदित्यत्रो ह स्माह शालीकिः सकृदेवैनाः सर्वा अनुमन्त्रयेताथासामेकैकां दोहयेदित्यत्रो ह स्माहौपमन्यवः सकृदेवैनाः सर्वा अनुमन्त्रयेत सकृच्चैना दोहयेदत्र चैव स्तोकान्परिनिस्तिष्ठेदित्येकैकामेवासाँ सर्वेणसर्वेण कर्मणा परिनिस्तिष्ठेदित्यौपमन्यवीपुत्रः ॥
स्तोकानामनुमन्त्रण इति ॥
सूत्रँ शालीकेराख्यातमौपमन्यवस्यात्रो ह स्माह बौधायन आतच्यैव स्तोकाननुमन्त्रयेतात्रैव हि स्तोकानामन्तो भवतीति ॥
उत्तरासां दोहन इति ॥
विसृष्टवागनन्वारभ्योत्तरा दोहयेदिति बौधायन आनीयमान एवानु चारभेत वाचं च यच्छेदिति कात्यः ॥
दुग्धं लभमानस्येति ॥
वत्सापाक्रणप्रभृतीन्मन्त्रान्साधयेदिति बौधायन आसेचनप्रभृतीनिति शालीकिः ॥
आतञ्चन इति ॥
चतुर्थे स्रुव आनयेद्यावता मूर्च्छयिष्यन्मन्येतेति बौधायनस्
तृतीये स्रुव आनयेद्यावता मूर्च्छयिष्यन्मन्येतेति शालीकिः ॥
अग्निहोत्रोच्छेषणमभ्यातनक्तीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽग्निहोत्रोच्छेषणमानीय हविरातञ्चनमानयेदेवमस्योभयमभ्यातक्तं भवतीति ॥
उदन्वतापिदधातीति ॥
उदन्वतापिधाय सवाँ र्! रात्रिं परिशाययेदिति बौधायन उदन्वतापिधाय सिक्त्वैता अपोऽपिदध्यादिति शालीकिः ॥
अग्नीनां परिस्तरण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यव उपवसथ एवाग्नीन्यथोत्पन्नं परिस्तृणीयादेवँ हि ब्राह्मणं भवत्युपास्मिञ्छ्वो यक्ष्यमाणे देवता वसन्ति य एवं विद्वानग्निमुपस्तृणातीति ॥
अशनानशन इति ॥
आरण्यं चापश्चाश्नीयादिति बौधायनोऽप एवेति शालीकिर्नारण्यं नापश्चनेत्यौपमन्यवः ४
20.5
पाणिसंमर्शन इति ॥
उत्तरेणाहवनीयं तिष्ठन्पाणी संमृशेदिति बौधायन उत्तरेण गार्हपत्यमिति शालीकिः ॥
अग्नीनां परिस्तरण इति ॥
सूत्रँ शालीकेराख्यातमौपमन्यवस्यात्रो ह स्माह बौधायनो गार्हपत्यमेवाग्रे पुरस्तात्परिस्तृणीयादथ दक्षिणतोऽथ पश्चादथोत्तरत एवमेवान्वाहार्यपचनं परिस्तृणीयादेवमाहवनीयमिति ॥
पात्राणाँ सादन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन उत्तरेण गार्हपत्यं तृणानि सँ स्तीर्य तेषु पात्राणि सादयेदित्युत्तरतोऽग्न्यगारस्य पात्राणि सादयेत्
तेषां यथार्थमाददीतेति राथीतरः ॥
ब्रह्मण उपवेशन इति ॥
व्यवेत्य दक्षिणेनाहवनीयमुपविशेदिति बौधायनोऽव्यवेत्यैव दक्षिणेनाहवनीयमिति शालीकिः ॥
यजमानस्योपवेशन इति ॥
व्यवेत्य दक्षिणत उपविशेदिति बौधायनोऽव्यवेत्यैव दक्षिणत उपविशेदिति शालीकिः ॥
पृष्ठ्यायै स्तरण इति ॥
सूत्रं बौधायनस्य
सोम एव पृष्ठ्याँ स्तृणीयादिति शालीकिः ॥
पवित्रयोः करण इति ॥
सूत्रं बौधायनस्य
पृष्ठ्यायास्तृणानामित्यौपमन्यवो येऽन्येऽनुपयुक्ताः कुशाः स्युस्तेषामिति शालीकिः ॥
स वाचंयमो भवति प्रणीतासु प्रणीयमानास्वा हविष्कृत इति ॥
अन्तर्हसन्नेतेषु संपातेषु संभाषेतेति बौधायनो विसृष्टवागिति शालीकिः ॥
होतृणां व्याख्यान इति ॥
सग्रहानृतेस्वाहाकारानित्येकम्
ऋतेग्रहानन्तःस्वाहाकारानित्येकं सर्वानित्येकम्पूर्वः कल्पो बौधायनस्योत्तरावुभौ शालीकेरिति ॥
दशहोतुर्व्याख्यान इति ॥
प्रणीताः प्रणीय प्रत्यङ्द्र वन्दशहोतारं व्याचक्षीतेत्याचार्ययोर्मुष्टिमेव ग्रहीष्यन्नित्यौपमन्यवः ॥
निर्वपण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः शकटादेव निर्वपेद्धुरौ व्यभिमृश्याक्षपालिं क्रामेद्विष्णुस्त्वा क्रमतामिति
पुरोडाशीयान्प्रेक्ष्याभिमृशेद्यच्छन्तां पञ्चेति
त्रिर्यजुषा सकृत्तूष्णीं चतुरवत्तिनां त्रिर्यजुषा द्विस्तूष्णीं पञ्चावत्तिनां सर्वानेव यजुषेति कात्यः ५
20.6
पञ्चावत्तस्य प्रक्रमण इति ॥
निर्वपणात्पञ्चावत्तं प्रक्रामेदिति बौधायनोऽवदानत इति शालीकिः
प्रदानत इत्यौपमन्यवश्चातुष्प्राश्यादित्यौपमन्यवीपुत्रः ॥
अतिशिष्टानामावपन इति ॥
तान्कोष्ठे वा पल्वे वावपेदिति बौधायनोऽत्रैवैनानावपेयुरिति शालीकिः ॥
आज्यस्य निर्वपण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन औषधस्यान्तं गत्वाज्यं निर्वपेद्
एवमस्य सह हविर्भिः प्रोक्षणं लभत इति ॥
परिदान इति ॥
यथानिरुप्तं परिददीतेति बौधायनोऽत्रो ह स्माह शालीकिरग्ने हव्यँ रक्षस्वेत्येव ब्रूयाद्विष्णो हव्यँ रक्षस्वेति पयो विष्णुर्हि पयसां गोप्ता भवत्यग्निरौषधस्येति ॥
प्रोक्षणीनामुत्पवन इति ॥
सूत्रं बौधायनस्य
निगदन्नेवैतामृचं त्रिरुत्पुनुयादिति शालीकिः ॥
पुरोडाशीयानां प्रोक्ष्ण इति ॥
अवग्राहशः प्रोक्षेदिति बौधायनो देवताः समनुद्रुत्य त्रिरेवेति शालीकिः ॥
पात्राणां प्रोक्षण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः शुन्धध्वं दैव्याय कर्मणे पात्रणि देवयज्याया इति ॥
अतिशिष्टानां परिशायन इति ॥
एता एव परिशयोरन्निति बौधायनः
सिक्त्वेता अप उपरिष्टादन्याः सँ स्कुर्वीतेति शालीकिः ॥
कृष्णाजिनस्यावधवन इति ॥
उपनिष्क्रम्याग्न्यगारादुत्तरेऽपरेऽवान्तरदेशे कृष्णाजिनमवधुनुयादिति बौधायनोऽन्तरेवैतां दिशमिति शालीकिः ॥
कृष्णाजिनस्यास्तरण इति ॥
स ह स्माह बौधायनोऽविसृजन्नेतत्कर्म कुर्यात्कृष्णाजिनावधवनादास्तरणादेवमुलूखलाध्यूहनादा पुरोडाशीयानामावपनादेवं मुसलस्यावधानादा योगाभ्यूहाभ्याम्
एवं प्रस्तर आ स्रुचाँ सादनादेवमभ्र्यादानादा खननादेवमौदुम्बर्याभिहोमादेवं यूप आ परिव्ययणादिति
यथोपपादमेवैतानि कर्माणि कुर्यादिति शालीकिः ६
20.7
पुरोडाशीयानामावपन इति ॥
सूत्रं बौधायनस्य
पञ्च मुष्टीन्पञ्चावत्तिनामावपेदिति शालीकिः ॥
दृषदुपले वृषारवेणोच्चैः समाहन्तीति ॥
सूत्रं बौधायनस्य
शम्ययैवेति शालीकिः ॥
शूर्पस्योपोहन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्तूष्णीँ शूर्पमुपोहेत्
समस्तेनैवास्मिन्मन्त्रेण पुरोडाशीयानुद्वपेद्वर्षवृद्धमसि प्रति त्वा वर्षवृद्धं वेत्त्विति ॥
अथोदङ्पर्यावृत्य परापुनातीति ॥
सूत्रं बौधायनस्य
यां कां चिद्दिशमभि पर्यावृत्य परापुनातीति शालीकिः ॥
तुषाणां निरसन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽत एव यावन्मात्रानुपहत्य कृष्णाजिनस्य ग्रीवात उपवपेद्र क्षसां भागोऽसीत्यथोदकमुपस्पृशेदिति ॥
कृष्णाजिनस्य पुनरास्तरण इति ॥
सूत्रमाचार्ययोः
प्राचीनग्रीवमुत्तरर्क्षमित्यौपमन्यवः ॥
पेषण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः प्राणाय त्वेति प्राचीं प्रोहेदपानाय त्वेति प्रतीचीम्व्यानाय त्वेति तिरश्चीं कर्षेदथ प्राचीं प्रोहेद्दीर्घामनु प्रसितिमायुषे धामिति
कृष्णाजिने पिष्टानि प्रस्कन्दयेद्देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति ७
20.8
नैकचरौ धृष्टेरादानं विद्यते न बहुष्विति शालीकिरत्रोह स्माह बौधायन आदित एव धृष्टिमाददीत धृष्टिरसि ब्रह्म यच्छेति
गार्हपत्यमभिमन्त्रयेतापाग्नेऽग्निमामादं जहीति
निष्क्रव्यादँ सेधेति दक्षिणाङ्गारं निरस्येदथान्यान्कल्पयेदा देवयजं वहेति
तेषु चरुस्थालीमधिश्रयेद्ध्रुवासि पृथिवीं दृँ हायुर्दृँ ह प्रजां दृँ ह सजातानस्मै यजमानाय पर्यूहेत्य्
अथैनां प्रदक्षिणमङ्गारैः परिचिनुयाद्निर्दग्धँ रक्षो गिर्दग्धा अरातय इति
स एवमेव सर्वाश्चरुस्थालीरधिश्रयेदिति ॥
चरुमुखेष्विति ॥
स ह स्माह बौधायन आदित एव धृष्टिमाददीत
मुख्यादेव भक्षान्साधयेदित्यत्रो ह स्माह शालीकिः कपालसंयोजने खलु धृष्टेरादानं भवति
स कपालान्येवोपधास्यन्धृष्टिमाददीत
पुरोडाशादेव भक्षान्साधयेदिति ॥
कपालानामुपधान इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवो यथाम्नायं खल्वस्यैवं कपालान्युपहितानि भवन्ति
य एवैषोऽङ्गाराधिवर्ततो मन्त्रस्तं प्रथमं कपाल्पोधानानां कुर्यादथ तूष्णीमङ्गारमधिवर्तयेदिति ।
एककपाले द्विकपाल इति ॥
स ह स्माह बौधायनो यदि चैककपालो यदि च द्विकपालः सर्वैरेनं कपालमन्त्रैरुपदध्यादित्यत्रो ह स्माह शालीकिर्यथाधिकरणमेव कपालान्युपदध्याद्न तु योगाभ्यूहौ गमयेत्तपनमन्त्रं चात्र ब्रूयाद्भृगूणामङ्गिरसां तपसा तप्यस्व तप्येथां तप्यध्वमिति ॥
कपालानां योग इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यव एतैरेवास्यैतानि मन्त्रैर्युक्तानि यैरुपहितानि भवन्त्यथेतरो विमोचनमन्त्र एव स्यादिति ॥
मदन्तीनामधिश्रयण इति ॥
तिरः पवित्रमप आनीयाधिश्रयेदिति बौधायनो यथोपपादमिति शालीकिः ॥
संयवन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः प्रणीताभ्यः स्रुवेणोपहत्याप आनयेदेवं मदन्तीभ्यस्
ता उभयीरानीयमानाः प्रतिमन्त्रयेत समापो अद्भिरग्मतेति ॥
व्यभिमर्श इति ॥
स ह स्माह बौधायनो व्यभिमृशेदेवैकहविरेवं नानाबीजानीत्यत्रो ह स्माह शालीकिः सँ सर्गात्खलु व्यभिमर्शो जायते
नासँ सृज्यमानानि हवीँ षि व्यभिमृशेन्नैकहविः
को हि नानाबीजानां व्यभिमर्श इति ॥
आज्यस्य निर्वपण्णिति ॥
सूत्रँ शालीकेराख्यातं बौधायनस्यात्रो ह स्माहौपमन्यवः सर्वाण्येव हवीँ षि परिनिष्ठाप्याज्यं निर्वपेदिति ॥
आप्यनिनयन इति ॥
जघनेन गार्हपत्यमाप्येभ्यो निनयेदिति बौधायनोऽग्रेणातिहायेति शालीकिरग्रेण वा जघनेन वेत्यौपमन्यवः ८
20.9
स्फ्यस्य सँ शान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो य एष स्फ्यस्योदसनो मन्त्रस्तं प्रथमँ सँ श्यनानां कुर्यादथ तूष्णीँ स्फ्यमुदस्येदिति ॥
वेद्यै परिग्रहण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः श्रोणिं प्रथमां परिगृह्णीयादथ दक्षिणमँ समथोत्तरमिति
पुरस्तादेवैनां प्रदक्षिणं परिगृह्णीयादित्यौपन्यवः ॥
योयुपन इति ॥
सूत्रं बौधायनस्य
चतुर्थेन योयुपित्वा पञ्चमेनोद्गृह्णीयादिति शालीकिः ॥
प्रोक्षणीनामासादन इति ॥
स्फ्यस्य वर्त्मन्नुपनिनीयासादयेदिति बौधायनोऽनुपनिनीयैवेति शालीकिः ॥
इध्माबर्हिषोरुपसादन इति ॥
सूत्रं बौधायनस्योत्तरमिध्ममिति शालीकिः ९
20.10
वेदपरिवासनेष्विति ॥
पञ्चधा विभज्य स्रुचः संमृजेदिति बौधायनः
समस्तैरेवाद्भिरभ्याकारमिति शालीकिः ॥
प्राशित्रहरणस्य संमार्जन इति ॥
सूत्रं बौधायनस्य
तूष्णीँ संमृजेदिति शालीकिर्न संमृजेदित्यौपमन्यवः ॥
स्रुक्संमार्जनानामनुप्रहरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽद्भिरभ्युक्ष्यासंचर उदस्येदुत्करे वैवमिध्मसंनहनानीति ॥
पत्नीनाँ संनहन इति ॥
स ह स्माह बौधायन एकैकामासाँ संनह्येदेकैकां गार्हपत्यमीक्षयेदेकैकामाज्यमवेक्षयेदित्यत्रो ह स्माह शालीकिः सकृदेवैनाः सर्वाः संनह्येदेकैकां गार्हपत्यमीक्षयेदेकैकामाज्यमवेक्षयेदित्यत्रो ह स्माहौपमन्यवः सकृदेवैनाः सर्वाः संनह्येत्सकृद्गार्हपत्यमीक्षयेदेकैकामाज्यमवेक्षयेदित्य्
एकैकामेवासाँ सर्वेणसर्वेण कर्मणा परिनिस्तिष्ठेदित्यौपमन्यवीपुत्रः ॥
ग्रन्थिकरण इति ॥
अवाचीनपाशमूर्ध्वनिर्मोचनमित्याचार्ययोरूर्ध्वपाशमवाचीननिर्मोचनमिति दीर्घवात्स्य एवमिव हि प्रजाः प्रजायन्त इति ॥
पत्न्यामविद्यमानायामिति ॥
स ह स्माह बौधायनो यजमानायतन आसीनो यजमान एवैतान्मन्त्रान्निगदेदित्यत्रो ह स्माह शालीकिः पत्नीसंयोजकाः खल्वेते मन्त्रा दृष्टा भवन्ति
तस्यामविद्यमानायां नैवैनानाद्रि येतेति ॥
अथैनामाज्यमवेक्षयतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः पत्न्या तदवेक्षितमुपयच्छीत तेजोऽसीत्यथैनच्छकलेनोपयत्य हरेद्तेजोऽनु प्रेहीत्यथैनदाहवनीयेऽधिश्रयेदग्निस्ते तेजो मा विनैदित्यथैनद्धृत्वोत्तरेण प्रोक्षणीः सादयित्वावेक्षित्वोत्पुनुयादाज्यवतीभ्यां प्रोक्षणीरिति ॥
आज्यस्यावेक्षण इति ॥
सूत्रं बौधायनस्य
सर्वैरेवावेक्षितमाज्यमुत्पुनुयादिति शालीकिः ॥
आज्यग्रहाणां ग्रहण इति ॥
स ह स्माह बौधायनोऽध्वर्युरेवोभयैर्मन्त्रैर्गृह्णीयात्पौरोडाशिकैश्च याजमानैश्च
याजमानैर्यजमानोऽनुमन्त्रयेतेत्यत्रो ह स्माह शालीकिरध्वर्युरेवोभयैर्मन्त्रैर्गृह्णीयात्पौरोडाशिकैश्च याजमानैश्च
न याजमानैर्यजमानोऽनुमन्त्रयेतेत्यत्रो ह स्माहौपमन्यवो यथापि पौरोडाशिका मन्त्रा नाभिनिवर्तन्त एवमेवापि याजमाना मन्त्रा नाभिनिवर्तेरन्निति ॥
इध्माबर्हिषः प्रोक्षण इति ॥
त्रिस्त्रिरेकैकं प्रोक्षेदिति बौधायनः
सकृत्सकृदिति शालीकिः १०
20.11
बर्हिषः प्रोक्षण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्तिष्ठन्दिवे त्वेत्यग्राणि प्रोक्षेत्प्रह्वोऽन्तरिक्षाय त्वेति मध्यान्युपविश्य पृथिव्यै त्वेति मूलानि
सह स्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्ष्यातिशिष्टाः प्रोक्षाणीर्निनयेद्दक्षिणायै श्रोणेरोत्तरायै श्रोणेः स्वधा पितृभ्य ऊर्ग्भव बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छतेति ॥
स्रुच उदूहन इति ॥
अग्रेणात्मानमुदीचीमुदूहेदिति बौधायनो जघनेनात्मानमुदीचीमुदूहेदिति शालीकिः ॥
प्रस्तरे पवित्रे अपिसृजति यजमाने प्राणापानौ दधामीति वा तूष्णीं वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
तं यजमानाय वा ब्रह्मणे वा प्रयच्छतीति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
शुल्बस्यायातन इति ॥
सूत्रं बौधायनस्य
शुल्ब विस्रस्य दक्षिणे वेद्यन्ते स्तृणीयादिति शालीकिः ॥
वेद्यै स्तरण इति ॥
सूत्रं बौधायनस्यात एवैनां प्राचीं धातुश स्तृणीयादिति शालीकिः ॥
परिधीनां परिधान इति ॥
स ह स्माह बौधायनोऽध्यस्येद्दक्षिणमुपोहेदुत्तरमित्यनीकसँ स्पृष्टानेवैनान्परिदध्यादिति शालीकिः ॥
अथ सूर्येण पुरस्तात्परिदधातीति ॥
सूत्रं बौधायनस्याहवनीयमेवैतेन यजुषोपतिष्ठेतेति शालीकिः ॥
ऊर्ध्वे समिधावादधातीति ।
सूत्रं बौधायनस्योर्ध्वे एवैने अभ्याधायानतिपातयेदिति शालीकिः ॥
विधृत्योः करण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माह दक्षिणाकारो राथीतर उभे एवैते वेदिं व्यतिषज्येयातामिति
मध्यमाद्धातोरनन्तर्गर्भे स्यातामित्यौपमन्यवः ॥११
20.12
दोहनपवित्रस्यासादन इति ॥
विस्रस्य प्रस्तर आसादयेदिति बौधायनोऽविस्रस्यैवेति शालीकिः ॥
स्रुचाँ सादन इति ॥
स ह स्माह बौधायन ईषत्प्रत्यवहतामिवोपभृतँ सादयेद्विधृतीभ्यां चैनामवगृह्णीयादित्यत्रो ह स्माह शालीकिरनुपूर्वा एवैनाः सादयेन्न चोपभृतं विधृतीभ्यामवगृह्णीयादिति ॥
हविषामुद्वासन इति ॥
अग्रेणानुद्वासितानि जघनेनोद्वासितानीति बौधायनो जघनेनानुद्वासितान्यग्रेणोद्वासितानीति शालीकिरपच्छेदमित्यौपमन्यवः ॥
प्रत्यञ्जन इति ॥
स ह स्माह बौधायन उभयानि प्रत्यञ्ज्याच्चरूणां चाशयान्कापालानि चेति
कपालान्येवेति शालीकिः ॥
कपालानामाध्वर्यवे विमोक इति ॥
उद्वास्य हवीँ षीत्यत्राचार्यौ विमुञ्चतो भक्षयन्नेव भक्षाणां पारे कपालानि विमुञ्चेदित्यौपमन्यवः ॥
आघाराविति ॥
सूत्रं बौधायनस्याभीषू इव व्यतिषक्तौ स्यातामिति शालीकिः
संप्रैष इति ॥
अग्नीदग्नीनिति बौधायनोऽग्निमग्नीदिति शालीकिरग्नीत्परिधीँ श्चाग्निं चेत्यौपमन्यवः ॥
अत्याक्रमण इति ॥
सव्येन प्रदास्यन्नत्याक्रामेद्धुत्वामुतो दक्षिणेनेति बौधायनो दक्षिणेन प्रदास्यन्नत्याक्रामेद्धुत्वामुतः सव्येनेति शालीकिः
आश्रावण इति ॥
ओ श्रावयेति बौधायन आ श्रावयेति शालीकिः
श्रावयेत्यौपमन्यवः ॥
प्रवर इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन उत्कर ऊर्ध्वाग्रँ स्फ्यं निहत्य प्रवरं प्रवृणीयादत्रैव च स्फ्यमुदस्येदुपरिष्टाच्चोपस्पृशेदिति ॥
होतुर्वरण इति ॥
स ह स्माह बौधायनो यद्यस्य पिता वाचार्यो वा ज्यायान्वा होता स्यादुपाँ श्वेतेषां गुरूणां नामानि गृह्णीयादित्युच्चैरेव होतुर्नाम गृह्णीयादिति शालीकिः १२
20.13
अभिक्रामं जुहोतीति ॥
स ह स्माह बौधायनः सर्वेणाभिक्रामेत्पद्भ्यामाहुतीभिः स्वरेणोत्तरामुत्तरामाहुतिं ज्यायसींज्यायसीं जुहुयादिति
पद्भ्यामेवाभिक्रामँ समानत्राहुतीर्जुहुयादिति शालीकिः
समानत्र तिष्ठन्नाहुतीभिरेवाभिक्रामेदित्यौपमन्यवः
समानत्रैव तिष्ठन्प्रदक्षिणमनुदिशँ हुत्वा मध्ये स्वाहाकारं जुहुयादित्याञ्जीगविः ॥
आज्यभागयोर्होम इति ॥
पूर्वार्धे प्रतिमुखं प्रबाहुग्जुहुयादिति बौधायनः
पूर्वार्ध एव प्रबाहुगिति शालीकिः ॥
हविषामवदान इति ॥
स ह स्माह बौधायनः पूर्वार्धादेवाग्रे प्रथमं मुख्यस्य हविषोऽवद्येदथापरार्धादेवमस्य प्रदक्षिणँ हविषामवत्तं भवतीत्यत्रो ह स्माह शालीकिरपरार्धादेवाग्रे प्रथमं मुख्यस्व हविषोऽवद्येदथ पूर्वार्धादेवमस्य प्राक्सँ स्थानि हवीँ षि भवन्तीति
मध्यात्पूर्वार्धात्पश्चार्धात्पञ्चावत्तिनामित्यौपमन्यवः ॥
आहुतीनामायतन इति ॥
स ह स्माह बौधायनस्त्रीण्येवैतान्यादिष्टस्थानानि भवन्त्याज्यभागौ स्विष्टकृदथेतरा यथावकाशं जुहुयादिति
प्रष्टीरेवाहुतीर्जुह्वत्पूर्वार्धे स्विष्टकृतं जुहुयादिति शालीकिः
स्रुच्यमाघारपथमभिजुहुयादित्यौपमन्यवो मध्ये प्रदक्षिणं मण्डलाकारमिति राथीतरः ॥
उपाँ शुयाजस्य करण इति ॥
सूत्रं मौद्गल्यस्यात्रो ह स्माह बौधायन औषधस्योपाँ शुयाजं कुर्यादग्नीषोमीयं पौर्णमास्यां वैष्णवममावास्यायामित्यत्रो ह स्माह शालीकिराज्यस्योपाँ शुयाजं कुर्यात्सौम्यं पौर्णमास्यां वैष्णवममावास्यायामित्यत्रो ह स्माहौपमन्यव औषधस्यैवोपाँ शुयाजं कुर्यात्सरस्वतः पौर्णमास्याँ सरस्वत्या अमावास्यायामित्युभयत्रैवाज्यस्य वैष्णव इति राथीतरोऽत्रो ह स्माह कौणपतन्त्रिश्चरुश्च स्याद्वैष्णवश्च स्यात्स्वयं चैव यजमानः प्राश्नीयादिति ॥
पञ्चमस्यावदानस्याभिवृद्ध्या इति ॥
औषधस्याभिवर्धयेदिति बौधायन आज्यस्यैवेति शालीकिः ॥
मेक्षणस्यानुप्रहरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो न मेक्षणन्यायेन वपाश्रपणी अनुप्रहरेदिति ॥
प्राशित्रस्यावदान इति ॥
सूत्रं बौधायनस्य
परिहरिष्यन्नेव प्राशित्रमवद्येदिति शालीकिः ॥
आज्यहविष्यन्वाहार्यस्य करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
अन्वाहार्यस्यासादन इति ॥
अग्रेण यजमानं च ब्रह्माणं च पर्याहृत्य दक्षिणस्याँ श्रोण्यामासादयेदिति बौधायनोऽत एव दक्षिणस्याँ श्रोण्यामिति शालीकिः १३
20.14
अन्वाहार्यस्योद्वासन इति ॥
अग्रेण स्रुच उदञ्चमुद्वासयेदिति बौधायनो जघनेन स्रुच उदञ्चमिति शालीकिः ॥
हविरुच्छिष्टानामुद्वासन इति ॥
अग्रेण स्रुच उदञ्च्युद्वासयेदिति बौधायनो जघनेन स्रुच उदञ्चीति शालीकिः ॥
अनूयाजानाँ होम इति ॥
सूत्रँ बौधायनस्य
प्रतीचीरेवैता आहुतीः सँ स्थापयेदिति शालीकिः ॥
वाजवत्योर्व्यूहन इति ॥
स ह स्माह बौधायनोऽक्ष्णया प्रतीचीमुपभृतं प्रत्यूहेदद्भिश्चैनाँ सँ स्पृशेदित्यत्रो ह स्माह शालीकिः प्राचीनपुष्करे एवैने विकर्षेन्न चोपभृतमद्भिः सँ स्पृशेदिति ॥
प्रस्तरस्य समञ्जन इति ॥
त्रिस्त्रिरेकैकस्याँ समञ्ज्यादिति बौधायनः
सकृत्सकृदिति शालीकिः ॥
प्रस्तरस्यानुप्रहरण इति ॥
स ह स्माह बौधायनोऽध्वर्युरेवोभयैर्मन्त्रैरनुप्रहरेत्पौरोडाशिकैश्च याजमानैश्च
याजमानैर्यजमानोऽनुमन्त्रयेतेत्यत्रो ह स्माह शालीकिरध्वर्युरेवोभयैर्मन्त्रैरनुप्रहरेत्पौरोडाशिकैश्च याजमानैश्च
न याजमानैर्यजमानोऽनुमन्त्रयेतेत्यत्रो ह स्माहौपमन्यवो यथापि पौरोडाशिका मन्त्रा नाभिवर्तन्त एवमेवापि याजमाना मन्त्रा नाभिवर्तेरन्निति ॥
परिधीनामभ्याधान इति ॥
सूत्रं बौधायनस्य
प्रस्थान एवैनानभ्यादध्यादिति शालीकिः ॥
अथैनान्सँ स्रावेणाभिजुहोतीति ॥
सूत्रं बौधायनस्य
प्रस्तरं चैव परिधीँ श्चाभिजुहुयादिति शालीकिः ॥
स्रुचोर्विमोक इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
पत्नीसंयाजेष्वृत्विजां परिक्रमण इति ॥
सूत्रं बौधायनस्य
सर्व एवोत्तरेण गार्हपत्यं परिक्रामेयुरिति शालीकिः १४
20.15
पत्नीनाँ संयाजन इति ॥
सूत्रं बौधायनस्य
ध्रौवाज्येन ध्वानेनैव पत्नीः संयाजयेदिति शालीकिः ॥
अन्तर्धाय देवानां पत्नीः संयाजयेदिति बौधायनोऽनन्तर्धायैवेति शालीकिः ॥
पत्नीसंयाजेषु शम्युवाकस्य करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
ध्रुवाया आप्यायन इति ॥
स ह स्माह बौधायन उभावेव ध्रुवामाप्याययेतामध्वर्युश्च यजमानश्चेत्य्
अध्वर्युरेव ध्रुवामाप्याय्य समिष्टयजुर्जुहुयादिति शालीकिः ॥
समिष्टयजुषो होम इति ॥
सूत्रमाचार्ययोरत्रो ह स्माह गौतमः स्वाहा वाचीति हुत्वा बर्हिषो धातूनाँ संप्रलुप्य ध्रुवायाँ समज्यानुप्रहृत्याभिजुहुयात्स्वाहा वाते धाः स्वाहेति १५
20.16
अथातोऽग्न्याधेयं व्याख्यास्यामः ॥
संभारेष्विति ॥
सूत्रँ राथीतराणाम्
अत्रो ह स्माह बौधायनो नाशनिहतं कुर्वीत घोररूपमिति
कुर्वीतैवाशनिहतं न तु मुञ्जकुलायं न ह्येतस्यानुख्या विज्ञायत इति शालीकिः ॥
पात्राणां करण इति ॥
स ह स्माह बौधायनस्त्वक्तआसेचनानि कारयेदग्रतःपुष्कराण्येवमस्य प्राचीनपुष्कराः स्रुचः सन्ना भवन्तीत्यत्रो ह स्माह शालीकिस्त्वक्तआसेचनानि कारयेन्मूलतःपुष्कराण्येवमस्य प्राचीनपुष्कराः स्रुचः सन्ना भवन्तीति
विज्ञायते तस्मादवाचीनाग्रा वनस्पतयः पृथिवीं क्षियन्तीति ॥
स्रुचां प्रमाण इति ॥
बाहुमात्राः स्युरिति बौधायनोऽरत्निमात्रा इति शालीकिः
प्रादेशमात्रा इत्यौपमन्यवः ॥
स्रुचामाकृतिविकार इति ॥
हस्त्योष्ठ्यः स्युरिति बौधायनो वायसपुच्छा इति शालीकिहँ र्! समुखप्रसेचना इत्यौपमन्यवः ॥
अम्बरीषस्य करण इति ॥
उत्तरतोऽग्न्यगारस्याम्बरीषं कुर्यादिति बौधायनो यत्रैवाम्बरीषः स्यात्तद्गच्छेदिति शालीकिः ॥
रोहिते चर्मणीति ॥
सूत्रं बौधायनस्याप्यरोहितँ स्यादिति शालीकिः ॥
ब्रह्मौदनस्य मन्त्रामन्त्र इति ॥
मन्त्रवान्स्यादिति बौधायनस्तूष्णीक इति शालीकिः ॥
ब्रह्मौदनस्य निर्वपण इति ॥
पवित्रवता पात्रेण मन्त्रवन्तमिति बौधायनोऽपवित्रेण तूष्णीकमिति शालीकिः ॥
ब्रह्मौदनस्य श्रपण इति ॥
पयसि श्रपयेदिति बौधायनोऽप्स्विति शालीकिः ॥
नैवास्मिन्नासिञ्चेन्न निःषिञ्चेदिति बौधायनः
काममस्मिन्नासिञ्चेन्न निःषिञ्चेदिति शालीकिर्विस्राव्य तँ सूपवन्तमित्यौपमन्यवः ॥
ब्रह्मौदनस्योपस्तरण इति ॥
सूत्रं बौधायनस्य
नोपस्तृणीतेति शालीकिः ॥
ब्रह्मौदनस्योदवासन इति ॥
सूत्रं बौधायनस्यात्रैव पर्युपविशेयुरिति शालीकिः ॥
ब्रह्मौदनस्योपोहन इति ॥
यज्ञो मोपनमत्विति वा तूष्णीं वेति
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
ब्रह्मौदनस्य प्राशन इति ॥
आर्षेया एव ब्रह्मौदनं प्राश्नीयुरिति बौधायनो य एव केच नियतपाना इति कात्योऽत्रो ह स्माहौपमन्यवो महर्त्विज एव ब्रह्मौदनं प्राश्नीयुरत्र ह्येवैते सतानुनप्त्रिणो भवन्तीति ॥
समिधामभ्याधान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः सकृत्प्राशितेऽप्रत्यवमृष्टे समिधोऽभ्यज्यादध्यादित्यत्रो ह स्माहौपमन्यवोऽत्रैवैनाः पार्श्वतः समज्य सादयेत्
ते यदा सर्वं प्राश्नीयुरथैतां पात्रीं निर्णिज्योपस्तीर्य यत्स्थाल्यामाज्यमवशिष्टँ स्यात्तत्सकृदभ्युन्नीय तेन समिधोऽभ्यज्यादध्यादिति ॥
गोः करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिरपि बह्वीरपि कुर्वीतानु चैतस्य भवेत्पुण्या प्रशँ सेति कात्यः ॥
अरण्योः प्रदान इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवोऽपररात्र एवास्मा अरणी प्रयच्छेद्वरं ददामीत्येव वाचं विसृजेदिति ॥
अग्न्यायतनानां परिलेपन इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवो गार्हपत्यायतनमेवैकं परिलिम्पेत्
तद्धि विदग्धं भवतीति ॥
संभाराणां निवपन इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवो गार्हपत्यायतन एवैनान्सर्वैर्मन्त्रैः परिनिष्ठाप्य त्रेधा निवपेदिति १६
20.17
इध्मस्य हरण इति ॥
स ह स्माह बौधायनो जानुदघ्ने प्रथमँ हरेदथ नाभिदघ्नेऽथ ग्रीवदघ्ने
प्राणाँ स्तु नातिहरेदित्याददान एवैता मात्रा अभिसंपादयेत्
प्राणाँ स्त्वेव नातिहरेदिति शालीकिः ॥
संभाराणामाक्रमण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन एवमेवैतेन पुरस्तात्प्रत्यगावृत्तेन दक्षिणेन पूर्वपदेनोत्तरतः पार्श्वतः संभाराणामाक्रमयेद्यथाहितस्याग्नेरङ्गारा अभ्यववर्तेरन्निति ॥
अश्वस्य दन इति ॥
अध्वर्यव एतमग्निपदमश्वं दद्यादन्यं ब्रह्मण इति बौधायन एतं ब्रह्मणेऽन्यमध्वर्यव इति शालीकिः ॥
इध्मस्य निधान इति ॥
सूत्रं बौधायनस्य
तूष्णीमेवेध्मं निदध्यादिति शालीकिः ॥
सभ्यावसथ्ययोः करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
सभ्यावसथ्ययोर्विहरण इति ॥
आहवनीयादेवैनौ विहरेदिति बौधायनो ग्रामाग्नेरिति शालीकिर्निर्मन्थ्यौ स्यातामित्यौपमन्यवोऽत्रो ह स्माहौपमन्यवीपुत्रः सभायामेव सभ्यं व्यपदिशेदावसथ आवसथीयं पर्वणि चैनयो स्थालीपाकौ श्रपयित्वा ब्रह्मणे जुहुयादित्येतदपि न कुर्यादित्याञ्जीगविः ॥
रथचक्रस्य करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिरत्रो ह स्माहौपमन्यवो रथमेवैतँ संयुक्तं प्राञ्चं प्रवर्तयेत्
तमृत्विग्भ्यो दद्यादित्येतदपि न कुर्यादित्याञ्जीगविः ॥
तनूनामनुदेश इति ॥
प्रत्यधीत्यानुदिशेदिति बौधायनो यास्ते अग्ने घोरास्तनुवस्ताभिरमुं गच्छेत्येव ब्रूयादिति शालीकिः ॥
विराजक्रमेष्विति ॥
सूत्रं बौधायनस्य
नर्य प्रजां मे गोपाय त्येव ब्रूयादिति शालीकिः ॥
पूर्णाहुत्यै हवन इति ॥
सूत्रं बौधायनस्य
परिश्रित एव पूर्णाहुतिं जुहुयादिति शालीकिः १७
20.18
पूर्णाहुतौ तूष्णीमग्निहोत्र इति ॥
सूत्रँ राथीतराणाम्
अत्रो ह स्माह बौधायनः पूर्णाहुतिमेव जुहुयान्न तूष्णीमग्निहोत्रमिति
तूष्णीमग्निहोत्रमेव जुहुयान्न पूर्णाहुतिमिति शालीकिः ॥
दशहोतुर्व्याख्यान इति ॥
स ह स्माह बौधायनो यत्र क्वच हविर्निर्वप्स्यन्स्यात्सामिधेनीर्वानुवक्ष्यन्व्याचक्षीतैव तत्र दशहोतारम्
इत्येष्वेवैतदाग्न्यधेयिकेषु तन्त्रेषु दृष्टं भवतीति शालीकिरस्मिन्नेवैतदाग्नेयेऽष्टाकपाले दृष्टं भवतीत्यौपमन्यवः ॥
तन्त्रकरण इति ॥
स ह स्माह बौधायनः पञ्चदशसामिधेनीकाः स्युर्वार्त्रघ्नावाज्यभागावुच्चैर्देवता इत्यत्रो ह स्माह शालीकिः सप्तदशसामिधेनीकाः स्युर्वृधन्वन्तावाज्यभागावुपाँ शुदेवता इत्यत्रो ह स्माहौपमन्यव आग्नेयेऽष्टाकपाले वार्त्रघ्नावाज्यभागौ स्यातां वृधन्वन्तावैन्द्रा ग्नादित्ययो रयिमन्तौ पुष्टिमन्तौ पवमानहविःषु वीतवन्तावन्वारम्भेष्ट्यामिति ॥
याजमानस्य करण इति ॥
अभीनामं याजमानं कुर्यादिति बौधायनः ॥
कुर्याद्यथावकाशं याजमानमिति शालीकिः ॥
दक्षिणानां दान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः सर्वा एवैता इष्टीर्दक्षिणावतीः कुर्यात्
तिस्रस्तिस्र एकैकस्यां दद्यान्मिथुनावुत्तमायामिति ॥
तन्तरसमास इति ॥
नास्ति तन्त्रसमास आचार्ययोरत्रो ह स्माहौपमन्यव आग्नेयोऽष्टाकपालोऽग्नये पवमानाय तत्प्रथमं तन्त्रँ स्यादथाग्नये पावकायाग्नये शुचये तद्द्वितीयम्
अथैन्द्रा ग्नश्चादित्यश्च चरुरन्तं परीयातामिति ॥
दक्षिणानां दान इति ॥
सूत्रँ शालीकेराख्यातं बौधायनस्यात्रो ह स्माहौपमन्यवः सर्वा एवैता इष्टीर्दक्षिणावतीः कुर्याच्चतस्रश्चतस्र एकैकस्यां दद्यान्मिथुनावुत्तमायामिति ॥
अनन्वारब्धदर्शपूर्णमासस्य प्रायश्चित्तकरण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
अन्वारम्भेष्ट्यामिति ॥
चतुर्होतारँ सारस्वतौ होमावन्वारम्भेष्टिमित्येतदुपवसथे कुर्यादथेतरदिष्ट्यहनि कुर्यादिति बौधायनश्चतुर्होतारँ सारस्वतौ होमावित्येतदुपवस्थे कुर्यादथेतरदिष्ट्यहनि कुर्यादिति शालीकिश्चतुर्होतारमेवोपवसथे कुर्यादथेतरदिष्ट्यहनि कुर्यादित्यौपमन्यवः
सर्वमेवैतदिष्ट्यहनि कुर्यादित्यौपमन्यवीपुत्रः १८
20.19
अथातः पुनराधेयं व्याख्यास्यामः ॥
सर्पराज्ञीष्विति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः सर्पराज्ञिया ऋग्भिर्गार्हपत्यमादधातीति तँ षड्भिराधाय सप्तम्योपतिष्ठेतेति ॥
पूर्णाहुत्यै करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
तन्त्रकरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन उभयानि तन्त्राणि कारयेत्पौनराधेयिकानि चाग्न्याधेयिकानि चाग्नेयमष्टाकपालं निर्वपेत्
तस्यासमुदितेऽग्न्याधेयदक्षिणा दद्यादथाग्नेयं पञ्चकपालं तस्यासमुदिते पुनराधेयदक्षिणा दद्यादथैन्द्रा ग्नं चादित्यं च चरुम्
अथाग्निवारुणम्पारे द्वादशाहस्य तन्व इति ॥
विभक्तीनां धान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः सवाँ र्! सर्वामृचमुक्त्वा यजेतेत्याग्नेयीर्द्व्यक्षरा विभक्तीर्दध्यादित्यौपमन्यवः ॥
पुरोडाशस्य परिहोम इति ॥
दैवतं परिजुहुयादिति बौधायनः
सस्विष्टकृत्कमिति शालीकिः ॥
स्विष्टकृतो निर्वचन इति ॥
स्वे स्थाने निर्ब्रूयादिति बौधायनः
स्वे स्थाने निरुच्य कामं तत ऊर्ध्वं निर्ब्रूयादिति शालीकिरत्रो ह स्माहौपमन्यवः पञ्चैतानि स्विष्टकृत्स्थानानि भवन्तीति
तेषु सर्वेषु निर्ब्रूयादिति ॥
अथापाहृताग्नेर्नष्टारणीकस्य चेति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः कामं नष्टेषु वापहृतेषु वाग्निषु नाद्रि येताग्न्याधेयम्
आधानप्रभृति यजमान एवाग्नयो भवन्ति
तस्य प्राणो गार्हपत्योऽपानोऽन्वाहार्यपचनो व्यान आहवनीयः
काममुपावरोह्य जुहुयादिति ॥
अग्नीनां विहरण इति ॥
सूत्रं बौधायनस्याधानप्रभृत्येवैतेऽजस्राः स्युरिति शालीकिः ॥
पात्राणाँ सादन इति ॥
सूत्रँ शालिकेरत्रो ह स्माह बौधायनः कूर्चे वा तृणेषु वा पात्राणि सादयेदपसव्यं दारुणा दारु संलीयमानं भवतीति ॥
द्वयोर्होम इति ॥
स ह स्माह बौधायनो यदि पूर्वा भ्रेषं नीयादुत्तरया प्रायश्चित्तं कुर्वीताथ यद्युत्तरा भ्रेषं नीयादुभयं भ्रेषकृतँ स्यादन्यया प्रायश्चित्तं कुर्वीतेत्यत्रो ह स्माह शालीकिर्यतरा कतरा चिद्भ्रेषं नीयादुभयं भ्रेषकृतँ स्यादन्ययैव ततः प्रायश्चित्तं कुर्वीतेति १९
20.20
अभिज्वलन इति ॥
सूत्रं बौधायनस्य
गार्हपत्यादङ्गारेणाभिज्वाल्य त्रिः पर्यग्नि कुर्यादिति शालीकिः ॥
वर्त्म कुर्वन्नुदगुद्वासयतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्तत्रैव त्रिः प्रतिष्ठापयन्निवोद्वासयेत्
त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठतीति ॥
उन्नयन इति ॥
पूर्णान्वानूचो वेति
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
संमर्श इति ॥
स ह स्माह बौधायन उभयँ संमृशेद्यच्च स्थाल्याँ स्रुग्गतं चेति
स्रुग्गतमेवेति शालीकिः ॥
अथ जघनेन गार्हपत्यमुपसादयतीति ॥
सूत्रं बौधायन्सयाग्रेणातिहायेति शालीकिः ॥
हवन इति ॥
स्वयं व्यवेत्य जुहुयादिति बौधायनो यद्यस्य पुत्रो वान्तेवासी वालंकर्मीणः स्यात्स दक्षिणत आसीनो जुहुयादिति शालीकिः ॥
आहुत्योर्होम इति ॥
पूर्वापरे जुहुयादिति बौधायनः
प्रष्टी इति शालीकिः ॥
द्विरुपमृज्य द्विर्निमृजेदिति बौधायनः
सकृदुपमृज्य द्विर्निमृजेदिति शालीकिः ॥
द्विरङ्गुल्या प्राश्योदङ्पर्यावृत्य प्राचीनदण्डया स्रुचा भक्षयतीति ॥
सूत्रं बौधायनस्योदीचीनदण्डया भक्षयेदिति शालीकिः ॥
निर्णिज्य स्रुचं निष्टप्याद्भिः पूरयित्वोदगुद्दिशतीति जघनेन गार्हपत्यमपो निनयतीदमहमग्नौ वैश्वानरेऽमृतं जुहोमि स्वाहेत्यक्षित्यामक्षिताहुतिमिति वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकिः ॥
आग्निपावमानीभिरुपस्थान इति ॥
स ह स्माह बौधायनः संवत्सरं यथोपस्थितमाहवनीयमुपस्थाय तत आग्निपावमानीभिर्गार्हपत्यमुपतिष्ठेताथ गायत्रीभिरथ द्विपदाभिरथ श्वो भूते यथायथमित्यत्रो ह स्माह शालीकिर्यत्प्राक्चोर्ध्वं चाग्निपावमानीभ्यस्तेन संवत्सरं यथोपस्थितमाहवनीयमुपस्थाय तत आग्निपावमानीभिर्गार्हपत्यमुपतिष्ठेताथ गायत्रीभिरथ द्विपदाभिरथ श्वो भूते यथायथमित्येवमौपमन्यवो न चास्यात ऊर्ध्वमाग्निपावमान्य आहवनीयमागच्छेयुर्न गार्हपत्यं स्वाध्यायार्था एवास्यात ऊर्ध्वँ स्युरिति
व्याहृतीभिरुपस्थाय भर्तुं वः शकेयं श्रद्धा मे मा विगादित्येव ब्रूयादित्याञ्जीगविः ॥
आशिःष्विति ॥
स ह स्माह बौधायन आत्मने प्रथममाशासीताथ जातेभ्योऽथ तन्तव इत्य्
अत्रो ह स्माह शालीकिर्जातेभ्यः प्रथममाशासीताथात्मनेऽथ तन्तव इत्यत्रो ह स्माहौपमन्यवोऽजातेष्वेवात्मने च तन्तवे चेति
काममपि सायंप्रातराशासीतेत्यौपमन्यवीपुत्रः २०
20.21
पिण्डपितृयज्ञस्य करण इति ॥
स ह स्माह बौधायन आदित एव प्राचीनावीतं कुर्वीत
स प्राचीनावीत्येव स्यादाहुतीनाँ होमादाहुतीर्होष्यन्यज्ञोपवीतं कुर्वीत
स यज्ञोपवीत्येव स्यादा सकृदाच्छिन्नस्य स्तरणात्
सकृदाच्छिन्नँ स्तरिष्यन्प्राचीनावीतं कुर्वीत
स प्राचीनावीत्येव स्यादा प्राजापत्यायै
यज्ञोपवीत्येव प्राजापत्ययर्चा गार्हपत्यमुपतिष्ठेतेत्यत्रो ह स्माह शालीकिरादित एव प्राचीनावीतं कुर्वीत
स प्राचीनावीत्येव स्यादा प्राजापत्यायै
यज्ञोपवीत्येव प्राजापत्ययर्चोदङ्ङेयादिति ॥
तूष्णीँ सकृदुत्पूय सकृत्प्रोक्ष्य सकृद्धविष्कृद्रू पं कुर्यादिति बौधायनः
सकृदेवैनान्सुफलीकृतान्कृत्वा पवित्रवत्याँ स्थाल्यामोप्य स्थालीपाकँ श्रपयित्वाभिघार्योदञ्चमुद्वासयेदिति शालीकिः ॥
आहुतीनाँ होम इति ॥
सूत्रं बौधायनस्य
नात्र मध्यमामाहुतिं जुहुयाद्मेक्षणमेव तृतीयँ स्यादिति शालीकिः ॥
सकृदाच्छिन्नस्य स्तरण इति ॥
उपनिष्क्रम्याग्न्यगाराद्दक्षिणे पूर्वेऽवान्तरदेशे सकृदाच्छिन्नँ स्तृणीयाद्दक्षिणतश्चोल्मुकमुपनिदध्यादिति बौधायनोऽन्तरेवैतां दिशमिति शालीकिर्न चात्रोल्मुकमुपनिदध्यादिति ॥
पिण्डानां दान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः परस्तादेवामुतोऽर्वाचोऽपसलैः पिण्डान्दद्यादिति ॥
आञ्जनाभ्यञ्जने मनसो निह्नव इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
पिण्डानामनुप्रहरण्णिति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽत्रैवैते पिण्डाः परिशयीरन्नुच्छिष्टा ह्येते भवन्ति पितृभिर्भक्षंकृता इति ॥
अतिशिष्टस्य प्राशन इति ॥
स्वयं यजमानः प्राश्नीयादिति बौधायनः
पुत्राय वान्तेवासिने वा दद्यादिति शालीकिः
पत्नीं प्राशयेत्
प्रजास्यैषा भवतीत्यौपमन्यवोऽङ्गुल्या यावन्मात्रमवघ्रायाथेतरदग्नावनुप्रहरेदित्यौपमन्यवीपुत्रो भस्मोत्कर उद्वास्य संप्रच्छादयेदित्याञ्जीगविरपोऽभ्यवहरेदिति मौद्गल्यः २१
20.22
आग्रयणस्य तन्त्रसमास इति ॥
नास्ति तन्त्रसमास आचार्ययोरत्रो ह स्माहौपमन्यवः सौम्यं निरुप्याथेतराणि हवीँ षि निर्वपेदेवमस्य चरुमुखानि हवीँ षि भवन्तीत्यत्रो ह स्माहौपमन्यवीपुत्रोऽतिपातादावापिक एव सौम्यः स्यादन्तरेण वैश्वदेवं चैककपालं च निर्वपेदित्यत्रो ह स्माहाञ्जीगविस्त्रीण्येतानि हवीँ षि भवन्ति
त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति
श्यामाकेनैवास्य प्रस्तरेणैतदाप्तं भवतीति ॥
अज्यानीनाँ होम इति ॥
सूत्रं बौधायनस्य
पुरस्तात्स्विष्टकृतोऽज्यानीरुपजुहुयादिति शालीकिः ॥
आग्रयणहविषाँ श्रपण इति ॥
पयसि श्रपयेदिति बौधायनोऽप्स्विति शालीकिः ॥
आग्रयण एककपालस्य करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
तन्त्रकरण इति ॥
स ह स्माह बौधायनः पञ्चदशसामिधेनीकाः स्युर्वार्त्रघ्नावाज्यभागावुच्चैर्देवताः
कुर्याद्याजमानमित्यत्रो ह स्माह शालीकिः सप्तदशसामिधेनीकाः स्युर्वृधन्वन्तावाज्यभागावुपाँ शुदेवताः
कुर्याद्याजमानमिति २२
20.23
विपरिधान इति ॥
स ह स्माह बौधायन आहवनीयेनैकेन विपरिधाय प्रव्रजेत्
प्रोष्य पुनरागम्य सर्वैर्मन्त्रैराहवनीयं प्रत्युपतिष्ठेतेत्यत्रो ह स्माह शालीकिर्यथोपपन्नमेवाग्निभिर्विपरिधाय प्रव्रजेत्
प्रोष्य पुनरागम्य सर्वैर्मन्त्रैरेकैकं प्रत्युपतिष्ठेतेति ॥
अनुपस्थाय प्रव्रजितस्येति ॥
यत्र स्मरेत्परोक्षं तत एनं नित्येनोपतिष्ठेतेति बौधायनो न चेत्स्मरेत्प्रोष्य पुनरागम्य नित्येनैवेति शालीकिः ॥
प्रवसथाहुताविति ॥
स ह स्माह बौधायनो यदि कृतं प्रायश्चित्तँ स्यान्नाद्रि येत तत्र होतुम्
अथ यद्यकृतँ स्यात्तत्रैनां जुहुयादित्यत्रो ह स्माह शालीकिर्ये प्रत्याम्नातप्रायश्चित्ता भ्रेषाः स्युस्तान्येव तत्र प्रायश्चित्तानि स्युरथ येऽप्रत्याम्नातप्रायश्चित्ता भ्रेषाः स्युर्नैवैनामाद्रि येतेत्यत्रो ह स्माहौपमन्यवो यदि चैव कृतं प्रायश्चित्तँ स्याद्यदि चाकृतं जुहुयादेव तत्र प्रवसथाहुतिमिति ॥
विराजक्रमेष्विति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
अपामाचमन इति ॥
द्विर्मन्त्रेणाप आचामेत्सकृत्तूष्णीमिति बौधायनः
सकृन्मन्त्रेणाप आचामेद्द्विस्तूष्णीमिति शालीकिः ॥
साक्षीकरण इति ॥
स ह स्माह बौधायनः सर्वा एवैता देवताः साक्षिणीः कुर्वीताग्ने व्रतपते व्रतं चरिष्यामीत्यग्निर्वै देवानां व्रतपतिरित्येतदेव नातिमन्येतेति शालीकिः ॥
कपाले नष्टे भिन्ने वेति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवो मनो ज्योतिर्जुषतां त्रयस्त्रिँ शत्तन्तव इत्येते स्रुवाहुती हुत्वाथान्यदपिसृजेद्घर्मो देवाँ अप्येत्विति
सएष मन्त्रो भवति सं त्वा सिञ्चामि यजुषेति
पयो वाज्यं वासिक्तमेतेनैव मन्त्रेण सँ सिञ्चेदिति ॥
आज्यग्रहाणां ग्रहण इति ॥
स ह स्माह बौधायनोऽध्वर्युरेवोभयैर्मन्त्रैर्गृह्णीयात्पौरोडाशिकैश्च याजमानैश्च
याजमानैर्यजमानोऽनुमन्त्रयेतेत्यत्रो ह स्माह शालीकिरध्वर्युरेवोभयैर्मन्त्रैर्गृह्णीयात्पौरोडाशिकैश्च याजमानैश्च
न याजमानैर्यजमानोऽनुमन्त्रयेतेत्यत्रो ह स्माहौपमन्यवो यथापि पौरोडाशिका मन्त्रा नाभिवर्तन्त एवमेवापि याजमाना मन्त्रा नाभिवर्तेरन्निति ॥
परिधीनां परिधान इति ॥
स ह स्माह बौधायनोऽध्वर्युरेवोभयैर्मन्त्रैः परिदध्यात्पौरोडाशिकैश्च याजमानैश्च
याजमानैर्यजमानोऽनुमन्त्रयेतेत्यत्रो ह स्माह शालीकिरध्वर्युरेवोभयैर्मन्त्रैः परिदध्यात्पौरोडाशिकैश्च याजमानैश्च न याजमानैर्यजमानोऽनुमन्त्रयेतेत्यत्रो ह स्माहौपमन्यवो यथापि पौरोडाशिका मन्त्रा नाभिवर्तन्त एवमेवापि याजमाना मन्त्रा नाभिवर्तेरन्निति ॥
समिधोरभ्याधीयमानयोर्जपतीति ॥
सूत्रं बौधायनस्य
सर्व एवैषोऽग्नियोजनो मन्त्रः स्यादिति शालीकिः २३
20.24
अथ भूर्भुवः सुवरित्यग्निहोत्रमेताभिर्व्याहृतीभिरुपसादयेदिति ॥
स एवमेव संवत्सरेसंवत्सर इति सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यस्याँ रात्र्यामादित उपसादयेत्संवत्सरे पर्यवेते तस्यामुपसाद्य न तत ऊर्ध्वमाद्रि येतेत्यत्रो ह स्माहौपमन्यवोऽभ्यारूढः खल्वस्यैव संवत्सरो भवति
यस्याँ रात्र्यामादित उपसादयेत्संवत्सरे पर्यवेते या ततः पूर्वा रात्रिः स्यात्तस्यामुपसाद्य न तत ऊर्ध्वमाद्रि येतेति ॥
दर्शपूर्णमासावालभमान एताहिर्व्याहृतीभिर्हवीँ ष्यासादयेदिति ॥
स एवमेव संवत्सरेसंवत्सर इति सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यस्यां पौर्णमास्यामादित आसादयेत्संवत्सरे पर्यवेते तस्यामासाद्य न तत ऊर्ध्वमाद्रि येतेत्यत्रो ह स्माहौपमन्यवोऽभ्यारूढः खल्वस्यैव संवत्सरो भवति
यस्यां पौर्णमास्यामादित आसादयेत्संवत्सरे पर्यवेते या ततः पूर्वा पौर्णमासी स्यात्तस्यामासाद्य न तत ऊर्ध्वमाद्रि येतेति ॥
चातुर्मास्यान्यालभमान एताभिर्व्याहृतीभिर्हवीँ ष्यासादयेदिति ॥
स एवमेव संवत्सरेसंवत्सर इति सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यस्यां पौर्णमास्यां वैश्वदेवहवीँ ष्यासादयेत्संवत्सरे पर्यवेते तस्यां वैश्वदेवहवीँ ष्यासाद्य न ततूर्ध्वमाद्रि येतेत्य्
अत्रो ह स्माहौपमन्यवोऽभ्यारूढः खल्वस्यैव संवत्सरो भवति
यास्यां पौर्णमास्यां वैश्वदेवहवीँ ष्यासादयेत्संवत्सरे पर्यवेते या ततः पूर्वा पौर्णमासी स्यात्तस्याँ शुनासीरीयहवीँ ष्यासाद्य न ततूर्ध्वमाद्रि येतेति ॥
व्याहृतीनां धान इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
प्राशीत्रेऽवदीयमाने जपतीति ॥
सूत्रं मैत्रेयस्याथाचार्ययोः प्राशित्रेऽवदीयमाने जपत्यग्निर्मा दुरिष्टात्पातु सविताघशँ सातिति ॥
यजमानभागे यो मेऽन्ति दूरेऽरातीयति तमेतेन जेषमिति ॥
सर्व एवैष स्विष्टकृदनुमन्त्रणो मन्त्रः स्यादित्यौपमन्यवः ॥
वेदे यजमानं वाचयतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो वेदे यजमानं वाचयति वेदोऽसि वित्तिरसि विदेयेति ॥
यद्यद्भ्रातृव्यस्याभिध्यायेत्तस्य नाम गृह्णीयात्
तदेवास्य सर्वं वृङ्क्त इति ॥
अथ यदि यजमानः सुरापो वा भवति प्रवसति वेति ॥
स ह स्माह बौधायनः प्रवसतः प्रस्तरेणैवास्य सह यजमानभागमनुप्रहरेद्ध्रुवायै वाज्येन पर्युपस्तीर्य जुह्वामवधाय जुहुयात्
प्रस्तरभूयं यजमानभागो गच्छतीत्यत्रो ह स्माह शालीकिरादित एव न सुरापेण सँ सृज्येताथ चेत्सँ सृज्येत मन्त्रानु हैनं वाचयेत्किमु भक्षान्न भक्षये-दिति
भक्षयेच्चैव भक्षानित्यौपमन्यवः ॥
आदित्यस्योपस्थान इति ॥
उपनिष्क्रम्याग्न्यगारादादित्यमुपतिष्ठेतेति बौधायनोऽत्रैव तिष्ठन्निति शालीकिः ॥
पौर्णमास्यामुपवेषस्य करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
व्रतविसर्ग इति ॥
मन्त्रेणाप आचम्य मन्त्रेण व्रतं विसृजेतेति बौधायनस्
तूष्णीमप आचम्य मन्त्रेण व्रतं विसृजेतेति शालीकिरुपवेषेण चरित्वा व्रतं विसृजेतेत्यौपमन्यवः ॥
यज्ञस्य पुनरालम्भं जपतीति ॥
सूत्रं बौधायनस्याहवनीयमेवैतेन यजुषोपतिष्ठेतेति शालीकिः २४
20.25
अथातः पशुबन्धं व्याख्यास्यामः ॥
स ह स्माह बौधायनः सोपवसथा इष्टिपशुबन्ध इति
सोपवसथा वा सद्योयज्ञा वेति शालीकिः ॥
इष्टिकरण इति ॥
पशौपशावेवाग्नेयेनाष्टाकपालेन यजेतेति बौधायनो बभ्रुकर्ण्यां चैवैतदजवशायां च दृष्टं बह्वतीति शालीकिः ॥
स्फ्यो यूपो भवतीति ॥
स्फ्यप्रकार एवायं चषालवान्यूपो भवतीति बौधायनोऽस्फ्य एवायमग्न्यगारिकोऽचषालो यूपः स्यादिति शालीकिः ॥
विशाखो यूपो भवतीति ॥
ऊर्ध्वँ रशनाकालाद्द्वे शाखे चतुरश्रे चतुरश्रचषाले स्यातामथेतरोऽष्टाश्रिर्यूपः स्यादिति बौधायनः
शाखैवेयमचषाला स्यादथेतरोऽष्टाश्रिर्यूपः स्यादिति शालीकिः ॥
सक्तुकरण इति ॥
सूत्रं बौधायनस्य
व्रीहीणामपि कुर्यादिति शालीकिः ॥
षड्ढोतुर्होम इति ॥
सूत्रं बौधायनस्योपवसथ एव षड्ढोतारं जुहुयादिति शालीकिः ॥
यूपाहुत्यै हवन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन आज्यं चारणी चादाय यूपस्यान्तिकेऽग्निं मथित्वा यूपाहुतिं जुहुयादिति ॥
आव्रश्चनस्याभिहोम इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन एवमेव जुह्वामन्तर्धाय हिरण्यमभिजुहुयाद्वनस्पते शतवल्शो विरोह स्वाहेति
सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्यभिमृशीताथोदकँ स्पृशेदिति ॥
यूपस्यावाहन इति ॥
यः प्राङ्वोदङ्वा पद्येत तमावाहयेदिति बौधायनो यां कां चिद्दिशमभि पद्येताव्यापन्नश्चेत्स्यादावाहयेदेवेति शालीकिः ॥
वेद्यै करण इति ॥
सूत्रमौपमन्यवीपुत्रस्यात्रो ह स्माह बौधायनो रथसंमिता स्याद्र थाक्षेण पश्चात्तिरश्ची रथेषया प्राची रथयुगेन पुरस्तात्तिरश्च्युत्तरयुगेनोत्तरनाभिरिति
चक्षुर्निमिता वा स्यात्सर्वतो वा दशपदा विराट्संपन्नेति शालीकिः २५
20.26
चात्वालस्य परिलेखन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन एवमेव परिलिखन्बाह्यतः पुरस्ताच्चोत्तरतश्चालिखेदिति ॥
लोकाग्नीनाँ हरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन उत्तरवेद्यामाग्नीध्रमुपवेश्य ततो लोकाग्नीन्हरेदित्युद्देशादेव लोकाग्नीन्हरेदित्यौपमन्यवः ॥
उत्तरवेद्यै परिमाण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो रथसंमितायामेव धौरेयशम्यया परिमिमीत
नात्र मध्यमा वेदिर्भवतीति ॥
आख्यातं यूपावटस्य परिलेखनम्॥
उत्तरवेद्या अलंकरण इति ॥
सूत्रं बौधायनस्य
पूर्वेद्युरेवोत्तरनाभिं परिनिस्तिष्ठेदिति शालीकिः ॥
स्फ्येनाग्नीध्रो निघ्नन्नन्वेति होतुः पदानीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः पदात्पदं पाँ सूनुपसँ हत्य तानुत्तरेणोत्तरनाभिमतिकिरेदिति ॥
उत्तरवेद्यै प्रोक्षण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो मन्त्रानुदिशं चैनां प्रोक्षेन्मन्त्रानुलोकं चेति ॥
अतिशिष्टानां निनयन इति ॥
वेद्यै दक्षिणेऽँ! से निनयेदिति बौधायन उत्तरवेद्या इति शालीकी रथसंमितायामेव दक्षिणमँ समुपनिनयेदित्यौपमन्यवः ॥
उत्तरवेद्यै व्याघारण इति ॥
सूत्रं बौधायनस्य
प्रत्यनीकेष्वेनां व्याघारयेदिति शालीकिरक्ष्णयैव व्याघारयन्मध्ये हुत्वोत्तरमँ समभिजुहुयादित्यौपमन्यवः ॥
इध्मस्य निधान इति ॥
सूत्रं बौधायनस्य ॥
तूष्णीमेवेध्मं निदध्यादिति शालीकिः ॥
अध्वराहुतीनाँ होम इति ॥
सूत्रं बौधायनस्य
चत्वारि चतुर्गृहीतानि जुहुयादिति शालीकिः ॥
पृषदाज्यग्रहण्यै संमार्जनसादन इति ॥
सूत्रं बौधायनस्य
लभेतौपभृते संमार्जनसादने इति शालीकिर्न संमृजेदित्यौपमन्यवः ॥
पृषदाज्यस्य ग्रहण इति ॥
सूत्रं बौधायनस्य हृदयान्तेन गृह्णीयादिति शालीकिः
सँ सृज्याज्यं च दधि चैतैः पञ्चभिर्गृह्णीयादित्यौपमन्यवोऽत्रो ह स्माहौपमन्यवीपुत्रस्तूष्णीं द्विरुपस्तीर्य सर्वैर्मन्त्रैर्दध्यानीय तूष्णीं द्विरभिघारयेदिति ॥
पृषदाज्यस्य प्रायश्चित्तकरण इति ॥
ग्रहणादग्राचरणादत्रैवास्य प्रायश्चित्तं कुर्वीतेति बौधायनः
सादनादग्रा चरणादत्रैवेति शालीकिर्न तु पृषितमात्र इत्यौपमन्यवः ॥
यूपस्य प्रक्षालन इति ॥
सूत्रं बौधायनस्य
तूष्णीमेव यूपं प्रक्षालयेदिति शालीकिः ॥
यूपस्य प्रोक्षण इति ॥
स ह स्माह बौधायनः स्वरुरशनं मैत्रावरुणदण्डं यूपशकलँ हिरण्यमुदपात्रमित्येतत्संनिधाय यूपं प्रोक्षेदित्येवं यूपेन यूपसंयोजनानि प्रोक्षेत्पशुना पशुसंयोजनानीति शालीकिः ॥
यूपस्य परिक्रमण इति ॥
दक्षिणेनेति बौधायनः
उत्तरेणेति शालीकिः ॥
यूपस्याञ्जन इति ॥
सूत्रं बौधायनस्याग्निष्ठामेवेति शालीकिः ॥
उदपात्रस्योपनिनयन इति ॥
प्रदक्षिणमुपनिनयेदिति बौधायनो यथोपपादमिति शालीकिः ॥
यूपस्य परिव्ययण इति ॥
त्रिरेव मन्त्रं ब्रूयात्त्रिः कर्मावर्तयेदिति बौधायनः
सकृदेव मन्त्रं ब्रूयात्सकृत्कर्मेति शालीकिः ॥
नाभिदघ्ने परिव्ययतीति ॥
सूत्रं बौधायनस्य
मध्यदेश इति शालीकिः २६
20.27
स्वरोरवगूहन इति ॥
सूत्रं बौधायनस्याग्निष्टां प्रतीति शालीकिः ॥
पशोरुपाकरण इति ॥
सूत्रमौपमन्यवीपुत्रस्यात्रो ह स्माह बौधायन एवमेवोपाकुर्यान्न तु जोषयेदिति
जोषयेच्चैव जुहुयाच्चोपाकरणायेति शालीकिरत्रो ह स्माहौपमन्यव एवमेवैनं पुरस्तात्प्रत्यगावृत्तं बर्हिर्भ्यां च प्लक्षशाखया चाभिसेधेदेतस्यां च प्लक्षशाखायाँ हृदयं निधायावद्येदिति ॥
अरण्योः समञ्जन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽग्नेर्जनित्रमसीति शकलमाददीत
वृष्णौ स्थ इति दूर्वे वा शकले वा निदध्यादुर्वश्यसीत्यधरारणिमाददीत
पुरूरवा इत्युत्तरारणिम्
अथैने आज्यस्थाल्याँ समज्य घृतेनाक्ते वृषणं दधातामिति समवदध्यादिति ॥
पशुरशनाया आदान इति ॥
मन्त्रेणाददीतेति बौधायनस्तूष्णीमिति शालीकिः ॥
पशोरभिधान इति ॥
सूत्रं बौधायनस्य
ग्रीवायमेवाभिदध्यादिति शालीकिः ॥
पशोर्नियोजन इति ॥
सूत्रं बौधायनस्य
यूप एव पशुं नियुञ्ज्यादिति शालीकिः ॥
पशोः प्रोक्षण इति ॥
तूष्णीँ सँ स्कृताभिरद्भिः प्रोक्षेदिति बौधायनः
कमण्डलुभिरिति शालीकिः ॥
पशोः समञ्जन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो ललाटे स्रुचं प्रतिष्ठाप्यानुच्छिन्दन्कर्षेदा दक्षिणायै श्रोणेरिति ॥
स्वरुरशनस्योत्पादन इति ॥
यूपः स्वरुरशनमुत्पादयेदिति बौधायनः पशुरिति शालीकिस्
तन्त्रमित्यौपमन्यवो देवतेत्यौपमन्यवीपुत्रः २७
20.28
अत्याश्रावण इति ॥
सूत्रं बौधायनस्य
सोम एवात्याश्रावयेदिति शालीकिः ॥
पशोः समञ्जन इति ॥
सह स्माह बौधायनो यया समञ्ज्यान्न तया विशस्यान्न त्वेतया शृतस्यावद्येदिति
यथोपपादमिति शालीकिः ॥
पशोः पर्यग्निकरण इति ॥
सहशामित्रं पर्यग्नि कुर्यादिति बौधायनो यदन्यच्छामित्रादिति शालीकिः
पशुं चाज्यानि चेति राथीतरः
पशुमेवेत्यौपमन्यवः ॥
अपाव्यानाँ होम इति ॥
स ह स्माह बौधायन एकं प्रथमे पर्याये जुहुयाद्द्वे मध्यमे द्वे उत्तम इति
यथोपपादमिति शालीकिः ॥
उपप्रैषाश्रावण इति ॥
सूत्रं बौधायनस्य
नाश्रावयेदिति शालीकिः ॥
पशोर्निहनन इति ॥
प्रतीचीनशिरसमुदीचीनपादमिति बौधायन उदीचीनशिरसं प्रतीचीनपादमिति शालीकिः
प्राचीनशिरसमुदीचीनपादमित्यौपमन्यवः ॥
पशुरशनाया उदसन इति ॥
चात्वाले रशनामुदस्येदिति बौधायनोऽद्भिरभ्युक्ष्यासंचर इति शालीकिः ॥
पत्न्या उदानयन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽनर्वा प्रेहीत्येनां प्रणयेदथैनामादित्यमुदीक्ष्यानर्वा प्रेहीत्येव प्रणयेदिति ॥
अपामवेक्षण इति ॥
उपरिष्टाच्चात्वालस्यावेक्षयेदिति बौधायनः
पार्श्वतः पशोरिति शालीकिः ॥
बर्हिषः समञ्जन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्तथाक्तमेवेतरत्स्यादितरत एवैनदक्त्वा निरस्येद्र क्षसां भागोऽसीत्यथोदकँ स्पृशेदिति २८
20.29
वपायाः प्रदान इति ॥
आज्यस्रुवा वा स्युर्हिरण्यं वा द्वितीये चतुर्थे चेति
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
पशुपुरोडाशस्य निर्वपण इति ॥
सूत्रं बौधायनस्य
पशुमालभ्य पुरोडाशं निर्वपेदिति शालीकिः ॥
पशोः प्रच्यावन इति ॥
हृदयजिह्वे प्रच्यावयेदिति बौधायनो हृदयमेवेति शालीकिः ॥
हृदयस्य श्रपण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः शूलपाक्यमेवैनच्छ्रपयेदत्रैव हृदयशूलं परिनिस्तिष्ठेदुपरिष्टाच्च मन्त्रेणोपस्पृशेदिति ॥
पशुपुरोडाशस्येडाया अवदान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो निरवदायैवास्य स्विष्टकृतमिडामवद्येदेवँ सवनीयानामिति ॥
इडसूनस्य करण इति ॥
सूत्रं बौधायनस्य
बर्हिष्येव प्लक्षशाखायाँ हृदयं निधायावद्येदिति शालीकिः ॥
पशोः संवदन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः पृष्ट्वाभिक्रामेत्पूषा मा पशुपाः पात्विति
द्वितीयं पृष्ट्वाभिक्रामेत्पूषा मा प्रपथे पात्विति
तृतीयं पृष्ट्वाभिक्रामेत्पूषा माधिपतिः पात्विति ॥
पशोरभिघारण इति ॥
सूत्रं बौधायनस्य
पृषदाज्येन हृदयमभिघार्याज्येनेतराण्यभिघारयेदिति शालीकिः ॥
पशोरासादन इति ॥
पञ्चहोत्रासादयेदिति बौधायनस्तूष्णीमिति शालीकिः ॥
पशोरवदान इति ॥
स ह स्माह बौधायनो हृदयस्य जिह्वाया वक्षस इत्येतेषामेवानुपूर्वमवद्येत्तृतीयं चात्रावदानं पञ्चावत्तिनां कुर्यादित्य्
अत्रो ह स्माह शालीकिः सर्वेषामेवानुपूर्वमवद्येन्न चात्र तृतीयमवदानं पञ्चावत्तिनां कुर्यादिति २९
20.30
पशोः संमर्शन इति ॥
स ह स्माह बौधायन उभयानि संमृशेद्येभ्यश्चावद्येत्स्रुग्गतानि चेति
स्रुग्गतान्येवेति शालीकिः ॥
कुम्बतः श्रीणातीति ॥
सूत्रं बौधायनस्य
समस्तेनैवास्य पार्श्वेन वसाहोमँ श्रीणीयादिति शालीकिः ॥
पशोः प्रतिपरिहरण इति ॥
प्रतिपरिहरेदिति बौधायनो न प्रतिपरिहरेदिति शालीकिः ॥
अत्याक्रमण इति ॥
सूत्रं बौधायनस्य
जघनेनोत्तरवेदिं परिक्रम्याश्रावयेदिति शालीकिः ॥
दिशां प्रतीज्याया इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः पुरस्ताद्वनस्पतेः समान्यो दिशः प्रतियजेद्दिशे स्वाहेति
हुत्वोपतिष्ठेत स्वाहा दिग्भ्यो नमो दिग्भ्य इति ॥
वनस्पतेश्चर्याया इति ॥
सूत्रं बौधायनस्य
पृषदाज्याच्चतुर्गृहीतेन चरेदिति शालीकिः ॥
वनिष्ठोराधान इति
षडवत्तँ संपादयेदिति बौधायनः
सकलमेवेति शालीकिः ॥
औपयजेष्विति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन आहवनीयादेवोदीचोऽङ्गारान्निर्वर्त्य तेषूपयष्टोपयजेदिति ॥
गुदतृतीय इति ॥
एकादशधा कृत्वोपयष्टोपयजेदिति बौधायनोऽपच्छेदमिति शालीकिः
समस्तमेवैनमनुप्रहृत्य सर्वैर्मन्त्रैरनुमन्त्रयेतेत्यौपमन्यवः ॥
अथ बर्हिषि हस्तौ निमार्ष्टीति ॥
सूत्रं बौधायनस्यापोऽप्यस्मा अत्रानयेयुरिति शालीकिः ३०
20.31
स्वरोर्होम इति ॥
सूत्रं बौधायनस्य
चतुर्गृहीतेऽवधाय जुहुयादिति शालीकिः ॥
पत्नीनाँ संयाजन इति ॥
सूत्रं बौधायनस्याज्येनैव प्तनीः संयाजयेदिति शालीकिः ॥
उत्तानायै जाघन्यै देवानां पत्नीर्यजति नीच्या अग्निं गृहपतिमिति ॥
सूत्रं बौधायनस्य
सर्वमेवैतदुत्तानायै जाघन्यै कुर्यादिति शालीकिः ॥
उत्तानायै जाघन्यै होत्र इडामवद्यति नीच्या अग्नीधे षडवत्तमिति ॥
सूत्रं बौधायनस्य
सर्वमेवैतदुत्तानायै जाघन्यै कुर्यादिति शालीकिः ॥
फलीकरणहोमस्य करण्णिति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
ध्रुवाया आप्यायन इति ॥
स ह स्माह बौधायन उभावेव ध्रुवामाप्याययेतामध्वर्युश्च यजमानश्चेत्यध्वर्युरेव ध्रुवामाप्याय्य समिष्टयजूँ षि जुहुयादिति शालीकिः ॥
समिष्टयजुषाँ होम इति ॥
सूत्रं बौधायनस्य
त्रीणि चतुर्गृहीतानि जुहुयादिति शालीकिः ॥
हृदयशूलस्योद्वासन इति ॥
कुर्वीतात्र सुमित्राश्च दुर्मित्राश्चेति बौधायनो न कुर्वीतेति शालीकिः ॥
समिधां करण इति ॥
सर्व एवाद्रा रः! सपलाशाः कुर्वीरन्निति बौधायनो यजमानश्चैव पत्नी चेति शालीकिः ॥
बर्हिषः पर्युपोषण इति ॥
वेद्यै दक्षिणेऽँ! से पर्युपोषेदिति बौधायन उत्तरवेद्या इति शालीकिः ॥
सक्तुहोमस्य करण इति ॥
त्रीन्सक्तुहोमान्कुर्यादिति बौधायन एकमेवेति शालीकिः
प्रदाव्य एव सक्तुहोमेन चरेदित्यौपमन्यवः ॥
आख्यातं देवतानामुपस्थानम्॥
यूपस्योपस्थान इति ॥
सूत्रं बौधायनस्याहवनीयमेवैतेन यजुषोपतिष्ठेतेति शालीकिः ॥
समन्वानय इति ॥
सूत्रं बौधायनस्य
नाद्रि येतेति शालीकिः ॥
पूर्णाहुत्यै करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
दक्षिणायै दान इति ॥
धेनुं वानड्वाहं वा दद्यादिति बौधायनोऽन्यद्वैकधनमिति शालीकिरन्यद्वैकधनमिति शालीकिः ३१