22.1
अथातोऽग्निकल्पं व्याख्यास्यामः ॥
खरस्य करण इति ॥
उत्तरपूर्वेऽवान्तरदेशे कुर्यादिति बौधायन उत्तर एवेति शालीकिः ॥
सावित्राणाँ होम इति ॥
सूत्रं बौधायनस्य
समृद्ध्याप्यत्र चतुर्गृहीतं जुहुयादिति शालीकिः ॥
गर्दभरशनाया आदान इति ॥
मन्त्रेणाददीतेति बौधायनस्
तूष्णीमिति शालीकिः ॥
वल्मीकवपायै निधाने वैश्यस्योपवेशन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो वल्मीकवपां निदध्यान्न वैश्यमुपवेशयेद्यत्र खनिः स्यात्तद्गच्छेद्यस्तत्र पृच्छेत्तं प्रतिब्रूयादिति ॥
खनन इति ॥
अर्धर्चशः खनेदिति बौधायन ऋचर्चेति शालीकिः ॥
पुष्करपर्णेनोत्तरदण्डेन सँ स्तृणातीति ॥
सूत्रं बौधायनस्य
यथोत्पन्नेनैव सँ स्तृणीयादिति शालीकिः ॥
पिण्डानाँ हरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः सर्वाभिःसर्वाभिश्चतुर्हरेदिति
गायत्रीभिर्हरेत्त्रिष्टुग्भिः सादयेदित्यौपमन्यवः ॥
अश्वस्यात्यायमन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्तूष्णीमश्वमत्यायच्छेत्
सर्व एवैष गर्दभमन्त्रः स्यादिति ॥

द्यावापृथिव्योः समीक्षण इति ॥
उभे षट्कृत्वः समीक्षेतेति बौधायनस्
त्रिरेवेति शालीकिः
प्राच्यां दिशि संधिमीक्षमाण एतं मन्त्रं जपेदित्यौपमन्यवः ॥
अपो रशने अभ्यवहरन्त्यपि वाद्भिरभ्युक्ष्य भुञ्जत इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः १

22.2
उखानां करण इति ॥
स ह स्माह बौधायनोऽषाढामप्येतस्यै याजुष्यै पादमात्रीं कुर्याद्यावन्मात्रीं चादयेष्टकामृत्तिकायामपिसृजेदेवमस्य सर्वोऽग्निर्याजुषो भवतीत्येकामेवोखां मन्त्रेण कुर्यात्तूष्णीमितरे इति शालीकिः ॥
सर्वासु भिन्नासु प्रत्यय इति ॥
स ह स्माह बौधायनः ससावित्रं मन्त्रकर्माभ्यावर्तयेदिति ॥
यदन्यत्सावित्रेभ्य इति शालीकिः ॥
अथादत्त एकविँ शतिं वृष्णो अश्वस्य शकृत्पिण्डानभ्रिमग्निं पचनमिति ॥
सूत्रं बौधायनस्य
यस्यैव कस्य चाश्वस्याददीतेति शालीकिः ॥
उखानां धूपन इति ॥
सूत्रं बौधायनस्यापरिमितैर्मन्त्रैर्धूपयेदिति शालीकिः ॥

उखानां प्रवृञ्जन इति ॥
सूत्रं बौधायनस्यैकामेवोखां मन्त्रेण प्रवृञ्ज्यात्तूष्णीमितरे इति शालीकिः ॥
ताः प्राचीर्वोदीचीर्वायातयतीति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
पचन इति ॥
स ह स्माह बौधायन उखा ऋषभान्मण्डलेष्टका बार्हस्पत्यं महावीरं लोकंपृणा इत्येतद्गार्हपत्यात्पचेदथेतरद्ग्रामाग्नेरिति
यत्किं चेष्टकोक्तं ग्रामाग्निना तत्पचेद्धविरुक्तं गार्हपत्यादिति शालीकिः ॥
पशुशीर्षाणां करण इति ॥
प्रत्यक्षाणि वा मार्त्तिकानि वा स्युरिति बौधायनः
प्रत्यक्षाण्येवेति शालीकिर्हिरण्मयानीत्यौपमन्यवो वायव्यशिरसि वैतान्मन्त्रान्निगदेदित्यौपमन्यवीपुत्रः ॥
त्रिरपसलैः पर्णशाखया परिकर्षतीति ॥
सूत्रं बौधायनस्यानुपरिकीर्यैव माषान्यमगाथाभिः परिगायेदिति शालीकिः ॥
आघार इति ॥
उभाभ्यां मन्त्राभ्यामेतमाघारमाघारयेदिति बौधायनो हिरण्यगर्भः समवर्तताग्र इत्येतयैवैतमाघारमाघारयेदिति शालीकिः २

22.3
अनिष्टप्रथमसोमस्याध्वरदीक्षाहुतीनाँ होम इति ॥
अध्वरदीक्षाहुतीर्हुत्वाग्निका जुहुयादिति बौधायन आग्निका एवेति शालीकिः ॥
वैराजीषु दीक्षास्विति ॥
स ह स्माह बौधायनो नासंवत्सरँ सोष्यन्वैराजीर्दीक्षाः कुर्वीत

कामँ संवत्सरँ सोष्यन्वैराजीर्दीक्षाः कुर्वीत
संवत्सरं वा भृत्वैकाहिकं कुर्वीतैकाहिकस्त्वेवाग्निरिति शालीकिः ॥
काम्यस्यान्ववधान इति ॥
जाते काम्यमन्ववदध्यादिति बौधायनः
पुरस्तादेवेति शालीकिः ॥
औदुम्बरीणाँ समिधामभ्याधान इति ॥
सूत्रं शालीकेरत्रो ह स्माह बौधायन एकामेव समिधं पञ्चर्चेनाभ्यादध्यात्
तदेव राक्षोघ्नँ स्यादिति ॥
अन्नपतीयायै समिधोऽभ्याधान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽन्नपतीयां प्रतिसमेधनीयां वैष्णवीमित्येता अभ्यादध्यादिति ॥
वात्सप्रविष्णुक्रमयोः संनिपात इति ॥
अहरहः संनिपातयेदिति बौधायन आदितश्चान्ततश्चेति शालीकिः ॥
उख्य उद्वाते प्रायश्चित्तकरण इति ॥
स ह स्माह बौधायनः प्रवृज्य परिदायार्काहुतिभिरभिजुहुयादथेतरत्कर्मावृता कुर्यादित्य्
अत्रो ह स्माह शालीकिः प्रवृज्य परिदायार्काहुतिभिरभिजुहुयान्न चेतरत्कर्मावृता कुर्यादिति ॥
प्रयाण इति ॥
स ह स्माह बौधायन उभयेन प्रयायादाध्वरिकेण चाग्निकेन चेत्याग्निकेनैवेति शालीकिः ॥
अथ यद्यपर्याणा अप उपाधिगच्छतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यत्रैवापर्याणा अप उपाधिगच्छेत्तद्भस्म प्रवेशयेन्न च विगर्भां तां कुर्याद्यावन्मात्रं चादाय प्रत्यवदध्यात्प्रसद्य भस्मना योनिमित्यथेतरत्स्थालीषु वा सतेषु वानुनिधापयेदिति ॥
देवयजनस्याध्यवसान इति ॥
स ह स्माह बौधायन उभयेनाध्यवस्येदाध्वरिकेण चाग्निकेन चेत्याग्निकेनैवेति शालीकिः ३

22.4
संभाराणां निवपन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो भस्म चैवोषाँ श्च मन्त्रेण निवपेत्
तूष्णीमितरौ संभाराविति ॥
गार्हपत्यचिताविति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽग्निग्रहणँ स्वयंचितिँ श्वेतकृष्णयोरभिमर्शनमधिद्र वणमवद्र वणमिति सर्वमेवैतत्कर्मावृता कुर्यादिति ॥

साहस्रं चिन्वीत प्रथमं चिन्वानः पञ्चचितीकं चेति ॥
स ह स्माह बौधायनः समाप्यैताश्चतुर्थं चिन्वानो जानुदघ्नं चात ऊर्ध्वं प्रत्याददीत पञ्चचितीकं चेत्यत्रो ह स्माह शालीकिः समाप्यैताश्चतुर्थं चिन्वानो ग्रीवदघ्नं चैवात ऊर्ध्वं प्रत्याददीतैकचितीकं चेति ॥
वात्सप्रविष्णुक्रमयोः संनिपात इति ॥
स ह स्माह बौधायनो यद्यु ह वात्सप्रमुपवसथे संपद्येत वात्सप्रेणोपस्थाय संनिवपेताथ यदि विष्णुक्रमा उपवसथे संपद्येरन्विष्णुक्रमैः क्रमित्वा वात्सप्रेणोपस्थाय संनिवापेन प्रक्रामेदित्यत्रो ह स्माह शालीकिर्यद्यु ह वात्सप्रमुपवसथे संपद्येत वात्सप्रेणोपस्थाय श्वो भूते संनिवपेताथ यदि विष्णुक्रमा उपवसथे संपद्येरन्विष्णुक्रमैः क्रमित्वा वात्सप्रेणोपस्थाय श्वो भूते संनिवापेनैव प्रक्रामेदिति ॥
तस्यामन्यत्रावेक्षमाणो दधिद्र प्सान्प्रास्यत्यमुं ते शुचि दधामीति वा तूष्णीं वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
अथैनाँ सिकताभिः पूरयित्वा दध्नोपरिष्टात्संप्रच्छाद्येति ॥
सूत्रं बौधायनस्य
सिकताभिरेवैनां पूरयित्वोत्तरे शालाखण्डे निदध्यादिति शालीकिः ॥

शिक्यस्यादान इति ॥
मन्त्रेणाददीतेति बौधायनस्
तूष्णीमिति शालीकिः ॥
नैरृतीनामुपस्थान इति ॥
कुर्वीतात्र तयादेवतसूददोहसे इति बौधायनो न कुर्वीतेति शालीकिः ॥
उदपात्रस्योपनिनयन इति ॥
प्रदक्षिणमुपनिनयेदिति बौधायनो यथोपपादमिति शालीकिः ॥
गार्हपत्यस्योपस्थान इति ॥
सूत्रं बौधायनस्याहवनीयमेवैतेन यजुषोपतिष्ठेरन्निति शालीकिः ४
22.5
स्तम्बयजुषो हरण इति ॥
सूत्रं बौधायनस्योपरवकालादप्यत्राग्नीध्रो हरेदिति शालीकिः ॥
आख्यातं चात्वालस्य परिलेखनम्॥
आख्यातं लोकाग्नीनाँ हरणम्॥
आख्यातँ स्फ्यविघनानामुपस्थानम्॥
कार्ष्णाजिनीनामुपमोचन इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
वज्रिणीनामुपधान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽग्रेण यूपावटीयँ शङ्कुं तिष्ठन्धनुरधिज्यं कृत्वा प्राञ्चं बाणं प्रविध्येत्
तमनुद्रुत्याश्मानमुपदध्यादेवं दक्षिणत एव पश्चादेवमुत्तरत इति ॥

ऐन्द्रि या उपधान इति ॥
सूत्रं बौधायनस्य
पुच्छ ऐन्द्री मुपदध्यादिति शालीकिः ॥
उपपात्रस्योपनिनय इति ।
प्रदक्षिणमुपनिनयेदिति बौधायनो यथोपपादमिति शालीकिः ॥
दर्भस्तम्बस्योपधान इति ॥
वाक्त्वा समुद्र उपदधात्विति वा तूष्णीं वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
दूर्वेष्टकाया उपधान इति ॥
स ह स्माह बौधायनो दूर्वया वा सहोपदध्याद्दूर्वां वैवेति
मन्त्रदूर्वैवैषा स्यादिति शालीकिः ॥
औदुम्बरं युगलाङ्गलमिति ॥
सूत्रं बौधायनस्य
दार्ढ्यवृक्षमेवैनत्कुर्यादिति शालीकिः ॥
पुरुषा एवैतद्युगलाङ्गलं पुरस्तादाददतेऽध्वर्युः पश्चादिति बौधायनः
प्रत्यक्षमेवैतत्संयुज्य कृषेदिति शालीकिः ॥
कर्षण इति ॥
संप्रत्याहारं कृषेदिति बौधायन आवाजश इति शालीकिः ५

22.6
गोयुगानामनुमन्त्रण इति ॥
तत्तदेवानुमन्त्रयेदिति बौधायनः
सर्वाणि सहेति शालीकिः ॥
सर्वौषधस्य वपन इति ॥
अर्धर्चशो वपेदिति बौधायन ऋचर्चेति शालीकिः ॥
इतरमितरत्र विपरिहरतीतरमितरत्रेति ॥
सूत्रं बौधायनस्याददान एवैतां दिशमभिसंपादयेदिति शालीकिर्यजुषा यजुर्विपरिहरेदित्यौपमन्यवः ॥
स दर्भपुञ्जीलानि पयःप्रोक्षेऽवधाय तैः प्रोक्षत्यग्नीन्वोऽग्निभ्यो जुष्टान्प्रोक्षामीति वा तूष्णीं वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
कुम्भेष्टकानामुपधान इति ॥
सूत्रं बौधायनस्य
पक्षपुच्छेष्वेवैना उपदध्यादिति बौधायनिः ॥
नानामन्त्रासु दिशो भजमानास्विति ॥
तयादेवतेनानुक्रम्य पारे सूददोहसः कुर्वीतेति बौधायनस्
तांतामेवेष्टकां परिनिस्तिष्ठेदिति शालीकिः ॥
इष्टकागणानामुपधान इति ॥
तयादेवतेनानुक्रम्य पारे सूददोहसः कुर्वीतेति बौधायनस्
तंतमेवेष्टकागणं परिनिस्तिष्ठेदिति शालीकिः ॥
अभिमर्शेऽभिहोम इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः पुरस्तादभिमर्शाभिहोमाभ्यां तयादेवतसूददोहसः कुर्वीतेति ॥

सर्पशिरस उपधान इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
औदुम्बरं चोलूखलमुसलमिति ॥
सूत्रं बौधायनस्य
दार्ढ्यवृक्षमेवैनत्कुर्यादिति शालीकिः ६

22.7
सर्वौषधस्यावहनन इति ॥
मन्त्रेणावहन्यादिति बौधायनस्
तूष्णीमिति शालीकिः ॥
उखानामुपधान इति ॥
सूत्रं बौधायनस्यैकामेवोखां मन्त्रेणोपदध्यात्तूष्णीमितरे इति शालीकिः ॥
पशुशीर्षाणामुपधान इति ॥
मध्य उपदध्यादिति बौधायनोऽन्तेषु तस्य व्युदूह्योपदध्यादिति शालीकिः ॥
अथर्वशिरस उपधान इति ॥
पुरस्तात्सर्वतोमुखमग्रेण स्वयमातृण्णामत्र नवर्चमथर्वशिर उपदध्यादिति बौधायनो नाथर्वशिर इति शालीकिः ॥
सर्वतोमखस्योपधान इति ॥
सूत्रं बौधायनस्यानुदिशमेव गायत्रीरुपदध्यादिति शालीकिः ॥

अङ्गानामुपधान इति ।ऊत्रं बौधायनस्य
विज्ञातेष्वेवाङ्गेष्वङ्गान्युपदध्यादिति शालीकिः ॥
ऋषभस्योपधान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन ईषत्प्रत्यवहृतशिरसमेनमुपदध्याद्यथर्षभो वाशितुमुपतिष्ठतीति ॥
अतीतानामिष्टकागणानामुपधान इति ॥
आधिमुपदध्यादिति बौधायनश्चित्यन्त इति शालीकिः ॥
व्रतप्रदान इति ॥
मध्यंदिने व्रतं प्रयच्छेदिति बौधायनश्चित्यन्त इति शालीकिः ७

22.8
पुरीषचितेरुपधान इति ॥
सूत्रं बौधायनस्य
पूर्वेद्युरेव पुरीषचितिं परिनिस्तिष्ठेदिति शालीकिः ॥
अश्वावभितस्तिष्ठेतां कृष्णा उत्तरः श्वेतो दक्षिण इति ॥
अत्रैवाभ्यां तिष्ठद्भ्यां घासमाहारयेदिति बौधायनः
कालेकाल एवैनावुदानयेयुरिति शालीकिः ॥
वालखिल्यानामुपधान इति ॥
उपरिष्टाद्वालखिल्या उपदध्यादिति बौधायनः
पार्श्वत इति शालीकिः ॥

सृष्टीनामायातन इति ॥
अग्रेण स्वयमातृण्णामुदीचीरेना आयातयेदोत्तरस्मात्पक्षसंधेः सर्वतो वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
व्युष्टीनामुपधान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः पुरस्तादेनाः प्रतीचीरुपदध्यात्
पुरस्ताद्धि प्रतीची रात्रिर्व्युच्छतीति ॥
तासां पुरीषवतीं मध्य उपदधातीति ॥
स ह स्माह बौधायनः पुरीषेण वा सहोपदध्यात्पुरीषं वैवेति
मन्त्रपुरीषैवैषा स्यादिति शालीकिः ॥
वैराजानामुपधान इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
याज्ञसेनीनामुपधान इति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
घृतेष्टकानामुपधान इति ॥
स ह स्माह बौधायनो घृतेन वा सहोपदध्याद्घृतेन वाभ्यज्येति
मन्त्रघृता एवैताः स्युरिति शालीकिर्घृतपिण्डानेवात्रोपदध्यादित्यौपमन्यवः ॥

इष्टकानामावापस्थान इति ॥
अन्तरेण ज्योतिष्मतीश्च भूतेष्टकाश्चैतदिष्टकानामावापस्यानं भवतीति ॥
स ह स्माह बौधायनः संवेशनयजुः प्रबुद्धयजुः प्रयाणयजुरपर्याणयजुः सामिधेनीराप्रीरतीताँ श्चेष्टकागणानत्रोपदध्यादित्यत्रो ह स्माह शालीकिर्नानिष्टकं मन्त्रमिष्टकावदापादयेदतीतानेवेष्टकागणानत्रोपदध्यादिति ॥
पौर्णमास्या उपधान इति ॥
सूत्रं बौधायनस्योत्तर एवाँ से पौर्णमासीमुपदध्यादिति शालीकिः ॥
नक्षत्रेष्टकानामुपधान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः प्रतितारकं चात्रेष्टका उपदध्यात्तत्रतत्र च रोचयेदिति ॥
सर्वतोमुखस्योपधान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो व्यवेतं खल्विदं कृष्णस्याभिमर्शनेन भवति
सर्वतोमुखमुपधास्यञ्छ्वेतमश्वमभिमृशेदिति ॥
वर्धनेष्विति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यावन्ति वर्धनानि समानेऽहनि संनिपतेयुः सर्वेषां पारे तयादेवतसूददोहसः कुर्वीतेति ८

22.9
अथ प्रोक्षणीषु हिरण्यशल्कान्प्रत्यस्यत्यूर्ध्वं त्रिभ्योऽपरिमितानिति सहस्रमिति प्रोक्तं ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
शतरुद्री यस्य होम इति ॥
सूत्रमाचार्ययोः
पूर्वस्मिन्नेवानीके जुहुयादिति गौतमः ॥
नमस्कारैरुपस्थान इति ॥
स ह स्माह बौधायनः सधनुष्क एवोपतिष्ठेतोत्तरस्या एव दिश आवृत्यैतेनैव यथेतमेत्य पश्चात्प्राङ्तिष्ठन्नूर्ध्वामुपतिष्ठेतेत्यत्रो ह स्माह शालीकिर्दत्त्वैव धनुरुपतिष्ठेतैतस्यै चैव दिश आवृत्यैतेनैव यथेतमेत्य पश्चात्प्राङ्तिष्ठन्नूर्ध्वामुपतिष्ठेतेति ॥
परिषिच्यमाने यजमानं वाचयतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः परिषिच्यपरिषिच्यैवाश्मनि कुम्भं निदध्यादश्मँ स्ते क्षुदमुं ते शुगृच्छत्वित्यभिनिर्दिशेद्यं द्विष्यादिति ॥
विकर्षण इति ॥
अर्धर्चशो विकर्षेदिति बौधायन ऋचर्चेति शालीकिः ॥

स्वयमातृण्णायै व्याघारण इति ॥
सूत्रं बौधायनस्याग्निचतुरश्रामेनां व्याघारयेदिति शालीकिः ॥
वैश्वानरमारुतानां मन्त्रामन्त्र इति ॥
मन्त्रवन्तः स्युरिति बौधायनस्
तूष्णीका इति शालीकिर्वैश्वानर एव मन्त्रवान्स्यात्तूष्णीका मारुता इत्यौपमन्यवः ॥
आनीकवतस्य होम इति ॥
सूत्रं बौधायनस्याहवनीय एवानीकवतं जुहुयादिति शालीकिः ॥
अथैनँ संचितमाज्यप्रोक्षेण प्रोक्षतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो मन्त्रानुदिशं चैनं प्रोक्षन्मन्त्रानुलोकं चेति ॥
इध्मस्य निधान इति ॥
स ह स्माह बौधायन उभयेनेध्मं निदध्यादाध्वरिकेण चाग्निकेन चेत्याग्निकेनैवेति शालीकिः ९

22.10
शाकलैः परिधान इति ॥
आहवनीयं परिदध्यादिति बौधायनः
पुच्छमेवेति शालीकिः ॥
स्रुवाहुत्योः करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
पूर्णाहुत्यै करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः ॥
अत्र जुह्वन्मनसा दिशो ध्यायेदिति ॥
दिग्भ्योऽहमग्निमभिसंभराणीति वा तूष्णीं वेति ॥

पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
प्रसेकस्यायातन इति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
तस्मिँ श्चतुर उपस्तृणान आहेति ॥
सूत्रं बौधायनस्य
नोपस्तृणीतेति शालीकिः ॥
प्रसेकस्यानुप्रहरण इति ॥
अनुप्रहरेदिति बौधायनो नानुप्रहरेदिति शालीकिः ॥
ब्रह्मौदनस्य श्रपण इति ॥
अग्न्याधेयवच्छ्रपयेदिति बौधायन एतस्मिन्नेवेति शालीकिः ॥
ब्रह्मौदनस्य प्राशन इति ॥
उत्तरे श्रोण्यन्ते प्राश्नीयुरिति बौधायनः
पुच्छमेवाभित इति शालीकिः ॥
वातनामानाँ होम इति ॥
सूत्रं बौधायनस्य
वातमप्यत्राञ्जलिना जुहुयादिति शालीकिः
कृष्णाजिनपुटेन जुहुयादित्यौपमन्यवः ॥
शाकलानामनुप्रहरण इति ॥
अनुप्रहरेदिति बौधायनो नानुप्रहरेदिति शालीकिः १०

22.11
अग्निधिष्णियानामुपधान इति ॥
सूत्रं बौधायनस्य
सर्वा एव याजुषीरुपदध्यादिति शालीकिः ॥

नानाबीजानां निर्वपण इति ॥
निर्वपणेनानुसमेत्य व्यभिमृशेदिति बौधायनस्
तत्तदेव हविः परिनिस्तिष्ठेदिति शालीकिः ॥
तेषां व्रीहिष्वेव हविष्कृतमुद्वादयत्युपोद्यच्छन्ते यवानिति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायन आवपनप्रभृति यवेषु मन्त्रकर्माभ्यावर्तेत तन्त्रं तु हविष्कृत्स्यादिति ॥
आप्यनिनयन इति ॥
जघनेन गार्हपत्यमाप्येभ्यो निनयेदिति बौधायनोऽग्रेणातिहायेति शालीकिरग्रेण वा जघनेन वेत्यौपमन्यवः ॥
सचरुपशुपुरोडाशा एवेतरेषाँ हविषामिडा अवद्येदभ्यर्धाद्वेति
सपशुपुरोडाशानां वेति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
अत्याक्रमण इति ॥
सूत्रं बौधायनस्य
सह स्विष्टकृतात्याक्रामेदिति शालीकिः ॥
अभिषेक इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः पुरस्तात्स्विष्टकृतो यावदाम्नातेनाभिषिञ्चेन्नात्र कृष्णाजिनं न रुक्मौ न पार्थानि भवन्ति कुशानेव सँ स्तीर्य तेष्वेनमभिषिञ्चेदिति ॥

योगे विमोक इति ॥
अहरहर्युञ्ज्यादहरहर्विमुञ्चेदिति बौधायनोऽहरहर्युञ्ज्यादन्ते विमुञ्चेदिति शालीकिरादित एव युञ्ज्यादन्ते विमुञ्चेदित्यौपमन्यवः ॥
क्रतुकरण इति ॥
सूत्रं बौधायनस्य
यथाक्रत्वेवास्य क्रतुकरणानि कुर्यादिति शालीकिः ॥
ऐकादशिनानां पशूनामुपाकरण इति ॥
सूत्रं बौधायनस्यैकयूप एवैकादशिनान्पशूनुपाकुर्यादिति शालीकिः ११

22.12
वपानां परिहोम इति ॥
तांतां परिजुहुयादिति बौधायन आदितश्चान्ततश्चेति शालीकिः ॥
अश्वस्यावघ्रापण इति ॥
सूत्रं बौधायनस्य
माध्यंदिन एव सवनेऽश्वमवघ्रापयेदिति शालीकिः ॥
पशूनामासादन इति ॥
पशुंपशुं पञ्चहोत्रासादयेदिति बौधायनो मुख्यमेवेति शालीकिः ॥
हृदयशूलानामुद्वासन इति ॥
एकैकश उद्वासयेदिति बौधायनः
सर्वान्सहेति शालीकिः ॥

आमिक्षायै मन्त्रामन्त्र इति ॥
मन्त्रवती च स्यादध्यवदानीया चेति बौधायनस्
तूष्णीका च स्यादध्यवदानीया चेति शालीकिर्मन्त्रवती च स्यात्तन्त्रहरया चैनया निरूढया यजेतेत्यौपमन्यवः ॥
देविकाहविषां करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिः १२

22.13
अथातो वाजपेयं व्याख्यास्यामः ॥
चिन्वीत वाजपेयेऽग्निमिति बौधायनो न चिन्वीतेति शालीकिः ॥
औदुम्बरँ रथचक्रँ सप्तदशारमिति ॥
सूत्रं बौधायनस्य
दार्ढ्यवृक्षमेवैनत्कुर्यादिति शालीकिः ॥
खादिरीं वितृण्णीं वध्रैर्व्यूतामुपकल्पयत इति ॥
सूत्रं बौधायनस्य
बस्ताजिनं चैवात्रोपकल्पयीत शतमानं च हिरण्यमिति शालीकिः ॥
स ग्रीष्मस्य जघन्याहःसु पुरस्तादाषाढ्यै पौर्णमास्यै दीक्षत इति ॥
सूत्रं बौधायनस्य
शरदि वाजपेयेन यजेतेति शालीकिः ॥

सावित्राणाँ होम इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
वाजपेयिकायै सुरायै संधान इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवो यत्रैव सुरा स्यात्तत आहारयेदिति ॥
सोऽरत्निमात्रेऽरत्निमात्रे वा विग्रथ्नाति धनुर्वेष्टीर्वा प्रवेष्टयतीति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
गौधूमं चषालमिति ॥
सूत्रं बौधायनस्य
गोधूमपिष्टानामपि कुर्यादिति शालीकिः ॥
दुन्दुभीनामासञ्जन इति ॥
सूत्रं द्वैधमेवैतद्भवति ॥
क्रतुकरण इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनोऽतिरात्रमप्यत्र क्रतुमुपेयात्समानपक्षे चैनँ संतिष्ठापयिषेदिति १३

22.14
पञ्चैन्द्रा नतिग्राह्यान्गृह्णातीति ॥
सूत्रं बौधायनस्य
सर्व एवैते सोमयामा ग्रहीतव्या भवन्तीति शालीकिः ॥
सुराग्रहाणां ग्रहण इति ॥
सूत्रं बौधायनस्य
सजुष्टान्परिमृज्य सादयेदिति शालीकिः ॥

द्विश्रेणि वा त्रिश्रेणि वोदीच आयातयतीति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
षड्रशना आदाय यूपमभिप्रेयादिति बौधायनः
पञ्च रशना आदाय यूपमभिप्रेयादिति शालीकिश्चतस्रो रशना आदाय यूपमभिप्रेयादित्यौपमन्यव एकामेव रशनामादाय यूपमभिप्रेयादित्यौपमन्यवीपुत्रोऽग्नीषोमीयरशनायामेव नियुञ्ज्यादित्याञ्जीगविः ॥
वाजपेयिकानां पशूनामुपाकरण इति ॥
ऐकादशिनानुपाकृत्य वाजपेयिकानुपाकुर्यादिति बौधायनो वाजपेयिकानेव नैवैकादशिनानिति शालीकिः ॥
प्राजापत्यानामुपाकरण इति ॥
एकैकश उपाकुर्यादिति बौधायनः
सर्वान्सहेति शालीकिः ॥
वपानां परिहोम इति ॥
तांतां परिजुहुयादिति बौधायन आदितश्चान्ततश्चेति शालीकिः ॥
हृदयशूलानामुद्वासन इति ॥
एकैकश उद्वासयेदिति बौधायनः
सर्वान्सहेति शालीकिः ॥
रथानामभियोजन इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो य एवैष समवक्षेपणो मन्त्रस्तं प्रथममभियोजनानां कुर्यादथ तूष्णीमश्वान्समवक्षिपेदिति ॥
काष्ठागमन इति ॥
स ह स्माह बौधायनः प्रदक्षिणमावृत्यैतां काष्ठां गच्छेयुरथामुतोऽपसलैरावर्तेरन्नित्य्
अत्रो ह स्माह शालीकिरपसलैरावृत्यैतां काष्ठां गच्छेयुरथामुतः प्रदक्षिणमावर्तेरन्निति १४

22.15
अथ यजमानं तार्प्यं परिधापयतीति ॥
सूत्रं बौधायनस्योभे एवैते यजमानं परिधापयेदिति शालीकिः ॥
श्रित्या आयातन इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
तां दशभिः कल्पै रोहतीति ॥
सूत्रं बौधायनस्यैतैरेव मन्त्रैः प्रत्यवरोहेदिति शालीकिः ॥
अत्रास्मै प्रत्यवरोहणत आसन्दीं निदधातीति ॥
सूत्रं बौधायनस्य
बस्ताजिनं चैवास्यात्र प्रत्यवरोहेच्छतमानं च हिरण्यमिति शालीकिः ॥

अथैनमेतयासन्द्या सद आवहन्त्या वा व्रजतीति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥
अतिग्राह्याणां भक्षण इति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
प्राजापत्यानां भक्षण इति ॥
पूर्वः कल्पः शालीकेरुत्तरो बौधायनस्य ॥
गुदतृतीयेष्विति ॥
द्वेद्वे अत्र गुदतृतीये उपयष्टोपयजेदिति बौधायनोऽपच्छेदमिति शालीकिः
समस्तान्येवैतान्यनुप्रहृत्य सर्वैर्मन्त्रैरनुमन्त्रयेतेत्यौपमन्यवः १५

22.16
अथातो राजसूयं व्याख्यास्यामः ॥
चिन्वीत राजसूयेऽग्निमिति बौधायनो न चिन्वीतेति शालीकिः ॥
पुनरध्युप्य पिष्टानि कृत्वाहारयेदिति बौधायनस्
तथाध्युप्तान्येवैतानि स्युरिति शालीकिः ॥
नैरृतस्य मन्त्रामन्त्र इति ॥
मन्त्रवान्स्यादिति बौधायनस्
तूष्णीक इति शालीकिः ॥
एकोल्मुकस्य हरण इति ॥
अन्वाहार्यपचनाद्धरेदिति बौधायनो ग्रामाग्नेरिति शालीकिः ॥
नैरृतस्य होम इति ॥
सूत्रं बौधायनस्य
विस्रँ सिकाकाण्डाभ्यामेनं परिगृह्य जुहुयादिति शालीकिः ॥

दक्षिणानां दान इति ॥
अहरहर्दद्यादिति बौधायन आदितश्चान्ततश्चेति शालीकिः ॥
उदपात्रस्योपनिनयन इति ॥
प्रदक्षिणमुपनिनयेदिति बौधायनो यथोपपादमिति शालीकिः ॥
स्वाहा नमो य इदं चकारेति ॥
सूत्रं बौधायनस्यान्तमप्यत्र स्वाहाकारां परिणयेदिति शालीकिः ॥
संतनीनामनुप्रयोग इति ॥
स ह स्माह बौधायनो यदहरिष्ट्या वा पशुना वा यजेतापि तदहः संतनी प्रयुञ्जीतेत्यत्रो ह स्माह शालीकिरहरहराश्रावणार्थे खल्वेते दृष्टे भवतो यदहरिष्ट्या वा पशुना वा यजेत न तदहः संतनी प्रयुञ्जीतेति ॥
चातुर्मास्यानामनुप्रयोग इति ॥
स ह स्माह बौधायनो यदहश्चातुर्मास्यानि प्रयुञ्जीतापि तदहः संतनी प्रयुञ्जीतेत्यत्रो ह स्माह शालीकिरहरहराश्रावणार्थे खल्वेते दृष्टे भवतो यदहश्चातुर्मास्यानि प्रयुञ्जीत न तदहः संतनी प्रयुञ्जीतेति ॥
आख्यातं पञ्चेध्मीयस्य करणम् १६

22.17
अथोपवेषेणाङ्गारान्समूहतीति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनस्तूष्णीमङ्गारान्समूह्याथैनान्स्रुवाहुतिभिरभिजुहुयादग्नये रक्षोघ्ने स्वाहेति पञ्चभिरत्र प्रष्टिवाहिनँ रथं दद्यादिति ॥

अपामार्गसक्तूनाँ होम इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनः समस्तेनैवास्मै मन्त्रेणापामार्गसक्तूञ्जुहुयात्
तूष्णीँ स्रुवमनुप्रहरेत्
तूष्णीमुपोत्तिष्ठेदिति ॥
देविकाहविषां करण इति ॥
सूत्रं बौधायनस्य
सोमँ सोममनुवर्तेरन्निति शालीकिर्न देविकाहविर्भिर्यजेदित्याञ्जीगविः ॥
अग्निभिः प्रत्यवसान इति ॥
अजस्रैः प्रत्यवस्येदिति बौधायनोऽरण्योः समारोह्येति शालीकिः ॥
पयसः समासेचन इति ॥
दृतौ वा विनाडे वा समासिञ्चेदिति बौधायनो नवायां कुम्भ्यामिति शालीकिः ॥
स्वयंकृतेष्विति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो गोन्यासप्रमृदितानां कुशानां बर्हिः संनह्येत्स्वयंपतितानां काष्ठानामिध्मं यदेव वेद्यै रूपँ सा वेदिर्दृतिं वा विनाडं वा रथ आधाय परिवहेद्यत्तत्र नवनीतमुत्सीदेत्तदाज्यँ स्यादिति ॥
मैत्राबार्हस्पत्यस्य निर्वपण इति ॥
समानचतुर्मुष्टी स्यातामिति बौधायनो
नानाचतुर्मुष्टी स्यातामिति शालीकिः १७

22.18
रोहिते चर्मणीति ॥
सूत्रं बौधायनस्याप्यरोहितँ स्यादिति शालीकिः ॥
सोमक्रयणेषूपैते नित्याः शते स्युरिति बौधायन एत एव शततमाः स्युरिति शालीकिः ॥
वसतीवरीणां ग्रहण इति ॥
सूत्रं बौधायनस्य
सारस्वतीरप्यत्र वसतीवरीर्गृह्णीयादिति शालीकिः ॥
आग्नेयस्यैन्द्रा ग्न उपालम्भ्यो भवतीति ॥
सूत्रं बौधायनस्याइन्द्रा ग्न एव सवनीयः स्यादिति शालीकिः ॥
पात्राणां करण इति ॥
यथानिर्भेदं पात्राणि कारयेदिति बौधायनः
प्राकृतान्येवैतानि स्युरिति शालीकिः ॥
सारस्वतीनामभिहोम इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो याभ्यामेतदृग्भ्यां वहन्तीरभिजुहुयात्ताभ्यां ग्रहेग्रहे जुहुयादथ तूष्णीँ सारस्वतीरभिजुहुयादिति ॥
अभिषेचनीयानां ग्रहाणां ग्रहण इति ॥
सूत्रमाचार्ययोरत्रो ह स्माहौपमन्यवः पुरस्तात्सदसोऽभिषेचनीयान्ग्रहान्गृह्णीयादिति ॥
धनुषः प्रदान इति ॥
पूर्वः कल्पो बौधायनस्योत्तरः शालीकेः ॥

मारुतस्यैकविँ शतिकपालस्य कपालोपधान इति ॥
ऐष्टिकैरुपधाय गणैरुपदध्यादिति बौधायनो गणैरेवेति शालीकिः ॥
आमिक्षायै मन्त्रामन्त्र इति ॥
मन्त्रवती स्यादिति बौधायनस्
तूष्णीकेति शालीकिः १८

22.19
क्लीबस्य स्थान इति ॥
अन्तर्वेदि तिष्ठेदिति बौधायनो बहिर्वेदीति शालीकिः ॥
मणीनां करण इति ॥
औदुम्बर औदुम्बरेण लौहेन प्रच्छन्नः स्यादिति बौधायनोऽउदुम्बर एवेति शालीकिः ॥
तस्मिन्सह संग्रहीत्रा रथवाहने रथमादधातीति ॥
सूत्रं बौधायनस्याधातृणामेवैकः संग्रहीता स्यादिति शालीकिः ॥
स्फ्यस्य प्रदान इति ॥
सूत्रँ शालीकेरत्रो ह स्माह बौधायनो यजमानस्यैवैकस्य मन्त्रेण संप्रयच्छेत्तूष्णीमितरे संप्रयच्छेरन्निति ॥
अक्षाणां करण इति ॥
सौवर्णाः स्युरिति बौधायनो राजता इति शालीकिर्नागदन्ता इत्यौपमन्यवो वैभीतका इत्यौपमन्यवीपुत्रः ॥
अथास्मै पञ्चाक्षानपच्छिद्य प्रयच्छतीति ॥
सूत्रँ शालीकेर्
अत्रो ह स्माह बौधायनो येनास्यानुपपन्नँ स्यात्तं तत्रापिसृजेद्दिशोऽभ्ययँ राजाभूदिति ॥
अथ विषुवति दर्भस्तम्बे जुहोतीति ॥
सूत्रं बौधायनस्य
यत्रैव दर्भस्तम्बः स्यात्तद्गच्छेदिति शालीकिः १९

22.20
अग्नीनाँ हरण इति ॥
अजस्रान्हरेदिति बौधायनोऽरण्योः समारोह्येति शालीकिः ॥
वेद्यै करण इति ॥
सूत्रं बौधायनस्य
पूर्वापूर्वा वेदिर्भवतीति शालीकिः ॥
अथैनं तीर्थादानीय पवयित्वा पुण्डरिस्रजिनमुदानीयेति ॥
स ह स्माह बौधायन उभयानि पुण्डरिकाणि करयेत्सौवर्णानि च नादेयानि चेति
नादेयान्येवेति शालीकिः ॥
निदधत्यस्मा एतद्धविरुच्छिष्टं व्रतभाजनमिति ॥
सूत्रं बौधायनस्य
नात्र हविरुच्छिष्टं व्रतभाजनं निदध्यादिति शालीकिः ॥
सोमक्रयणेषूपैते नित्याः स्युरिति बौधायन एत एव स्युरिति शालीकिः ॥

औपसदाँ हविषां मन्त्रामन्त्र इति ॥
मन्त्रवन्ति स्युरिति बौधायनस्
तूष्णीकानीति शालीकिः ॥
आग्नेयस्य प्राजापत्यस्तूपर उपालम्भ्यो भवतीति ॥
सूत्रं बौधायनस्य
प्राजापत्य एव सवनीयः स्यादिति शालीकिः ॥
भार्गवो होता भवतीति ॥
आदित एव भार्गवँ होतारं वृणीतेति बौधायनो दशपेय एव भार्गवो होता स्यादिति शालीकिः ॥
शतं ब्राह्मणाः पिबन्तीति ॥
यजमान एकशततमः स्यादिति बौधायनो यजमान एव शततमः स्यादिति शालीकिः ॥
दक्षिणानां दान इति ॥
एता एव ब्राह्मणाभिविहिता दक्षिणा दद्यादिति बौधायन एतन्मुखँ सहस्रमिति शालीकिः २०

22.21
तेषामुत्थानेष्विति ॥
गच्छेयुरावभृथादिति बौधायनोऽप्सुषोमान्ता इति शालीकिर्ध्रुवान्ता इत्यौपमन्यवः ॥
हविषोहविष इष्ट्वा बार्हस्पत्यमभिघारयतीति ॥
बार्हस्पत्यस्यापीष्ट्वा बार्हस्पत्यमभिघारयेदिति बौधायन
इतरेषामेव हविषां न बार्हस्पत्यस्येति शालीकिः ॥
उच्चैरादित्याया आश्रावयत्युपाँ शु मारुत्या इति ॥
आदित्याश्रावणप्रभृत्युपाँ श्वथेतरदुच्चैरिति बौधायन आ मारुत्याश्रावणप्रभृत्युपाँ श्वथेतरदुच्चैरिति शालीकिः
सर्वैवोच्चैरादित्या सर्वोपाँ शु मारुतीत्यौपमन्यवः ॥
सात्यदूतेष्विति ॥
सूत्रं बौधायनस्येमं तेऽसौ प्राहैषीदित्येव ब्रूयादिति शालीकिः ॥
द्विरात्र इति ॥
सूत्रं बौधायनस्य
यजनीयेऽहन्पूर्वमहर्भवत्युत्तरस्मिन्नुत्तरमिति शालीकिः ॥
देविकाहविषां करण इति ॥
कुर्यादिति बौधायनो न कुर्यादिति शालीकिर्न कुर्यादिति शालीकिः २१