बौधायनश्रौतसूत्रम्/प्रश्नः २६
26.1
अथायँ राजसूयोऽर्धसप्तदशैर्मासैः संतिष्ठतेऽर्धषोडशैर्वा
तस्मिन्सोमसँ स्थाः पञ्चैकाहा अहीनो द्विरात्रः
षट्छाला अष्टौ यूपाः षडु हाग्निष्टोमिका द्विपशौपशुबन्धे सौत्रामण्यामष्टमस्
तावन्त एवावभृथाः
क्व उ खलु हविषो हविर्निरुप्यत इत्यानुमत इत्येव ब्रूयात्
कृष्णं वासः कृष्णतूषं दक्षिणेति
कृष्णदशमित्येवेदमुक्तं भवति
काममिष्ट्या पशुबन्धेनेति
संतन्येष्ट्येष्ट्वाग्रयणेन वा पार्वणेन वा यजेत
कथमु खलु साकमेधपरुषीति
महारात्रे पूर्वा संतनिः श्वो भूत उत्तरा प्रदोषे
किमु खल्वसमुदितं भवतीति
प्रागनूयाजिकात्संप्रैषादित्येव ब्रूयाद्बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृह इति
योऽन्यो याजमानासंयुक्तो ब्राह्मणो भवति
भगाय चरुं वावातायै गृह इति
यान्या महिष्या एव सुभगा भवति
नैरृतं चरुं परिवृक्त्यै गृह इति
दुर्भगैवैषोक्ता भवति
पौष्णं चरुं भागदुघस्य गृह इति
महानसिक एवैष उक्तो भवत्यथाप्युदाहरन्ति यो भागलाभी दोग्धि स एषैष उक्तो भवति
द्वादशाहेन रत्निनाँ हवीँ षि
त्रयोदशे मैत्राबार्हस्पत्यं द्व्यहोऽवशिष्ट एतस्यैव पूर्वपक्षस्य
तस्मिन्संतनीभ्यां यजेताथ चेदुक्थ्येऽभिषेचनीयेऽग्निं चिन्वीतैतस्मिन्नेव द्विरात्र आग्निकानि सावित्राणि हुत्वोखाः संभृत्य पशुशीर्षाणि च वायव्येन पशुना यजेत १
26.2
अपां पतिरसीत्यपांपतीयाः
समुद्रि याणामेवैता उक्ता भवन्ति
मरुतामोज स्थेति निवेष्ट्या आवर्तानामेवैता उक्ता भवन्ति
सूर्यवर्चस स्थेत्यभिदृश्याः
प्रसन्नानामेवैता उक्ता भवन्ति
शक्वरी स्थेति गोरु जरायोरेवैता उक्ता भवन्ति
सोऽत्रैवाग्नेयेनाष्टाकपालेन यजेतेति
सद्यः संतिष्ठमान उक्थ्य एतत्सूत्रं भवत्यथ चेदतिप्रवर्धेत तदानीमेवाग्नेयेनाष्टाकपालेन यजेत
श्वो भूते सारस्वतेन
दशदशात्र चमसमभिसंजानत इति
होतृचमसे चोद्गातृचमसे च सप्तसप्ताथेतरेषु नवनव
प्रसर्पणप्रभृतय एवैते भवन्त्यप्सुषोमान्ता अथायं प्रतीचीनस्तोमः केशवपनीयोऽतिरात्रः षोडशिको भवति
तस्य हाग्निष्टोमिकानि स्तोत्राण्यावृत्तानि भवन्त्येकविँ शो बहिष्पवमानः सप्तदशान्याज्यानि माध्यंदिनश्च पवमानः पञ्चदशानि पृष्ठान्यार्भवश्च पवमानस्त्रिवृद्यज्ञायज्ञियमित्यथ प्रतीचीनस्तोमाय केशवपनीयायातिरात्राय दीक्षते
तस्य षड्दीक्षाः षडुपसदस्त्रयोदश्यां प्रसुतश्चतुर्दश्यामुदवसानम्
अथैतस्मिन्नेव पक्षावशेषे व्युष्टये द्विरात्राय दीक्षते
स एतां चैकाँ रात्रिं पूर्वपक्षस्य दीक्षितो भवति द्वे चापरपक्षस्य
तासां द्वादशोपसदोऽथोपवसत्यथोपवसथीयेऽहन्यमावास्यायां पूर्वमहर्भवत्युत्तरस्मिन्नुत्तरमिति
संतिष्ठते व्युष्टिर्द्विरात्रोऽथोत्तराँ शालामध्यवस्येदथ मथित्वाग्नीन्विहृत्योदयनीयायाग्निष्टोमाय दीक्षते
तस्य तिस्रो दीक्षास्तिस्र उपसदः सप्तम्यां प्रसुतः
संतिष्ठत एष उदयनीयोऽग्निष्टोमः सहस्रदक्षिणोऽथैतस्मिन्नेव पक्षावशेषे क्षत्रस्य धृतिनाभिविधत्ते देविकाहविर्भिस्त्रैधातवीयया सौत्रामण्येति
संतिष्ठते राजसूयोऽर्धसप्तदशैर्मासैरथ शालीकेः केशवपनीयान्तस्
तेऽर्धषोडशाः २
26.3
अथातोऽञ्जसवः
प्रसिद्धमेव प्रथमोऽर्धमासः संतिष्ठते
पञ्चाहेन चातुर्मास्यानि द्व्यहेन संतनी अष्टमेऽहनीन्द्र तुरीयं नवमेऽह्नि पूर्वाणि देविकाहवीँ षि दशमेऽह्न्युत्तराण्येकादशे द्वादशे त्रयोदश इति त्रिषंयुक्तैश्चतुर्दशे वैश्वानरो द्वादशकपालः पञ्चदशे वारुणो यवमयश्चरुरिति मासो द्वादशाहेन रत्निनाँ हवीँ षि त्रयोदशे मैत्राबार्हस्पत्यं द्व्यहेन संतनी अर्धमासेनाभिषेचनीय उक्थ्य इति द्वौ मासवर्धमासेन सप्तदशो दशपेयोऽर्धमासं दीक्षिते दीक्षितव्रतीति त्रयो मासा अर्धमासेन प्रतीचीनस्तोमः केशवपनीयोऽतिरात्रोऽर्धमासेन व्युष्टिर्द्विरात्र इति चत्वारो मासा अर्धमासेन क्षत्रस्य धृतिरिति
तेऽर्धपञ्चमा अथ शालीकेः
सप्ताहेन पवित्रोऽग्निष्टोमः स एवमेव पक्षावशेषँ सिद्धमा वारुणाद्द्वादशाहेन रत्निनाँ हवीँ षि त्रयोदशे मैत्राबार्हस्पत्यं द्व्यहेन संतनी इति मासोऽर्धमासेनाभिषेचनीय उक्थ्योऽर्धमासेन सप्तदशो दशपेय इति द्वौ मासवर्धमासेन प्रतीचीनस्तोमः केशवपनीयोऽतिरात्रोऽर्धमासेन व्युष्टिर्द्विरात्र इति त्रयो मासा अर्धमासेन क्षत्रस्य धृतिरिति
तेऽर्धचतुर्था अथ पतन्तको द्वादश दीक्षा द्वादशोपसदः
सप्ताहोऽहीनो राजसूयो यथावकाशमितरै राजसूयहविर्भिर्यजतेऽथ देविकाहविर्भिर्यजतेऽथ त्रैधातवीयया यजतेऽथ सौत्रामण्या यजते
संतिष्ठते राजसूयः ३
26.4
अथेममिष्टिकल्पं पञ्चदशसामिधेनीकं च सप्तदशसामिधेनीकं च समामनामस्
तत्र सिद्धं याजमानं बौधायनस्य कल्पो यथाम्नायँ शालीकेस्
त्रीँ स्तृचाननुब्रूयादिति
त्रिः प्रथमामनूच्य तिस्रोऽनन्तरा अनुब्रूया त्त्रि रुत्तमां ताः पञ्चदश
पञ्चदशानुब्रूयादित्येकादशेमाः सामिधेन्यः समामनामस्
तासां त्रिः प्रथमामन्वाह त्रिरुत्तमां ताः पञ्चदश
सप्तदशानुब्रूयादेकविँ शतिमनुब्रूयाच्चतुर्विँशतिमनुब्रूयात्त्रिँ शतमनुब्रूयाद्द्वात्रिँ शतमनुब्रूयात्षट्त्रिँ शतमनुब्रूयाच्चत्वारिँ शतमनुब्रूयाच्चतुश्चत्वारिँ शतमनुब्रूयादष्टाचत्वारिँ शतमनुब्रूयादिति धाय्यालोक एता धातव्या भवन्त्य्
आग्नेय्यः सर्वा गायत्र्! यः
सर्वाणि छन्दाँ स्यनुब्रूयादपरिमितमनुब्रूयादिति धाय्यालोक एवैता धातव्या भवन्ति
नैताः सर्वा गायत्र्! यो गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग्याज्या
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवत्युपरिष्टाल्लक्ष्मा याज्या
मूर्धन्वती पुरोऽनुवाक्या भवति नियुत्वत्या यजत्युपाँ शुयाजमन्तरा यजतीति
दर्शपूर्णमासयोरेवैतदुपपद्यते नान्यत्र ४
26.5
अथेमाः काम्या इष्टयो निष्पुरीषेणैव प्रयोक्तव्या भवन्ति
स संवत्सरं पयोव्रतः स्याद्द्वादशाहं वा यावद्वा शँ सीत
तासां याः समानसंयोजना एकां चेत्तासां निर्वपेत्सर्वा एवैता निर्वप्तव्या भवन्ति यथो एतदनायुक्तोऽग्निपरिचरोऽल्पमुद्धृत्य पुनरप्युद्धरति
कथमत्र प्रायश्चित्तँ सिद्यती३ न सिध्यती३ इति
सिध्यतीत्येक आहुरथ हैक आहुर्न सिध्यतीति
निर्दिष्टभागो वा एतयोरन्योऽनिर्दिष्टभागोऽन्य इत्युभावु खल्विमावनिर्दिष्टभागौ भवतो नैव सिध्यतीति
तन्त्रं धृष्टेरादानं गार्हपत्यसकाशाद्धृष्टिमाददीत
तयाहवनीये वैश्वानरस्य कपालान्युपदध्यात्
प्रदक्षिणमावृत्य गार्हपत्ये मारुतस्य कृतानि पिष्टानि समुप्य संयुत्य व्यभिमृश्य पिण्डौ कृत्वाग्रेण मारुतस्य पिण्डं पर्याहृत्याहवनीये वैश्वानरमधिपृञ्ज्यात्
प्रदक्षिणमावृत्य गार्हपत्ये मारुतं त्वचं ग्राहयित्वेमं त्वचं ग्राहयेदमुं पर्यग्नि कृत्वेमं पर्यग्नि कुर्यादमुँ श्रपयित्वेमँ श्रपयेदपि वोभयमेवोभयत्र कुर्यात्
तस्य शृतस्यासादनं दक्षिणं परिधिसंधिमपरं विमुच्य दक्षिणं वा परिधिमग्रेण
सिद्धमत ऊर्ध्वम्
एतस्मिन्वा एतौ मृजाते यो विद्विषाणयोरन्नमत्तीतीतरमितरेणेत्येवैष उक्तो भवति
यं मृधोऽभि प्रवेपेरन्राष्ट्राणि वाभि समियुरिति
प्रतिवेशा राजानो मृधः
स्व एव जनपदा राष्ट्राणि विशो यो हतमनाः स्वयंपाप इव स्यादिति
सति बले हतमनाः स्वयंपाप इव स्यादिति
साधुरूपे कुले स्वयंपापो यस्मै प्रत्तमिव सन्न प्रदीयेतेति
प्रत्तमनुपाकृतं प्रतिबध्यमानमेवैतद्भवत्यथास्यामध्वरकल्पायामिडान्तं प्रथमं तन्त्रं कुर्याद्तृतीयेन सहावशेषं वर्तयेत्
कथमत्र भक्षा इति
तत्रतत्र वा भक्षयेदपि वा सर्वासाँ समवदाय हुत्वान्ततो भक्षयेदनड्वान्होत्रा देय इति
यजमानस्यैवैष गौष्ठाद्दातव्यो भवति
वेदिं परिगृह्यार्धमुद्धन्यादर्धं नेति
दक्षिणं वा वेदेरर्धमपरं वेत्यैन्द्र स्यावदाय वैश्वदेवस्यावद्येदथैन्द्र स्योपरिष्टादिति
द्वे एवैते अवदाने उक्ते भवत उपाधाय्यपूर्वयं वासो दक्षिणेति
प्रवेणतो वान्ततो वा ताम्राणि वा नीलानि वा सूत्राण्युपहितानि भवन्त्यपि वोपधानरज्जुरेवैषोक्ता भवत्यथास्याँ सज्ञानेष्ट्याँ सकृदेवानुवाचयेत्सकृदाश्रावयेद्द्वे ह्यस्यै याज्यानुवाक्ये भवतः ५
26.6
अथ वै भवति
यदि नावगच्छेदिममहमादित्येभ्यो भागं निर्वपाम्यामुष्मादमुष्यै विशोऽवगन्तोरिति निर्वपेदिति निरुप्योपरमति
परिदानान्तं कर्म कृत्वाथैतान्व्रीहीन्कृष्णाजिने समुप्योत्तरार्धेऽग्न्यगारस्यासञ्जयेदथावगते सँ सादयेत्
प्रोक्षणप्रभृतिना कर्मणा प्रतिपद्येत
सिद्धमत ऊर्ध्वं यथा नखनिर्भिन्नायामेवँ शतकृष्णलायाम्पुरा वा तण्डुलानामावपनाद्रुक्ममवदध्याच्छृतमुत्तरमपि वैनँ शृतमेव सुवर्णरजताभ्याँ रुक्माभ्यां परिगृह्यान्तर्वेद्यासादयेदाग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेदिति
व्यभिमृष्टानां पिण्डानां पुराधिपृञ्जनात्समाश्लेषयितव्यं भवति
सर्वेषामभिगमयन्नवद्यतीति सदैवतस्य सस्विष्टकृत्तस्येत्येवेदमुक्तं भवत्यथो खलु यावतीः समा एष्यन्मन्येत तावन्मानँ स्यादिति
त्रिँ शद्वर्षश्चेत्स्यात्सप्ततिमानं कुर्वीत
चत्वारिँ शद्वर्षश्चेत्स्यात्षष्टिमानं कुर्वीतैष एवैतस्याभिवृद्धिकल्पोऽथ वारुणेषु च संज्ञानेष्ट्यां च सकृदेवानुवाचयेत्सकृदाश्रावयेत्सकृत्प्रदानाः समानदेवता आपोनप्त्रीयं चरुं पुनरेत्य निर्वपेदिति
को नु खल्वपां नपाद्भवतीति
वैद्युत इत्येव ब्रूयात्
कृष्णामधु चेति
पौत्तिकमित्येवेदमुक्तं भवत्यनस्त्रिगधमिति
त्रिवलीकमित्येवेदमुक्तं भवत्यथाप्युदाहरन्ति त्रिच्छदिष्कमित्येवेदमुक्तं भवति
यथा त्रिधातावेवँ संदिग्धपुरोडाशस्यावदानकल्पः ६
26.7
स सर्पानसृजतेति
मासा एवैत उक्ता भवन्ति
स वयाँ स्यसृजतेति
छन्दाँ स्येवैतान्युक्तानि भवन्ति
स वैव स्यादिति
पुराणगार्हपत्यमभ्युपदिशन्ति
तस्य पशुवेलायामुल्मुकमादाय दक्षिणया द्वारोपनिर्हृत्य दक्षिणेन सदः परीत्य दक्षिणेन मार्जालीयं धिष्णियं पर्याहृत्यान्तरेण यूपं चाहवनीयं चोपातिहृत्यान्तरेण चात्वालोत्करावुदङ्ङुपनिर्हृत्य तेन पशुँ श्रपयेयुरथ यदाहवनीयादुल्मुकँ स्याद्वपया तत्सहाहरेयुः
किंदेवत्यानि खल्वपाव्यानि भवन्तीति
द्वे प्राजापत्ये आग्नेयं वायव्यं वैश्वदेवमितीष्टर्गो वा अध्वर्युर्यजमानस्येष्टर्ग इत्युष्णाग्रमित्येवेदमुक्तं भवत्यथाप्युदाहरन्त्यध्वर्युरेवैष उक्तो भवत्यासन्यान्मा मन्त्रात्पाहि कस्याश्चिदभिशस्त्या इत्यनुव्याहारो ह वा आसन्यो मन्त्रस्
तस्मान्मा पाहीत्येवेदमुक्तं भवति
तस्माद्यज्ञवास्तु नाभ्यवेत्यमित्यहोरात्रावित्येकं यावदग्नयः शीताः स्युरित्येतदेकं यावदेनमभिवर्षेदित्येतदपरं द्वौ समुद्रौ विततावजूर्यवित्यहोरात्रावेवैतावुक्तौ भवतः
पर्यावर्तेते जठरेव पादा इत्युदरे पादा इत्येवेदमुक्तं भवति
तयोः पश्यन्तो अतियन्त्यन्यमपश्यन्तः सेतुनातियन्त्यन्यमित्यहः पश्यन्तो अतियन्ति रात्रिं स्वप्नेन सेतुनातियन्त्यन्यमिति
द्वे द्र धसी सतती वस्त एक इत्यादित्योऽहोरात्रे वस्त इत्येवेदमुक्तं भवति
तिरोधायैत्यसितं वसानः शुक्रमादत्ते अनुहाय जार्या इति
रात्रिं वसानस्तिरोधायैति शुक्रमादत्तेऽहरित्येवेदमुक्तं भवति
कीटावपन्नस्येति
कतमो नु खल्वयं कीटो भवति
य एवैष पिण्डान्संवर्तयतीति
नित्ये ग्रहणे वैष्णवीमृचमनुवर्तयतीति
पृषदाज्य एवैषानुवर्तयितव्या भवति ७
26.8
अथातोऽतिग्राह्यान्व्याख्यास्याम इमे न्वेव पृष्ठ्यातिग्राह्याः पञ्चैन्द्रा वाजपेये
परःसामानश्चार्वाक्सामानश्च सौर्यो वैषुवते
वैश्वकर्मणादित्यौ गवामयने
प्राजापत्यो महाव्रते
बार्हस्पत्यो बृहस्पतिसवे
वैमृधे चोद्भिदि च त्विषिमति च वृषा सो अँ शुः पवत इति च
द्वावश्वमेधे महिमानवादेशादेवाश्वस्य वपां महिमाभ्यां परिजुहुयात्
कथमु खलु परःसास्नां भक्षो भवतीति
रुद्र वद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दसोऽद्भिरोषधीभिः पीतस्यौषधीभिः प्रजाभिः पीतस्य प्रजाभिः प्रजापतिना पीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्येष एवार्वाक्साम्नामावृत्तो भक्षोऽष्टाप्रूड्ढिरण्यं दक्षिणेत्यष्टापिलकमित्येवेदमुक्तं भवति
द्वौ चेद्गर्भौ स्यातां द्वादशप्रूट्स्यादेको ह महाकोशः स्याद्द्वाववान्तरकोशौ स्याताम्
अथास्थिगर्भाया आज्येनैवैतान्यस्थानि समुदायुत्य मध्यमेन पर्णेनान्तःपरिधि निनयेद्भूर्भुवः सुवरिति ८
26.9
यदालब्धायामभ्रो भवतीत्यालब्धायां चेदभ्रः स्यात्सँ स्थापयेदेवाथ चेदुपाकृतायामभ्रः स्यादन्यमेतस्मिन्स्थान उपाकृत्योत्तरममेघसंपन्नमेतयागम्येरन्नित्यथेमे जया अभ्याताना राष्ट्रभृत इत्याहिताग्नेश्चानाहिताग्नेश्चान्यत्र विहाराद्दृष्टा भवन्त्यभिसमारम्भात्त्वेवैनानाचार्याः प्राक्स्विष्टकृत उपजुह्वत्यष्टौ वसव इति
कतमे नु खल्विमे वसवो भवन्तीति
पृथिव्यन्तरिक्षं द्यौरग्निर्वायुरादित्यश्चन्द्र मा आप इत्येतेऽष्टौ वसव एतेषु वा इदँ सर्वं प्रतिष्ठितं यदिदं किं च
य एवं वेद प्रत्येव तिष्ठत्येकादश रुद्रा इति
प्राणा एवैत उक्ता भवन्ति
द्वादशादित्या इति
मासा एवैत उक्ता भवन्ति
पञ्च गृह्यन्ते नवनव गृह्यन्ते पञ्चधा विगृह्यन्ते
नवनवाँ शवो भवन्त्य्
अथ य एव दशमो मन्त्र एतेषामेवैषोऽभिग्रहणार्थो दृष्टो भवति
तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यादिति
भैक्षाय प्रत्यवस्थितायैवैषा दातव्या भवति
किंदेवत्या उ खल्वतिरिक्तसोमा भवन्तीति
यंयं ग्रहमभ्यतिरिच्येरँ स्तत्तद्देवत्या एव स्युरित्येतदेकम्
अथापरम्विज्ञायत उ खल्वेषां ब्राह्मणमथ कस्मादैन्द्रो यज्ञ आ सँ स्थातोरित्येतस्मादैन्द्रा वैष्णवा एव भवन्ति
तेन शीतीभवता षडहसँ स्थां काङ्क्षेयुरिति
षडहब्राह्मणमेवैतद्भवत्यथ चेदहःसंयोग एवमापद्येत यथापि नव मध्यमानि सांवत्सरिकाण्यहानि संनिगच्छेयुस्तदानीमेवैनँ शीतीकृत्वा संचिनुयुरथ चेदुदयनीयेऽतिरात्र एतदेव
प्रजा वै सत्त्रमासत तपस्तप्यमाना अजुह्वतीरिति
तत्पृच्छन्ति कतमत्तत्सत्त्रं भवतीति
यदेवैतदनाहिताग्नयो वृथाश्रमँ श्राम्यन्त्येतत्सत्त्रं भवतीति ९
26.10
आश्विनं प्रागाश्विनमिति
कियन्नु खल्वाश्विनं भवतीति
द्वियोजनं वा यावद्वाश्वोऽह्ना गच्छेद्द्विस्तावा वेदिर्भवतीत्याग्निकस्य प्रक्रमस्य चतुरश्रकृतस्याक्ष्णयामानमाददीत
स प्रक्रमः स्यात्
तेन वेदिं विमिमीतापि वा विँ शत्याश्च रथाक्षाणामेकविँ शत्याश्च पदानामष्टाङ्गुलस्य च चतुर्विँशं भागमाददीत
स प्रक्रमः स्यात्
तेन वेदिं विमिमीते
त्रिस्तावोऽग्निर्भवतीति
त्र्! यः त्रयः सप्तविधाः
स एकविँ शतिविधोऽथैतौ ह्रदौ मध्यतो देवयजनस्य जोषयत इति
किमर्थौ खल्विमौ ह्रदौ भवत इत्यश्वप्लावनो ह दक्षिण आवभृथिक उत्तरो द्वौ दासावनुजायै च पुत्रोऽन्वाधेयायै चेति
योऽस्य पितुरनुजायाः पुत्रः स पुरस्तान्नयत्यथ योऽस्य मातुरन्वाधेयायै पुत्रः सोऽपरो जरत्पूर्वया सव्यं जानु वेष्टयित्वेत्युपधानरज्जुरेवैषोक्ता भवति
शतं वै तल्प्या राजपुत्रा इति
प्रतिहिता एवैत उक्ता भवन्ति
शतँ राजान उग्रा इति
राजन्या एवैते नाभिषेच्या भवन्त्यथ सावित्रमष्टाकपालं प्रातर्निर्वपतीत्येषैव प्रथमा सावित्री
वैश्वदेवपरुषि द्वितीयापराह्णे तृतीयैतदत्रैकाहिकं कर्म जानीयादुत्तरतश्च देवयजनादुदवस्येच्चातुर्मासिकानां पशूनामेवं वायव्याय पशव एवं तूपराय
सप्ताहान्येतयेष्ट्या यजत इति
कथमत्र भक्षा इति
तत्रतत्र वा भक्षयेदपि वा पुरस्तादेवैतस्मै सप्ताहाय
यूपमाम्नाये राज्जुदालमग्निष्ठं मिनोतीति
श्लेष्मातक इत्येवेदमुक्तं भवति
अथाप्युदाहरन्ति राज्जुदालमग्निष्ठं मिनोति भ्रूणहत्याया अपहत्यै
पौतुद्र वावभितो भवतः पुण्यस्य गन्धस्यावरुद्ध्या इति
तृतीयं दक्षिणानां ददातीत्याग्निकानामु ह तृतीयं कामप्रेण सह तृतीयमतिरात्रे तृतीयं चतुष्टोम एष भवति
चतुरुत्ररीय एष चतुष्टोमो भवति १०
26.11
एकस्मै स्वाहा द्वाभ्याँ स्वाहेति
कथमु खल्वेताननुवाकाञ्जुहुयादिति
यथाप्रकृत्यस्तथानन्तरायँ होतव्याश्चतुर्विँशतिँ रशना आदाय यूपानभ्यायन्ति चतस्रश्चतस्र इतरे परिकर्मिण इति
कथमेतासु नियुञ्ज्यादित्यश्वस्तूपरो गोमृग इति ते त्रयःसमानरशना रराट्येषु तिस्रः
पर्यङ्ग्येषु पञ्चाग्नयेऽनीकवते रोहिताञ्जिरनड्वानित्येतेष्वष्टौ
सोमाय स्वराज्ञेऽनोवाहावनड्वाहवित्येतेषु सप्ताथैतेषां त्रयस्त्रयः समानरशनार्मुख्यस्यैवैषां चतुर्थी भवति
समानं कर्मा पर्यग्निकरणात्
पर्यग्निकृतानामेतेषां पशूनामूनविँ शतिरुत्सृज्यन्त एकचत्वारिँ शतमतिशिष्यन्ते
द्विचत्वारिँ शतमेषाँ शासा भवन्त्यश्वेऽत्र द्वौ समासं गच्छतोऽथेतरेषां प्रतिपशु संपद्यन्त इन्द्रा ग्निभ्यामोजोदाभ्यामुष्टारविति
प्रासङ्ग्यावेवैतावुक्तौ भवतोऽथैतस्मिञ्छल्मलिशर्च आशुपिष्टानि संयुत्येत्य्
आशुकानामेवैतानि व्रीहीणां पिष्टानि शल्मलिश्लेष्मणा संयुतानि भवन्ति
पृथक्प्रतिप्रस्थातारोऽवद्यन्ति
तेषां मैत्रावरुणा एवानुब्रूयुश्चत्वार्येवैतानि प्रदानानि भवन्तीलुवर्दाय स्वाहा बलिवर्दाय स्वाहेति
सूर्याचन्द्र मसावेवैतावुक्तौ भवतोऽथाप्युदाहरन्ति संवत्सरो वा इलुवर्दः परिवत्सरो बलिवर्द इति
तस्य मूर्ध्नि जुहोति जुम्बकाय स्वाहेति
किंदेवत्या उ खल्वियमाहुतिर्भवतीति
वारुणीत्येव ब्रूयात्
किकिदीविर्विदीगय इति
विदिदिहीविकीदीह किकिदीविर्भवति
पृषत उअ पतंगो विदीगयोऽथैतान्पशूनुपाकरोत्याग्नेयमैन्द्रा ग्नमाश्विनमिति
यमा एवैते छागाः समानयोनयो भवन्ति
तेषामुक्तं चरणं यथैकादशिनानां पशूनां किंदेवत्या उ खल्वृतुपशवो भवन्तीत्यृतुदेवता इत्येतदेकम्
अथापरम्
आग्नेयाः प्रथमा ऐन्द्रा द्वितीया वैश्वदेवास्तृतीया मैत्रावरुणाश्चतुर्था बार्हस्पत्याः पञ्चमाः सावित्राः षष्ठाः संवत्सराय निवक्षस इति प्राजापत्याः ११
26.12
अथायं द्वादशाह उभयविधो भवत्यहीनो वा सत्त्रं वा
स यद्यु हैको दीक्षतेऽहीनो भवत्यथ यदि बहवः सत्त्रं यदि चैवाहीनो यदि च सत्त्रमुभयथैवोभयतोऽतिरात्रो भवत्यन्यतरतोऽतिरात्रा ह्यहीना भवन्त्युभयतोऽतिरात्राणि सत्त्राण्यादेशादेवोभयतोऽतिरात्रोऽहीनो भवत्यादेशात्तु सत्त्रमनतिरात्रं यथैतदग्निष्टोमायनँ सारस्वतमयनं विश्वसृजामयनमिति
कथमु खल्वेषाँ संनिवापः स्यादिति
सावित्रेभ्यः प्रथमँ संनिवपेरन्
हुत्वा सावित्राणि विसमारोह्याग्निहोत्राणि जुहुयुरथ वायव्याय पशवे संनिवपेरन्
वायव्येनेष्ट्वा विसमारोह्यैवाग्निहोत्राणि जुहुयुरथ यदि दीक्षणीयायै संनिवपेरँ स्तेषां तत्संन्युप्तान्येव स्युर्व्युदवसानीयाद्द्व्यदवसायैव प्रतिवेशा यज्ञपुच्छानि कुर्वीरन्
कथमु खलु संदीक्षिता विष्णुक्रमान्क्रमेरन्निति
महापाशाभिपरीता वा क्रमेरन्नपि वा पाशानभिसंधित्वाभिक्रमः स्यादथाह क्रमस्वाथाह क्रमस्वेत्य्
अतिगुरुस्तथा कल्पः स्याद्यथो एतत्सूत्रं भवति षष्ठ्यामुपसद्युत्तरवेदिँ संनिवपन्त्यपि वैकादश्यामित्यनग्निचय एवैतदुपपद्यते न साग्निचये
कथमु खल्वेषामहीनसंततिर्भवतीति
वसतीवरीणामभिग्रहणेनाध्वर्युः संतनोतीध्माबर्हिषोरुपकल्पनेन च पयसां विशासनेन च वाचो यम्येन ब्रह्मातिप्रैषेण होता पुनरभ्यासेन च सुब्रह्मण्ययोद्गाता यज्ञस्य पुनरालम्भेन यजमानः
प्रचरन्त एवैतद्ध्रुवाज्यँ समाददतेऽथेमानि सवनानि बर्हीँ षि संचिनुयुस्
तेषां महारात्र उत्थायाग्नीध्र आज्यानि गृह्णन्तो ज्वलयेरन्निति १२
26.13
कथमु खलु दिवा प्रातरनुवाकस्याह्न उपक्रमो भवतीति
तत्पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसंततिं कृत्वा ग्रावोवायव्यँ संप्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्द्धारा यन्त्य्
आहृत्य समिध आहवनीय उपसादयन्ति
परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायाँ सवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः संनह्य पयाँ सि विशिष्याग्निध्रं द्रुत्वाग्नीध्रे संवेशनरूपाणि कृत्वा प्रातःकर्मणा प्रतिपद्यते
प्रसिद्धेन महारात्रिकेण
सिद्धमत ऊर्ध्वम्
उपस्तम्भनं वा एतद्यज्ञस्य यदतिग्राह्याश्चक्रे पृष्ठानीति
त्रिवृच्चैकविँ शश्च चक्रे आग्नेय उपस्तम्भनम्पञ्चदशश्च त्रिणवश्च चक्रे ऐन्द्र उपस्तम्भनँ सप्तदशश्च त्रयस्त्रिँ शश्च चक्रे सौर्य उपस्तम्भनं यथो एतद्बौधायनस्य कल्पं वेदयन्ते निर्मन्थ्यो मन्त्रवान्भवतीत्याध्वर्यवा एवात्र मन्त्रा आवर्तन्ते नाग्निमन्थनीयाः
स्वयमृतुयाजमेवैतदहर्भवति नैतदहरन्योन्यस्यर्तुयाजं यजतीति १३
26.14
आश्राव्याध्वर्युरन्यस्मै ग्रहं प्रदायैतेनैव यथेतमेत्य जघनेन हविर्धाने उपविश्यर्तुसंप्रैषमुक्त्वोपोत्थाय हुत्वा व्यवनीय प्रदक्षिणमावृत्य यत्रायाक्षीत्तत्प्राङासीनो होतृभक्षं भक्षयेत्प्रत्यङ्ङासीनोऽध्वर्युभक्षम्पारुच्छेपीर्होता शँ सति वालखिल्या मैत्रावरुणो विहरति वृषाकपिं ब्राह्मणाच्छँ सी शँ सत्येवयामरुतमच्छावाकः
किंकर्मा तर्ह्यध्वर्युर्भवतीति प्रत्यागृणातीत्येव ब्रूयाद्या एता अध्वर्युरनुष्टुभ उद्धृत्याहरति ताश्चतस्रो गायत्र्यस्तास्तिस्रोऽनुष्टुभः
सोम राजन्नेह्यवरोहेत्येतस्यै गायत्र्! यै पदमात्रेण राजानमुपावहरेत्
कथमु खलु दशममहर्भक्त्या सर्वचतुर्विँशं च भवति त्रिष्टोमं चान्यत्र तूष्णीँ स्तोमादिति
चतुर्विँशो बहिष्पवमानः पञ्चदशं ब्रह्मसाम त्रयस्त्रिँ शमग्निष्टोमसाम
तासामु ह नवागच्छन्ति
ताश्चतुर्विँशतिः संपद्यन्त एतदेवापि दशममहर्भक्त्या सर्वचतुर्विँशं च भवति त्रिष्टोमं चान्यत्र तूष्णीँ स्तोमादित्युपसृजन्मात्रे वत्सं धारयन्धरुणो धयन्निति
किंदेवत्या उ खल्वियमाहुतिर्भवतीति
प्राजापत्येत्येव ब्रूयादिति १४
26.15
अथेमं द्वादशाहं ग्रहाग्रैरेव प्रतिव्यूहामस्
अथेमं तस्य नवाहानि प्रतिव्यूहं गच्छन्ति यान्यन्यानि प्रायणीयोदयनीयाभ्यां दशमाच्चाह्नोऽथ छन्दोमास्
तत्षडेव
स्वस्थानो हि प्रथमस्त्रिरात्रो गायत्रीप्रातःसवने प्रथमे त्रिरात्रेऽष्टौ कृत्वोऽग्रे प्रथममुपाँ श्वभिषवमभिषुणुयादेकादश कृत्वो द्वितीयं द्वादश कृत्वस्तृतीयम्महाँ इन्द्रो नृवदा चर्षणिप्रा इत्येतया त्रिष्टुभा माहेन्द्रं गृह्णीयाददब्धेभिः सवितः पायुभिष्ट्वमित्येतया जगत्या सावित्रम्
अष्टाकपालान्प्रातःसवनीयान्कुर्यादेकादशकपालान्माध्यंदिनीयान्
द्वादशकपालाँ स्तृतीयसवनीयान्
वसुमद्गणेन गायत्रच्छन्दसा प्रातःसवनीयान्भक्षयेद्रुद्र वद्गणेन त्रिष्टुप्छन्दसा माध्यंदिनीयान्
आदित्यवद्गणेन जगतीच्छन्दसा तृतीयसवनीयानित्य्
अथ जगतीप्रातःसवने द्वितीये त्रिरात्रे द्वादश कृत्वोऽग्रे प्रथममुपाँ श्वभिषवमभिषुण्यादष्टौ कृत्वो द्वितीयम्
एकादश कृत्वस्तृतीयम्महाँ इन्द्रो य ओजसेत्येतया गायत्र्या माहेन्द्रं ग्रहं गृह्णीयाद्वाममद्य सवितरित्येतया त्रिष्टुभा सावित्रं द्वादशकपालान्प्रातःसवनीयान्कुर्यादष्टाकपालान्माध्यंदिनीयान्
एकादशकपालाँ स्तृतीयसवनीयान्
आदित्यवद्गणेन जगतीच्छन्दसा प्रातःसवनीयान्भक्षयेद्वसुमद्गणेन गायत्रच्छन्दसा माध्यंदिनीयान्
रुद्र वद्गणेन त्रिष्टुप्छन्दसा तृतीयसवनीयानित्यथ त्रिष्टुप्प्रातःसवने तृतीये त्रिरात्र एकादश कृत्वोऽग्रे प्रथममुपाँ श्वभिषवमभिषुणुयाद्द्वादश कृत्वो द्वितीयमष्टौ कृत्वस्तृतीयम्महाँ इन्द्रो य ओजसेत्येतां गायत्रीं त्रिरभ्यावर्तयेदनुपयामां सा जगती संपद्यते
तया माहेन्द्रं गृह्णीयाधिरण्यपाणिमूतय इत्येतया गायत्र्या सावित्रम्
एकादशकपालान्प्रातःसवनीयान्कुर्याद्द्वादशकपालान्माध्यंदिनीयान्
अष्टाकपालाँ स्तृतीयसवनीयान्
रुद्र वद्गणेन त्रिष्टुप्छन्दसा प्रातःसवनीयान्भक्षयेदादित्यवद्गणेन जगतीच्छन्दसा माध्यंदिनीयान्
वसुमद्गणेन गायत्रच्छन्दसा तृतीयसवनीयानिति १५
26.16
अथायं वैषुवतो लभेत मासगणानामित्येक आहुः सप्तदश दीक्षा द्वादशोपसदो वैषुवतं त्रिँ शत्तमं कथमु खलु गोआयुभ्याँ स्तोमा भवन्तीति
गोर्नु खलु पञ्चदशो बहिष्पवमानस्तिवृन्त्याज्यानि सर्वसप्तदशं माध्यंदिनँ सवनँ सर्वैकविँ शं तृतीयस्वनँ सोक्थ्यम्
अथायोस्त्रिवृद्बहिष्पवमानः पञ्चदशान्याज्यानि सर्वसप्तदशं माध्यंदिनँ सवनँ सर्वैकविँ शं तृतीयसवनँ सोक्थ्यम्
अथेमौ विश्वजिदभिजितावग्निष्टोमौ सत्त्रगतौ भवतः
के नु खल्वेतयो स्तोमा भवन्तीत्यभि जिन्नु खलु त्र्युदयश्चतुरावृत्तोऽथ विश्वजिच्चतुरुदयस्त्र्यावृत्तः
कथमु खल्वेकविँ शतिगर्भो भवतीत्यभिजितमुपेत्य पृष्ठ्यँ षडहमुपेयुरथ त्रीन्परःसाम्नोऽथ वैषुवतमथ त्रीन्प्रत्यक्साम्नोऽथावृत्तं पृष्ठ्यँ षडहमथ विश्वजितं कथमु खलु गोआयुषी विहृते जानीयादिति
पुरस्तादभिजितो गामुपेयात्स्वस्थान एवायुर्भवतीति
कियन्तो नु खलु गवामयनेऽग्निष्टोमा भवन्तीति
ज्योतिरग्निष्टोमस्त्रिवृदग्निष्टोमो विश्वजिदभिजितावग्निष्टोमौ वैषुवतं दशममहर्महाव्रतमिति सप्तेति ह वा इदं गवामयनं प्रज्ञातस्तोमं ब्रुवते
तस्य होत्तरं पक्ष आवृत्तं भवति यदन्यद्गोआयुभ्यां च दशरात्राच्च
त्र्यनीकानत्रावृत्तान्ग्रहान्गृह्णीयात् १६
26.17
अथेमा द्वात्रिँ शतमेकादशिन्यो गवामयने
तेषां पूर्वस्मिन्पक्षसि षोडश निष्ठीयन्ते सप्तदश एकादशिन्यै बार्हस्पत्यो वैषुवते सवनीयः संपद्यते
तस्य नवाहान्यपशुकान्यतिरिच्यन्त इति
कतमानि खल्विमान्यहानि भवन्तीति
पृष्ठ्यस्य षडहस्योत्तराणि त्रीणि त्रयश्छन्दोमा दशममहर्महाव्रतमुदयनीयोऽतिरात्र इत्यभिप्लवाश्चाक्षीयन्ति च तदङ्गिरसामयनमिति
पृष्ठ्यानामत्र स्थानेऽभिप्लवानेव दधाति
पृष्ठ्याश्चाक्षीयन्ति च तदादित्यानामयनमित्यभिप्लवानामत्र स्थाने पृष्ठ्यानेव दधात्यग्निष्टोमाश्चाक्षीयन्ति च तत्प्रजापतेरयनमित्युभयेषामत्र पृष्ठ्याभिप्लवानाँ स्थानेऽग्निष्टोमानेव दधात्य्
आघाटीभिः पिञ्छोलाभिः कर्करीकाभिरित्याघाट्योऽह कोलोष्ठा भवन्ति
पिञ्छोला उ ह वीणाकाणभ्रशा वीणा उ कर्करीकास्
तं काल एव शस्त्र्यातृणत्तीत्यातृन्द्यादित्येवेदमुक्तं भवति १७
26.18
अथ वै भवति
ब्रह्मवादिनो वदन्ति स त्वै यजेत योऽग्निष्टोमेन यजमानोऽथ सर्वस्तोमेन यजेतेति
चत्वारि पञ्चदशान्याज्यानि
तौ द्वौ त्रिँ शद्वर्गौ
तयोरितरस्मिँ स्त्रिँ शद्वर्गे तिस्र उपास्यति
तौ द्वौ त्रिणवत्रयस्त्रिँ शौ
गायत्रं पूर्वेऽहन्साम भवति त्रैष्टुभमुत्तर इति होतुराज्यमेतानि संपादयेदेवमेवोत्तरेऽह्नि होतुरेवाज्ये
अथास्यैषा सहस्रतम्यन्यतएनी कण्डूकृतोपकॢप्ता भवतीति
सँ सेवितेत्येवेदमुक्तं भवति
कस्मिन्नु खलु काले लक्ष्मणां पष्ठौहीं वार्त्रघ्नीं दद्यादिति
संग्रामं जित्वा राजन्य एनां दद्यात्
कथमु खलु गर्गत्रिरात्रेणर्तुमुखेषु विहृतेन यजेतेत्याषाढे वा श्रावणे वा पक्षेऽग्निष्टोमेन वा यजेत
तत्पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसंततिं कृत्वा ग्रावोवायव्यँ संप्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्धारा यन्त्याहृत्य समिध आहवनीय उपसादयन्ति
परिहृतासु वसतीवरीष्वाहूतायाँ सौब्रह्मण्यायाँ संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः संनह्याविशिष्य पयाँ स्युपवसन्त्यथ श्वो भूते सवनेष्ट्या यजेत
तत स्तम्बयजुर्हरति
स एवमेवाहरहर्वसतीवरीः परिहरमाणश्चतुरो मासः सवनेष्ठ्या यजते
नाग्निहोत्रं जुहोति न दर्शपूर्णमासाभ्यां यजतेऽथ चतुर्षु मासेषु पर्यवेतेषु परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायामहरहः संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः संनह्य पयाँ सि विशिष्योपवसन्ति १८
26.19
अथ श्वो भूत उक्थ्येन यजते
तत्तथैव पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसंततिं कृत्वा ग्रावोवायव्यँ संप्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्धारा यन्त्याहृत्य समिध आहवनीय उपसादयन्ति
परिहृतासु वस्तीवरीष्वाहूतायाँ सुब्रह्मण्यायाँ संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः संनह्याविशिष्य पयाँ स्युपवसन्त्यथ श्वो भूते सवनेष्ट्या यजते
तत्र तथैव न स्तम्बयजुर्हरति
स एवमेवाहरहर्वसीवरीः परिहरमाणोऽपराँ श्चतुरो मासः सवनेष्ट्या यजते
नैवाग्निहोत्रं जुहोति न दर्शपूर्णमासाभ्यां यजतेऽथ चतुर्षु मासेषु पर्यवेतेषु परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायामहरहः संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः संनह्य पयाँ सि विशिष्योपवसन्त्यथ श्वो भूतेऽतिरात्रेण यजते सयज्ञपुच्छेनाथैताँ सहस्रतमीं प्राचीं वोदीचीं वावर्तयँ स्तया विहारं चात्मानं च न व्यवेयादिति १९
26.20
किंदक्षिणा उ खल्वहीना भवन्तीत्यहर्गणोऽहर्गणः सहस्रदक्षिणः स्यादित्येतदेकम्
एकैकमहः सहस्रदक्षिणँ स्यादित्येतदेकं द्वादशशतदक्षिणँ स्यादित्येतदेकं यथाश्रद्धदक्षिणँ स्यादित्येतदपरमादेशादेवैतस्मिन्नतिरात्रे सहस्रमनुविहितं ददाति
द्विरात्रप्रभृतयोऽहीना भवन्त्यैकादशरात्रादथेमान्यहीनाभिपरीतानि सत्त्राणि भवन्ति यथैतत्संवत्सरगर्भ एकादशरात्र उभयविधो हि भरतद्वादशाहो द्वादशाग्निष्टोमा रथंतरसामानः
स ह भरतद्वादशाहोऽथोद्यत्स्तोमेषु त्रिवृत्प्रथममहः स्यात्पञ्चदशं द्वितीयँ सप्तदशं तृतीयमेकविँ शं चतुर्थमितीन्न्वेकम्
अथापरस्त्रिवृत्प्रथमस्याह्नः प्रातःसवनं पञ्चदशं माध्यंदिनँ सवनँ सप्तदशं तृतीयसवनम्
अथ द्वितीयस्याह्नः पञ्चदशं प्रातःसवनँ सप्तदशं माध्यंदिनँ सवनमेकविँ शं तृतीयसवनम्
अथ तृतीयस्याह्नः सप्तदशं प्रातःसवनमेकविँ शं माध्यंदिनँ सवनं त्रिणवं तृतीयसवनम्
अथ चतुर्थस्याह्न एकविँ शं प्रातःसवनं त्रिणवं माध्यंदिनँ सवनं त्रयस्त्रिँ शं तृतीयसवनम् २०
26.21
अथेम औपसदाः पुरोडाशाः शूर्पादानप्रभृतय आप्यान्ताः
स्रुवाहुत्या चैनान्सह सकृज्जुहुयादौपमन्यवीयेन कल्पेनाग्नेयानेककपालान्
अनुसरस्वति प्राञ्चो यान्तीत्याहवनीयसकाशाच्छम्यां प्रास्येत्
सा यत्र निपतेत्तद्गार्हपत्यस्यायतनँ स्यात्प्राचीनं तत आहवनीयोऽथ यद्यपर्याणा अप उपाधिगच्छेयुरपोनप्त्रीयं चरुं तृतीयसवनीयानामनुनिर्वाप्यं कुर्युरथोपोत्तरेद्युः समाप्यत्वेव शम्यां प्रास्येत्
त्र्यहा भवन्ति पञ्चाहा भवन्तीत्यभिप्लवानामेवैतेऽपच्छेदा भवन्त्यष्टमेऽह्नि वाजपेय इति
तत्र यदेव सुत्याभिपरीतं वाजपेयिकं कर्म तत्कुर्याद्
अथेदँ सँ सदामयनमच्छन्दोमं भवतीति
विज्ञायत उ खल्वस्य छन्दोमभक्तयश्चतुर्विँशं चतुश्चत्वारिँ शमष्टाचतुर्विँ शमिति २१
26.22
अथायमतिरात्र उभयविधो भवत्यहीनो वैकाहो वापि तु खल्वस्याहीनस्यैव रूपं द्वादशोपसदोऽनेकमहरभिविधत्तेऽथैकाहस्यैव रूपं सकृद्वसतीवरीर्गृह्णाति सकृत्पशूनुपाकरोत्येकं क्रतुकरणं समयाविषिते सूर्ये हिरण्येन षोडशिन स्तोममुपाकरोतीत्यर्धास्तमित इत्येवेदमुक्तं भवति
तस्य चेदनुपाकृत आदित्योऽभ्यस्तमियाद्गार्हपत्ये तिस्रः स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्यथ यस्योक्थ्येऽतिरिच्येतातिरात्रं कुर्वीतेत्यतिक्रान्ताः खल्वस्य दीक्षोपसदोऽतिक्रान्तं क्रतुकरणमतिक्रान्तँ षोडशिनो ग्रहणम्
अथ तदानीमेव षोडशिपात्रमुपकल्प्य तिसृभिरृग्भिर्गृह्णीयादथैतेन पुरस्ताद्रा त्रिपर्यायेभ्यश्चरेत्
तत्रैवमेव संप्रैषः प्रतिप्रस्थातराग्रयणतृतीयं गुदतृतीयानि जाघनीः पृषदाज्यं गोपायाग्नीदाश्विनं ते द्विकपालँ शृतमप्यपररात्रेऽस्त्विति
कस्मिन्नु खलु काल आश्विनो द्विकपालो निरुप्यत इति
तार्तीयसवनिकैर्वा पुरोडाशैः सहापि वा पुरस्तादुत्तमस्य रात्रिपर्यायस्य
त्रिवृद्वै स्तोमानामवमस्त्रिवृत्परम इत्यतिरात्रब्राह्मणमेवैतद्भवत्यथेयँ सौत्रामणिकी सुरा पादकिण्वा वा भवत्यपि वा पञ्चिका
शष्पाणि च तोक्माणि चेति
यवानामु ह शष्पाणि भवन्ति व्रीहीणामु ह तोक्माणि माषास्तु नग्नहुरथायं कारोतरो दारुमयो वा वैदलो वा मृन्मयो वा चर्मणा त्वेवाभिविदि स्यादयँ सुतासुतीति
सुतमु हास्यामुत्र भवत्यासुतमु हास्येह भवत्यथास्मिन्दाक्षायणयज्ञे कुर्यादुपाँ शुयाजमिति २२
26.23
अथास्यामेकादशिन्यां यूपाहुतिस्तन्त्रं याग्नौ हूयतेऽथाव्रश्चनजा संचारिणी
सँ स्पर्शकं कर्म तद्भवत्यग्निष्ठां प्रथमस्याश्रिँ सकृदाहन्याद्द्विर्द्वितीयस्य त्रिस्तृतीयस्यैवमेवेतरेषामनुपूर्वं छेदनज्ञायाय चाथ वेदिविमानं दशानां च रथाक्षाणामेकादशानां च पदानामष्टाङ्गुलस्य च चतुर्विँशं भागमाददीत
स प्रक्रमः स्यात्
तेन वेदिं विमिमीताथेमावुपस्थावानौ चतुरङ्गुलमात्रेण विकृष्टतमौ स्याताम्
अथेतरे रथाक्षान्तराला एव स्युरित्यथ वै भवत्युपरसंमितां मिनुयात्पितृलोककामस्येति
यावत्यग्निष्ठस्योपर तावन्मात्रा इतरे भवन्ति
चषालसंमितामिन्द्रि यकामस्येति यावदग्निष्ठस्य रशना तावन्मात्रा इतरे भवन्ति
सर्वान्समान्प्रतिष्ठाकामस्येति सर्वान्समान्प्रतिष्ठाकामस्य करोति
ये त्रयो मध्यमास्तान्समान्पशुकामस्येति तान्समान्पशुकामस्य करोति
व्यतिषजेदितरानिति स एवमेव दक्षिणमुत्तरमित्यष्टौ यूपान्व्यतिषजत्यथ वै भवति
यं कामयेत प्रमायुकः स्यादिति गर्तमितं तस्य मिनुयादुत्तरार्ध्यं वर्षिष्ठमथ ह्रसीयाँ समित्युत्तरार्ध्यमत्र वर्षिष्ठं मिनोति दक्षिणार्ध्यं ह्रसीयाँ सम्
एष वै गर्तमिद्यस्यैवं मिनोति ताजक्प्रमीयत इति ब्राह्मणं दक्षिणार्ध्यं वर्षिष्ठं मिनुयात्सुवर्गकामस्याथ ह्रसीयाँ समिति २३
26.24
अङ्गुष्ठपर्वमात्रेणाङ्गुष्ठपर्वमात्रेणोत्तरमुत्तरं यूपँ ह्रसीयाँ सं मिनुयादपि वा यूपावटानामेवैता मात्रा अतिखनेद्कथमु खलु यूपावटाँ श्च परिलिखतो यूपाँ श्चोच्छ्रयतः पशूँ श्चोपाकुर्वतः संचरी स्यादित्यन्तरेणाग्निष्ठं चोपस्थावानं चोपातीत्य जघनेनोत्तरवेदिं परिक्रम्यान्तरेणाग्निष्ठं चैवोपस्थावानं चोपातीत्यैकैकं परिलिखेद्वोच्छ्रयेद्वोपाकुर्याद्वापि वा यंयं परिलिखेद्वोच्छ्रयेद्वोपाकुर्याद्वा तंतं न व्यवेयाद्दक्षिणेन दक्षिणमुत्तरेणोत्तरम्
अपि वा सर्वानेवाग्रेण यूपान्परीत्यैकैकं परिलिखेद्वोच्छ्रयेद्वोपाकुर्याद्वा
व्यतिषङ्गं तेन पूर्वाः संपद्यन्त एवं व्यतिषक्तानामेवैतेषां पशूनां पञ्च दक्षिणार्ध्यान्पशूनुपक्रम्यैव स्थापयेयुर्
वारुणं प्रथममत्यानयेयुरथानुपूर्वमितरान्
अन्तरेण चात्वालोत्करावुदङ्ङुपनिष्क्रम्य प्रस्थान्वा निहन्युरपि वा मण्डलीकृतांस्तेषां वपा उत्खिद्याहरेयुर्यथा वपाभिर्विहारं चात्मानं च न व्यवेयुरथायं पात्नीवतोऽङ्गुष्ठपर्वमात्रेणोत्तरार्ध्याद्यूपाद्ध्रसीयान्स्यादपि वा यथाब्राह्मणमवाङ्नाभिमचषालमनवस्तीर्णम्
अथेदँ सर्पाणामयनँ स्तोमतो विकृतं भवत्यथेदं विश्वसृजामयनं कथमिदानीन्तनेषु स्यादिति
शतं दीक्षाः शतमुपसदः सहस्रं प्रसुतः २४
26.25
अथेदं कुण्डपायिनामयनमग्निहोत्रपूर्वमेके ब्रुवते सोमपूर्वमुपयन्ति
तत्पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसंततिं कृत्वा ग्रावोवायव्यँ संप्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्धारा यन्त्य्
आहृत्य समिध आहवनीय उपसादयन्ति
परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायाँ संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः संनह्याविशिष्य पयाँ स्युपवसन्त्यथ श्वो भूत आमावास्येन हविषा यजते
तत्र न स्तम्बयजुर्हरति
त एवमेवाहरहर्वसतीवरीः परिहरमाणा अष्टाविँ शतिमहान्यामावास्येन हविषा यजन्ते
नाग्निहोत्राणि जुह्वति न पौर्णमासीं यजन्ते
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
समासन्नेषु हविःषु गार्हपत्ये करम्भपात्राण्यभि पर्यग्नि कृत्वा तैर्मार्जालीये प्रचरति
गार्हपत्य एव पिण्डपितृयज्ञँ श्रपयित्वा तेन मार्जालीय एव प्रचरति
प्रतिपूरुषमुवेवैषां प्रवरान्प्रवृणीत एकैकस्यैवैषां त्रयस्त्रयः पिण्डास्
ते पञ्चदश
महापितृयज्ञे स्तीर्णं बर्हिर्भवति न वेदिमालिखति न स्तम्बयजुर्हरति नाज्यानि गृह्णीते
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
समासन्नेषु हविःषु गार्हपत्ये महापितृयज्ञहवीँ षि श्रपयित्वा तैर्मार्जालीये प्रचरेदाहवनीये मारुत्या प्रचरेदन्तमेवावभृथः परीयाद्वितृतीया वेदिर्भवति प्रक्रमाणामु ह तृतीयं नवमस्तु भूमेर्भागो भवतीति २५
26.26
अथ पञ्चहविषमिष्टिमिष्ट्वान्वहं पुनरावृत्तमेकैकेन हविषा यजेतैकं चेद्द्वे वा हविषी पर्यवेते स्यातामथ संवत्सरः समाप्येत कथं तत्र कुर्यादिति
प्रतिकृष्यैतस्य पक्षस्य पञ्चहविषमिष्टिं निर्वपेदथ संवत्सरतमेऽह्नि पञ्चहविः स्यादिति
प्रथमे द्वादशाहेऽग्निं चिन्वीतेति
प्रथमे द्वादशाहेऽग्निं चिन्वानश्चतुरहं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमयाष्टाहोनँ संवत्सरमुत्तमयाथेतराँ श्चतुरहोनाँ श्चतुरहोनानेकैकया चतुरश्चतुरो मासान्प्रत्याददीत
चतुरहं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमया चतुरहमुत्तमयापि वा चतुरश्चतुर एव मासानेकैकयोपसदा गच्छेदित्युत्तमे द्वादशाहेऽग्निं चिन्वीतेत्युत्तमे द्वादशाहेऽग्निं चिन्वानोऽष्टाहोनँ संवत्सरं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमया चतुरहमुत्तमयाथेतराँ श्चतुरहोनानेकैकया चतुरश्चतुरहोनान्मासान्प्रत्याददीत
चतुरहं प्रथमयोपसदा गच्छेच्चतुरहं मध्यमया चतुरहमुत्तमयापि वा चतुरश्चतुर एव मासानेकैकयोपसदा गच्छेदिति २६
26.27
अथ लोकंपृणा इष्टका उपदधन्मासमेतीति
लोकंपृणा इष्टका उपदधन्मासं गत्वा त्रिँ शत्तमस्यामहः सर्वं प्रच्छादं प्रच्छादयेदपि वा त्रिँ शतोऽवकाशं कृत्वा लोकंपृणा इष्टका उपदधन्मासमेतीति
कथमेतं मासं गच्छेदितीष्टिः प्रथमाथ पूर्वाह्णिके प्रवर्ग्योपसदावथेष्टका अथापराह्णिके प्रवर्ग्योपसदौ मासि वसोर्धारेति
मासं पुरीषेण यन्तीति
कथमेतं मासं गच्छेदितीष्टिः प्रथमाथ पूर्वाह्णिके प्रवर्ग्योपसदावथ पुरीषमथापराह्णिके प्रवर्ग्योपसदौ
चतुरो मास उपसद्भिरेतीति
यदमुत्र मासेन करोति तदिह दशरात्रेण करोति
चतुरो मासः सुनोतीति
कतमे नु खल्विमे मासा भवन्तीति
गवामयनस्य प्रथमोत्तमौ च मासौ यौ चाभितो विषुवतः सह वैषुवतेन
वसतीवरीषु मृत्पिण्डमन्ववधायेति
किमर्थो नु खल्वयं मृत्पिण्डो भवतीति
संतन्यर्थ एष भवतीति
भिन्ने कुम्भेऽन्यस्मिन्कुम्भ एतं मृत्पिण्डमन्ववधायाप आनयेत्
तत्पत्नीसंयाजान्तं वा हृदयशूलान्तं वाहः कृत्वा समुपनह्य राजानं काले वसतीवरीरभिगृह्याहीनसंततिं कृत्वा ग्रावोवायव्यँ संप्रक्षाल्य द्रो णकलशे दशापवित्रे समवधायाग्नीध्रं द्रुत्वा समिद्धारा यन्त्याहृत्य समिध आहवनीय उपसादयन्ति
परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायाँ संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः संनह्याविशिष्य पयाँ स्युपवसन्त्यथ श्वो भूते सवनेष्ट्या यजन्ते
तत्र न स्तम्बयजुर्हरति
त एवमेवाहरहर्वसतीवरीः परिहरमाणाः संवत्सरँ सवनेष्ट्या यजन्ते
नाग्निहोत्राणि जुह्वति न दर्शपूर्णमासाभ्यां यजन्तेऽथ संवत्सरतम्यां पर्यवेतायां परिहृतासु वसतीवरीष्वाहूतायाँ सुब्रह्मण्यायामहरहः संवेशनीयाः समिधोऽभ्याधायेध्माबर्हिः संनह्य पयाँ सि विशिष्योपवसन्त्यथ श्वो भूतेऽभिजितेष्ट्वोत्तिष्ठन्ति २७
26.28
अथ वै भवति
छन्दश्चितं चिन्वीत पशुकाम इत्यभ्र्यादानप्रभृतीन्मन्त्रान्साधयेदा वायव्यात्
स प्रत्यक्षं वायव्येन पशुना यजेत प्रत्यक्षं दीक्षणीययोखाप्रवृञ्जनप्रभृतीन्मन्त्रान्साधयेदा वात्सप्रविष्णुक्रमेभ्यः
प्रत्यक्षं वात्सप्रविष्णुक्रमैः क्रमित्वा निगदेदेवेतरान्मन्त्रान्
विहरेदग्निं रूपाणि दर्शयेद्गच्छेदिरिणं तत्र नैरृतान्मन्त्रान्निगदेत्
स प्रत्यक्षं गार्हपत्यमुपतिष्ठेत
प्रत्यक्षं प्रायणीयया
प्रत्यक्षमातिथ्यया
कार्ष्णाजिनीप्रभृतीन्मन्त्रान्साधयेदा कर्षणवपनाभ्याम्प्रत्यक्षं कर्षणवपने
प्रथमां चितिँ सपुरीषां निगदेद्
एवं द्वितीयामेवं तृतीयां सर्वां चितिँ सपुरीषाँ सवण्डां चितिँ सपुरीषां निगदेद्या अहान्तःशालीका आहुतयः स्युर्जुहुयादेव ता अथ य औत्तरवेदिका मन्त्राः स्युर्निगदेदेव तान् २८
26.29
अग्निहोत्रं वै दशहोतुर्निदानं दर्शपूर्णमासौ चतुर्होतुरित्येक आनुपूर्व्यं ब्रुवतेऽथाप्युदाहरन्त्याग्न्याधेयं पूर्वस्यां ततावेकादशप्रयाजँ सर्व ँ! सहोत्पन्नम्
ऋतवः षड्ढोतेति
षाण्मास्य एष पशुबन्ध उक्तो भवत्यथाप्युदाहरन्ति षट्सुषट्सु मासेष्वाहिताग्निना पशुना यष्टव्यं भवत्युभे काष्ठे अभियजेत
माघमासे धनिष्ठाभिरुत्तरेणैति भानुमानर्धाश्लेषस्य श्रावणस्य दक्षिणेनोपनिवर्तत इत्येते काष्ठे भवतस्
तदन्ततोऽनीजानस्य संवत्सरो नातीयाद्
अथ चातुर्मास्येषु सोमेषु पञ्चहोता सप्तहोतु स्थानं प्रत्येत्यथ य एष चातुर्मास्यसंयोजनो निर्मन्थ्य उत्सीदत्येष पशुसंयोजनेव भवति
परिधौ पशून्नियुञ्जीतेति ब्राह्मणमेतद्यूपा एव तदस्माकं भवन्त्यथ महापितृयज्ञे स्तीर्णं बर्हिर्भवति न वेदिमालिखति न स्तम्बयजुर्हरति नाज्यानि गृह्णीते
स यत्र तृतीयसवने धिष्णियान्विहरति तदजस्रं मार्जालीयं करोति
महाहविर्भिश्चरित्वा समासन्नेषु हविःषु गार्हपत्ये महापितृयज्ञहवीँ षि श्रपयित्वा तैर्मार्जालीये प्रचरेदाहवनीये मारुत्या प्रचरेदन्तमेवावभृथः परीयात्
तस्य प्रथमा चितिः पुरीषवती मन्त्रवती भवतीति
प्रथमैवास्य चितिः पुरीषवती मन्त्रवती भवत्यथेतरास्तूष्णीका यांयां चितिँ सपुरीषां ब्रुवते सासैवास्य चितिः पुरीषवती मन्त्रवती भवत्यथेतरास्तूष्णीकाः २९
26.30
अथेम एकाहास्
तेषां यान्यहान्यनादिष्टान्यग्निष्टोमा इत्येव तानि जानीयादथाहीनरात्रिसत्त्रेषु यान्यहान्यनादिष्टान्युक्थ्या इत्येव तानि जानीयाद्माध्यंदिनीया एवैनं चमसा निमृजन्तो यन्तीति
सदस्यासीनं माध्यंदिनीया एवैनं चमसा निमृजन्तो यन्ति भक्षार्थाश्चतुर्विँश एष भवति
शुक्रामन्थिनोः सँ स्रावेणाभिषिञ्चतीति
यजमानायतन आसीनँ शुक्रामन्थिनोः सँ स्रावँ समानीयाभिषिञ्चति
चतुष्टोम एष भवति
सप्त हवीँ षि प्रातःसवनीयाननुवर्तन्त इत्याग्नेयोऽष्टाकपालः पौष्णश्चरुः सावित्रो द्वादशकपालस्त्वाष्ट्रोऽष्टाकपालो वारुणो दशकपालो वैश्वदेवश्चरुर्मारुतः सप्तकपाल इत्यष्टौ हवीँ षि प्रातःसवनीयाननुवर्तन्त इत्याग्नेयोऽष्टाकपालः सौम्यश्चरुः सावित्रो द्वादशकपालो बार्हस्पत्यश्चरुरग्नीषोमीय एकादशकपालः सारस्वतश्चरुर्वारुणो दशकपालो द्यावापृथिव्य एककपाल इति
यत्किं च राजसूयमृतेसोमं तत्सर्वं भवतीति
मारुतं चात्रैकविँ शतिकपालं प्रतिषेधयत्यौपसदाश्चेष्टीरर्धचतुर्दशैरेष मासैः संतिष्ठते
यत्किं च राजसूयमनुत्तरवेदीकं तत्सर्वं भवतीति
द्विपशुं चात्र पशुबन्धं प्रतिषेधयति चातुर्मास्यानि चाध्यर्धेनैष मसेन संतिष्ठते
सिँ हे व्याघ्र उत या पृदाकाविति
किंदेवत्या उ खल्वियमाहुतिर्भवतीति ३०
26.31
इन्द्रा णीदेवतेत्येव ब्रूयात्
सप्तदशिना पशुबन्धेनेष्ट्वोखाः संभृत्य पशुशीर्षाणि च वायव्येन पशुना यजेतापि वा पुरस्तादेव तूष्णीँ संभृताः संभृत्य मन्त्रवतीं मृदँ संभृत्य तयानुप्रलिप्य
नियुनक्त्युक्थ्यस्योपयामगृहीतोऽस्यग्नये त्वा बृहद्वते वयस्वत उक्थ्यायुवे यत्ते अग्ने बृहद्वयस्तस्मै त्वा विष्णवे त्वा जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरग्नये त्वोक्थायुव इति
नियुनक्ति ध्रुवस्य मूर्धानं दिवो अरतिं पृथिव्यार्मघवन्तमृताय जातमग्निम्। कविँ सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥
उपयामगृहीतोऽसीन्द्रा य त्वा मघवते जुष्टं गृह्णामीति
परिमृज्य सादयत्येष ते योनिरिन्द्रा य त्वा मघवत इति
नियुनक्ति पात्नीवतस्योपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्द्रो इन्द्रि यावतः पत्नीवन्तं ग्रहं गृह्णामीन्द्रा ३ पत्नीवा३ इति
नियुनक्ति हारियोजनस्योपयामगृहीतोऽसि रोहिदसि रोहिद्योजनो रोह्यो स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य रोहिद्वन्तं ग्रहं गृह्णामि रोही स्थ रोह्योर्धानाः सहसोमा अग्नये स्वाहेति ॥
योऽग्निष्टुतीन्द्र स्पर्शस्तमुत्सादयेद्य इन्द्र स्तुत्यग्निस्पर्शस्तमुत्सादयेद्नित्या अन्या देवताः
किंदेवत्यानि खल्वतिरिक्तस्तोत्राणि भवन्तीत्याश्विनानीत्येव ब्रूयाद्यच्च किं च रात्रिमुपातिरिच्यते सर्वं तदाश्विनमितीन्न्वेकम्
अथापरम्
आग्नेयं प्रथममैन्द्रं द्वितीयं वैश्वदेवं तृतीयं वैष्णवं चतुर्थमिति ३१
26.32
स ग्रीष्मस्य जघन्याहःसु प्रजहितेषु यवेष्विति
प्रमृदितेष्वित्येवेदमुक्तं भवत्यधिकरणेनेत्येवेदमुक्तं भवत्यृत्विजः पदेनाह्वापयतीति तत्पूर्वं वेत्यथैनमभ्यज्य पवयित्वोदानयतीति
सिद्धमत्राग्निष्टोमिकं कर्म जानीयादोत्तरस्मादुपघातादेतस्मिँ श्च काले त्रीणि बर्हीँ षि यजुषा कुर्याद्दीक्षणीयायाः प्रायणीयाया आतिथ्याया इत्य्
अथ निर्वपेद्दीक्षणीयां प्रायणीयामातिथ्यादाज्येन वर्तयेद्यावद्र था आगच्छेयुः सहनिरुप्तमाज्यं तिसृषु स्थालीषु विगृह्णीयाद्या दीक्षणीयायै सँ स्था तया दीक्षणीयाँ संतिष्ठापयिषेत्
प्रणीताभिः प्रायणीयस्य प्रतिपद्येतैष एवातिथ्याया उपक्रमो भवतीति
त्रिवत्सेन साण्डेन वत्सतरेण राजानं क्रीत्वोह्यातिथ्यं निर्वपतीति
त्रिहायणेनेत्येवेदमुक्तं भवति
कथमु खल्वस्य मन्त्रानभिनमयेद्चिदसि मनोऽसि धीरसि दक्षिणोऽसि यज्ञियोऽसि क्षत्रियोऽस्यदितिरस्युभयतःशिराः स नः सुप्राङ्संभवेत्येकगणा उपसदो भवन्तीति
पूर्वाह्णिका एवैता उक्ता भवन्ति
खलेवाली यूपो भवतीत्येतामेवैषां मेथीं कुर्वन्ति
स खलेवाली यूपस्
तस्यै कटे परमिव चषालभाजनं भवतीत्याकुट्ट इत्येवेदमुक्तं भवत्यथैतान्पशूनुपाकरोत्यग्नीषोमीयमाग्नेयमनूबन्ध्यमिति
यमा एवैते छागाः समानयोनयो भवन्ति
तेषामुक्तं चरणम्
अथास्याँ सद्यस्क्रियामनुक्रियां परिक्रियामतिक्रियामवभृथप्रभृत्यस्तमिते यज्ञपुच्छं तासां प्रथमैव सरथा प्रथमा चित्ससोमक्रयणी प्रथमाग्निहोत्रोच्छेषणव्रताथास्याँ सद्यस्क्रियामनुक्रियां परिक्रियामतिक्रियां त्रिस्तनद्विस्तनैकस्तनव्रतस्य रूपाणि कुर्वन्ति
क्व उ खल्वेकाहे दृष्टः संनिवापो भवतीति
व्रात्यस्तोमे चेन्द्रा ग्न्योश्च कुलाय इत्येव ब्रूयादथास्मिन्व्रात्यस्तोमे बहव एकस्मै दीक्षन्तेऽदीक्षिता एवैनान्याजयन्ति
दण्डोपानहँ शामुलाजिनमिति
शामुलकानामुह दभ्रमिश्राः कम्बला भवन्ति स च भवति श्वेतं चौरभ्राजिनम् ३२
26.33
स एष ज्येष्ठानामग्निष्टोम एष एव सन्कनीयसामुक्थ्यश्चतुष्टोमं पूर्वमहर्भवति पञ्चस्तोममुत्तरं रथो हविर्धानं कुर्यात्तल्परूपमुत्तरं हविर्धानम्
उत्सीदेयुः शकटमन्त्रा द्वौ त्रयस्त्रिँ शौ मध्यत स्तोमौ भवत इति
पृष्ठ्यस्तोमावेवैतावितश्चामुतश्च प्रतिलोमौ भवतोऽथामावास्यायां प्रतिसमस्य चान्द्र मसं पिण्डपितृयज्ञं दद्यात्
तं ब्रह्मणः सन्तं पर्युपविश्य भक्षयन्ति यदृतं मन्यन्ते तेन ब्राह्मणम्ब्राह्मणो वै वर्णानाँ श्रेष्ठोऽग्निर्देवानामित्येतेन वा भक्षयेदपि वा व्याहृतीभिश्चतुष्टोम एष भवतीति चतुरुत्तरीय एष दिशां चतुष्टोमो भवत्य्
अथास्मिन्कानान्धयज्ञेऽवभृथप्रभृत्यस्तमिते यज्ञपुच्छं तस्य दशसु बहिष्पवमानः शते सहस्रेऽयुते नियुते प्रयुतेऽर्बुदे न्यर्बुदे समुद्रे मध्येऽन्ते परार्धे पद्वे पल्वे नित्यमुक्त्वा मनसैव स्तुवानो मन्यत एतावति मे स्तुतमित्यथ सकृत्प्रवर्ग्य एकमेवाग्निहोत्रम्
अथास्मिञ्छुनस्कर्णयज्ञे
तिलमिश्रमशित्वा मत्स्यान्खादित्वा क्षारमात्रं पिबेदथ सामपथे संविशेत्
स्वप्नादेव स्वप्ने गच्छति
राशिकृतं धान्यं ददाति मरायकृतं धान्यं ददातीति
मूतकृतमित्येवेदमुक्तं भवति
प्रचरन्ति प्राञ्चः प्रत्यञ्चः प्रचरन्तीति
यः प्रत्यङ्विहारो दक्षिणतौपचार एष भवत्येतेनैवापि सर्वतोमुखो व्याख्यात एतेन सहस्रशालोऽथैनमिह पवयित्वामुत्र पवयन्तीति
सिद्धमत्राग्निष्टोमिकं कर्म जानीयादुत्तरस्यैव शालायै
स द्वौ त्रिरात्रौ कुरुत एकं च द्विरात्रमिति
दीक्षोपसद्भिरेवास्यैतान्यहान्यभिविधत्तेऽहीनविधोऽति यज्ञं दद्यात्
तदिदं प्रोक्तं यदकॢप्तँ सूत्रतः
सामयिकं त्वेव क्रतुयोगं यज्ञे यज्ञमुपलक्षयेतेति बौधायनो यज्ञे यज्ञमुपलक्षयेतेति बौधायनः ३३