27.1
अथातो मन्त्रगणाम्नातानि प्रायश्चित्तानि व्याख्यास्यामः
सर्वत्रोपरिष्टान्मन्त्रकृतं यद्यधस्तान्निपतेद्ब्रह्म प्रतिष्ठा मनस इत्येतया प्रतिष्ठाप्यैतयैव स्रुवाहुतिं जुहुयाधुत्वा वा प्रतिष्ठापयेद्धुत्वानन्तरं कर्म कुर्यादेवमन्येष्वप्यतिक्रान्तं कर्म नाद्रि येत यद्यर्थलुप्तं भवति
सर्वत्राश्रावितप्रत्याश्रावितवषट्काराणामत्युक्तानुक्तहीनेष्वाश्रावितमत्याश्रावितमित्येतया स्रुवाहुतिं जुहुयात्
सर्वत्र देवोच्चारणेषु भागिनीं देवतामनुच्चारयित्वा योन्यामुच्चारयेद्यद्वो देवा अतिपादयानीत्येतया स्रुवाहुतिं जुहुयात्
सर्वत्र देवतावाहनेषु भागिनीं देवतामनावाहयित्वा योन्यामावाहयेदेतयैव स्रुवाहुतिं जुहुयाद्यत्र स्मरेत्तदुपोत्थायैनां मनसावाहयेदथातिरिक्तामाज्येन यथोढां यजेत
सर्वत्र प्रणीतानां प्रणीयमानानां प्रणीतानां वा यदि विप्रुषो विपतेयुः स्रवेद्वा चमस आपो हि ष्ठा मयोभुव इति तिसृभिरद्भिः पूरयित्वा ततं म आपस्तदु तायते पुनरित्येतया स्रुवाहुतिं जुहुयात्

सर्वत्र वितते यज्ञकर्मणि यदि सूर्यो नाविर्भवत्यन्यत्रादेशादुद्वयं तमसस्पर्युदु त्यं चित्रमित्येताभिः स्रुवाहुतीर्जुहुयाद्यदि सूर्याचन्द्र मसोर्ग्रहणं विद्यत एतदेवाथ यति यजमानस्यर्त्विजां वा स्वप्ने रेतोविसर्गः स्यादिमं मे वरुण तत्त्वा यामीत्येताभ्याँ स्रुवाहुती जुहुयात्
सर्वत्र हविर्देवतायाज्यापुरोऽनुवाक्याहुतीनाँ हुताहुतभ्रेषेष्वन्तरिते विपर्यासे च त्वं नो अग्ने स त्वं नो अग्न इत्येताभ्याँ स्रुवाहुती जुहुयात्
सर्वत्र दर्विकूर्चप्रस्तरपरिधिबर्हिर्विधृतिपवित्रवेदोपवेषेध्मद्र व्यसंभाराणां छेददाहोपघातेषु नाशे विनाशे वान्यं यथालिङ्गं कृत्वा यथालिङ्गमुपसाद्य त्वमग्ने अयासि प्रजापत इत्येताभ्याँ स्रुवाहुती जुहुयात्
सर्वत्र वितते यज्ञकर्मणि १

27.2
यदि पुरा प्रजाजेभ्यो बहिःपरिध्यङ्गारा अभिपर्यावर्तेरन्ब्राह्मणोक्तं प्रायश्चित्तं कृत्वेमं जीवेभ्यः परिधिं दधामीत्येतया स्रुवाहुतिं जुहुयात्
सर्वत्र वितते यज्ञकर्मणि यदि यज्ञभ्रेष आगच्छेदिष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहेत्येतैरष्टाभिः स्रुवाहुतीर्जुहुयात्
सर्वत्र वितते यज्ञकर्मणि यदि जन्यं भयमागच्छेद्यत इन्द्र भयामहे स्वस्तिदा विशस्पतिरित्येताभ्याँ स्रुवाहुती जुहुयादभये वा पुनर्यजेत

सर्वत्रोपाँ शुप्रभृति वाच स्थानानाँ स्वराक्षरपदवृत्तभ्रेषेष्वाभिर्गीर्भिर्यदतो न ऊनमित्येतया स्रुवाहुतिं जुहुयात्
सर्वत्रानाज्ञातप्रायश्चित्तेष्वनाज्ञातम्पुरुषसंमित इत्येताभ्याँ स्रुवाहुती जुहुयात्
सर्वत्रेध्माबर्हिषः प्रयाजानूयाजानां पाकत्राकर्मसु यत्पाकत्रा मनसेत्येतया स्रुवाहुतिं जुहुयात्
सर्वत्र स्कन्ने भिन्ने छिन्ने भग्ने नष्टे क्षामे विपर्यास उद्दाह ऊनातिरिक्ते वा यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादित्येताभ्याँ स्रुवाहुती जुहुयात्सर्वेष्वग्न्युपघातेषु पुनस्त्वादित्या रुद्रा वसवः समिन्धतामित्येतया समिधमादध्यादेतयैव स्रुवाहुतिं जुहुयात्सर्वेषु यज्ञक्रतुषु पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्य ध्रुवातः सर्वप्रायश्चित्तानि जुहोति ब्रह्म प्रतिष्ठा मनस इत्येतेनानुवाकेन प्रत्यृचम्
अथ वै भवति
समिष्टयजूँ षि जुहोति यज्ञस्य समिष्ट्यै
यद्वै यज्ञस्य क्रूरं यद्विलिष्टं यदत्येति यन्नात्येति यदतिकरोति यन्नापिकरोति तदेव तैः प्रीणातीति ब्राह्मणम्

एतान्येव ब्राह्मणविधिविहितान्याप्यायनानि मन्त्रवन्ति भवन्तीति बौधायनो मन्त्रगणाम्नातानि नैमित्तिकानीति शालीकिः २

27.3
अथ कपालकरणे रथचक्रचित्याकृत्यश्वशफमात्रँ स्थानं कल्पितं भवति
संकल्पोऽधिकारः कपालवृद्धिः कपालह्रासो वा कपालानामनभिप्रथने व्याहृतीभिराहवनीये स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्येतावदेव नानाप्रथने चातिप्रथने चाथ हविषामशृतद्र वदाहोत्सेकनिस्रावे प्रायश्चित्तिरशृते रुद्रा य स्वाहेत्याहवनीये स्रुवाहुतिं जुहुयाद्द्रवे वायवे विदग्धे निरृत्यै
यदि दग्धँ स्याद्यत्तत्र शृतँ स्यात्तेन प्रचरेदथ यदि सर्वमेव दग्धँ स्यादपोऽभ्यवहृत्य मिन्दाहुती जुहुयादथान्यं निर्वपेदाज्येन वा प्रचरेत्
सैव ततः प्रायश्चित्तिर्यस्यैयस्यै दिश्युत्सिच्येत तस्यैतस्यै देवतायै स्रुवाहुतिं जुहुयाद्यदि प्रागग्नये यदि दक्षिणतो यमाय यदि पश्चाद्वरुणाय यद्युत्तरतः सोमायाथ यदि सर्वत एवोत्सिच्येतैताभ्यः सर्वाभ्यो देवताभ्यः स्रुवाहुतीर्जुहुयात्
तमाज्येनाप्यायनीभ्यामाप्याययत्याप्यायस्व सं त इत्यथ हविषामुद्वासनकाले पतनफालनखण्डनोद्वर्तनसँ सर्पणविपरीतव्यवायकरणेषु व्याहृतीभिराहवनीये स्रुवाहुतीर्जुहुयाद्भूर्भुवः सुवरित्यथान्तरेण वेद्युत्करावुदङ्ङुपनिष्क्रम्या तमितोरुदङ्ङुपनिःसृप्य व्याहृतीरुक्त्वा व्याहृतीभिरेव प्रतिपद्यते ३

27.4
व्याहृतयस्तु चतुष्पादा नवाँ शाश्च षडक्षराः ।
चतुर्णामपि वेदानामादिमध्यावसानिकाः ॥
मन्त्रोनं वातिरिक्तं वा दुरिष्टं वापि यद्भवेत्।
व्यपोहयन्ति पाप्मानं तस्माद्व्याहृतयः स्मृता इति ॥
यद्यृक्तो यज्ञभ्रेष आगच्छेद्भूरिति गार्हपत्ये जुहुयाद्यदि यजुष्टो भुव इत्यन्वाहार्यपचने
यदि सामतः सुवरित्याहवनीये
यदि सर्वतः सर्वा जुहुयाद्
उद्धृते तु पुरोडाशे वेपिते स्यन्दिते तथा ।
भिन्ने सँ सर्पणे चापि प्रायश्चित्तं कथं भवेदिति ॥
विज्ञायते
उद्धृते तु कुलँ हन्याद्वेपिते नश्यति प्रजा ।
भिन्ने सँ सर्पणे चापि यजमानः प्रमीयत इति ॥
अथ पतनफालनखण्डनोद्वतनसँ सर्पणेषु प्रसिद्धमुद्वास्य बर्हिषदं कृत्वा प्रभूतेन सर्पिषावसिच्याभिमन्त्रयते किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि ।
अघोरो यज्ञियो भूत्वासीद सदनँ स्वमासीद सदनँ स्वमिति
ब्रह्मणे वरं दत्त्वान्तर्वेद्यासादयेत्
तस्याँ सँ स्थितायाँ सुरभिमतीं निर्वपेत्
तस्याँ सँ स्थितायां तन्तुमतीं निर्वपेदायुष्मत्यस्तु कर्तव्या उत्तराश्छन्दसः क्रियाः ।
हविर्भ्रेषविधिस्त्वेष विहितस्तत्त्वदर्शिभिरिति ॥

स्कन्ने ग्रहणनिर्वापे द्र व्याणां चानुमन्त्रणे ।
यस्मिन्काले विजानीयात्तत्कुर्यात्कर्मसँ स्तरे ॥
प्रणवो व्याहृतयश्चैव यज्ञ एष परोऽवरः ।
तस्माद्यज्ञस्य यत्स्कन्नम्विपरीतं च यद्भवेत्।
तत्सर्वं व्याहृतीभिः कुर्यादन्यत्र च वषट्कृतात्॥
अजानद्भिः कृतं यच्च त्वरमाणैश्च यत्कृतम्।
व्याहृतीनां प्रयोगेण यत्कृतं कृतमेव ततिति ।
कपालानां प्रमाणानि ब्रूयादाध्वर्यवे विधौ ।
समानि चतुरश्राणि द्व्यङ्गुलानि समन्ततः ॥
हविर्विकाराणां प्रमाणेन समविषमाणि वर्धयन्तीति बौधायनः ४

27.5
अथारणिगतानामात्मगतानामजस्राणामन्वाहितानाँ सवनगतानां चाग्नीनामुद्वातानां प्रायश्चित्तिररणिगतं मथित्वा विहारं कल्पयित्वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये संतनीं जुहोति मनो ज्योतिर्जुषतामाज्यम्विच्छिन्नं यज्ञँ समिमं दधातु ।

या इष्टा उषसो निम्रुचश्च ताः संदधामि हविषा घृतेन स्वाहेत्येतत्प्रायश्चित्तमनुगतेऽहुतेऽभ्युदितेऽभिनिम्रुक्ते चैतत्परिवित्तस्यैतत्परिविन्नस्यैतत्परिविविदानस्यैतत्सोमवामिने सोमातिपविताय भक्षान्तरितस्यैतद्भक्षरहितस्यैतत्परीष्टस्यैतत्परियष्टुरेतदेव यस्य पुरुषो रथोऽश्वो गौर्महिषो वराहोऽहिर्मृगः श्वा वान्यद्वा श्वापदमन्तराग्नीन्गच्छेदेतदेव यस्याग्नेरेकदेशमपहरेयुरेतदेव सर्वास्वेवाग्निहोत्रस्यार्तिषु मनस्वत्या प्रायश्चित्तिः क्रियत इष्ट्वा वसीयान्भवतीति ब्राह्मणम् ५

27.6
अथ दर्शपूर्णमासयोश्चत्वार ऋत्विजस्
तेषामेकस्मिन्नविद्यमाने त्रयः प्रचरेयुर्द्वौ वाथ यद्येक एव स्यात्पुरा प्रयाजेभ्य आज्यस्थाल्याः स्रुवेणोपघातमेकाध्वर्यवप्रायश्चित्तानि जुहोति जुष्टो वाचो भूयासं जुष्टो वाचस्पतये देवि वाक् ।
यद्वाचो मधुमत्तस्मिन्मा धाः सरस्वत्यै स्वाहा ॥

इमामेवाश्विना यज्ञस्य यद्वाचो यद्दुरिष्टम्।
तदश्विनौ भेषजेन संदधाताँ स्वाहा ॥
त्रातारमिन्द्र मवितारमिन्द्रं हवेहवे सुहवँ शूरमिन्द्र म्।
हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्र ः! स्वाहा ।
यन्मे मनसश्छिद्रं यद्वाचो यच्च मे हृदः ।
देवास्तच्छमयन्तु सवँ र्! सोमो बृहस्पतिश्च स्वाहा ॥
यद्विद्वाँ सो यदविद्वाँ सो मुग्धाः कुर्वन्त्यृत्विजः ।
अग्निर्मा तस्मादेनसः श्रद्धा देवी च मुञ्चताँ स्वाहा ॥
यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिँ सिम ।
अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेहसँ स्वाहा ॥
ब्रह्मत्वे हौत्र आध्वर्यव आग्नीध्रे याजमाने चैक एव यज्ञे यत्पर्याणि तन्मे देवा रक्षन्ताम्प्राणान्मे मा हिँ सिषुः स्वाहा ॥
 अहं ब्रह्माहँ होताहमध्वर्युरहमग्नीध्रोऽहं यजमान एक एव यज्ञे पर्याणि तन्मे देवा रक्षन्ताम्प्राणान्मे मा हिँ सिषुः स्वाहेत्येकाध्वर्यवप्रायश्चित्तानि हुत्वानतर्वेद्यासीनः सर्वा देवता यजतीति विज्ञायते
अतिक्रान्तेषु होमेषु पर्वस्वाग्रयणेषु च ।
अरण्योर्ध्रियमाणेषु कथं तन्त्रं न लुप्यते ॥

शुचिश्च पावमानी च तन्तुमानथ पाथिकृत्।
एता इष्टयः प्रयोक्तव्यास्ततस्तन्त्रं न लुप्यते ॥
शुचिः शोधयते पापं तन्तुस्तन्तं न लोपयेत्।
पथिकृत्पन्थानमारोहेत्पावमानी तु पावयेदिति नु बौधायनस्य कल्पो दर्शे व्यतीते पाथिकृती कार्या पौर्णमासे व्यतीते वैश्वानरी कार्योभये व्यतीत उभे कार्ये बहुषु व्यतीतेष्वन्वारम्भणीया स्यादिति शालीकिः ६

27.7
अथ यद्यरणी जीर्णे स्यातां जन्तुभिर्मन्थनेन वा समाने नवे अन्ये अरणी आहृत्यामावास्यायामुपोष्य श्वो भूते दार्शेनेष्ट्वा तस्मिञ्जीर्णे शकलीकृत्य गार्हपत्ये प्रक्षिप्य प्रज्वाल्य दक्षिणेनोत्तरारणिमादाय सव्येनाधरारणिमुपर्यग्नौ धारयञ्जपत्युद्बुध्यस्वाग्ने प्रविशस्व योनिमन्यां देवयज्यां वोढवे जातवेदः ।
अरण्या अरणिमनुसंक्रमस्व जीर्णां तनुमजीर्णया निर्णुदस्वेत्ययं ते योनिरृत्विय इत्यरण्योरग्नीन्समारोह्य मन्थनस्यावृता गार्हपत्यं मथित्वा विहारं कल्पयित्वा गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये संतनीं जुहोति मनो ज्योतिर्जुषतामाज्यम्विच्छिन्नं यज्ञँ समिमं दधातु ।

या इष्टा उषसो निम्रुचश्च ताः संदधामि हविषा घृतेन स्वाहेत्यथाग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपति
शरावं दक्षिणां ददाति
सा प्रसिद्धेष्टिः संतिष्ठते ७

27.8
अथारण्योर्व्यापत्तिं व्याख्यास्यामोऽष्टाभिर्निमित्तैर्विनश्यत्यमेध्यश्वचाण्डालशूद्र वायसपतितरासभरजस्वलाभिश्च सँ स्पर्शनेऽरण्योर्विनाशस्
तयोरुत्सृज्य समाने नवे अन्ये अरणी आहृत्याग्निसहमग्न्याधेयमरणिगतं पुनराधेयं नष्टारणी अप्सु निमज्जति भवतं नः समनसवित्यथोत्तरां छित्त्वा भित्त्वा शकलीकृत्य मन्थनसामाथ्यँ र्! समारोपणसामर्थ्यं मन्थनशेषं वा प्रमन्थनं च कुर्यात्समस्तशल्यवर्जं
संतिष्ठतेऽरण्योर्व्यापत्तिः ८

27.9
अथ हविर्दोषान्व्याख्यास्यामो यथैतन्नीलमक्षिकाशातिका मत्कुणश्चैलशिरसोर्यूके कीटो वा पिण्डकारी स्यात्क्षुद्र कीटमक्षिकापिपीलिकावर्ज ँ! र्! श्वमार्जारनकुलकुक्कुटमर्कटध्वाङ्क्षाखुपुरीषसिक्पदकेशमृतनखकुनखपूतिद्र -प्सस्वेदासृक्स्नेहाश्रुकासक्षवथ्वार्द्र घ्रणैर्वोपहतमन्यैर्वोपहतँ रजस्वलया वा स्पृष्टं तथाप्रयतेन भ्रूणघ्नेन वा दृष्टं तथापपात्रेणामेध्ये वा देशे
स्कन्नं दुष्टँ हविरपोऽभ्यवहरन्ति
शीते भस्मनि वा निधापयति
मिन्दाहुती हुत्वाथान्यन्निर्वपेदाज्येन वा प्रचरेदपि तु खलु क्षिप्रसँ स्कारमाज्यं ब्रुवत इति

मिन्दाहुती हुत्वा मनस्वतीं जुहोति
सैव ततः प्रायश्चित्तिः ९

27.10
अथातोऽग्नीनामुद्वातानां प्रायश्चित्तिराहुतयः सँ स्कारार्था दृष्टा भवन्ति
चतुर्होतार इत्येके
व्याहृतय इत्येके
मिन्दाहुती इत्येके
मनस्वतीत्येके
महाव्याहृतय इत्येकेऽथ यदि सर्व एवोद्वायेयुरायतनेभ्योऽर्ण्योरग्नीन्समारोह्य मन्थनस्यावृता गार्हपत्यं मन्थतीतः प्रथमं जज्ञे अग्निः स्वाद्योनेरधि जातवेदाः ।
स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजाननिति
छनोद्भिरेवैनँ स्वाद्योनेः प्रजनयतीति ब्राह्मणम्
अथ यदि मथ्यमानो न जायेत यत्रान्यं पश्येत्तत आहृत्य होतव्यमित्यथान्यमत्वरमाणः पुनर्मन्थेदथ यदि जात एवोद्वायेत्समारोपणमन्त्रं जपित्वा पुनरेव मन्थेदथैनमुपतिष्ठत इषे रय्यै रमस्व सहसे द्युम्नायोर्जेऽपत्यायेत्य्
अथैनमुपसमिन्द्धे सारस्वतौ त्वोत्सौ समिन्धातां सम्राडसि विराडसीत्यथैनमुपसमाधायान्वाहार्यपचनमाहृत्य ज्वलन्तमाहवनीयमुद्धृत्य न्युप्योपसमाधाय गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा दशहोतारं मनसानुद्रुत्याहवनीये जुहोत्यन्वारब्धे यजमाने स्वाहेत्यथ प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य गार्हपत्ये दशात्मकं ब्राह्मण एकहोतेत्येतस्यानुवाकस्य दश स्रुवाहुतीरथ यद्यन्वाहार्यपचन उद्वायेद्गार्हपत्यादेनमुद्धृत्यान्वाहार्यपचने चतुर्होतारं जुहोति गार्हपत्ये दशात्मकम्
अथ यद्याहवनीय उद्वायेद्गार्हपत्यादेनमुद्धृत्याहवनीये पञ्चहोतारं जुहोति गार्हपत्ये दशात्मकम्
अथ यदि सवनगतानामग्नीनामग्नीध्रीय उद्वायेच्छालामुखीयादेनमुद्धृत्याग्नीध्रीये षड्ढोतारं जुहोति शालामुखीये दशात्मकम्
अथ यद्यौत्तरवेदिक आहवनीय उद्वायेदाग्नीध्रीयादेनमुद्धृत्यौत्तरवेदिक आहवनीये सप्तहोतारं जुहोत्याग्नीध्रीये दशात्मकम् १०

27.11
एतयैवावृतैकस्मिन्नुद्वाते द्वयोर्वा प्रतिविभज्य होतॄञ्जुहुयाद्व्याहृतीश्चेद्व्यस्ताः समस्ताश्च जुहुयात्तथा मिन्दाहुती जुहुयान्मनस्वतीं चेदाहवनीये जुहुयात्सैषाजस्राणामन्वाहितानाँ सवनगतानां चाग्नीनामुद्वातानां प्रायश्चित्तिरेतदेव होमकालेऽन्वाधानवर्जम्

अथ यस्याग्निरुद्धृतोऽहुतेऽग्निहोत्र उद्वायेदिति यथासूत्रं वा कुर्यादपि वा गार्हपत्यादिध्ममादीप्य मन्थनमधिमन्थनमुपसमिन्धनमित्येतान्मन्त्रान्निगदेदपि वा ज्योतिष्मतीमिष्टिं निर्वपेदपि वा ज्योतिष्मतीभ्यामृग्भ्यां पूर्णाहुतिं जुहुयादपि वा ज्योतिष्मतीँ स्रुवाहुतिं जुहुयादग्नये ज्योतिष्मते स्वाहेतीष्टपूर्णाहुतिस्रुवाहुतीनां पूर्वं पूर्वं विधिं बलीयाँ समाचार्या ब्रुवते
तत्रोदाहरन्ति
येये विशेषा लघवो यत्रयत्रोपलक्षिताः ।
कर्म तैर्न प्रसङ्गेन कुर्यादापत्सु तद्धनम्॥
विशेषान्सर्ववेदेभ्यः प्रयत्नेनोपधारयेत्।
कर्मणां प्रविचारार्थमापत्सु च समाप्नुयादिति ॥

यदि प्रसङ्गेन हुतं च लौक्ये मुग्धैर्वा बालैर्हुतँ स्याद्विहृतं च पत्न्या तानरण्योरग्नीन्समारोह्योदवसाय मथित्वाग्नीन्विहृत्य पूर्णाहुतिस्तन्तुमती च कार्येत्यथ यद्यप्रसङ्गेन हुतं च लौक्ये मुघैर्वा बालैर्हुतँ स्याद्विहृतं च पत्न्या तान्व्याहृतीभिर्विहृत्य पूर्णाहुतिस्तन्तुमती च कार्येति ११

27.12
अथ वै भवति
निरृतिर्वा एतस्य यज्ञं गृह्णाति यस्या कस्यां च हविः क्षायति यद्यवदानानि विन्दन्ति नात्र प्रायश्चित्तं कुर्वन्ति
दहति ह वा एषोऽध्वर्युरवदानानि
समूहैतान्येष तर्पयति
दहति ह वा एष य आज्यं पुरस्तादहुत्वाथावदानानि जुहोत्याज्येनोपरिष्टान्नाभिघारयति

तेषाँ संदग्धानां न देवास्तृप्यन्ति न यजमानोऽथ हैनान्येष संतर्पयति य आज्यं पुरस्ताद्धुत्वाथावदानानि जुहोत्याज्येनोपरिष्टादभिघारयति
तेषाँ संतृप्तानां तृप्यन्ति देवास्तृप्यति यजमानोऽथ यद्याग्नेयात्पुरोडाशादग्नीषोमौ यजेताग्नीषोमीयाद्वाग्निं यजेत नैतत्प्रदानमित्याहवनीये स्रुवाहुतिं जुहुयाद्यद्वो देवा अतिपादयानीति
देवपवित्रमाग्नेय्यो याज्यापुरोऽनुवाक्या देवपवित्रमैन्द्रि यो देवपवित्रं प्रजापत्या देवपवित्रं व्याहृतय इत्यथ यदि होता याज्यापुरोऽनुवाक्यासु मुह्येत सर्वाभिराग्नेयीभिर्यजेतेति
विज्ञायतेऽग्निः सर्वा देवता इत्यैन्द्री भिर्विज्ञायत इन्द्रो वै सर्वा देवता इति
प्राजापत्याभिर्विज्ञायते प्रजापतिः सर्वा देवता इति
व्याहृतीभिर्विज्ञायते सर्वा वा ऋचः सर्वाणि सामानि सर्वाणि यजूँ षि यद्व्याहृतय इत्यथ यदि यजमानो याजमानेषु मुह्येत व्याहृतीभिरेवान्तरेण वेद्युत्करौ प्रपदनं व्याहृतीभिरेवोपनिष्क्रमणं व्याहृतीभिरेवानुमन्त्रणं
विज्ञायते सर्वा वा ऋचः सर्वाणि सामानि सर्वाणि यजूँ षि यद्व्याहृतय इत्युपासते ह वै यज्ञं देवा अन्तरिता इदमु नो हविर्न हुतं तद्धोष्यत इत्या स्विष्टकृत इत्येक एडाया इत्येक आनुयाजेभ्य इत्येक आ शंयुवाकादित्येक आ समिष्टयजुष इत्येक ऊर्ध्वं चेत्समिष्टयजुषः स्मरेत्सँ स्थाप्यैतामिष्टिमन्यामिष्टिमनुल्बणां तन्वीत
यज्ञो ह वै यज्ञस्य प्रायश्चित्तिरिति विज्ञायते १२

27.13
अथ सांनाय्यदुहो धयेयुश्चेद्वत्सा वायव्यया यवाग्वा सायं यजेताप्येकस्यां दुग्धायां न धीतां दोहयेद्दुग्धाभिः सँ स्थाप्यादुग्धानां वत्सानपाकृत्य श्वः सांनाय्येन यजेत

सायंदोहश्चेदार्तिमार्छेदिन्द्रा य व्रीहीन्निरुप्योपवसेदिति यथासमाम्नातम्
अपि वा प्रातर्दोहं द्वैधं कृत्वान्यतरदातच्य सायंदोहस्थाने कुर्याच्छृतस्थान इतरत्
प्रातर्दोहश्चेदार्तिमार्च्छेदैन्द्रं वा माहेन्द्रं वा पुरोडाशं निरुप्य तेन दध्ना सह प्रचरेदुभयं चेदार्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेदिति
प्रसिद्धमाग्नेयेन प्रचर्यैन्द्रे ण प्रचरेत्
सर्वाणि चेद्धवीँ षि दुष्येयुर्नश्येयुरपहरेयुर्वाज्येनैता देवताः प्रतिसंख्यायमिष्ट्वैतामिष्टिमन्यामिष्टिमनुल्बणां तन्वीत
यज्ञो ह वै यज्ञस्य प्रायश्चित्तिरिति विज्ञायते १३

27.14
अथातश्छन्दस्यनाम्नातानि हुतानुमन्त्रणानि व्याख्यास्यामो वैमृधमिष्टमनुमन्त्रयत इन्द्र स्य वैमृधस्याहं देवयज्ययेद्रि याव्यसपत्नो वीर्यवाञ्छ्रीमान्भूयासमित्यसपत्नो वीर्यवान्भूयासमिति वा

[]पर्यन्यस्याहं देवयज्यया सुयवसो भूयासं सोमस्याहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीय सुरेता रेतो धिषीयेति वा
सवितुरहं देवयज्यया स्वस्तिमान्पशुमान्भूयासं सरस्वत्या अहं देवयज्यया वाचमन्नाद्यं पुषेयं सरस्वतोऽहं देवयज्यया श्रद्धामना भूयासम्पूष्णोऽहं देवयज्यया पुष्टिमान्पशुमान्भूयासम्मरुतामहं देवयज्यया प्राणैरृध्यासम्विश्वेषां देवानामहं देवयज्यया प्राणैः सायुज्यं गमेयं द्यावापृथिव्योरहं देवयज्ययोभयोर्लोकयोरृध्यासम्भूमानं प्रतिष्ठां गमेयमिति वा
वाजिनामहं देवयज्यया रेतस्वी भूयासम्वरुणस्याहं देवयज्यया धर्मभाग्भूयासं कस्याहं देवयज्यया शविष्ठो भूयासम्विश्वकर्मणोऽहं देवयज्यया विश्वानि कर्माण्यवरुन्धीयादित्या अहं देवयज्ययाँ हसो मुच्येय
वायोरहं देवयज्यया रत्नभाग्भूयासं सूर्यस्याहं देवयज्यया सुदृशीको भूयासम्
अग्नाविष्णवोरहं देवयज्यया वीर्यवान्भूयासम्विष्णोरहं देवयज्यया शिपिविष्टो भूयासम्

अर्यम्णोऽहं देवयज्यया स्वर्गं लोकं गमेयमिति
यथादेवतमिष्टमनुमन्त्रयत एवम्
अनादिष्टानष्टाकपालानाग्नेयविकारानाचक्षत एकादशकपालानग्नीषोमीयविकारान्द्वादशकपालान्वैश्वदेवविकारानेककपालं भूमिकपालं च द्यावापृथिव्यविकारावतोऽन्यानाग्नेयविकारांश्चरून्सौम्यविकारान्
दधिपयआमिक्षापशवः सांनाय्यविकारा वनस्पतिः स्विष्टकृद्विकार उपाँ शुयाजानुपाँ शुयाजविकारानाचक्षत इत्यथाप्युदाहरन्ति हविःसामान्यं देवतासामान्यं कपालसामान्यमिति हविर्देवताकपालसामान्ये हविःसामान्यं देवतासामान्यं कपालसामान्यमिति हविर्देवताकपालसामान्ये हविःसामान्यं बलीय इत्यपि वास्य यज्ञस्यागुर उदृचमशीयेति सार्वत्रिकम् १४

  1. पर्जन्यस्याहं ?