ब्रह्मज्ञानावली (समूलम्)

(ब्रह्मज्ञानावलीला इत्यस्मात् पुनर्निर्दिष्टम्)
ब्रह्मज्ञानावलीला
शङ्कराचार्यः
१९१०

॥ ब्रह्मज्ञानावलीमाला॥

सकृच्छ्रवणमात्रेण ब्रह्मज्ञान यतो भवेत् ।
ब्रह्मज्ञानावलीमाला सर्वेषा मोक्षसिद्धये ।। १ ।।
असंगोऽहमसगोऽहमसगोऽह पुनः पुनः ।
सच्चिदानदरूपोऽहमहमेवाहमव्ययः ॥ २ ॥
नित्यशुद्धविमुक्तोऽह निराकारोऽहमव्ययः ।
भूमानदस्वरूपोऽहमहमेवाहमव्ययः ॥ ३ ॥
नित्योऽह निरवद्योऽहं निराकारोऽहमच्युतः ।
परमानदरूपोऽहमहमेवाहमव्ययः ॥ ४ ॥
शुद्धचैतन्यरूपोऽहमात्मारामोऽहमेव च ।
अखडानदरूपोऽहमहमेवाहमव्ययः ॥ ५ ॥
प्रत्यक्चैतन्यरूपोऽह शांतोऽह प्रकृतेः परः ।
शाश्वतानदरूपोऽहमहमेवाहमव्ययः ॥ ६ ॥
तत्त्वातीतः परात्माह मध्यातीतः परः शिवः ।
। मायातीतः पर ज्योतिरहमेवाहमव्ययः ॥ ७ ॥
नानारूपव्यतीतोऽह चिदाकारोऽहमच्युतः ।
सुखरूपस्वरूपोऽहमहमेवाहमव्ययः ॥ ८ ॥
मायातत्कार्यदेहादि मम नास्त्येव सर्वदा ।
स्वप्रकाशैकरूपोऽहमहमेवाहमव्ययः ॥ ९ ॥
गुणत्रयव्यतीतोऽह, ब्रह्मादीनां च साक्ष्यहम् ।
अनंतानतरूपोऽहमहमेवाहमव्ययः ॥ १०॥
अंतर्यामिस्वरूपोऽह कूटस्थः सर्वगोऽस्म्यहम् !!
परमात्मस्वरूपोऽहमहमेवाहमव्ययः ।। ११ ।।
निष्कलोऽह निष्क्रियोऽहं सर्वात्माद्यः सनातनः ।

अपरोक्षस्वरूपोऽहमहमेवाहमव्ययः ॥ १२ ॥
द्वंद्वादिसाक्षिरूपोऽहमचलोऽह सनातनः ।
सर्वसाक्षिस्वरूपोऽहमहमेवाहमव्ययः ।। १३ ।।
प्रज्ञानधन एवाहं विज्ञानधन एव च।
अकर्ताहमभोक्ताहमहमेवाहमव्ययः ।। १४ ॥
निराधारस्वरूपोऽहं सर्वाधारोऽहमेव च ।
आप्तकामस्वरूपोऽहमहमेवाहमव्ययः ॥ १५ ।।
तापत्रयविनिर्मुक्तो देहत्रयविलक्षणः ।
अवस्थात्रयसाक्ष्यस्मि चाहमेवाहमव्ययः ॥ १६ ॥
दृग्दृश्यौ द्वौ पदार्थौ स्तः परस्परविलक्षणौ ।
दृग्ब्रह्म दृश्य मायेति सर्ववेदातडिंडिमः ॥ १७ ॥
अह साक्षीति यो विद्याद्विविच्यैव पुनः पुनः ॥
स एव मुक्तः स विद्वानिति वेदातडिंडिमः ॥ १८ ॥
घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तद्वद्ब्रह्म जगत्सर्वमिति वेदान्तडिंडिमः ॥ १९ ॥
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः।
अनेन वेद्य सच्छास्त्रमिति वेदान्तडिंडिमः ॥ २० ॥

॥ इति ब्रह्मज्ञानावलीमाला समासा ॥