ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः ०५

← अध्यायः ०४ ब्रह्मवैवर्तपुराणम्
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →

।। शौनक उवाच ।। ।।
गोगोपगोप्यो गोलोके किं नित्याः किंनु कल्पिताः ।।
मम संदेहभेदार्थं तन्मे व्याख्यातुमर्हसि ।। १ ।।
।। सौतिरुवाच ।। ।।
सर्वादिसृष्टौ ताः क्लृप्ताः प्रलये प्रलये स्थिताः ।।
सर्वादिसृष्टिकथनं यन्मया कथितं द्विज ।। २ ।।
सर्वादिसृष्टौ क्लृप्तौ च नारायणमहेश्वरौ ।।
प्रलये प्रलये व्यक्तौ स्थितौ तौ प्रकृतिश्च सा।।३।।
सर्वादौ ब्रह्मकल्पस्य चरितं कथितं द्विज ।।
वाराहपाद्मकल्पौ द्वौ कथयिष्यामि श्रोष्यसि ।। ४ ।।
ब्राह्मवाराहपाद्माश्च कल्पाश्च त्रिविधा मुने ।।
यथायुगानि चत्वारि क्रमेण कथितानि च ।। ५ ।।
सत्यं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।।
त्रिशतैश्च षष्ट्यधिकैर्युगैर्दिव्यं युगं स्मृतम् ।। ६ ।।
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।।
चतुर्दशेषु मनुषु गतेषु ब्रह्मणो दिनम् ।। ७ ।।
त्रिशतैश्च षष्ट्यधिकैर्दिनैर्वर्षं च ब्रह्मणः ।।
अष्टोत्तरं वर्षशतं विधेरायुर्निरूपितम् ।। ८ ।।
एतन्निमेषकालस्तु कृष्णस्य परमात्मनः ।।
ब्रह्मणश्चायुषा कल्पः कालविद्भिर्निरूपितः ।। ९ ।।
क्षुद्रकल्पा बहुतरास्ते संवर्तादयः स्मृताः ।।
सप्तकल्पांतजीवी स मार्कण्डेयश्च तन्मतः ।।1.5.१०।।
ब्रह्मणश्च दिनेनैव स कल्पः परिकीर्तितः ।।
विधेश्च सप्तदिवसे मुनेरायुर्निरूपितम् ।। ११ ।।
ब्राह्मवाराहपाद्माश्च त्रयः कल्पा निरूपिताः ।।
कल्पत्रये यथा सृष्टिः कथयामि निशामय ।। १२ ।।
ब्राह्मे च मेदिनीं सृष्ट्वा स्रष्टा सृष्टिं चकार सः ।।
मधुकैटभयोश्चैव मेदसा चाज्ञया प्रभोः ।।१३।।
वाराहे तां समुद्धृत्य लुप्तां मग्नां रसातलात् ।।
विष्णोर्वराहरूपस्य द्वारा चातिप्रयत्नतः ।। १४ ।।
पाद्मे विष्णोर्नाभिपद्मे स्रष्टा सृष्टिं विनिर्ममे ।।
त्रिलोकीं ब्रह्मलोकान्तां नित्यलोकत्रयं विना ।। १५ ।।
एतत्तु कालसंख्यानमुक्तं सृष्टिनिरूपणे ।।
किंचिन्निरूपणं सृष्टे किं भूयः श्रोतुमिच्छसि ।। १६ ।।
।। शौनक उवाच ।। ।।
अतः परं किं चकार भगवान्सात्वतांपतिः ।।
एतान्सृष्ट्वा किं चकार तन्मे व्याख्यातुमर्हसि ।। १७ ।।
।। सौतिरुवाच ।। ।।
अतः परं तु गोलोके गोलोकेशो महान्प्रभुः ।।
एतान्सृष्ट्वा जगामासौ सुरम्यं रासमण्डलम् ।।
एतैः समेतैर्भगवानतीव कमनीयकम् ।। १८ ।।
रम्याणां कल्पवृक्षाणां मध्येऽतीव मनोहरम् ।।
सुविस्तीर्णं च सुसमं सुस्निग्धं मण्डलीकृतम् ।। १९ ।।
चन्दनागुरुकस्तूरीकुङ्कुमैश्च सुसंस्कृतम् ।।
दधिलाजसक्तुधान्यदूर्वापर्णपरिप्लुतम् ।। 1.5.२० ।।
पट्टसूत्रग्रन्थियुक्तं नवचन्दनपल्लवैः ।।
संयुक्तरम्भास्तम्भानां समूहैः परिवेष्टितम् ।। २१ ।।
सद्रत्नसारनिर्माणमण्डपानां त्रिकोटिभिः ।।
रत्नप्रदीपज्वलितैः पुष्पधूपादिवासितैः।।२२।।
शृंगारार्हभोगवस्तुसमूहपरिवेष्टितम्।।
अतीव ललिताकल्पतल्पयुक्तैः सुशोभितम् ।। २३ ।।
तत्र गत्वा च तैः सार्धं समुवास जगत्पतिः ।।
दृष्ट्वा रासं विस्मितास्ते बभूवुर्मुनिसत्तम ।। २४ ।।
आविर्बभूव कन्यैका कृष्णस्य वामपार्श्वतः ।।
धावित्वा पुष्पमानीय ददावर्घ्यं प्रभोः पदे ।। २५ ।।
रासे संभूय गोलोके सा दधाव हरेः पुरः ।।
तेन राधा समाख्याता पुराविद्भिर्द्विजोत्तम ।। २६ ।।
प्राणाधिष्ठातृदेवी सा कृष्णस्य परमात्मनः ।।
आविर्बभूव प्राणेभ्यः प्राणेभ्योऽपि गरीयसी ।। २७ ।।
देवी षोडशवर्षीया नवयौवनसंयुता ।।
वह्निशुद्धांशुकाधाना सस्मिता सुमनोहरा ।। २८ ।।
सुकोमलांगी ललिता सुन्दरीषु च सुन्दरी ।।
बृहन्नितम्बभारार्त्ता पीनश्रोणिपयोधरा ।। २९ ।।
बन्धुजीवजिता रक्तसुन्दरोष्ठा धरावरा ।।
मुक्तापङ्क्तिजिता चारुदन्तपंक्तिर्मनोहरा ।। 1.5.३० ।।
शरत्पार्वणकोटीन्दुशोभामृष्टशुभानना ।।
चारुसीमन्तिनीचारुशरत्पङ्कजलोचना।। ३१ ।।
खगेन्द्रचञ्चुविजितचारुनासा मनोहरा ।।
स्वर्णगण्डूकविजिते गण्डयुग्मे च बिभ्रती ।। ३२ ।।
दधती चारुकर्णे च रत्नाभरणभूषिते ।।
चन्दनागुरुकस्तूरीयुक्तकुंकुमबिन्दुभिः ।। ३३ ।।
सिन्दूरबिन्दुसंयुक्तसुकपोला मनोहरा ।।
सुसंस्कृतं केशपाशं मालतीमाल्यभूषितम् ।। ३४ ।।
सुगन्धकबरीभारं सुन्दरं दधती सती ।।
स्थलपद्मप्रभामुष्टं पादयुग्मं च बिभ्रती ।। ३५ ।।
गमनं कुर्वती सा च हंसखञ्जनगञ्जनम् ।।
सद्रत्नसारनिर्माणां वनमाली मनोहराम्।।३६।।
हारं हीरकनिर्माणं रत्नकेयूरकङ्कणम् ।।
सद्रत्नसारनिर्माणं पाशकं सुमनोहरम् ।। ३७ ।।
अमूल्यरत्ननिर्माणं क्वणन्मञ्जीररञ्जितम् ।।
नानाप्रकारचित्राढ्यं सुन्दरं परिबिभ्रती ।। ३८ ।।
सा च सम्भाष्य गोविन्दं रत्नसिंहासने वरे ।।
उवास सस्मिता भर्तुः पश्यन्ती मुखपङ्कजम् ।। ३९ ।।
तस्याश्च लोमकूपेभ्यः सद्यो
गोपाङ्गनागणः ।। आविर्बभूव रूपेण वेशेनैव च तत्समः ।। 1.5.४० ।।
लक्षकोटीपरिमितः शश्वत्सुस्थिरयौवनः ।।
संख्याविद्भिश्च संख्यातो गोलोके गोपिकागणः ।। ४१ ।।
कृष्णस्य लोमकूपेभ्यः सद्यो गोपगणो मुने ।।
आविर्बभूव रूपेण वेषेणैव च तत्समः।। ४२ ।।
त्रिंशत्कोटिपरिमितः कमनीयो मनोहरः ।।
संख्याविद्भिश्च संख्यातो बल्लवानां गणः श्रुतौ ।। ४३ ।।
कृष्णस्य लोमकूपेभ्यः सद्यश्चाविर्बभूव ह ।।
नानावर्णो गोगणश्च शश्वत्सुस्थिरयौवनः ।। ४४ ।।
बलीवर्दाः सुरभ्यश्च वत्सा नानाविधाः शुभाः ।।
अतीव ललिताः श्यामा बह्व्यो वै कामधेनवः ।। ४५ ।।
तेषामेकं बलीवर्दं कोटिसिंहसमं बले ।।
शिवाय प्रददौ कृष्णो वाहनाय मनोहरम् ।। ४६ ।।
कृष्णांघ्रिनखरन्धेभ्यो हंसपङ्क्तिर्मनोहरा ।।
आविर्बभूव सहसा स्त्रीपुंवत्ससमन्विता।। ४७ ।।
तेषामेकं राजहंसं महाबलपराक्रमम् ।।
वाहनाय ददौ कृष्णो ब्रह्मणे च तपस्विने ।। ४८ ।।
वामकर्णस्य विवरात्कृष्णस्य परमात्मनः ।।
गणः श्वेततुरङ्गाणामाविर्भूतो मनोहरः ।। ४९ ।।
तेषामेकं च श्वेताश्वं धर्मार्थं वाहनाय च ।।
ददौ गोपाङ्गनेशश्च संप्रीत्या सुरसंसदि ।। 1.5.५० ।।
दक्षकर्णस्य विवरात्पुंसश्च सुरसंसदि ।।
आविर्भूता सिंहपङ्क्तिर्महाबलपराक्रमा ।। ५१ ।।
तेषामेकं ददौ कृष्णः प्रकृत्यै परमादरम् ।।
अमूल्यरत्नमाल्यं च वरं यदभिवाञ्छितम् ।। ५२ ।।
कृष्णो योगेन योगीन्द्रश्चकार रथपञ्चकम् ।।
शुद्धरत्नेन्द्रनिर्माणं मनोयायि मनोहरम्।। ५३ ।।
लक्षयोजनमूर्ध्वे च प्रस्थे च शतयोजनम् ।।
लक्षचक्रं वायुरहं लक्षक्रीडागृहान्वितम् ।। ५४ ।।
शृङ्गारार्हं भोगवस्तुतल्पासंख्यसमन्वितम् ।।
रत्नप्रदीपलक्षाणां वाजिभिश्च विराजितम् ।। ५५ ।।
नानाचित्रविचित्राढथं सद्रत्नकलशोज्ज्वलम् ।।
रत्नदर्पणभूषाढ्यं शोभितं श्वेतचामरैः ।। ५६ ।।
वह्निशुद्धांशुकैश्चित्रैर्मुक्ताजालैर्विभूषितम् ।।
मणीन्द्रमुक्तामाणिक्यहीरहारविराजितम् ।। ५७ ।।
आरक्तवर्णरत्नेन्द्रसारनिर्माणकृत्रिमैः ।।
पङ्कजानामसंख्यैश्च सुन्दरैश्च सुशोभितम् ।। ५८ ।।
ददौ नारायणायैकं तेषां मध्ये द्विजोत्तमः ।।
एकं दत्त्वा राधिकायै ररक्षाशेषमात्मने ।।।। ५९ ।।
आविर्बभूव कृष्णस्य गुह्यदेशात्ततः परम् ।।
पिङ्गलश्च पुमानेकः पिङ्गलैश्च गणैः सह ।। 1.5.६० ।।
आविर्भूता यतो गुह्यात्तेन ते गुह्यकाः स्मृताः ।।
यः पुमान् स कुबेरश्च धनेशो गुह्यकेश्वरः ।। ६१ ।।
बभूव कन्यका चैका कुबेरे वामपार्श्वतः ।।
कुबेरपत्नी सा देवी सुन्दरीणां मनोरमा ।। ६२ ।।
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः ।।
वेताला विकृतास्तस्याविर्भूता गुह्यदेशतः ।। ६३।।
शङ्खचक्रगदापद्मधारिणो वनमालिनः ।।
पीतवस्त्रपरीधानाः सर्वे श्यामचतुर्भुजाः ।। ६४ ।।
किरीटिनः कुण्डलिनो रत्नभूषणभूषिताः ।।
आविर्भूताः पार्षदाश्च कृष्णस्य मुखतो मुने ।। ६५ ।।
चतुर्भुजान्पार्षदांश्च ददौ नारायणाय च ।।
गुह्यकान्गुह्यकेशाय भूतादीञ्छङ्कराय च ।।६६।।
द्विभुजाः श्यामवर्णाश्च जपमालाकरा वराः ।।
ध्यायन्तश्चरणाम्भोजं कृष्णस्य सततं मुदा ।।६७।।
दास्यो नियुक्ता दसाश्चैवार्घ्यमादाय यत्नतः ।।
आविर्भूता वैष्णवाश्च सर्वे कृष्णपरायणाः ।। ६८ ।।
पुलकाङ्कितसर्वाङ्गाः साश्रुनेत्राः सगद्गदा ।।
आविर्भूताः पादपद्मात्पादपद्मैकमानसाः।।६९।।
आविर्बभूवुः कृष्णस्य दक्षनेत्राद्भयङ्कराः।।
त्रिशूलपट्टिशधरास्त्रिनेत्राश्चन्द्रशेखराः ।। 1.5.७० ।।
दिगम्बरा महाकाया ज्वलदग्निशिखोपमाः ।।
ते भैरवा महाभागाः शिवतुल्याश्च तेजसा ।। ७१ ।।
रुरुसंहारकालाख्या असितक्रोधभीषणाः ।।
महाभैरवखट्वाङ्गावित्यष्टौ भैरवाः स्मृताः ।। ७२ ।।
आविर्बभूव कृष्णस्य वामनेत्राद्भयङ्करः।।
त्रिशूलपट्टिशव्याघ्रचर्माम्बरगदाधरः ।। ७३ ।।
दिगम्बरो महाकायस्त्रिणेत्रश्चन्द्रशेखरः ।।
स ईशानो महाभागो दिक्पालानामधीश्वरः ।। ७४ ।।
डाकिन्यश्चैव योगिन्यः क्षेत्रपालाः सहस्रशः ।।
आविर्बभूवुः कृष्णस्य नासिकाविवरोदरात् ।। ७५ ।।
सुरास्त्रिकोटिसंख्याता दिव्यमूर्तिधरावराः ।।
आविर्बर्भूवुः सहसा पुंसो वै पृष्ठदेशतः ।। ७६ ।।

इति श्रीब्रह्मवैवर्ते महापुराणे सौतिशौनकसंवादे सृष्टिनिरूपणे ब्रह्मखण्डे पञ्चमोऽध्यायः ।। ५ ।