ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः १६

← अध्यायः १५ ब्रह्मवैवर्तपुराणम्
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

ब्राह्मण उवाच ।।
दृष्टः कालो यमो मृत्युकन्या व्याधिगणा अहो ।।
कस्तेऽधुना च सन्देहस्तं पृच्छ कन्यके शुभे ।। १ ।।
ब्राह्मणस्य वचः श्रुत्वा हृष्टा मालावती सती ।।
यन्मनोनि हितं प्रश्नं चकार जगदीश्वरम् ।। २ ।।
मालावत्युवाच ।।
त्वया यत्कथितो व्याधिः प्राणिनां प्राणहारकः ।।
तत्कारणं च विविधं सर्वं वेदे निरूपितम् ।। ३ ।।
यतो न सञ्चरेद्व्याधिर्दुर्निवारोऽशुभावहः ।।
तदुपायं च साकल्यं भवान्वक्तुमिहार्हति ।। ४ ।।
यद्यत्पृष्मपृष्टं वा ज्ञातमज्ञातमेव वा ।।
सर्वं कथय तद्भद्रं त्वं गुरुर्दीनवत्सलः ।। ५ ।।
मालावतीवचः श्रुत्वा विप्ररूपी जनार्दनः ।।
संहितां वक्तुमारेभे सहितार्थां च वैद्यकीम्।।६।।
ब्राह्मण उवाच ।।
वन्दे तं सर्वतत्त्वज्ञं सर्वकारणकारणम् ।।
वेदवेदांगबीजस्य बीजं श्रीकृष्णमीश्वरम् ।।७।।
स ईशश्चतुरो वेदान्ससृजे मङ्गलालयान् ।।
सर्वमङ्गलमङ्गल्य बीजरूपः सनातनः ।। ८ ।।
ऋग्यजुःसामाथर्वाख्यान्दृष्ट्वा वेदान्प्रजापतिः ।।
विचिन्त्य तेषामर्थं चैवायुर्वेदं चकार सः ।। ९ ।।
कृत्वा तु पञ्चमं वेदं भास्कराय ददौ विभुः ।।
स्वतन्त्रसंहितां तस्माद्भास्करश्च चकार सः ।। 1.16.१० ।।
भास्करश्च स्वशिष्येभ्य आयुर्वेदं स्वसंहिताम् ।।
प्रददौ पाठयामास ते चक्रुः संहितास्ततः ।। ।। ११ ।।
तेषां नामानि विदुषां तन्त्राणि तत्कृतानि च ।।
व्याधिप्रणाशबीजानि साध्वि मत्तो निशामय ।। १२ ।।
धन्वन्तरिर्दिवो दासः काशीराजोऽश्विनीसुतौ ।।
नकुलः सहदेवोऽर्किश्च्यवनो जनको बुधः ।। १३ ।।
जाबालो जाजलिः पैलः करथोऽगस्त्य एव च ।।
एते वेदाङ्गवेदज्ञाः षोडश व्याधिनाशकाः ।। १४ ।।
चिकित्सातत्त्वविज्ञानं नाम तन्त्रं मनोहरम् ।।
धन्वन्तरिश्च भग वांश्चकार प्रथमं सति ।। १५ ।।
चिकित्सादर्पणं नाम दिवोदासश्चकार सः ।।
चिकित्साकौमुदीं दिव्यां काशीगजश्चकार सः ।। १६ ।।
चिकित्सासारतन्त्रं च श्रमघ्नं चाश्विनीसुतौ ।।
तन्त्रं वैद्यकसर्वस्वं नकुलश्च चकार सः ।। १७ ।।
चकार सहदेवश्च व्याधिसिन्धुविमर्दनम् ।।
ज्ञानार्णवं महातन्त्रं यमराजश्चकार ह ।। १८ ।।
च्यवनो जीवदानं च चकार भगवानृषिः ।।
चकार जनको योगी वैद्यसन्देहभञ्जनम् ।। १९।।
सर्वसारं चन्द्रसुतो जाबालस्तन्त्रसारकम् ।।
वेदाङ्गसारं तन्त्रं च चकार जाजलिर्मुनिः ।। 1.16.२० ।।
पैलो निदानं करथस्तन्त्रं सर्वधरं परम् ।।
द्वैधनिर्णयतन्त्रं च चकार कुम्भसम्भवः ।। २१ ।।
चिकित्साशास्त्रबीजानि त न्त्राण्येतानि षोडश ।।।
व्याधिप्रणाशबीजानि बलाधानकरीषि ।।२२।।
मथित्वा ज्ञानमन्त्रेणैवायुर्वेदपयोनिधिम्।।
ततस्तस्मादुदाजह्रुर्नवनीतानि कोविदाः ।। २३ ।।
एतानि क्रमशो दृष्ट्वा दिव्यां भास्करसंहिताम् ।।
आयुर्वेदं सर्वबीजं सर्वं जानासि सुन्दरि ।। २४ ।।
व्याधेस्तत्त्वपरिज्ञानं वेदनायाश्च निग्रहः ।।
एतद्वैद्यस्य वैद्यत्वं न वैद्यः प्रभुरायुषः ।। २५ ।।
आयुर्वेदस्य विज्ञाता चिकित्सासु यथार्थवित् ।।
धर्मिष्ठश्च दयालुश्च तेन वैद्यः प्रकीर्तितः ।।२६।।
जनकः सर्वरोगाणां दुर्वारो दारुणो ज्वरः ।।
शिवभक्तश्च योगी च निष्ठुरो विकृताकृतिः ।। २७ ।।
भीमस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।।
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ।।२८।।
मन्दाग्निस्तस्य जनको मन्दाग्नेर्जनकास्त्रयः ।।
पित्तश्लेष्मसमीराश्च प्राणिनां दुःखदायकाः ।। २९ ।।
वायुजः पित्तजश्चैव श्लेष्मजश्च तथैव च ।।
ज्वरभेदाश्च त्रिविधाश्चतुर्थश्च त्रिदोषजः ।। 1.16.३० ।।
पाण्डुश्च कामलः कुष्ठः शोथः प्लीहा च शूलकः ।।
ज्वरातिसारग्रहणीकासव्रणहलीमकाः ।। ३१ ।।
मूत्रकृच्छ्रश्च गुल्मश्च रक्तदोषविकारजः ।।
विषमेहश्च कब्जश्च गोदश्च गलगण्डकः ।। ३२ ।।
भ्रमरी सन्निपातश्च विषूची दारुणी सति ।।
एषां भेदप्रभेदेन चतुःषष्टी रुजः स्मृताः ।। ३३ ।।
मृत्युकन्यासुताश्चैते जरा तस्याश्च कन्यका ।।
जरा च भ्रातृभिः सार्द्धं शश्वद् भ्रमति भूतलम् ।।३४।।
एते चोपायवेत्तारं न गच्छन्ति च संयतम्।।
पलायन्ते च तं दृष्ट्वा वैनतेयमिवोरगाः ।। ३५ ।।
चक्षुर्जलं च व्यायामः पादाधस्तैलमर्दनम् ।।
कर्णयोर्मूर्ध्नि तैलं च जराव्याधिविनाशनम् ।। ३६ ।।
वसन्ते भ्रमणं वह्निसेवां स्वल्पां करोति यः ।।
बालां च सेवते काले जरा तं नोपगच्छति।।३७।।
खातशीतोदकस्नायी सेवते चन्दनद्रवम्
नोपयाति जरा तं च निदाघेऽनिलसेवकम्।।३८।।
प्रावृष्युष्णोदकस्नायी घनतोयं न सेवते ।।
समये च समाहारी जरा तं नोपगच्छति ।। ३९ ।।
शरद्रौद्रं न गृह्णाति भ्रमणं तत्र वर्जयेत् ।।
खातस्नायी समाहारी जरा तं नोपगच्छति ।। 1.16.४० ।।
खातस्नायी च हेमन्ते काले वह्निं च सेवते ।।
भुङ्क्ते नवान्नमुष्णं च जरा तं नोपगच्छति ।। ४१ ।।
शिशिरेंऽशुकवह्निं च नवोष्णान्नं च सेवते ।।
यश्च वोष्णोदकस्नायी जरा तं नोपगच्छति।।४२।।
सद्योमांसं नवान्नं च बालास्त्रीक्षीरभोजनम्।।
घृतं च सेवते यो हि जरा तं नोपगच्छति।।४३।।
भुङ्क्ते सदन्नं क्षुत्काले तृष्णायां पीयते जलम् ।।
नित्यं भुङ्क्ते च ताम्बूलं जरा तं नोपगच्छति ।। ४४ ।।
दधि हैयङ्गवीनं च नवनीतं तथा गुडम् ।।
नित्यं भुङ्क्ते संयमी यो जरा तं नोपगच्छति ।।४५।।
शुष्कमांसं स्त्रियं वृद्धां बालार्कं तरुणं दधि ।।
संसेवन्ते जरा याति प्रहृष्टा भ्रातृभिः सह ।। ४६ ।।
रात्रौ ये दधि सेवन्ते पुंश्चलीश्च रजस्वलाः ।।
तानुपैति जरा हृष्टा भ्रातृभिः सह सुन्दरि ।। ४७ ।।
रजस्वला च कुलटा चावीरा जारदूतिका ।।
शूद्रयाजकपत्नी या ऋतुहीना च या सति ।। ४८ ।।
यो हि तासामन्नभोजी ब्रह्महत्यां लभेत्तु सः ।।
तेन पापेन सार्द्धं सा जरा तमुपगच्छति ।। ४९ ।।
पापानां व्याधिभिः सार्द्धं मित्रता सन्ततं ध्रुवम् ।।
पापं व्याधिजराबीजं विघ्नबीजं च निश्चितम् ।। 1.16.५० ।।
पापेन जायते व्याधिः पापेन जायते जरा ।।
पापेन जायते दैन्यं दुःखं शोको भयङ्करः ।। ५१ ।।
तस्मात्पापं महावैरं दोषबीजममङ्गलम् ।।
भारते सततं सन्तो नाचरन्ति भयातुराः ।।५२।।
स्वधर्माचारयुक्तं च दीक्षितं हरिसेवकम् ।।
गुरुदेवातिथीनां च भक्तं सक्तं तपःसु च ।।५३।।
व्रतोपवासयुक्तं च सदा तीर्थनिषेवकम् ।।
रोगा द्रवन्ति तं दृष्ट्वा वैनतेयमिवोरगाः।।५४।।
एताञ्जरा न सेवेत व्याधिसंघश्च दुर्जयः ।।
सर्वं बोध्यमसमये काले सर्वं ग्रसिष्यति ।। ५५ ।।
ज्वरस्य सर्वरोगाणां जनकः कथितः सति ।।
पित्तश्लेष्मसमीराश्च ज्वरस्य जनकास्त्रयः ।। ५६ ।।
एते यथा सं चरन्ति स्वयं यान्ति च देहिषु ।।
तमेव विविधोपायं साध्वि मत्तो निशामय ।। ५७ ।।
क्षुधि जाज्वल्यमानायामाहाराभाव एव च ।।
प्राणिनां जायते पित्तं चक्रे च मणिपूरके ।। ५८ ।।
तालबिल्वफलं भुक्त्वा जलपानं च तत्क्षणम् ।।
तदेव तु भवेत्पित्तं सद्यः प्राणहरं परम् ।। ५९ ।।
तप्तोदकं च शिरसि भाद्रे तिक्तं विशेषतः ।।
दैवग्रस्तश्च यो भुङ्क्ते पित्तं तस्य प्रजायते ।। 1.16.६० ।।
सशर्करं च धान्याकं पिष्टं शीतोदकान्वितम् ।।
चणकं सर्वगव्यं च दधितक्रविवर्जितम् ।। ६१ ।।
बिल्वतालफलं पक्वं सर्वमैक्षवमेव च ।।
आर्द्रकं मुद्गयूषं च तिलपिष्टं सशर्करम् ।। ६२ ।।
पित्तक्षयकरं सद्यो बलपुष्टिप्रदं परम् ।।
पित्तनाशं च तद्बीजमुक्तमन्यन्निबोध मे ।। ६३ ।।
भोजनानन्तरं स्नानं जलपानं विना तृषा ।।
तिलतैलं स्निग्धतैलं स्निग्धमामलकीद्रवम् ।।६४।।
पर्य्युषितान्नं च तक्रं च पक्वं रम्भाफलं दधि ।।
मेघाम्बु शर्करातोयं सुस्निग्धजलसेवनम् ।।६५।।
नारिकेलोदकं रूक्षस्नानं पर्युषिते जले ।।
तरुगुंजापक्वफलं सुपक्वं कर्क्कटीफलम् ।।६६।।
खातस्नानं च वर्षासु मूलकं श्लेष्मकारकम् ।।
ब्रह्मरन्ध्रे च तज्जन्म महद्वीर्य्य विनाशनम्।।६७।।
वह्निस्वेदं भ्रष्टभङ्गं पक्वतैलविशेषकम् ।।
भ्रमणं शुष्कभक्षं च शुष्कपक्वहरीतकी ।।६८।।
पिण्डारकमपक्वं च रम्भा फलमपक्वकम् ।।
वेसवारः सिन्धुवार अनाहारमपानकम् ।। ६९ ।।
सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम् ।।
मरीचं पिप्पलं शुष्कमार्द्रकं जीवकं मधु ।। 1.16.७० ।।
द्रव्याण्येतानि गान्धर्वि सद्यः श्लेष्महराणि च ।।
बलपुष्टिकराण्येव वायुबीजं निशामय ।। ७१ ।।
भोजनानन्तरं सद्यो गमनं धावनं तथा ।।
छेदनं वह्नितापश्च शश्वद्भ्रमणमैथुनम् ।। ७२ ।।
वृद्धस्त्रीगमनं चैव मनःसन्ताप एव च ।।
अतिरूक्षमनाहारं युद्धं कलहमेव च ।। ७३ ।।
कटु वाक्यं भयं शोकः केवलं वायुकारणम् ।।
आज्ञाख्यचक्रे तजन्म निशामय तदौषधम् ।। ७४ ।।
पक्वं रम्भाफलं चैव सबीजं शर्करोदकम् ।।
नारिकेलोदकं चैव सद्यस्तक्रं सुपिष्टकम् ।।७५।।
माहिषं दधि मिष्टं च केवलं वा सशर्करम् ।।
सद्यः पर्य्युषितान्नं च सौवीरं शीतलोदकम् ।। ७६ ।।
पक्वतैलविशेषं च तिलतैलं च केवलम् ।।
लांगलीतालखर्जूरमुष्णमामलकीद्रवम् ।। ७७ ।।
शीतलोष्णोदकस्नानं सुस्निग्धचन्दनद्रवम् ।।
स्निग्धपद्मपत्रतल्पं सुस्निग्धव्यजनानि च ।। ७८ ।।
एतत्ते कथितं वत्से सद्योवायुप्रणाशनम् ।।
वायवस्त्रिविधाः पुंसां क्लेशसन्तापकामजाः ।। ७९ ।।
व्याधिसंघश्च कथितस्तन्त्राणि विविधानि च ।।
तानि व्याधिप्रणाशाय कृतानि सद्भिरेव च ।। 1.16.८० ।।
तन्त्राण्येतानि सर्वाणि व्याधिक्षयकराणि च ।।
रसायनादयो येषु चोपायाश्च सुदुर्लभाः ।। ८१ ।।
न शक्तः कथितुं साध्वि यथार्थं वत्सरेण च ।।
तेषां च सर्वतन्त्राणां कृतानां च विचक्षणैः।।८२।।
केन रोगेण त्वत्कान्तो मृतः कथय शोभने ।।
तदुपायं करिष्यामि येन जीवेदयं सति ।। ८३ ।।
सौतिरुवाच ।।
ब्राह्मणस्य वचः श्रुत्वा कन्या चित्ररथस्य च ।।
कथां कथितुमारेभे सा गान्धर्वी प्रहर्षिता ।। ८४ ।।
मालावत्युवाच ।।
योगेन प्राणांस्तत्याज ब्रह्मणः शापहेतुना ।।
सभायां लज्जितः कान्तो मम विप्र निशामय ।। ८५ ।।
सर्वं श्रुतमपूर्वं च शुभाख्यानं मनोहरम् ।।
भवेद्भवे कुतः केषां महल्लभ्यं विपद्विना ।। ८६ ।।
अधुना मत्प्राणकान्तं देहि देहि विचक्षण ।।
नत्वा वः स्वामिना सार्द्धं यास्यामि स्वगृहं प्रति ।। ८७ ।।
मालावतीवचः श्रुत्वा विप्ररूपी जनार्दनः ।।
सभां जगाम देवानां शीघ्रं विप्रस्तदन्तिकात् ।। ८८ ।।
इति श्रीब्रह्मवैवर्ते महापु० सौतिशौ० ब्रह्मखण्डे मालावतीविष्णुसंवादे चिकित्साप्रणयने षोडशोऽध्यायः ।। १६ ।।