प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७ ब्रह्मवैवर्तपुराणम्
अध्यायः १८
वेदव्यासः
अध्यायः १९ →

सौतिरुवाच ।।
देवाः सार्द्धं ब्राह्मणेन मोहिता विष्णुमायया ।।
प्रययुर्मालतीमूलं ब्रह्मेशानपुरोगमाः ।। १ ।।
ब्रह्मा कमण्डलुजलं ददौ गात्रे शवस्य च ।।
संचारं मनसस्तस्य चकार सुन्दरं वपुः ।। २ ।।
ज्ञानदानं ददौ तस्मै ज्ञानानन्दः शिवः स्वयम् ।।
धर्मज्ञानं स्वयं धर्मो जीवदानं च ब्राह्मणः ।। ३ ।।
वह्निदर्शनमात्रेण बभूव जठरानलः ।।
कामदर्शनमात्रेण सर्वकामः सुनिश्चितम् ।। ४ ।।
तस्य वायोरधिष्ठानाज्जगत्प्राणस्वरूपिणः ।।
निश्वासस्य च सञ्चारः प्राणानां च बभूव ह।। ।। ५ ।।
सर्व्वाधिष्ठानमात्रेण दृष्टिशक्तिर्बभूव ह ।।
वाक्यं वाणीदर्शनेन शोभा श्रीदर्शनेन च ।। ६ ।।
शवस्तथाऽपि नोत्तस्थौ यथा शेते जडस्तथा ।।
विशिष्टबोधनं प्राप चाधिष्ठानं विनाऽऽत्मनः ।। ७ ।।
ब्रह्मणो वचनात्साध्वी तुष्टाव परमेश्वरम् ।।
स्नात्वा शीघ्रं सरित्तोये धृत्वा धौते च वाससी ।। ८ ।।
मालावत्युवाच ।।
वन्दे तं परमात्मानं सर्वकारणकारणम् ।।
विना येन शवाः सर्वे प्राणिनो जगतीतले ।। ९ ।।
निर्लिप्तं साक्षिरूपं च सर्वेषां सर्वकर्मसु ।।
विद्यमानं न दृष्टं च सर्वैः सर्वत्र सर्वदा ।। 1.18.१० ।।
येन सृष्टा च प्रकृतिः सर्वाधारो परात्परा ।।
ब्रह्मविष्णुशिवादीनां प्रसूर्या त्रिगुणात्मिका ।। ११ ।।
जगत्स्रष्टा स्वयं ब्रह्मा नियतो यस्य सेवया ।।
पाता विष्णुश्च जगतां संहर्त्ता शङ्करः स्वयम् ।। १२ ।।
ध्यायन्ते यं सुराः सर्वे मुनयो मनवस्तथा ।।
सिद्धाश्च योगिनः सन्तः सन्ततं प्रकृतेः परम्।।१३।।
साकारं च निराकारं परं स्वेच्छामयं विभुम् ।।
वरं वरेण्यं वरदं वरार्हं वरकारणम् ।।१४ ।।
तपःफलं तपोबीजं तपसां च फलप्रदम् ।।
स्वयंतपःस्वरूपं च सर्वरूपं च सर्वतः ।। १५ ।।
सर्वाधारं सर्वबीजं कर्म तत्कर्मणां फलम् ।।
तेषां च फलदातारं तद्बीजं क्षयकारणम् ।। १६ ।।
स्वयंतेजःस्वरूपं च भक्तानुग्रहविग्रहम् ।।
सेवाध्यानं न घटते भक्तानां विग्रहं विना ।। १७ ।।
तत्तेजो मण्डलाकारं सूर्यकोटिसमप्रभम् ।।
अतीव कमनीयं च रूपं तत्र मनोहरम् ।। १८ ।।
नवीननीरदश्यामं शरत्पङ्कजलोचनम् ।।
शरत्पार्वणचन्द्रास्यमीषद्धास्यसमन्वितम् ।। १९ ।।
कोटिकन्दर्पलावण्यं लीलाधाम मनोहरम् ।।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ।। ।। 1.18.२० ।।
द्विभुजं मुरलीहस्तं पीतकौशेयवाससम् ।।
किशोरवयसं शान्तं राधाकान्तमनन्तकम् ।। २१ ।।
गोपाङ्गनापरिवृतं कुत्रचिन्निर्जने वने ।।
कुत्रचिद्रासमध्यस्थं राधया परिषेवितम् ।। २२ ।।
कुत्रचिद्गोपवेषं च वेष्टितं गोपबालकैः ।।
शतशृङ्गाचलोत्कृष्टे रम्ये वृन्दावने वने ।। २३ ।।
निकरं कामधेनूनां रक्षन्तं शिशुरूपिणम् ।।
गोलोके विरजातीरे पारिजातवने वने ।। २४ ।।
वेणुं क्वणन्तं मधुरं गोपीसम्मोहकारणम् ।।
निरामये च वैकुंठे कुत्रचिच्च चतुर्भुजम् ।। २५ ।।
लक्ष्मीकान्तं पार्षदैश्च सेवितं च चतुर्भुजैः ।।
कुत्रचित्स्वांशरूपेण जगतां पालनाय च।।२६।।
श्वेतद्वीपे विष्णुरूपं पद्मया परिषेवितम् ।।
कुत्रचित्स्वांशकलया ब्रह्माण्डब्रह्मरूपिणम्।।२७।।
शिवस्वरूपं शिवदं स्वांशेन शिवरूपिणम् ।।
स्वात्मनः षोडशांशेन सर्वाधारं परात्परम्।।२८।।
स्वयं महद्विराड्रूपं विश्वौघं यस्य लोमसु ।।
लीलया स्वांशकलया जगतां पालनाय च।।२९।।
नानावतारं बिभ्रन्तं बीजं तेषां सनातनम्।।
वसन्तं कुत्रचित्सन्तं योगिनां हृदये सताम् ।।1.18.३०।।
प्राणरूपं प्राणिनां च परमात्मानमीश्वरम्।।
तं च स्तोतुमशक्ताऽहमबला निर्गुणं विभुम्।।३१।।
निर्लक्ष्यं च निरीहं च सारं वाङ्मनसोः परम् ।।
यं स्तोतुमक्षमोऽनन्तः सहस्रवदनेन च ।।३२।।
पञ्चवक्त्रश्चतुर्वक्त्रो गजवक्त्रः षडाननः ।।
यं स्तोतुं न क्षमा माया मोहिता यस्य मायया।।३३।।
यं स्तोतुं न क्षमा श्रीश्च जडीभूता सरस्वती ।।
वेदा न शक्ता यं स्तोतुं को वा विद्वांश्च वेदवित्।।३४।।।।
किं स्तौमि तमनीहं च शोकार्त्ता स्त्री परात्परम् ।।
इत्युक्त्वा सा च गान्धर्वी विरराम रुरोद च ।। ३९ ।।
कृपानिधिं प्रणनाम भयार्ता च पुनः पुनः ।।
कृष्णश्च शक्तिभिः सार्द्धमधिष्ठानं चकार ह ।। ३५ ।।
भर्तुरस्यान्तरे तस्याः परमात्मा निराकृतिः ।।।
उत्थाय शीघ्रं वीणां च धृत्वा स्नात्वा च वाससी ।। ३७ ।।
प्रणनाम देवसंघं ब्राह्मणं पुरतः स्थितम् ।।
नेदुर्दुन्दुभयो देवाः पुष्पवृष्टिं च चक्रिरे ।। ३८ ।।
दृष्ट्वा चोपरि दम्पत्योः प्रददुः परमाशिषम् ।।
गन्धर्वो देवपुरतो ननर्त्त च जगौ क्षणम् ।। ३९ ।।
जीवितं पुरतः प्राप देवानां च वरेण च ।।
जगाम पत्न्या सार्द्धं च पित्रा मात्रा च हर्षितः ।। 1.18.४० ।।
उपबर्हणगन्धर्वो गन्धर्वनगरं पुनः ।।
मालावती रत्नकोटिं धनानि विविधानि च ।। ४१ ।।
प्रददौ ब्राह्मणेभ्यश्च भोजयामास तान्सती ।।
वेदांश्च पाठयामास कारयामास मङ्गलम् ।। ४२ ।।
महोत्सवं च विविधं हरेर्नामैकमङ्गलम् ।।
जग्मुर्देवाश्च स्वस्थानं विप्ररूपी हरिः स्वयम् ।। ४३ ।।
एतत्ते कथितं सर्वं स्तवराजं च शौनक ।।
इदं स्तोत्रं पुण्यरूपं पूजाकाले तु यः पठेत् ।। ४४ ।।
हरिभक्तिं हरेर्दास्यं लभते वैष्णवोजनः।।
वरार्थी यः पठेद्भक्त्या चास्तिकः परमास्थया।। ४५ ।।
धर्मार्थकाममोक्षाणां निश्चितं लभते फलम् ।।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।। ४६ ।।
भार्य्यार्थी लभते भार्य्यां पुत्रार्थी लभते सुतम् ।।
धर्मार्थी लभते धर्मं यशोऽर्थी लभते यशः ।। ४७ ।।
भ्रष्टराज्यो लभेद्राज्यं प्रजाभ्रष्टः प्रजां लभेत् ।।
रोगार्त्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।। ४८ ।।
भयान्मुच्येत भीतस्तु धनं नष्टधनो लभेत् ।।
दस्युग्रस्तो महारण्ये हिंस्रजन्तुसमन्वितः ।।
दावाग्निदग्धो मुच्येत निमग्नश्च जलार्णवे ।। ४९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे गन्धर्वजीवदाने महापुरुषस्तोत्रप्रणयनं नामाष्टादशोऽध्यायः ।। १८ ।।