ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः १९

← अध्यायः १८ ब्रह्मवैवर्तपुराणम्
अध्यायः १९
वेदव्यासः
अध्यायः २० →

सौतिरुवाच ।।
मालावती धनं दत्त्वा ब्राह्मणेभ्यः प्रहर्षिता ।।
चकार विविधं वेशं स्वात्मनः स्वामिनः कृते ।।१।।
भर्तुश्चकार शुश्रूषां पूजां च समयोचिताम्।।
तेन सार्द्धं सुरसिका रेमे सा सुचिरं मुदा।।२।।
महापुरुषस्तोत्रं च पूजां च कवचं मनुम्।।
विस्मृतं बोधयामास स्वयं रहसि सुव्रता ।। ३ ।।
पुरा दत्तं वसिष्ठेन स्तोत्रपूजादिकं हरेः ।।
गन्धर्वाय च मालत्यै मन्त्रमेकं च पुष्करे ।।४।।
विस्मृतं स्तोत्रकवचं वसिष्ठश्च कृपानिधिः ।।
गन्धर्वराजं रहसि बोधयामास शूलिनः ।। ५ ।।
एवं चकार राज्यं च कुबेरभवनोपमे ।।
आश्रमे परमानन्दो गन्धर्वो बान्धवैः सह ।। ६ ।।
यथातथा गताभिश्च स्त्रीभिरन्याभिरेव च ।।
आगत्य ताभिः स्वस्वामी संप्राप्तः परया मुदा ।। ७ ।।
शौनक उवाच ।।
किं स्तोत्रं कवचं विष्णोर्मन्त्रपूजाविधिः पुरा ।।
दत्तो विशिष्टस्ताभ्यां च तं भवान्वक्तुमर्हति ।। ८ ।।
द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम् ।।
दत्तं गन्धर्वराजाय वसिष्ठेन च किं पुरा ।। ९ ।।
तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम ।।
शङ्करस्तोत्रकवचं मन्त्रं दुर्गतिनाशनम्।।1.19.१०।।
सौतिरुवाच ।।
तुष्टाव येन स्तोत्रेण मालती परमेश्वरम् ।।
तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं शृणु ।। ११।।
ॐ नमो भगवते रासमण्डलेशाय स्वाहा ।।
इमं मन्त्रं कल्पतरुं प्रददौ षोडशाक्षरम् ।। १२ ।।
पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः ।।
पुरा दत्तं च कृष्णेन गोलोके शङ्कराय च ।।१३।।
ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम् ।।
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ।। १४ ।।
अतीव गुप्तकवचं पितुर्वक्त्रान्मया श्रुतम् ।।
पित्रे दत्तं पुरा विप्र गङ्गायां शूलिना ध्रुवम्।। ।। १५ ।।
शूलिने ब्रह्मणे दत्तं गोलोके रासमण्डले ।।
धर्माय गोपीकान्तेन कृपया परमाद्भुतम् ।। १६ ।।
ब्रह्मोवाच ।।
राधाकान्त महाभाग कवचं यत्प्रकाशितम् ।।
ब्रह्माण्डपावनं नाम कृपया कथय प्रभो ।। १७ ।।
मां महेशं च धर्मं च भक्तं च भक्तवत्सल ।।
त्वत्प्रसादेन पुत्रेभ्यो दास्यामि भक्तिसंयुतः ।। १८ ।।
श्रीकृष्ण उवाच ।।
शृणु वक्ष्यामि ब्रह्मेश धर्मेदं कवचं परम् ।।
अहं दास्यामि युष्मभ्यं गोपनीयं सुदुर्लमम् ।। १९ ।।
यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि ।।
यत्तेजो मम देहेऽस्ति तत्तेजः कवचेऽपि च ।। 1.19.२० ।।
कुरु सृष्टिमिमं धृत्वा धाता त्रिजगतां भव ।।
संहर्त्ता भव हे शम्भो मम तुल्यो भवे भव ।। ।। २१ ।।
हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम् ।।
तपसां फलदातारो यूयं भवत मद्वरात् ।। २२ ।।
ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम् ।।
ऋषिश्छन्दश्च गायत्री देवोऽहं जगदीश्वरः ।। २३ ।।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।।
त्रिलक्षवार पठनात्सिद्धिदं कवचं विधे ।। २४ ।।
यो भवेत्सिद्धकवचो मम तुल्यो भवेच्च सः ।।
तेजसा सिद्धियोगेन ज्ञानेन विक्रमेण च ।। ।। २५ ।।
प्रणवो मे शिरः पातु नमो रामेश्वराय च ।।
भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ।। २६ ।।
कृष्णः पायाच्छ्रोत्रयुग्मं हे हरे प्राणमेव च ।।
जिह्विकां वह्निजाया तु कृष्णायेति च सर्वतः ।। २७ ।।
श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः ।।
ह्रीं कृष्णाय नमो वक्त्रं क्लींपूर्वश्च भुजद्वयम् ।। २८ ।।
नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु ।।
दन्तपङ्क्तिमोष्ठयुग्मं नमो गोपीश्वराय च ।। २९ ।।
ॐ नमो भगवते रासमण्डलेशाय स्वाहा ।।
स्वयं वक्षःस्थलं पातु मन्त्रोऽयं षोडशाक्षरः ।। 1.19.३० ।।
ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदाऽवतु ।।
ॐ विष्णवे स्वाहेति च कपोलं सवर्तोऽवतु ।। ३१ ।।
ॐ हरये नम इति पृष्ठं पादं सदा ऽवतु ।।
ॐ गोवर्द्धनधारिणे स्वाहा सर्वशरीरकम् ।। ३२ ।।
प्राच्यां मां पातु श्रीकृष्ण आग्नेय्यां पातु माधवः ।।
दक्षिणे पातु गोपीशो नैर्ऋत्यां नन्दनन्दनः ।। ३३ ।।
वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः ।।
उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ।। ३४ ।।
सततं सर्वतः पातु परो नारायणः स्वयम्।।
इति ते कथितं ब्रह्मन्कवचं परमाद्भुतम् ।।३५।।
मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च ।।
अश्वमेधसहस्राणि वाजपेयशतानि च ।।
कलां नार्हन्ति तान्येव कवचस्यैव धारणात् ।। ३६ ।।
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।।
स्नात्वा तं च नमस्कृत्य कवचं धारयेत्सुधीः ।। ३७ ।।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।।
यदि स्यात्सिद्धकवचो विष्णुरेव भवेद्द्विज ।। ३८ ।।
सौतिरुवाच ।।
शिवस्य कवचं स्तोत्रं श्रूयतामिति शौनक ।।
वशिष्ठेन च यद्दत्तं गन्धर्वाय च यो मनुः ।। ३९ ।।
ॐ नमो भगवते शिवाय स्वाहेति च मनुः ।।
दत्तो वशिष्ठेन पुरा पुष्करे कृपया विभो ।। 1.19.४० ।।
अयं मन्त्रो रावणाय प्रदत्तो ब्रह्मणा पुरा ।।
स्वयं शम्भुश्च बाणाय तथा दुर्वाससे पुरा ।।४१।।
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ।।
ध्यायेन्नित्यादिकं ध्यानं वेदोक्तं सर्वसम्मतम्।।४२।।
ॐ नमो महादेवाय ।।
बाणासुर उवाच ।।
महेश्वर महाभाग कवचं यत्प्रकाशितम् ।।
संसार पावनं नाम कृपया कथय प्रभो ।। ४३ ।।
महेश्वर उवाच ।।
शृणु वक्ष्यामि हे वत्स कवचं परमाद्भुतम् ।।
अहं तुम्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ।। ४४ ।।
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च ।। ४५ ।।
ममैवेदं च कवचं भक्त्या यो धारयेत्सुधीः ।।
जेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया।।४६।।
संसारपावनस्यास्य कवचस्य प्रजापतिः।।
ऋषिश्छन्दश्च गायत्री देवोऽहं च महेश्वरः।।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।। ४७ ।।
पंचलक्षजपेनैव सिद्धिदं कवचं भवेत् ।।
यो भवेत्सिद्धकवचो मम तुल्यो भवेद्भुवि ।।
तेजसा सिद्धि योगेन तपसा विक्रमेण च ।।४८ ।।
शम्भुर्मे मस्तकं पातु मुखं पातु महेश्वरः ।।
दन्तपक्तिं नीलकण्ठोऽप्यधरोष्ठं हरः स्वयम् ।। ४९।।
कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः ।।
वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ।। 1.19.५० ।।
सर्वाङ्गं पातु विश्वेशः सर्वदिक्षु च सर्वदा ।।
स्वप्ने जागरणे चैव स्थाणुर्मे पातु सन्ततम् ।। ५१ ।।
इति ते कथितं बाण कवचं परमाद्भुतम् ।।
यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नतः ।। ५२ ।।
यत्फलं सर्वतीर्थानां स्नानेन लभते नरः ।।
तत्फलं लभते नूनं कवचस्यैव धारणात् ।। ५३ ।।
इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः ।।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।। ५४ ।।
सौतिरुवाच ।।
इदं च कवचं प्रोक्तं स्तोत्रं च शृणु शौनक ।।
मन्त्रराजः कल्पतरुर्वसिष्ठो दत्तवान्पुरा ।। ५५ ।।
ॐ नमः शिवाय ।।
बाणासुर उवाच ।।
वन्दे सुराणां सारं च सुरेशं नीललोहितम् ।।
योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् ।। ५६ ।।
ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् ।।
तपसां फलदातारं दातारं सर्वसम्पदाम् ।।५७।।
तपोरूपं तपोबीजं तपोधनधनं वरम् ।।
वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः।।५८।।
कारणं भुक्तिमुक्तीनां नरकार्णवतारणम् ।।
आशुतोषं प्रसन्नास्यं करुणामयसागरम् ।।५९।।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभम्।।
ब्रह्मज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् ।। 1.19.६० ।।
विषयाणां विभेदेन बिभ्रतं बहुरूपकम् ।।
जलरूपमग्निरूपमाकाशरूपमीश्वरम्।। ।। ६१ ।।
वायुरूपं चन्द्ररूपं सूर्य्यरूपं महत्प्रभुम् ।।
आत्मनः स्वपदं दातुं समर्थमवलीलया ।।६२ ।।
भक्तजीवनमीशं च भक्तानुग्रहकातरम् ।।
वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् ।।६३।।
अपरिच्छिन्नमीशानमहो वाङ्मनसोः परम् ।।
व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् ।।
त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम् ।। ६४ ।।
इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसंयतः ।।
प्राणमच्छङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः ।। ६५ ।।
इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने ।।
कथितं च महास्तोत्रं शूलिनः परमाद्भुतम् ।। ६६ ।।
इदं स्तोत्रं महापुण्यं पठेद्भक्त्या च यो नरः ।।
स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् ।। ६७ ।।
अपुत्रो लभते पुत्रं वर्षमेकं शृणोति यः ।।
संयतश्च हविष्याशी प्रणम्य शङ्करं गुरुम् ।। ६८ ।।
गलत्कुष्ठी महाशूली वर्षमेकं शृणोति यः ।।
अवश्यं मुच्यते रोगाद्व्यासवाक्यमिति श्रुतम् ।। ६९ ।।
कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् ।।
स्तोत्रं श्रुत्वा मासमेकं मुच्यते बन्धनाद् ध्रुवम् ।। 1.19.७० ।।
भ्रष्टराज्यो लभेद्राज्यं भक्त्या मासं शृणोति यः ।।
मासं श्रुत्वा संयतश्च लभेद्भ्रष्टधनो धनम् ।। ७१ ।।
यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत् ।।
निश्चितं मुच्यते रोगाच्छङ्करस्य प्रसादतः ।। ७२ ।।
यः शृणोति सदा भक्त्या स्तवराजमिमं द्विज ।।
तस्यासाध्यं त्रिभुवने नास्ति किंचिच्च शौनक ।। ७३ ।।
कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते ।।
अचलं परमैश्वर्य्यं लभते नात्र संशयः ।। ७४ ।।
सुसंयतोऽतिभक्त्या च मासमेकं शृणोति यः ।।
अभार्य्यो लभते भार्य्यां सुविनीतां सतीवराम् ।।७५।।
महामूर्खश्च दुर्मेधा मासमेकं शृणोति यः ।।
बुद्धिं विद्यां च लभते गुरूपदेशमात्रतः।।७६।।
कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः।।
ध्रुवं वित्तं भवेत्तस्य शङ्करस्य प्रसादतः।।७७।।
इह लोके सुखं भुक्त्वा कृत्वा कीर्तिं सुदुर्लभाम् ।।
नानाप्रकारधर्मं च यात्यन्ते शङ्करालयम् ।। ७८ ।।
पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् ।।
यः शृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् ।। ७९ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनक संवादे विष्णुशङ्करस्तोत्रकथनं नामैकोनविंशोऽध्यायः ।। १९ ।।