ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः २७

← अध्यायः २६ ब्रह्मवैवर्तपुराणम्
अध्यायः २७
वेदव्यासः
अध्यायः २८ →

नारद उवाच ।।
भक्ष्यं किं वाऽप्यभक्ष्यं च द्विजानां गृहिणां प्रभो ।।
यतीनां वैष्णवानां च विधवाब्रह्मचारिणाम् ।। १ ।।
किं कर्त्तव्यमकर्त्तव्यमभोग्यं भोग्यमेव वा ।।
सर्वं कथय सर्वज्ञ सर्वेशः सर्वकारणम् ।। २ ।।
महेश्वर उवाच ।।
कश्चित्तपस्वी विप्रश्च निराहारी चिरं मुनिः ।।
कश्चित्समीरणाहारी फलाहारी च कश्चन ।। ३ ।।
अन्नाहारी यथा काले गृही च गृहिणीयुतः ।।
येषामिच्छा च या ब्रह्मन्रुचीनां विविधा गतिः ।। ४ ।।
हविष्यान्नं ब्राह्मणानां प्रशस्तं गृहिणां सदा ।।
नारायणोच्छिष्टमिष्टमभक्ष्यमनिवेदितम् ।। ५ ।।
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदितम्।।
विण्मूत्रं सर्वथा प्रोक्तमन्नं च हरिवासरे ।।६।।
ब्राह्मणः कामतोऽन्नं च यो भुङ्क्ते हरिवासरे।।
त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः।।७।।
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं च नारद ।।
गृहिभिर्ब्राह्मणैरन्नं संप्राप्ते हरिवासरे ।।८।।
गृही शैवश्च शाक्तश्च ब्राह्मणो ज्ञानदुर्बलः ।।
प्रयाति कालसूत्रं च भुक्त्वा च हरिवासरे ।। ९ ।।
कृमिभिः शालिमानैश्च भक्षितस्तत्र तिष्ठति ।।
विण्मूत्रभोजनं कृत्वा यावदिन्द्राश्चतुर्दश ।। 1.27.१० ।।
जन्माष्टमीदिने रामनवमीदिवसे हरेः।।
शिवरात्रौ च यो भुङ्क्ते सोऽपि द्विगुणपातकी ।। ११ ।।
उपवासासमर्थश्च फलं मूलं जलं पिबेत् ।।
नष्टे शरीरे स भवेदन्यथा चात्मघातकः ।।१२।।
सकृद्भुङ्क्ते हविष्यान्नं विष्णोर्नैवेद्यमेव च।।
न भवेत्प्रत्यवायी स चोपवासफलं लभेत् ।। १३ ।।
एकादश्यामनाहारं गृही विप्रश्च भारते ।।
स च तिष्ठति वैकुण्ठे यावद्वै ब्रह्मणो वयः ।। १४ ।।
गृहिणां शैवशाक्तानामिदमुक्तं च नारद ।।
विशेषतो वैष्णवानां यतीनां ब्रह्मचारिणाम् ।। १५ ।।
नित्यं नैवेद्यभोजो यः श्रीविष्णोस्स हि वैष्णवः ।।
नित्यं शतोपवासानां जीवन्मुक्तफलं भवेत् ।। १६ ।।
वाञ्छन्ति तस्य संस्पर्शं तीर्थान्यखिलदेवताः ।।
आलापं दर्शनं चैव सर्वपापप्रणाशनम् ।। १७ ।।
द्विः स्विन्नमन्नं पृथुकं शुद्धं देशविशेषके ।।
नात्यन्तशस्तं विप्राणां भक्षणे न निवेदने।। १८ ।।
अभक्ष्यं वै यतीनां च विधवाब्रह्मचारिणाम् ।।
ताम्बूलं च यथा ब्रह्मंस्तथैतद्वस्तु न ध्रुवम् ।। १९ ।।
ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचारिणाम् ।।
तपस्विनां च विप्रेन्द्र गोमांससदृशं ध्रुवम् ।। 1.27.२० ।।
सर्वेषां ब्राह्मणानां यदभक्ष्यं शृणु नारद ।।
यदुक्तं सामवेदे च हरिणा चाह्निकक्रमे ।। २१ ।।
ताम्रपात्रे पयःपानमुच्छिष्टे घृतभोजनम् ।।
दुग्धं लवणसार्द्धं च सद्यो गोमांसभक्षणम् ।। २२ ।।
नारिकेलोदकं कांस्ये ताम्रपात्रे स्थितं लघु ।।
ऐक्षवं ताम्रपात्रस्थं सुरातुल्यं न संशयः ।। २३ ।।
उत्थाय वामहस्तेन यस्तोयं पिबति द्विजः ।।
सुरापी च स विज्ञेयः सर्वधर्मबहिष्कृतः ।। २४ ।।
अनिवेद्यं हरेरन्नं भुक्तशेषं च नित्यशः ।।
पीतशेषजलं चैव गोमांससदृशं मुने ।। २५ ।।
वानिङ्गणफलं चैव गोमांसं कार्त्तिके स्मृतम् ।।
माघे च मूलकं चैव कलम्बी शयने तथा ।। २६ ।।
श्वेतवर्णं च तालं च मसूरं मत्स्यमेव च ।।
सर्वेषां ब्राह्मणानां च त्याज्यं सर्वत्र देशके ।। २७ ।।
मत्स्यांश्च कामतो भुक्त्वा सोपवासस्त्र्यहं वसेत् ।।
प्रायश्चित्तं ततः कृत्वा शुद्धिमाप्नोति वाडवः ।। २८ ।।
प्रतिपत्सु च कूष्माण्डमभक्ष्यं ह्यर्थनाशनम् ।।
द्वितीयायां च बृहतीभोजनेन स्मरेद्धरिम् ।। २९ ।।
अभक्ष्यं च पटोलं च शत्रुवृद्धिकरं परम् ।।
तृतीयायां चतुर्थ्यां च मूलकं धननाशनम् ।। 1.27.३० ।।
कलङ्ककारणं चैव पंचम्यां बिल्वभक्षणम् ।।
तिर्य्यग्योनिं प्रापयेत्तु षष्ठ्यां वै निम्बभक्षणम् ।। ३१ ।।
रोगवृद्धिकरं चैव नराणां तालभक्षणम्।।
सप्तम्यां च तथा तालं शरीरस्य च नाशकम् ।। ३२ ।।
नारिकेलफलं भक्ष्यमष्टम्यां बुद्धिनाशनम् ।।
तुम्बी नवम्यां गोमांसं दशम्यां च कलम्बिका ।। ३३ ।।
एकादश्यां तथा शिम्बी द्वादश्यां पूतिका तथा ।।
त्रयोदश्यां च वार्त्ताकी न भक्ष्या पुत्रनाशनम् ।।३४।।
चतुर्दश्यां माषभक्ष्यं महापापकरं परम् ।।
पञ्चदश्यां तथा मांसमभक्ष्यं गृहिणां मुने ।।३५।।
गृहिणां प्रोक्षितं मांसं भक्ष्यमन्यदिनेषु च ।।
प्रातः स्नाने तथा श्राद्धे पार्वणे व्रतवासरे ।। ३६ ।।
प्रशस्तं सार्षपं तैलं पक्वतैलं च नारद ।।
कुहूपूर्णेन्दुसंक्रांतिचतुर्दश्यष्टमीषु च ।।३७।।
रवौ श्राद्धे व्रताहे च दुष्टं स्त्रीतिलतैलकम् ।।
मांसं च रक्तशाकं च कांस्यपात्रे च भोजनम् ।। ३८ ।।
निषिद्धं शयनं चैव कूर्ममांसं च मन्त्रितम् ।।
निषिद्धं सर्ववर्णानां दिवा स्वस्त्रीनिषेवणम् ।। ३९ ।।
रात्रौ च दधि भक्ष्यं च शयनं सन्ध्ययोर्दिने ।।
रजस्वलास्त्रीगमनमेतन्नरककारणम् ।। 1.27.४० ।।
उदक्यवीरयोरन्नं पुंश्चल्यन्नमभक्षकम् ।।
शूद्रान्नं याजकान्नं च शूद्रश्राद्धान्नमेव च ।।४१।।
अभक्ष्यान्नं च विप्रर्षे यदन्नं वृषलीपतेः ।।
ब्रह्मन्वार्धुषिकान्नं च गणकान्नमभक्षकम् ।। ४२ ।।
अग्रदानिद्विजान्नं च चिकित्साकारकस्य च ।।
हस्तचित्राहरौ तैलमग्राह्यं चाप्यभक्षकम् ।। ४३ ।।
मूले मृगे भाद्रपदे मांसं गोमांसतुल्यकम् ।।
अमायां कृत्तिकायां च द्विजैः क्षौरं विवर्जितम् ।। ४४ ।।
कृत्वा तु मैथुनं क्षौरं यो देवांस्तर्पयेत्पितॄन् ।।
रुधिरं तद्भवेत्तोयं दाता च नरकं व्रजेत् ।। ४५ ।।
यत्कर्त्तव्यमकर्त्तव्यं यद्भोज्यं यदभोज्यकम् ।।
सर्वं तुभ्यं निगदितं किं भूयः श्रोतुमिच्छसि ।। ४६ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारदं प्रति शिवोपदेशे भक्ष्याभक्ष्यादिविवरणं नाम सप्तविंशतितमोऽध्यायः ।।२७।।