प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २७ ब्रह्मवैवर्तपुराणम्
अध्यायः २८
वेदव्यासः
अध्यायः २९ →

नारद उवाच ।।
श्रुतं सर्वं जगन्नाथ त्वत्प्रसादाज्जगद्गुरो ।।
भवान्ब्रह्मस्वरूपं च वद ब्रह्मनिरूपणम् ।। १ ।।
प्रभो किं ब्रह्म साकारं किं निराकारमीश्वर ।।
किं तद्विशेषणं किं वाऽप्यविशेषणमेव च ।।२।।
किं वा दृश्यमदृश्यं वा लिप्तं देहिषु किं न वा ।।
किं वा तल्लक्षणं शास्त्रे वेदे वा किं निरूपितम् ।। ३ ।।
ब्रह्मातिरिक्ता प्रकृतिः किं वा ब्रह्मस्वरूपिणी ।।
प्रकृतेर्लक्षणं किं वा सारभूतं श्रुतौ श्रुतम्।।४।।
प्राधान्यं तस्य सृष्टौ च द्वयोर्मध्ये वरं परम् ।।
विचार्य्य मनसा सर्वं सर्वज्ञ वद मां ध्रुवम् ।।५।।
नारदस्य वचः श्रुत्वा पञ्चवक्त्रः प्रहस्य च ।।
भगवान्कर्तुमारेभे परब्रह्मनिरूपणम् ।। ६ ।।
महादेव उवाच ।।
यद्यत्पृष्टं त्वया वत्स निगूढं ज्ञानमुत्तमम् ।।
सुदुर्लभं च वेदेषु पुराणेषु च नारद ।। ७ ।।
अहं ब्रह्मा च विष्णुश्च शेषो धर्मो महान्विराट्।।
सर्वं निरूपितं ब्रह्मन्नस्माभिः श्रुतिभिर्मुने ।। ८ ।।
यद्विशेषणयुक्तं च दृश्यं प्रत्यक्षमेव च ।।
तन्निरूपितमस्माभिर्वेदे वेदविदांवर।।९।।
वैकुण्ठे च पुरा पृष्टे धर्मेण ब्रह्मणा तदा ।।
यदुवाच हरिः किञ्चिन्निबोध कथयामि ते ।।1.28.१०।।
सारभूतं च तत्त्वानामज्ञानान्धकलोचनम्।।
द्वैधभ्रमतमोध्वंस सुप्रकृष्टप्रदीपकम्।।११।।
परमात्मस्वरूपं च परं ब्रह्म सनातनम्।।
सर्वदेहस्थितं साक्षिस्वरूपं देहिकर्मणाम्।।१२।।
प्राणाः पञ्च स्वयं विष्णुर्मनो ब्रह्मा प्रजापतिः ।।
सर्वज्ञानस्वरूपोऽहं शक्तिः प्रकृतिरीश्वरी ।। १३ ।।
आत्माधीना वयं सर्वे स्थिते तस्मिन्वयं स्थिताः ।।
गते गताश्च परमे नरदेवमिवानुगाः ।। १४ ।।
जीवस्तत्प्रतिबिम्बं च सर्वभोगी हि कर्मणाम् ।।
यथाऽर्कचन्द्रयो र्बिम्बं जलपूर्णघटेषु च ।। १५ ।।
बिम्बं घटेषु भग्नेषु प्रलीनं चन्द्रसूर्य्ययोः ।।
तथा लयप्रसंगे स जीवो ब्रह्मणि लीयते ।। १६ ।।
एकमेव परं ब्रह्म शेषे वत्स भवक्षये ।।
वयं प्रलीनास्तत्रैव जगदेतच्चराचरम् ।। १७ ।।
तच्च ज्योतिःस्वरूपं च मण्डलाकारमेव च ।।।
ग्रीष्ममध्याह्नमार्त्तण्डकोटिकोटिसमप्रभम्।।१८।।
आकाशमिव विस्तीर्णं सर्वव्यापकमव्ययम्।।
सुखदृश्यं यथा चन्द्रबिम्बं योगिभिरेव च ।। १९ ।।
वदन्ति योगिनस्तत्र परं ब्रह्म सनातनम् ।।
दिवानिशं च ध्यायन्ते सत्यं तत्सर्वमङ्गलम् ।। 1.28.२० ।।
निरीहं च निराकारं परमात्मानमीश्वरम् ।।
स्वेच्छामयं स्वतन्त्रं च सर्वकारणकारणम् ।। २१ ।।
परमानन्दरूपं च परमानन्दकारणम् ।।
परं प्रधानं पुरुषं निर्गुणं प्रकृतेः परम् ।।
तत्रैव लीना प्रकृतिः सर्वबीजस्वरूपिणी ।। २२ ।।
यथाऽग्नौ दाहिका शक्तिः प्रभा सूर्य्ये यथा मुने।।
यथा दुग्धे च धावल्यं जले शैत्यं यथैव च ।। २३ ।।
यथा शब्दश्च गगने यथा गन्धः क्षितौ सदा ।।
तथा हि निर्गुणं ब्रह्म निर्गुणा प्रकृतिस्तथा ।। २४ ।।
सृष्ट्युन्मुखेन तद् ब्रह्म चांशेन पुरुषः स्मृतः ।।
स एव सगुणो वत्स प्राकृतो विषयी स्मृतः ।। २५ ।।
त्रिगुणा सा हि तत्रैव परा च्छायामयी स्मृता।।२६।।
यथा मृदा कुलालश्च घटं कर्तुं क्षमः सदा।।
तथा प्रकृत्या तद्ब्रह्म सृष्टिं स्रष्टुं क्षमो मुने।।२७।।
स्वर्णेन कुण्डलं कर्त्तुं स्वर्णकारः क्षमो यथा ।।
तथा ब्रह्म तया सार्द्ध सृष्टिं कर्तुमिहेश्वरः ।। २८ ।।
कुलालसृष्टा न च मृन्नित्या चैव सनातनी ।।
न स्वर्णकारसृष्टं तत्स्वर्णं वा नित्यमेव च ।। २९ ।।
नित्यं तत्परमं ब्रह्म नित्या च प्रकृतिः स्मृता ।।
द्वयोः समं च प्राधान्यमिति केचिद्वदन्ति हि ।। 1.28.३० ।।
मृदं स्वर्णं समाहर्तुं कुलालस्वर्णकारकौ ।।
न समर्थौ च मृत्स्वर्णं तयोराहरणे क्षमम् ।। ३१ ।।
तस्मात्तत्प्रकृतेर्ब्रह्म परमेव च नारद ।।
इति केचिद्वदन्त्येवं द्वयोर्वै नित्यता ध्रुवम् ।। ३२ ।।
केचिद्वदन्ति तद्ब्रह्म स्वयं च प्रकृतिः पुमान् ।।
ब्रह्मातिरिक्ता प्रकृतिर्वदन्तीति च केचन ।। ३३ ।।
तद्ब्रह्म परमं धाम सर्वकारणकारणम् ।।
तद्ब्रह्मलक्षणं ब्रह्मन्निदं किंचिच्छ्रुतौ श्रुतम् ।। ३४ ।।
ब्रह्म चात्मा च सर्वेषां निर्लिप्तं साक्षिरूपि च ।।
सर्वव्यापि च सर्वादि लक्षणं च श्रुतौ श्रुतम्।।३५।।
तद्ब्रह्मशक्तिः प्रकृतिः सर्वबीजस्वरूपिणी ।।
यतस्तच्छक्तिमद्ब्रह्म चेदं प्रकृतिलक्षणम् ।। ३६ ।।
तेजोरूपं च तद्ब्रह्म ध्यायन्ते योगिनः सदा ।।
वैष्णवास्तन्न मन्यन्ते मद्भक्ताः सूक्ष्मबुद्धयः ।। ३७ ।।
तत्तेजः कस्य नाश्चर्य्यं ध्यायन्ते पुरुषं विना ।।
कारणेन विना कार्य कुतो वा प्रभवेद्भुवि ।। ३८ ।।
ध्यायन्ते वैष्णवास्तस्मात्तत्र रूपं मनोहरम् ।।
स्वेच्छामयस्य पुंसश्च साकारस्यात्मनः सदा ।। ३९ ।।
तत्तेजोमण्डलाकारे सूर्य्यकोटिसमप्रभे ।।
नित्यं स्थलं च प्रच्छन्नं गोलोकाभिधमेव च ।।1.28.४०।।
लक्षकोट्या योजनानां चतुरस्रं मनोहरम् ।।
रत्नेन्द्रसारनिर्माणैर्गोपीभिश्चावृतं सदा ।।४१।।
सुदृश्यं वर्तुलाकारं यथा चन्द्रस्य मण्डलम् ।।
नानारत्नैश्च खचितं निराधारं तदिच्छया ।। ४२ ।।
ऊर्ध्वं च नित्यवैकुण्ठात्पञ्चाशत्कोटियोजनम् ।।
गोगोपगोपीसंयुक्तं कल्पवृक्षसमन्वितम् ।। ४३ ।।
कामधेनुभिराकीर्णं रासमण्डलमण्डितम् ।।
वृन्दावनवनाच्छत्रं विरजावेष्टितं मुने ।। ४४ ।।
शतशृङ्गं शातकुम्भैः सुदीप्तं श्रीमदीप्सितम् ।। ।
लक्षकोट्या परिमितैराश्रमैः सुमनोहरैः ।। ४५ ।।
शतमन्दिरसंयुक्तमाश्रमं सुमनोहरम् ।।
प्राकारपरिखायुक्तं पारिजातवनान्वितम्।। ।। ४६ ।।
कौस्तुभेन्द्रेण मणिना राजितं परमोज्ज्वलम् ।।
हीरसारसुसंक्लृप्तसोपानैश्चातिसुन्दरैः ।। ४७ ।।
मणीन्द्रसाररचितैः कपाटैर्दर्पणान्वितैः ।।
नानाचित्रविचित्राढ्यैराश्रमं च सुसंस्कृतम् ।। ४८ ।।
षोडशद्वारसंयुक्तं सुदीप्तं रत्नदीपकैः ।।
रत्नसिंहासने रम्ये महार्घमणिनिर्मिते ।। ४९ ।।
नानाचित्रविचित्राढ्ये वसन्तं वरमीश्वरम् ।।
नवीननीरदश्यामं किशोरवयसं शिशुम् ।। 1.28.५० ।।
शरन्मध्याह्नमार्त्तण्डप्रभामोचकलोचनम् ।।
शरत्पार्वणपूर्णेन्दुशुभदीप्तिमदाननम् ।। ५१ ।।
कोटिकन्दर्पलावण्यलीलानिन्दितमन्मथम् ।।
कोटिचन्द्रप्रभाजुष्टं पुष्टं श्रीयुक्तविग्रहम् ।।५२।।
सस्मितं मुरलीहस्तं सुप्रशस्तं सुमङ्गलम् ।।
परमोत्तमपीतांशुकयुगेन समुज्ज्वलम् ।। ५३ ।।
चन्दनोक्षितसर्वांगं कौस्तुभेन विराजितम् ।।
आजानु मालतीमालावनमालाविभूषितम् ।। ५४ ।।
त्रिभङ्गभङ्ग्या संयुक्तं मणिमाणिक्यभूषितम् ।।
मयूरपुच्छचूडं च सद्रत्नमुकुटोज्ज्वलम् ।।५५।।
रत्नकेयूरवलयरत्नमञ्जीररञ्जितम् ।।
रत्नकुण्डलयुग्मेन गण्डस्थलसुशोभितम् ।। ५६ ।।
मुक्तापङ्क्तिसदृक्षाभदशनं सुमनोहरम् ।।
पक्वबिम्बाधरोष्ठं च नासिकोन्नतिशोभनम् ।। ।। ५७ ।।
वीक्षितं गोपिकाभिश्च वेष्टिताभिस्समन्ततः ।।
स्थिरयौवनयुक्ताभिः सस्मिताभिश्च सादरम् ।। ५८ ।।
भूषिताभिश्च सद्रत्ननिर्मितैर्भूषणैः परम् ।।
सुरेन्द्रैश्च मुनीन्द्रैश्च मुनिभिर्मानवेन्द्रकैः ।। ५९ ।।
ब्रह्मविष्णुशिवानन्तधर्माद्यैर्वन्दितं मुदा ।।
भक्तप्रियं भक्तनाथं भक्तानुग्रहकारकम् ।। 1.28.६० ।।
रासेश्वरं सुरसिकं राधावक्षस्थलस्थितम् ।।
एवंरूपमरूपं तं मुने ध्यायन्ति वैष्णवाः ।। ।। ६१ ।।
सततं ध्येयमस्माकं परमात्मानमीश्वरम् ।।
अक्षरं परमं ब्रह्म भगवन्तं सनातनम् ।। ६२ ।।
स्वेच्छामयं निर्गुणं च निरीहं प्रकृतेः परम् ।।
सर्वाधारं सर्वबीजं सर्वज्ञं सर्वमेव च ।। ६३ ।।
सर्वेश्वरं सर्वपूज्यं सर्वसिद्धिकरं प्रदम् ।।
स एव भगवानादिर्गोलोके द्विभुजः स्वयम् ।। ६४ ।।
गोपवेषश्च गोपालैः पार्षदैः परिवेष्टितः ।।
परिपूर्णतमः श्रीमान् श्रीकृष्णो राधिकेश्वरः ।। ६९ ।।
सर्वान्तरात्मा सर्वत्र प्रत्यक्षः सर्वगः स्मृतः ।।
कृषिश्च सर्ववचनो नकारश्चात्मवाचकः ।।
सर्वात्मा च परं ब्रह्म तेन कृष्णः प्रकीर्तितः ।। ६६ ।।
कृषिश्च सर्ववचनो नकारश्चादिवाचकः ।।
सर्वादिपुरुषो व्यापी तेन कृष्णः प्रकीर्तितः ।। ६७ ।।
स एवांशेन भगवान्वैकुण्ठे च चतुर्भुजः ।।
चतुर्भुजैः पार्षदैस्तैरावृतः कमलापतिः ।। ६८ ।।
स एव कलया विष्णुः पाता च जगतां प्रभुः ।।
श्वेतद्वीपे सिन्धुकन्यापतिरेव चतुर्भुजः ।। ६९ ।।
एतत्ते कथितं सर्वं परब्रह्मस्वरूपकम् ।।
अस्माकं चिन्तनीयं च सेव्यं वन्दितमीप्सितम् ।। 1.28.७० ।।
इत्युक्त्वा शङ्करस्तत्र विरराम च शौनक ।।
गन्धर्वराजस्तोत्रेण तुष्टुवे तं च नारदः ।।७१ ।।
मुनिस्तोत्रेण सन्तुष्टो भगवानादिरच्युतः ।।
ज्ञानं मृत्युञ्जयस्तस्मै प्रददौ वरमीप्सितम् ।। ७२ ।।
मुनीन्द्रस्तं संप्रणम्य प्रहृष्टवदनेक्षणः ।।
तदाज्ञया पुण्यरूपं ययौ नारायणाश्रमम् ।। ७३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे ब्रह्मस्वरूपवैकुण्ठादिवर्णनं नारदप्रस्थानं नामाष्टाविंशतितमोऽध्यायः ।। २८ ।।