ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः २९
← अध्यायः २८ | ब्रह्मवैवर्तपुराणम् अध्यायः २९ वेदव्यासः |
अध्यायः ३० → |
सौतिरुवाच ।।
ददर्शाश्रममाश्चर्य्यं देवर्षिर्नारदस्तथा ।।
ऋषिर्नारायणस्यैव बदरीवनसंयुतम् ।। १ ।।
नानावृक्षफलाकीर्णं पुंस्कोकिलरुतश्रुतम् ।।
शरभेन्द्रैः केसरीन्द्रैर्व्याघ्रौघैः परिवेष्टितम् ।। २ ।।
ऋषीन्द्रस्य प्रभावेण हिंसाभयविवर्जितम् ।।
महारण्यमगम्यं च स्वर्गादपि मनोहरम् ।। ३ ।।
सिद्धेन्द्राणां मुनीन्द्राणामाश्रमाणां त्रिकोटिभिः ।।
आवृतं चन्दनारण्यैः पारिजातवनान्वितम् ।। ४ ।।
ददर्श तमृषीन्द्रं च सभामध्ये मनोहरम् ।।
रत्नसिंहासनस्थं च वसन्तं योगिनां गुरुम् ।। ५ ।।
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ।।
प्रणनाम च तं दृष्ट्वा ब्रह्मपुत्रश्च शौनक ।। ६ ।।
उत्थाय सहसाऽऽलिङ्ग्य युयुजे परमाशिषम् ।।
पप्रच्छ कुशलं स्नेहाच्चकारातिथिपूजनम् ।।७।।
रत्नसिंहासने रम्ये वासयामास नारदम् ।।
निवसन्नासने रम्ये वर्त्मश्रमविवर्जितः ।। ८ ।।
उवाच तमृषिश्रेष्ठं भगवन्तं सनातनम् ।।
अधीत्य वेदान्सर्वांश्च पितुः स्थाने सुदुर्गमान् ।।९।।
ज्ञानं सम्प्राप्य योगीन्द्रान्मन्त्रं वै शङ्कराद्विभो ।।
मनो मे न हि तृप्नोति दुर्निवारं च चंचलम् ।।1.29.१०।।
दृष्टं मया त्वत्पदाब्जं मनसा प्रेरितेन च ।।
किंचिज्ज्ञानविशेषं च लब्धुमिच्छामि साम्प्रतम् ।। ११ ।।
यत्र कृष्णगुणाख्यानं जन्ममृत्युजरापहम् ।। १२ ।।
ब्रह्मविष्णुशिवाद्याश्च सुरेन्द्रश्च सुरा विभो ।।
कं चिन्तयन्ति मुनयो मनवश्च विचक्षणाः।।१३।।
कस्मात्सृष्टिश्च भवति कुत्र वा संप्रलीयते।।
को वा सर्वेश्वरो विष्णुः सर्वकारणकारकः।।१४।।
तस्येश्वरस्य किं रूपं कर्म वा किं जगत्पते ।।
विचार्य्य मनसा सर्वं तद्भवान्वक्तुमर्हति।।१५।।
नारदस्य वचः श्रुत्वा प्रहस्य भगवानृषिः।।
कथां कथितुमारेभे पुण्यां भुवनपावनीम् ।। १६ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे नारायणं प्रति नारदप्रश्नो नामैकोनत्रिंशत्तमोऽध्यायः ।। २९ ।।