ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०३
← अध्यायः ०२ | ब्रह्मवैवर्तपुराणम् अध्यायः ०३ वेदव्यासः |
अध्यायः ०४ → |
श्रीनारायण उवाच ।।
अथाण्डं तज्जलेऽतिष्ठद्यावद्वै ब्रह्मणो वयः ।।
ततः स्वकाले सहसा द्विधारूपो बभूव सः ।।१।।
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः।।
क्षणं रोरूयमाणश्च स शिशुः पीडितः क्षुधा।।२।।
पितृमातृपरित्यक्तो जलमध्ये निराश्रयः ।।
नैकब्रह्माण्डनाथो यो ददर्शोर्ध्वमनाथवत् ।। ३ ।।
स्थूलात्स्थूलतमः सोऽपि नाम्ना देवो महाविराट् ।।
परमाणुर्यथा सूक्ष्मात्परः स्थूलात्तथाऽप्यसौ ।। ४ ।।
तेजसां षोडशांशोऽयं कृष्णस्य परमात्मनः ।।
आधारोऽसंख्यविश्वानां महाविष्णुस्सुरेश्वरः ।। ५ ।।
प्रत्येकं रोमकूपेषु विश्वानि निखिलानि च ।।
अद्यापि तेषां संख्यां च कृष्णो वक्तुं न हि क्षमः ।। ६ ।।
यथाऽस्ति संख्या रजसां विश्वानां न कदाचन ।।
ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते ।। ७ ।।
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः ।।
पातालाद्ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्त्तितम् ।। ८ ।।
तत ऊर्ध्वे च वैकुण्ठो ब्रह्माण्डाद्बहिरेव सः ।।
स च सत्यस्वरूपश्च शश्वन्नारायणो यथा ।। ९ ।।
तदूर्ध्वे गोलकश्चैव पञ्चाशत्कोटियोजनात् ।।
नित्यः सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् ।। 2.3.१० ।।
सप्तद्वीपमिता पृथ्वी सप्तसागरसंयुता ।।
एकोनपञ्चाशदुपद्वीपाऽसंख्यवनान्विता ।। ११ ।।
ऊर्ध्वं सप्त सुवर्लोका ब्रह्मलोकसमन्विताः ।।
पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च ।। १२ ।।
ऊर्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परः ।।
स्वर्लोकस्तु ततः पश्चान्महर्लोकस्ततो जनः ।। १३ ।।
ततः परस्तपोलोकः सत्यलोकस्ततः परः ।।
ततः परो ब्रह्मलोकस्तप्तकाञ्चननिर्मितः ।। ।।१४ ।।
एवं सर्वं कृत्रिमं तद्बाह्याभ्यन्तर एव च ।।
तद्विनाशे विनाशश्च सर्वेषामेव नारद ।। १५ ।।
जलबुदुदवत्सर्वं विश्वसंघमनित्यकम् ।।
नित्यौ गोलोकवैकुण्ठौ सत्यौ शश्वदकृत्रिमौ ।। १६ ।।
लोमकूपे च विध्यण्डं प्रत्येकं तस्य निश्चितम् ।।
एषां संख्यां न जानाति कृष्णोऽन्यस्यापि का कथा ।। १७ ।।
प्रत्येकं प्रतिविध्यण्डे ब्रह्मविष्णुशिवादयः ।।
तिस्रः कोट्यः सुराणां च संख्या सर्वत्र पुत्रक ।। १८ ।।
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ।।
भुवि वर्णाश्च चत्वारोऽधो नागाश्च चराचराः ।। १९ ।।
अथ कालेन स विराडूर्ध्वं दृष्ट्वा पुनः पुनः ।।
डिम्भान्तरं च शून्यं च न द्वितीयं कथंचन ।। 2.3.२० ।।
चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः ।।
ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् ।। २१ ।।
ततो ददर्श तत्रैव ब्रह्म ज्योतिः सनातनम् ।।
नवीननीरदश्यामं द्विभुजं पीतवाससम् ।। २२ ।।
सस्मितं मुरलीहस्तं भक्तानुग्रहकारकम् ।।
जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् ।। २३ ।।
वरं तस्मै ददौ तुष्टो वरेशः समयोचितम्।।
मत्समो ज्ञानयुक्तश्व क्षुत्पिपासाविवर्जितः ।। २४ ।।
ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि ।।
निष्कामो निर्भयश्चैव सर्वेषां वरदो वरः ।।
रोगमृत्युजराशोकपीडादिपरिवर्जितः ।। २५ ।।
इत्युक्त्वा तद्दक्षकर्णे महामन्त्रं षडक्षरम् ।।
त्रिः कृत्वा प्रजजापादौ वेदाङ्गमवरं परम् ।। २६ ।।
प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ।।
वह्निज्वालान्तमिष्टं च सर्वविघ्नहरं परम् ।। २७ ।।
मन्त्रं दत्त्वा तदाहारं कल्पयामास वै प्रभुः।।
श्रूयतां तद्ब्रह्मपुत्र निबोध कथयामि ते ।। २८ ।।
प्रतिविश्वेषु नैवेद्यं दद्याद्वै वैष्णवो जनः ।।
षोडशांशं विषयिणो विष्णोः पञ्चदशास्य वै ।। २९ ।।
निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ।।
नैवेद्येन च कृष्णस्य नहि किञ्चित्प्रयोजनम् ।। 2.3.३० ।।
यद्ददाति व नैवेद्यं यस्मै देवाय यो जनः ।।
स च खादति तत्सर्वं लक्ष्मीदृष्ट्या पुनर्भवेत् ।। ३१ ।।
तं च मन्त्रं वरं दत्त्वा तमुवाच पुनर्विभुः ।।
अन्यो वरः क इष्टस्ते तं मे ब्रूहि ददामि ते ।। ३२ ।।
कृष्णस्य वचनं श्रुत्वा तमुवाच महाविराट् ।।
अदन्तो बालकस्तत्र वचनं समयोचितम् ।। ३३ ।।
महाविराडुवाच ।।
वरं मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला ।।
सन्ततं यावदायुर्मे क्षणं वा सुचिरं च वा ।। ३४ ।।
त्वद्भक्तियुक्तो यो लोके जीवन्मुक्तः स सन्ततम् ।।
त्वद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः ।। ३५ ।।
किं तज्जपेन तपसा यज्ञेन यजनेन च ।।
व्रतेनैवोपवासेन पुण्यतीर्थनिषेवया ।। ३६ ।।
कृष्णभक्तिविहीनस्य पुंसः स्याज्जीवनं वृथा ।।
येनात्मना जीवितश्च तमेव नहि मन्यते ।। ३७ ।।
यावदात्मा शरीरेऽस्ति तावत्स्याच्छक्तिसंयुतः ।।
पश्चाद्यान्ति गते तस्मिन्न स्वतन्त्राश्च शक्तयः ।।३८।।
स च त्वं च महाभाग सर्वात्मा प्रकृतेः परः ।।
स्वेच्छामयश्च सर्वाद्यो ब्रह्म ज्योतिः सनातनः ।। ३९ ।।
इत्युक्त्वा बालकस्तत्र विरराम च नारद ।।
उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम् ।। 2.3.४० ।।
श्रीकृष्ण उवाच ।।
सुचिरं सुस्थिरं तिष्ठ यथाऽहं त्वं तथा भव ।।
असंख्यब्रह्मणां पाते पातस्ते न भविष्यति ।। ४१ ।।
अंशेन प्रतिविध्यण्डे त्वं च पुत्र विराड् भव ।।
त्वन्नाभिपद्मे ब्रह्मा च विश्वस्रष्टा भविष्यति ।। ४२ ।।
ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव तु ।।
शिवांशेन भविष्यन्ति सृष्टिसंचरणाय वै ।। ४३ ।।
कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ।।
पाता विष्णुश्च विषयी क्षुद्रांशेन भविष्यति।। ।। ४४ ।।
मद्भक्तियुक्तः सततं भविष्यसि वरेण मे ।।
ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ।। ४५ ।।
मातरं कमनीयां च मम वक्षःस्थलस्थिताम् ।।
यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत ।। ४६ ।।
गत्वा च नाकं ब्रह्माणं शङ्करं स उवाच ह ।।
स्रष्टारं स्रष्टुमीशं च संहर्तारं च तत्क्षणम्।।४७।।
श्रीकृष्ण उवाच ।।
सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव।।
महाविराड् लोमकूपे क्षुद्रस्य च विधेः शृणु ।। ४८ ।।
गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव ।।
अंशेन च महाभाग स्वयं च सुचिरं तपः ।। ४९ ।।
इत्युक्त्वा जगतां नाथो विरराम विधेः सुतः ।।
जगाम नत्वा तं ब्रह्मा शिवश्च शिवदायकः ।। 2.3.५० ।।
महाविराड् लोमकूपे ब्रह्माण्डे गोलके जले ।।
स बभूव विराट्क्षुद्रो विराडंशेन साम्प्रतम् ।। ५१ ।।
श्यामो युवा पीतवासाः शयानो जलतल्पके।।
ईषद्धासः प्रसन्नास्यो विश्वरूपी जनार्दनः ।। ५२ ।।
तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः ।।
संभूय पद्मदण्डं च बभ्राम युगलक्षकम् ।। ५३ ।।
नान्तं जगाम दण्डस्य पद्मनाभस्य पद्मजः ।।
नाभिजस्य च पद्मस्य चिन्तामाप पितामहः ।। ५४ ।।
स्वस्थानं पुनरागत्य दध्यौ कृष्णपदाम्बुजम् ।।
ततो ददर्श क्षुद्रं तं ध्यात्वा तद्दिव्यचक्षुषा ।। ५५ ।।
शयानं जलतल्पे च ब्रह्माण्डपिण्डमावृते ।।
यल्लोमकूपे ब्रह्माण्डं तं च तत्परमीश्वरम् ।। ५६ ।।
श्रीकृष्णं चापि गोलोकं गोपगोपीसमन्वितम् ।।
तं संस्तूय वरं प्राप ततः सृष्टिं चकार सः ।। ५७ ।।
बभूवुर्ब्रह्मणः पुत्रा मानसाः सनकादयः ।।
ततो रुद्राः कपालाच्च शिवस्यैकादश स्मृताः ।। ५८ ।।
बभूव पाता विष्णुश्च वामे क्षुद्रस्य पार्श्वतः ।।
चतुर्भुजश्च भगवाञ्श्वेतद्वीपनिवासकृत् ।। ५९ ।।
क्षुद्रस्य नाभिपद्मे च ब्रह्मा विश्वं ससर्ज सः ।।
स्वर्गं मर्त्यं च पातालं त्रिलोकं सचराचरम् ।। 2.3.६० ।।
एवं सर्वं लोमकूपे विश्वं प्रत्येकमेव च ।।
प्रतिविश्वं क्षुद्रविराड् ब्रह्म विष्णुशिवादयः ।। ६१ ।।
इत्येवं कथितं वत्स कृष्णसङ्कीर्त्तनं शुभम् ।।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।। ६२ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे विश्वब्रह्माण्डवर्णनं नाम तृतीयोऽध्यायः।।३।।