ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०४

← अध्यायः ०३ ब्रह्मवैवर्तपुराणम्
अध्यायः ०४
वेदव्यासः
अध्यायः ०५ →

नारद उवाच ।।
श्रुतं सर्वमपूर्वं च त्वत्प्रसादात्सुधोपमम् ।।
अधुना प्रकृतीनां च व्यासं वर्णय भो प्रभो ।। १ ।।
कस्याः पूजा कृता केन कथं मर्त्ये प्रका शिता ।।
केन वा पूजिता का वा केन का वा स्तुता मुने ।।२।।
कवचं स्तोत्रकं ध्यानं प्रभावं चरितं शुभम् ।।
काभिः काभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ।। ३ ।।
नारायण उवाच ।।
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।।
सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ।। ४ ।।
आसीत्पूज्या प्रसिद्धा च प्रभावः परमाद्भुतः ।।
सुधोपमं च चरितं सर्वमङ्गलकारणम् ।। ५ ।।
प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् ।।
सर्वं वक्ष्यामि ते ब्रह्मन्सावधानं निशामय ।। ६ ।।
वाणी वसुन्धरा गङ्गा षष्ठी मङ्गलच ण्डिका ।।
तुलसी मानसी निद्रा स्वधा स्वाहा च दक्षिणा ।। ७ ।।
तेजसा मत्समास्ताश्च रूपेण च गुणेन च ।। ८ ।।
संक्षेपमासां चरितं पुण्यदं अतिसुन्दरम् ।।
जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ।। ९ ।।
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् ।।
तच्च पश्चात्प्रवक्ष्यामि संक्षेपात्क्रमतः शृणु ।। 2.4.१० ।।
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता ।।
यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ।। ११ ।।
आविर्भूता यदा देवी वक्त्रतः कृष्णयोषितः ।।
इयेष कृष्णं कामेन कामुकी कामरूपिणी ।। १२ ।।
स च विज्ञाय तद्भावं सर्वज्ञः सर्वमातरम् ।।
तामुवाच हितं सत्यं परिणामसुखावहम् ।। १३ ।।
श्रीकृष्ण उवाच ।।
भज नारायणं साध्वि मदंशं च चतुर्भुजम् ।।
युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ।। १४ ।।
कामदं कामिनीनां च तासां तं कामपूरकम् ।।
कोटिकन्द र्पलावण्यं लीलान्यक्कृतमन्मथम् ।। १५ ।।
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि ।।
त्वत्तो बलवती राधा न ते भद्रं भविष्यति ।। १६ ।।
यो यस्माद्बलवान्वाऽपि ततोऽन्यं रक्षितुं क्षमः ।।
कथं परान्साधयति यदि स्वयमनीश्वरः ।। १७ ।।
सर्वेशस्सर्वशास्ताऽहं राधां राधितुमक्षमः ।।
तेजसा मत्समा सा च रूपेण च गुणेन च ।। १८ ।।
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः ।।
प्राणतोऽपि प्रियः कुत्र केषां वाऽस्ति च कश्चन ।। १९ ।।
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ।।
पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ।। 2.4.२० ।।
विवर्जिता लोभमोहकामकोपेन हिंसया ।।
तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ।। २१ ।।
तया सार्द्धं भव प्रीत्या सुखं कालं प्रयास्यति ।।
गौरवं चापि तत्तुल्यं करिष्यति पतिर्द्वयोः ।। २२ ।।
प्रतिविश्वेषु ते पूजां महतीं ते मुदाऽन्विताः ।।
माघस्य शुक्लपञ्चम्यां विद्यारम्भेषु सुन्दरि ।। २३ ।।
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ।।
सन्तश्च योगिनः सिद्धा नागगन्धर्वकिंनराः ।। २४ ।।
मद्वरेण करिष्यन्ति कल्पे कल्पे यथाविधि ।।
भक्तियुक्ताश्च दत्त्वा वै चोपचारांश्च षोडश ।।२५।।
काण्वशाखोक्तविधिना ध्यानेन स्तवनेन च ।।
जितेन्द्रियाः संयताश्च पुस्तकेषु घटेऽपि च ।। २६ ।।
कृत्वा सुवर्णगुटिकां गन्धचन्दन चर्च्चिताम् ।।
कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ।। २७ ।।
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ।।
इत्युक्त्वा पूजयामास तां देवीं सर्वपूजितः ।। २८ ।।
ततस्तत्पूजनं चक्रुर्ब्रह्मविष्णुमहेश्वराः ।।
अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ।।२९।।
सर्वे देवाश्च मनवो नृपा वा मानवादयः ।।
बभूव पूजिता नित्या सर्वलोकैः सरस्वती ।। 2.4.३० ।।
नारद उवाच ।।
पूजाविधानं स्तवनं ध्यानं कवचमीप्सितम् ।।
पूजोपयुक्तं नैवेद्यं पुष्पं वा चन्दनादिकम् ।। ३१ ।।
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम ।।
वर्द्धते साम्प्रतं शश्वत्किमिदं श्रुतिसुन्दरम् ।। ३२ ।।
नारायण उवाच ।।
शृणु नारद वक्ष्यामि काण्वशाखोक्तपद्धतिम् ।।
जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम्।।३३।।
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च।।
पूर्वेऽह्नि संयमं कृत्वा तत्र स्यात्संयतः शुचिः ।।३४।।
स्नात्वा नित्यक्रियां कृत्वा घटं संस्थाप्य भक्तितः।।
संपूज्य देवषट्कं च नैवेद्यादिभिरेव च।।३५।।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्।।
संपूज्य संयतोऽग्रे च ततोऽभीष्टं प्रपूजयेत् ।। ३६ ।।
ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे बुधः ।।
ध्यात्वा पुनः षोडशोपचारैस्तां पूजयेद्व्रती ।।३७।।
पूजोपयुक्तं नैवेद्यं यद्यद्वेदे निरूपितम् ।।
वक्ष्यामि साम्प्रतं किञ्चिद्यथाऽधीतं यथाऽऽगमम् ।। ३८ ।।
नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकान् ।।
इक्षुमिक्षुरसं शुक्लवर्णं पक्वगुडं मधु ।। ३९ ।।
स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम्।।
अस्विन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् ।। 2.4.४० ।।
घृतसैन्धवसंस्कारैर्हविष्यैर्व्यञ्जनैस्तथा ।।
यवगोधूमचूर्णानां पिष्टकं घृतसंस्कृ तम् ।। ४१ ।।
पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ।।
परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् ।। ४२ ।।
नारिकेलं तदुदकं केशरं मूलमार्द्रकम् ।।
पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् ।।
कालदेशोद्भवं पक्वफलं शुक्लं सुसंस्कृतम् ।। ४३ ।।
सुगन्धि शुक्लपुष्पं च गन्धाढ्यं शुक्लचन्दनम् ।।
नवीनं शुक्लवस्त्रं च शङ्खं च सुमनोहरम् ।।
माल्यं च शुक्लपुष्पाणां मुक्ताहीरादिभूषणम् ।।। ।। ४४ ।।
यद्दृष्टं च श्रुतौ ध्यानं प्रशस्तं श्रुतिसुन्दरम् ।।
तन्निबोध महाभाग भ्रमभञ्जनकारणम् ।। ४५ ।।
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ।।
कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहाम् ।। ४६ ।।
वह्निशुद्धांशुकाधानां सस्मितां सुमनोहराम् ।।
रत्नसारेन्द्र खचितवरभूषणभूषिताम् ।। ४७ ।।
सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ।।
वन्दे भक्त्या वन्दिता तां मुनीन्द्रमनुमानवैः ।। ४८।।
एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ।।
संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्भुवि ।। ४९ ।।
येषां स्यादिष्टदेवीयं तेषां नित्यं शुभं मुने ।।
विद्यारम्भे च सर्वेषां वर्षान्ते पञ्चमीदिने ।। 2.4.५० ।।
सर्वोपयुक्तमूलं च वैदिकाष्टाक्षरः परः ।।
येषां यदुपदेशो वा तेषां तन्मूलमेव च ।।
सरस्वती चतुर्थ्यन्तो वह्निजायान्त एव च ।। ५१ ।।
श्रीं ह्रीं सरस्वत्यै स्वाहा ।।
लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः ।। ५२ ।।
पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ।।
प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते ।। ५३ ।।
भृगुर्ददौ च शुक्राय पुष्करे सूर्य्यपर्वणि ।।
चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा ।। ५४ ।।
भृगवे च ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ।।
आस्तीकाय जरत्कारुर्ददौ क्षीरोदसन्निधौ ।।
विभाण्डको ददौ मेरावृष्यशृङ्गाय धीमते ।। ५५ ।।
शिवः कणादमुनये गौतमाय ददौ मुने ।।
सूर्य्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ।। ५६ ।।
शेषः पाणिनये चैव भरद्वाजाय धीमते ।।
ददौ शाकटायनाय सुतले बलिसंसदि ।। ५७ ।।
चतुर्लक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।।
यदि स्यात्सिद्धमन्त्रो हि बृहस्पतिसमो भवेत् ।। ५८ ।।
कवचं शृणु विप्रेन्द्र यद्दत्तं विधिना पुरा ।।
विश्वश्रेष्ठं विश्वजयं भृगवे गन्धमादने ।। ५९ ।।
भृगुरुवाच ।।
ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्म ज्ञानविशारद ।।
सर्वज्ञ सर्वजनक सर्वपूजकपूजित ।। 2.4.६० ।।
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।।
अयातयाममन्त्राणां समूहो यत्र संयुतः ।। ६१ ।।
ब्रह्मोवाच ।।
शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ।। ६२ ।।
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।।
रासेश्वरेण विभुना रासे वै रासमण्डले ।। ६३ ।।
अतीव गोपनीयं च कल्पवृक्षसमं परम् ।।
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ।। ६४ ।।
यद्धृत्वा पठनाद्ब्रह्मन्बुद्धिमांश्च बृहस्पतिः ।।
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ।। ६५ ।।
पठनाद्धारणाद्वाग्ग्मी कवीन्द्रो वाल्मिकी मुनिः ।।
स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ।। ६६ ।।
कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।।
ग्रन्थं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ।। ६७ ।।
धृत्वा वेदविभागं च पुराणान्यखिलानि च ।।
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ।। ६८ ।।
शातातपश्च संवर्त्तो वसिष्ठश्च पराशरः ।।
यद्धृत्वा पठनाद्ग्रन्थं याज्ञवल्क्यश्चकार सः ।। ६९ ।।
ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा ।।
जैगीषव्योऽथ जाबालि यद्धृत्वा सर्व पूजितः ।। 2.4.७० ।।
कवचस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः ।।
स्वयं बृहस्पतिश्छन्दो देवो रासेश्वरः प्रभुः ।।७१।।
सर्वतत्त्वपरिज्ञाने सर्वार्थेऽपि च साधने ।।
कवितासु च सर्वासु विनियोगः प्रकीर्त्तितः ।। ७२ ।।
ॐ ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।।
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदाऽवतु ।। ७३ ।।
ॐ सरस्वत्यै स्वाहेति श्रोत्रं पातु निरन्तरम् ।।
ॐ श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदाऽवतु ।। ७४ ।।
ॐ ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोऽवतु ।।
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा श्रोत्रं सदाऽवतु ।। ।। ७५ ।।
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपंक्तीः सदाऽवतु ।।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदाऽवतु ।। ७६ ।।
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदाऽवतु ।।
श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदाऽवतु ।। ७७ ।।
ॐ ह्रीं विद्यास्वरूपायै स्वाहा मे पातु नाभिकाम् ।।
ॐ ह्रीं ह्रीं वाण्यै स्वाहेति मम पृष्ठं सदाऽवतु ।। ७८ ।।
ॐ सर्ववर्णात्मिकायै पादयुग्मं सदाऽवतु ।।
ॐ रागाधिष्ठातृदेव्यै सर्वाङ्गं मे सदाऽवतु।।७९।।
ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदाऽवतु ।।
ॐ ह्रीं जिह्वाप्रवासिन्यै स्वाहाऽग्नि दिशि रक्षतु ।। 2.4.८० ।।
ॐ ऐं ह्रीं श्रीं सरस्वत्यै बुधजनन्यै स्वाहा ।।
सततं मन्त्रराजोऽयं दक्षिणे मां सदाऽवतु ।। ८१ ।।
ॐ ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां मे सदाऽवतु ।।
कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ।। ८२ ।।
ॐ सदम्बिकायै स्वाहा वायव्ये मां सदाऽवतु ।।
ॐ गद्यपद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ।। ८३ ।।
ॐ सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदाऽवतु ।।
ॐ सर्वपूजितायै स्वाहा चोर्ध्वं सदाऽवतु ।। ८४ ।।
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाऽधो मां सदाऽवतु ।।
ॐ ग्रन्थबीजरूपायै स्वाहा मां सर्वतोऽवतु ।। ८५ ।।
इति ते कथितं विप्र सर्वमन्त्रौघविग्रहम् ।।
इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ।। ८६ ।।
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।।
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ।। ८७ ।।
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कार चन्दनैः ।।
प्रणम्य दण्डवद्भूमौ कवचं धारयेत्सुधीः ।। ८८ ।।
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।।
यदि स्यात्सिद्धकवचो बृह स्पतिसमो भवेत ।। ८९ ।।
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।।
शक्नोति सर्वं जेतुं स कवचस्य प्रभावतः ।।2.4.९०।।
इदं ते काण्वशाखोक्तं कथितं कवचं मुने।।
स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा।।९१।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सरस्वतीकवचं नाम चतुर्थोऽध्यायः ।। ४ ।।