ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०५

← अध्यायः ०४ ब्रह्मवैवर्तपुराणम्
अध्यायः ०५
वेदव्यासः
अध्यायः ०६ →

नारायण उवाच ।।
वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् ।।
महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा।।१।।
गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह।।
तदाऽऽजगाम दुःखार्तो रविस्थानं च पुण्यदम् ।। २ ।।
संप्राप्य तपसा सूर्य्यं कोणार्के दृष्टिगोचरे ।।
तुष्टाव सूर्य्यं शोकेन रुरोद च पुनः पुनः ।। ३ ।।
सूर्य्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः ।।
उवाच स्तुहि वाग्देवीं भक्त्या च स्मृतिहेतवे ।। ४ ।।
तमित्युक्त्वा दीननाथो ह्यन्तर्द्धानं जगाम सः ।।
मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ।।५।।
याज्ञवल्क्य उवाच ।।
कृपां कुरु जगन्मातर्मामेवं हततेजसम्।।
गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम्।।६।।
ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते ।।
प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिकाम्।।७।।
ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् ।।
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ।। ८ ।।
लुप्तां सर्वां दैववशान्नवां कुरु पुनः पुनः ।।
यथाऽङ्कुरं जनयति भगवान्योगमायया ।। ९ ।।
ब्रह्मस्वरूपा परमा ज्योतीरूपा सनातनी ।।
सर्वविद्याधिदेवी या तस्यै वाण्ये नमो नमः ।। 2.5.१० ।।
यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा ।।
ज्ञानाघिदेवी या तस्यै सरस्वत्यै नमो नमः ।। ११ ।।
यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा ।।
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ।। १२ ।।
हिमचन्दनकुन्देन्दुकुमुदाम्भोज सन्निभा ।।
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ।। १३ ।।
विसर्गबिन्दुमात्राणां यदधिष्ठानमेव च ।।
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ।।१४।।
यया विनाऽत्र संख्याकृत्संख्यां कर्त्तुं न शक्नुते ।।
कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः ।। ।। १५ ।।
व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता ।।
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ।। १६ ।।
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्तिस्वरूपिणी ।।
प्रतिभाकल्पनाशक्तिर्या च तस्यै नमो नमः ।। १७ ।।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ।।
बभूव जडवत्सोऽपि सिद्धान्तं कर्त्तुमक्षमः ।। १८।।
तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ।।
उवाच सत्तमं स्तोत्रं वाण्या इति विधिं तदा ।। १९ ।।
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ।।
चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।। 2.5.२० ।।
यदाऽप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा ।।
बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ।।२१।।
तदा त्वां च स तुष्टाव संत्रस्तः कश्यपाज्ञया।।
ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ।। २२ ।।
व्यासः पुराणसूत्रं च समपृच्छत वाल्मिकिम् ।।
मौनीभूतः स सस्मार त्वामेव जगदंबिकाम् ।।२३।।
तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ।।
स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ।।२४।।
पुराणसूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः।।
त्वां सिषेवे च दध्यौ च शतवर्षं च पुष्करे ।।
तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह ।।२५।।
तदा वै वेदभागं च पुराणानि चकार ह ।।
यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवम् ।। २६ ।।
क्षणं त्वामेव संचिन्त्य तस्यै ज्ञानं ददौ विभुः ।।
पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ।। २७ ।।
दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ।।
तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् ।।
उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ।। २८ ।।
अध्यापिताश्च यैः शिष्या यैरधीतं मुनीश्वरैः ।।
ते च त्वां परिसंचिन्त्य प्रवर्त्तन्ते सुरेश्वरि ।। २९ ।।
त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः ।।
दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ।। 2.5.३० ।।
जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः ।।
यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ।।३१ ।।
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ।।
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।। ३२ ।।
तदा ज्योतिस्त्वरूपा सा तेनादृष्टाऽप्युवाच तम् ।।
सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ।। ३३ ।।
याज्ञवल्क्यकृतं वाणीस्तोत्रं यः संयतः पठेत् ।।
स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् ।। ३४ ।।
महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् ।।
स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ।।३५।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे याज्ञवल्क्योक्तवाणीस्तवनं नाम पञ्चमोऽध्यायः।। ।। ५ ।।