प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १२ ब्रह्मवैवर्तपुराणम्
अध्यायः १३
वेदव्यासः
अध्यायः १४ →

नारद उवाच ।।
नारायणप्रिया साध्वी कथं सा च बभूव ह।।
तुलसी कुत्र सम्भूता का वा सा पूर्वजन्मनि ।।१।।
कस्य वा सा कुले जाता कस्य कन्या तपस्विनी ।।
केन वा तपसा सा च संप्राप प्रकृतेः परम् ।। २ ।।
निर्विकल्पं निरीहं च सर्वसाक्षिस्वरूपकम् ।।
नारायणं परं ब्रह्म परमात्मानमीश्वरम्।। ।।३।।
सर्वाराध्यं च सर्वेशं सर्वज्ञं सर्वकारणम् ।।
सर्वाधारं सर्वरूपं सर्वेषां परिपालनम् ।।४।।
कथमेतादृशी देवी वृक्षत्वं समवाप ह।।
कथं साऽप्यसुरग्रस्ता संबभूव तपस्विनी ।। ५ ।।
सन्दिग्धं मे मनो लोलं प्रेरयेन्मां मुहुर्मुहुः ।।
छेत्तुमर्हसि सन्देहं सर्वसन्देहभञ्जना। ।। ६ ।।
नारायण उवाच ।।
मनुश्च दक्षसावर्णिः पुण्यवान्वैष्णवः शुचिः ।।
यशस्वी कीर्तिमांश्चैव विष्णोरंशसमुद्भवः ।। ७ ।।
तत्पुत्रो धर्मसावर्णिर्धर्मिष्ठो वैष्णवः शुचिः ।।
तत्पुत्रो विष्णुसावर्णिर्वैष्णवश्च जितेन्द्रियः ।। ८ ।।
तत्पुत्रो देवसावर्णिर्विष्णुव्रतपरायणः ।।
तत्पुत्रो राजसावर्णिर्महाविष्णुपरायणः ।। ९ ।।
वृषध्वजश्च तत्पुत्रो वृषध्वजपरायणः ।।
यस्याश्रमे स्वयं शम्भुरासीद्दैवयुगत्रयम् ।। 2.13.१० ।।
पुत्रादपि परः स्नेहो नृपे तस्मिञ्छिवस्य च ।।
न च नारायणं मेने न च लक्ष्मीं सरस्वतीम् ।। ११ ।।
पूजां च सर्वदेवानां दूरीभूतां चकार सः ।।
भाद्रे मासि महालक्ष्मीपूजां मत्तोऽत्यजन्नृपः ।। १२ ।।
माघे सरस्वतीपूजां दूरीभूतां चकार सः ।।
यज्ञं च विष्णुपूजां च निनिन्दे न चकार सः ।। १३ ।।
न कोऽपि देवो भूपेन्द्रं शशाप शिवकारणात् ।।
भ्रष्टश्रीर्भव भूपेति चाशपत्तं दिवाकरः ।। १४ ।।
शूलं गृहीत्वा तं सूर्य्यं धृतवाच्छङ्करः स्वयम् ।।
पित्रा सार्द्ध दिनेशश्च ब्रह्माणं शरणं ययौ ।। १५ ।।
शिवस्त्रिशूलहस्तश्च ब्रह्मलोकं ययौ क्रुधा ।।
ब्रह्मा सूर्य्यं पुरस्कृत्य वैकुण्ठं च ययौ भिया ।। १६ ।।
शूलं गृहीत्वा तत्रापि धृतवाञ्छङ्करो रविम् ।।
ब्रह्मकश्यपमार्त्तण्डाः संत्रस्ताः शुष्कतालुकाः ।। १७ ।।
नारायणं च सर्वेशं ते ययुः शरणं भिया ।।
मूर्ध्ना प्रणेमुस्ते गत्वा तुष्टुवुश्च पुनः पुनः ।। १८ ।।
सर्वे निवेदनं चक्रुर्भियस्ते कारणं हरौ ।। १९ ।।
नारायणश्च कृपयाऽभयं तेभ्यो ददौ मुने ।।
स्थिरा भवत हे भीता भयं किं वो मयि स्थिते।।2.13.२०।।
स्मरन्ति ये यत्र तत्र मां विपत्तौ भयान्विताः ।।
तांस्तत्र गत्वा रक्षामि चक्र हस्तस्त्वरान्वितः ।। २१ ।।
पाताऽहं जगतां देवः कर्त्ताऽहं सततं सदा ।।
सृष्ट्वा च ब्रह्मरूपेण संहर्त्ता शिवरूपतः ।। २२ ।।
शिवोऽहं त्वमहं चापि सूर्य्योऽहं त्रिगुणात्मकः ।।
विधाय नानारूपं च कुर्यां सृष्ट्यादिकाः क्रियाः ।। २३ ।।
यूयं गच्छत भद्रं वो भविष्यति भयं कुतः ।।
अद्यप्रभृति वो नास्ति मद्वराच्छङ्कराद्भयम् ।। २४ ।।
आशुतोषः स भगवाञ्छरण्यश्च सतां गतिः ।।
भक्ताधीनश्च भक्तेशो भक्तात्मा भक्तवत्सलः ।।२५।।
सुदर्शनं शिवश्चैव मम प्राणाधिकप्रियौ ।।
ब्रह्माण्डेषु न तेजस्वी हे ब्रह्मन्ननयोः परः।। २६ ।।
शक्तः स्रष्टुं महादेवः सूर्य्यकोटिं च लीलया ।।
कोटिं च ब्रह्मणामेवं किमसाध्यं च शूलिनः ।। २७ ।।
बाह्यज्ञानं तन्न किंचिद्ध्यायतो मां दिवानिशम् ।।
मन्नाम मद्गणं भक्त्या पञ्चवक्त्रेण गीयते ।।२८।।
अहमेव चिन्तयामि तत्कल्याणं दिवानिशम् ।।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।। २९ ।।
शिवस्वरूपो भगवाञ्छिवाधिष्ठातृदेवता ।।
शिवो भवति यस्माच्च शिवं तेन विदुर्बुधाः ।। 2.13.३० ।।
एतस्मिन्नन्तरे तत्र चागमच्छङ्करः स्वयम् ।।
शूलहस्तो वृषारूढो रक्तपङ्कजलोचनः ।। ३१ ।।
अवरुह्य वृषात्तूर्णं भक्तिनम्रात्मकन्धरः ।।
ननाम भक्त्या तं शान्तं लक्ष्मीकान्तं परात्परम् ।। ३२ ।।
रत्नसिंहासनस्थं च रत्नालङ्कारभूषितम् ।।
किरीटिनं कुण्डलिनं चक्रिणं वनमालिनम् ।। ३३ ।।
नवीननीरदश्यामं सुन्दरं च चतुर्भुजम् ।।
चतुर्भुजैः सेवितं च श्वेतचामरवायुना ।। ३४ ।।
चन्दनोक्षितसर्वांगं भूषितं पीतवाससा।।
लक्ष्मीप्रदत्तताम्बूलं भुक्तवन्तं च नारद ।। ३५ ।।
विद्याधरीनृत्यगीतं शृण्वन्तं सस्मितं मुदा ।।
ईश्वरं परमात्मानं भक्तानुग्रहविग्रहम् ।। ३६ ।।
तं ननाम महादेवो ब्रह्माणं च ननाम सः ।।
ननाम सूर्य्यो भक्त्या च संत्रस्तश्चन्द्रशेखरम् ।। ३७ ।।
कश्यपश्च महाभक्त्या तुष्टाव च ननाम च ।।
शिवः संस्तूय सर्वेशं समुवास सुखासने ।। ।। ३८ ।।
सुखासने सुखासीनं विश्रान्तं चन्द्रशेखरम् ।।
श्वेतचामरवातेन सेवितं विष्णुपार्षदैः ।। ३९ ।।
अक्रोधं सत्त्वसंसर्गात्प्रसन्नं सस्मितं मुदा ।।
स्तूयमानं पञ्चवक्त्रैः परं नारायणं विभुम् ।। 2.13.४० ।।
तमुवाच प्रसन्नात्मा प्रसन्नं सुरसंसदि ।।
पीयूषतुल्यं मधुरं वचनं सुमनोहरम् ।। ४१ ।।
श्रीभगवानुवाच ।।
अत्यन्तमुपहास्यं च शिवप्रश्नं शिवे शिवम् ।।
लौकिकं वैदिकं चैव त्वां पृच्छामि तथा ऽपि शम्।।४२।।
तपसां फलदातारं दातारं सर्वसम्पदाम्।।
सम्पत्प्रश्नं तपःप्रश्नमयोग्यं त्वां च साम्प्रतम्।।४३।।
ज्ञानाधिदेवे सर्वज्ञे ज्ञानं पृच्छामि किं वृथा ।।
निरापदि विपत्प्रश्नमलं मृत्युञ्जये हरे ।।४४।।
त्वामेव वाग्धनं प्रश्नमलं स्वाश्रयमागमे ।।
आगतोऽसि कथं वेगादित्युवाच रमापतिः ।। ४५ ।।
श्रीमहादेव उवाच ।।
वृषध्वजं च मद्भक्तं मम प्राणाधिकप्रियम् ।।
सूर्य्यः शशाप इति मे हेतुरागमकोपयोः ।। ४६ ।।
पुत्रवात्सल्यशोकेन सूर्य्यं हन्तुं समुद्यतः ।।
स ब्रह्माणं प्रपन्नश्च स सूर्य्यश्च विधिस्त्वयि ।।४७।।
त्वां ये शरणमापन्ना ध्यानेन वचसाऽपि वा ।।
निरापदस्ते निश्शङ्का जरा मृत्युश्च तैर्जितः ।। ४८ ।।
साक्षाद्ये शरणापन्नास्तत्फलं किं वदामि भोः ।।
हरिस्मृतिश्चाभयदा सर्वमङ्गलदा सदा ।। ४९ ।।
किं मे भक्तस्य भविता तन्मे ब्रूहि जगत्प्रभो ।।
श्रीहतस्यास्य मूढस्य सूर्य्यशापेन हेतुना ।। 2.13.५० ।।
श्रीभगवानुवाच ।।
कालोऽतियातो दैवेन युगानामेकविंशतिः ।।
वैकुण्ठे घटिकार्द्धेन शीघ्रं याहि नृपालयम्।। ।।५१।।
वृषध्वजो मृतः कालाद्दुर्निवार्य्यात्सुदारुणात् ।।
हंसध्वजश्च तत्पुत्रो मृतः सोऽपि श्रिया हतः ।।५२।।
तत्पुत्रौ च महाभागौ धर्मध्वजकुशध्वजौ ।।
हतश्रियौ सूर्य्यशापात्तौ वै परमवैष्णवौ ।। ५३ ।।
राज्यभ्रष्टौ श्रिया भ्रष्टौ कमलातापसावुभौ ।।
तयोश्च भार्य्ययोर्लक्ष्मीः कलया च जनिष्यति ।।५४।।
सम्पद्युक्तौ तदा तौ च नृपश्रेष्ठौ भविष्यतः ।।
मृतस्ते सेवकः शम्भो गच्छ यूयं च गच्छत।।५५।।
इत्युक्त्वा च सलक्ष्मीकः सभातोऽभ्यन्तरं गतः ।।
देवा जग्मुश्च संहृष्टाः स्वाश्रमं परमं मुदा।।५६।।
शिवश्च तपसे शीघ्रं परिपूर्णतमो ययौ।।५७।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने त्रयोदशोऽध्यायः।।१३।।