ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः १७

← अध्यायः १६ ब्रह्मवैवर्तपुराणम्
अध्यायः १७
वेदव्यासः
अध्यायः १८ →

नारायण उवाच ।।
ब्रह्मा शिवं संनियोज्य संहारे दानवस्य च ।।
जगाम स्वालयं तूर्णं यथास्थानं महामुने ।। १ ।।
चन्द्रभागानदीतीरे वटमूले मनोहरे ।।
तत्र तस्थौ महादेवो देवनिस्तारहेतवे ।। २ ।।
दूतं कृत्वा पुष्पदन्तं गन्धर्वेश्वरमीप्सितम् ।।
शीघ्रं प्रस्थापयामास शंखचूडान्तिकं मुदा ।। ३ ।।
स चेश्वराज्ञया शीघ्रं ययौ तन्नगरं वरम् ।।
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ।। ४ ।।
पञ्चयोजनविस्तीर्णं दैर्घ्ये तद्द्विगुणं मुने ।।
स्फाटिकाकारमणिभिस्समन्तात्परिवेष्टितम् ।।
सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् ।। ५ ।।
ज्वलदग्निनिभैर्नित्यं शोभितं रत्नकोटिभिः ।।
युक्तं च वीथिशतकैर्मणिवेदिसमन्वितैः ।। ६ ।।
परितो वणिजां संघैर्नानावस्तुविराजितैः ।।
सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः ।। ७ ।।
भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ।।
गत्वा ददर्श तन्मध्ये शङ्खचूडालयं वरम् ।। ८ ।।
अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ।।
ज्वलदग्निशिखाभिश्च परिखाभिश्चतसृभिः।।९।।
सुदुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ।।
अत्युच्चैर्गगनस्पर्श्यमणिप्राचीरवेष्टितम्।।2.17.१०।।
राजितं द्वादशद्वारैर्द्वारपालसमन्वितैः ।।
रत्नकृत्रिमपद्माढ्यै रत्नदर्पणभूषितैः ।।११ ।।
मणीन्द्रसारखचितैः शोभितं लक्षमन्दिरैः।।
शोभितं रत्नसोपानै रत्नस्तम्भविराजितैः ।।१२।।
रत्नचित्रकपाटाद्यैः सद्रत्नकलशान्वितैः।।
रत्नेन्द्रचित्रराजीभिः सुदीप्ताभिर्विराजितैः।।१३।।
परितो रक्षितं शश्वद्दानवैः शतकोटिभिः।।
दिव्यास्त्रधारिभिः शूरैर्महाबलपराक्रमैः।।१४।।
सुन्दरैश्च सुवेषैश्च नानालङ्कारभूषितैः ।।
तान्दृष्ट्वा पुष्पदन्तोऽपि वरद्वारं ददर्श सः ।। १५ ।।
द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ।।
तिष्ठन्तं पिङ्गलाक्षं च ताम्रवर्णं भयङ्करम् ।। १६ ।।
कथयामास वृत्तान्तं जगाम तदनुज्ञया ।।
अतिक्रम्य नवद्वारं जगामाभ्यन्तरं पुरम् ।। १७ ।।
न कैश्चिद्वारितो दूतो दूतरूपेण तस्य च ।।
गत्वा सोऽभ्यन्तरं द्वारं द्वारपालमुवाच ह ।। १८ ।।
रणस्य सर्ववृत्तान्तं विज्ञापयितुमीश्वरम् ।।
स च तं कथयित्वा च दूतं गन्तुमुवाच ह ।। १९ ।।
स गत्वा शंखचूडं तं ददर्श सुमनोहरम् ।।
रासमण्डलमध्यस्थं स्वर्णसिंहासनस्थितम् ।। 2.17.२० ।।
मणीन्द्रखचितं चित्रं रत्नदण्डसमन्वितम् ।।
रत्नकृत्रिमपुष्पैश्च प्रशस्तं शोभितं सदा ।। २१ ।।
भृत्येन हस्तविधृतं स्वर्णच्छत्रं मनोहरम् ।।
सेवितं पार्षदगणैर्व्यजनैः श्वेतचामरैः ।। २२ ।।
सुवेषं सुन्दरं रम्यं रत्नभूषणभूषितम् ।।
माल्यानुलेपनं सूक्ष्मवस्त्रं च दधतं मुने ।। २३ ।।
दानवेन्द्रैः परिवृतं सुवेषं च त्रिकोटिभिः ।।
शतकोटिभिरन्यैश्च भ्रमद्भिश्शस्त्रधारिभिः ।। २४ ।।
एवंभूतं च तं दृष्ट्वा पुष्पदन्तः सविस्मयः ।।
उवाच रणवृत्तान्तं यदुक्तं शङ्करेण च ।। २५ ।।
पुष्पदन्त उवाच ।।
राजेन्द्र शिवदूतोऽहं पुष्पदन्ताभिधः प्रभो ।।
यदुक्तं शङ्करेणैव तद्ब्रवीमि निशामय ।। २६ ।।
राज्यं देहि च देवानामधिकारं च साम्प्रतम् ।।
देवाश्च शरणापन्ना देवेशे श्रीहरौ परे ।। २७ ।।
दत्त्वा त्रिशूलं हरिणा तुभ्यं प्रस्थापितः शिवः ।।
चन्द्रभागानदीतीरे वटमूले त्रिलोचनः ।।२८।।
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ।।
गत्वा वक्ष्यामि किं शम्भुं तद्भवान्वक्तुमर्हति ।। २९ ।।
दूतस्य वचनं श्रुत्वा शङ्खचूडः प्रहस्य च ।।
प्रभाते ह्यागमिष्यामि त्वं च गच्छेत्युवाच ह ।। 2.17.३० ।।
स गत्वोवाच तूर्णं तं वटमूलस्थमीश्वरम् ।।
शङ्खचूडस्य वचनं तदीयं यत्परिच्छदम् ।।३१।।
एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ।।
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ।। ३२ ।।
विशालाक्षश्च बाणश्च पिङ्गलाक्षो विकम्पनः ।।
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः।।३३।।
कपिलाक्षो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ।।
कालङ्कटो बलीभद्रः कालजिह्वः कुटीचरः ।।३४।।
बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा ।।
अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः ।। ३९ ।।
वसवो वासवाद्याश्च आदित्या द्वादश स्मृताः ।।
हुताशनश्च चन्द्रश्च विश्वकर्माऽश्विनौ च तौ ।।३६।।
कुबेरश्च यमश्चैव जयन्तो नलकूबरः ।।
वायुश्च वरुणश्चैव बुधो वै मंगलस्तथा ।। ।। ३७ ।।
धर्मश्च शनिरीशानः कामदेवश्च वीर्य्यवान् ।।
उग्रदंष्ट्रा चोग्रचण्डा कोट्टरी कैटभी तथा ।। ३८ ।।
स्वयं शतभुजा देवी भद्रकाली भयंकरी ।।
रत्नेन्द्रराजखचितविमानोपरि संस्थिता ।। ३९ ।।
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ।।
नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा ।।2.17.४०।।
अभयं ददती भक्तमभया सा भयं रिपुम् ।।
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।। ।। ४१ ।।
खर्परं वर्तुलाकारं गम्भीरं योजनायतम् ।।
त्रिशूलं गगनस्पर्शिं शक्तिं वै योजनायताम् ।। ४२ ।।
शंखं चक्रं गदां पद्मं शरांश्चापं भयंकरम् ।।
मुद्गरं मुशलं वज्रं खड्गं फलकमुज्ज्वलम् ।। ४३ ।।
वैष्णवास्त्रं वारुणास्त्रमाग्नेयं नागपाशकम् ।।
नारायणास्त्रं ब्रह्मास्त्रं गान्धर्वं गारुडं तथा ।। ४४ ।।
पार्जन्यं वै पाशुपतं जृम्भणास्त्रं च पार्वतम् ।।
माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा ।।
नानाविधान्यायुधानि दिव्यास्त्रशतकं परम् ।।४५।।
आगत्य तत्र तस्थौ सा योगिनीनां त्रिकोटिभिः ।।
सार्द्धं वै डाकिनीनां च विकटानां त्रिकोटिभिः ।। ४६ ।।
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः ।।
वेतालाश्चैव यक्षाश्च राक्षसाश्चैव किन्नराः ।। ४७ ।।
ताभिश्चैव सह स्कन्दो नत्वा वै चन्द्रशेखरम् ।।
पितुः पार्श्वे सभायां च समुवास भवाज्ञया ।। ४८ ।।
अथ दूते गते तत्र शंखचूडः प्रतापवान्।।
उवाच तुलसीं वार्त्तां गत्वाऽभ्यन्तरमेव च ।।४९।।
रणवार्त्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका ।।
उवाच मधुरं साध्वी हृदयेन विदूयता ।।2.17.५०।।
तुलस्युवाच ।।
हे प्राणनाथ हे बन्धो तिष्ठ मे वक्षसि क्षणम् ।।
हे प्राणाधिष्ठातृदेव रक्ष मे जीवनं क्षणम् ।।९१।।
भुंक्ष्व जन्मसु भोग्यं तद्यद्वै मनसि वांछितम् ।।
पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां पिपासिता ।। ५२ ।।
आन्दोलयन्ति प्राणा मे मनो दग्धं च सन्ततम् ।।
दुस्स्वप्नं च मया दृष्टं चाद्यैव चरमे निशि ।। ५३ ।।
तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वरः ।।
उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ।।५४।।
शङ्खचूड उवाच ।।
कालेन योजितं सर्वं कर्म भोगनिबन्धने ।।
शुभं हर्षं सुखं दुःखं भयं शोकममंगलम् ।।५५।।
काले भवन्ति वृक्षाश्च शाखावन्तश्च कालतः ।।
क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः ।।५६।।
तेषां फलानि पक्वानि प्रभवन्त्येव कालतः ।।
ते सर्वे फलिनः काले काले कालं प्रयान्ति च।।५७।।
भवन्ति काले भूतानि काले कालं प्रयान्ति च।।
काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि।।५८।।
स्रष्टा च काले सृजति पाता पाति च कालतः।।
संहर्त्ता संहरेत्काले संचरन्ति क्रमेण ते ।।५९।।
ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतेः परः।।
स्रष्टा पाता च संहर्त्ता स कृत्स्नांशेन सर्वदा।2.17.६०।।
काले स एव प्रकृतिं निर्माय स्वेच्छया प्रभुः।।
निर्माय प्राकृतान्सर्वान्विश्वस्थांश्च चराचरान्।।६१।।
आब्रह्मस्तंबपर्य्यन्तं सर्वं कृत्रिममेव च।।
प्रवदन्ति च कालेन नश्यत्यपि हि नश्वरम्।।६२।।
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम् ।।
सर्वेशं सर्वरूपं च सर्वात्मानन्तमीश्वरम।।६३।।
जलं जलेन सृजति जलं पाति जलेन यः ।।
हरेज्जलं जलेनैव तं कृष्णं भज सन्ततम् ।।६४।।
यस्याज्ञया वाति वातः शीघ्रगामी च सन्ततम्।।
यस्याज्ञया च तपनस्तपत्येव यथाक्षणम् ।। ६५ ।।
यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।।
यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति भीतवत्।।६६।।
मृत्योर्मूलं कालमूलं यमस्य च यमं परम्।।
स्रष्टारं स्रष्टुरपि च पातुः पालकमेव च ।।६७।।
संहर्त्तारं च संहर्तुस्तं कृष्णं शरणं व्रज।।
को बन्धुश्चैव केषां वा सर्वबन्धुं भज प्रिये ।। ६८ ।।
अहं को वा त्वं च का वा विधिना योजितः पुरा ।।
त्वया सार्द्धं कर्मणा च पुनस्तेन वियोजितः ।।६९।।
अज्ञानी कातरः शोके विपत्तौ च न पण्डितः ।।
सुखं दुःखं भ्रमत्येव चक्रनेमिक्रमेण च ।। ।। 2.17.७० ।।
नारायणं तं सर्वेशं कान्तं प्राप्स्यसि निश्चितम् ।।
तपः कृतं यदर्थे च पुरा बदरिकाश्रमे ।। ७१।।
मया त्वं तपसा लब्धा ब्रह्मणश्च वरेण हि ।।
हरेरर्थे तव तपो हरिं प्राप्स्यसि कामिनि ।। ७२ ।।
वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि ।।
अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम् ।। ७३ ।।
तत्र द्रक्ष्यसि मां त्वं च त्वां च द्रक्ष्यामि सन्ततम् ।।
आगमं राधिकाशापाद्भारतं च सुदुर्लभम् ।। ७४ ।।
पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये ।।
त्वं हि देहं परित्यज्य दिव्यरूपं विधाय च । ।।७५।।
तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव ।।
इत्युक्त्वा च दिनान्ते च तया सार्द्धं मनोहरे ।।७६।।
सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते ।।
नानाप्रकारविभवे चचार रत्नमन्दिरे ।। ७७ ।।
रत्नप्रदीपसंयुक्ते स्त्रीरत्नं प्राप्य सुन्दरीम् ।।
निनाय रजनीं राजा क्रीडाकौतुकमंगलैः ।।७८।।
कृत्वा वक्षसि कान्तां तां रुदन्तीमतिदुःखिताम् ।।
कृशोदरीं निराहारां निमग्नां शोकसागरे।७९।।
पुनस्तां बोधयामास दिव्यज्ञानेन बोधवित् ।।
पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम् ।। 2.17.८० ।।
स च तस्यै ददौ तच्च सर्वशोकहरं परम् ।।
ज्ञानं संप्राप्य सा देवी प्रसन्नवदनेक्षणा ।। ८१ ।।
क्रीडां चकार हर्षेण सर्वं मत्वाऽतिनश्वरम् ।।
तौ दम्पती च क्रीडार्त्तौ निमग्नौ सुखसागरे ।। ८२ ।।
पुलकाङ्कितसर्वाङ्गौ मूर्च्छितौ निर्जने मुने ।।
अंगप्रत्यंगसंयुक्तौ सुप्रीतौ सुरतोत्सुकौ ।। ८३ ।।
एकांगौ च तथा तौ द्वौ चार्द्धनारीश्वरौ यथा ।।
प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ।। ८४ ।।
प्राणाधिकां च तां मेने राजा प्राणाधिकेश्वरीम् ।।
तौ स्थितौ सुखसुप्तौ च तन्त्रितौ सुन्दरौ समौ ।। ८५ ।।
सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ ।।
क्षणं सचेतनौ तौ च कथयन्तौ रसाश्रयाम् ।।
कथां मनोहरां दिव्यां हसन्तौ च क्षणं पुनः ।। ८६ ।।
भुक्तवन्तौ च ताम्बूलं प्रदतं च परस्परम् ।। ८७ ।।
परस्परं सेवितौ च सुप्रीत्या श्वेतचामरैः ।।
क्षणं शयानौ सानन्दौ वसन्तौ च क्षणं पुनः ।। ८८ ।।
क्षणं केलिनियुक्तौ च रसभावसमन्वितौ ।।
सुरताद्विरतिर्नास्ति तौ तद्विषयपण्डितौ ।। ८९ ।।
सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ ।। ।। 2.17.९० ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलसीशंखचूडसम्भोगो नाम सप्तदशोऽध्यायः ।। १७ ।।