प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १५ ब्रह्मवैवर्तपुराणम्
अध्यायः १६
वेदव्यासः
अध्यायः १७ →

नारायण उवाच ।।
तुलसी परितुष्टा सा चास्वाप्सीद्धृष्टमानसा ।।
नवयौवनसम्पन्ना प्रशंसन्ती वरांगना ।। १ ।।
चिक्षेप पञ्चबाणश्च पञ्च बाणांश्च तां प्रति ।।
पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता ।। २ ।।
पुलकाञ्चितसर्वांगी कम्पिता रक्तलोचना ।।
क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह ।।३।।
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् ।।
क्षणं सा दहनं प्राप क्षणं प्राप प्रमत्तताम्।।४।।
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् ।।
उत्तिष्ठन्ती क्षणं तल्पाद्गच्छन्ती निकटं क्षणम् ।। ५।।
भ्रमन्ती क्षणमुद्वेगाद्विवसन्ती क्षणं पुनः ।।
क्षणमेव समुद्वेगादस्वाप्सीत्पुनरेव सा ।। ६ ।।
पुष्पचन्दनतल्पं च तद्बभूवातिकण्टकम् ।।
विषमाहारकं स्वादु दिव्यरूपं फलं जलम् ।।७।।
निलयश्च निराकारः सूक्ष्मवस्त्रं हुताशनः।।
सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम्।।८।।
क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती।।
सुन्दरं च युवानं च सस्मितं रसिकेश्वरम्।।९।।
चन्दनोक्षितसर्वांगं रत्नभूषणभूषितम्।।
आगच्छन्तं माल्यवन्तं पश्यन्तं तन्मुखाम्बुजम् ।। 2.16.१० ।।
कथयन्तं रतिकथां चुम्बन्तमधरं मुहुः ।।
शयानं पुष्पतल्पे च समाश्लिष्यन्तमङ्गकम् ।। ११ ।।
पुनरेव तु गच्छन्तमागच्छन्तं वसन्तकम् ।।
कान्त क्व यासि प्राणेश तिष्ठेत्येवमुवाच सा ।। १२ ।।
पुनः स्वचेतनां प्राप्य विललाप पुनः पुनः ।।
एवं तपोवने सा च तस्थौ तत्रैव नारद ।। १३ ।।
शङ्खचूडो महायोगी जैगीषव्यान्मनोरमम् ।।
कृष्णस्य मन्त्रं सम्प्राप्य प्राप्य सिद्धिं तु पुष्करे ।। १४ ।।
पठन्सदा तु कवचं सर्वमङ्गलमङ्गलम् ।।
ब्रह्मेशाच्च वरं प्राप्य यत्तन्मनसि वाञ्छितम् ।।१५।।
आज्ञया ब्रह्मणः सोऽपि बदरीं वै समाययौ ।।
आगच्छन्तं शङ्खचूडमपश्यत्तुलसी मुने।।१६।।
नवयौवनसम्पन्नं कामदेवसमप्रभम्।।१७।।
श्वेतचम्पकवर्णाभं रत्नभूषणभूषितम् ।।
शरत्पार्वणचन्द्रास्यं शरत्पङ्कजलोचनम् ।। १८ ।।
महारत्नगणाक्लृप्तविमानस्थं मनोहरम् ।।
रत्नकुण्डलयुग्माढ्यगण्डस्थलविराजितम् ।। १९ ।।
पारिजातप्रसूनाढ्यमाल्यवन्तं च सुस्मितम् ।।
कस्तूरीकुङ्कुमयुतं सुगन्धितिलकोज्ज्वलम्।।2.16.२०।।
सा दृष्ट्वा सन्निधाने तं मुखमाच्छाद्य वाससा ।।
सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः ।।२१।।
बभूव सा नम्रमुखी नवसङ्गमलज्जिता।।
कामुकी कामबाणेन पीडिता पुलकान्विता ।। २२ ।।
पिबन्ती तन्मुखाम्भोजं लोचनाभ्यां च सन्ततम् ।।
ददर्श शङ्खचूडश्च कन्यामेकां तपोवने ।। २३ ।।
पुष्पचन्दनतल्पस्थां वसन्तीं वाससा वृताम् ।।
पश्यन्तीं तन्मुखं शश्वत्सस्मितां सुमनोहराम् ।।२४।।
सुपीनकठिनश्रोणीं पीनोन्नतपयोधराम्।।
मुक्तापंक्तिप्रभाजुष्टदन्तपंक्तिं सुबिभ्रतीम् ।।२५।।
पक्वबिम्बाधरोष्ठीं च सुनासां सुन्दरीं वराम् ।।
तप्तकाञ्चनवर्णाभां शरच्चन्द्रसमप्रभाम् ।। २६ ।।
स्वतेजसा परिवृतां सुखदृश्यां मनोरमाम् ।।
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ।। २७ ।।
सिन्दूरबिन्दुना शश्वत्सीमन्ताधःस्थलोज्ज्वलाम् ।।
निम्ननाभिगभीरां च तदधस्त्रिवलीयुताम् ।। २८ ।।
करपद्मतलारक्तां नखचन्द्रैर्विभूषिताम् ।।
स्थलपद्मप्रभाजुष्टं पादपद्मं च बिभ्रतीम् ।। २९ ।।
आरक्तवर्णं ललितमलक्तकसमप्रभम् ।।
स्थलपद्मैश्च जलजैः पद्मरागविराजिताम् ।।2.16.३०।।
शरदिन्दुविनिन्द्यैकनखेन्द्वोघविराजिताम्।।
अमूल्यरत्न संमिश्रयावकेन स्वलंकृताम्।।३१।।
मणीन्द्रमुख्यखचितक्वणन्मञ्जीररञ्जिताम् ।।३२।।
दधतीं कबरीभारं मालतीमाल्यसंयुतम्।।
अमूल्य रत्नसंक्लृप्तमकराकृतिरूपिणा।।३३।।
चित्रकुण्डलयुग्मश्रीसुषुमापरिशोभिताम् ।।
रत्नेन्द्रमुक्ताहारश्रीस्तनमध्यस्थलोज्ज्वलाम् ।।३४।।
रत्नकंकणकेयूरशंखभूषणभूषिताम् ।।
रत्नांगुलीयकैर्दिव्यैरंगुल्यावलिभिर्युताम् ।। ३९ ।।
दृष्ट्वा तां ललितां रम्यां सुशीलां सुदतीं सतीम् ।।
उवास तत्समीपे च मधुरं तामुवाच सः।।३६।।
शंखचूड उवाच ।।
का त्वं कस्य च कन्याऽसि धन्ये मान्ये सुयोषिताम्।।
का त्वं कामिनि कल्याणि सर्वकल्याणदायिनि।।३७।।
स्वर्गभोगादिसरितिविहारे हाररूपिणि।।
संसारदारसारे च मायाधारे मनोहरे।। ।। ३८ ।।
जगद्विलक्षणे क्षामे मुनीनां मोहकारिणि ।।
मौनं त्यक्त्वा किंकरं मां सम्भाषां कुरु सुन्दरि ।। ३९ ।।
इत्येवं वचनं श्रुत्वा सकामा वामलोचना ।।
सस्मिता नम्रवदना सकामं तमुवाच सा।।2.16.४०।।
तुलस्युवाच ।।
धर्मध्वजसुताऽहं च तपाम्यस्यां तपोवने ।।
तपस्विनीह तिष्ठामि कस्त्वं गच्छ यथासुखम्।।४१।।
कामिनीं कुलजातां च रहस्येकाकिनीं सतीम्।।
न पृच्छति कुले जात एवमेव श्रुतौ श्रुतम् ।।४२।।
लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः ।।
येनाश्रुतः श्रुतेरर्थः स कामीच्छति कामिनीम्।।४३।।
आपात मधुरामन्ते चान्तकां पुरुषस्य ताम् ।।
विषकुम्भाकाररूपाममृतास्यां च सन्ततम् ।। ४४ ।।
हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् ।।
स्वकार्य्यपरिनिष्पत्तितत्परां सततं सदा।।४५।।
कार्य्यार्थे स्वामिवशगामन्यथैवावशां सदा ।।
स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम्।।४६।।
श्रुतौ पुराणे यासां च चरित्रमनिरूपितम् ।।
तासु को विश्वसेत्प्राज्ञो ह्यप्राज्ञ इव सर्वदा ।। ४७ ।।
तासां को वा रिपुर्मित्रं प्रार्थयन्तीं नवं नवम् ।।
दृष्ट्वा सुवेशं पुरुषमिच्छन्तीं हृदये सदा।।४८।।
बाह्ये स्वात्मसतीत्वं च ज्ञापयन्तीं प्रयत्नतः ।।
शश्वत्कामां च रामां च कामाधारां मनोहराम्।।४९।।
बाह्ये छलाच्छादयन्तीं स्वान्तर्मैथुनलालसाम्।।
कान्तं ग्रसन्तीं रहसि बाह्येऽतीव सुलज्जिताम्।।2.16.५०।।
मानिनीं मैथुनाभावे कोपिनीं कलहांकुराम् ।।
संभीतां भूरिसम्भोगात्स्वल्पमैथुनदुःखिताम् ।। ५१ ।।
सुमृष्टान्नं शीततोयमाकांक्षन्तीं च मानसे ।।
सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ।। ५२ ।।
सुतात्परमतिस्नेहं कुर्वन्तीं रतिकर्तरि ।।
प्राणाधिकं प्रियतमं सम्भोग कुशलं प्रियम् ।। ५३ ।।
पश्यन्तीं रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् ।।
कलहं कुर्वती शश्वत्तेन सार्द्धं सुकोपनाम् ।। ५४ ।।
चर्चया भक्षयन्तीं तं कीनाश इव गोरजः ।।
दुस्साहसस्वरूपां च सर्वदोषाश्रयां सदा ।।५५।।
शश्वत्कपटरूपां च सर्वदोषाश्रयां सदा ।।
ब्रह्म विष्णुशिवादीनां दुस्त्याज्यां मोहरूपिणीम् ।। ५६ ।।
तपोमार्गार्गलां शश्वन्मुक्तिद्वारकपाटिकाम् ।।५७।।
हरेर्भक्तिव्यवहितां सर्वमाया करण्डिकाम् ।।
संसारकारागारे च शश्वन्निगडरूपिणीम् ।। ५८ ।।
इन्द्रजालस्वरूपां च मिथ्यावादिस्वरूपिणीम् ।।
बिभ्रतीं बाह्य सौन्दर्यं मध्याङ्गमतिकुत्सितम् ।।५९ ।।
नानाविण्मूत्रपूयानामाधारं मलसंयुतम् ।।
दुर्गन्धि दोषसंयुक्तं रक्ताक्तं चाप्यसंस्कृतम् ।। ।।।2.16.६०।।
मायारूपं मायिनां च विधिना निर्मितं पुरा ।।
विषरूपां मुमुक्षूणामदृश्यांचैव सर्वदा।।६१।।
इत्युक्त्वा तुलसी तं च विरराम च नारद ।।
सस्मितः शंखचूडश्च प्रवक्तुमुपचक्रमे ।।६२।।
शंखचूड उवाच ।।
त्वया यत्कथितं देवि न च सर्वमलीककम् ।।
किंचित्सत्यमलीकं च किंचिन्मत्तो निशामय।।६३।।
निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् ।।
कृत्यारूपं वास्तवं च प्रशस्यं चाप्रशंसितम्।। ।।६४।।
लक्ष्मी सरस्वती दुर्गा सावित्री राधिकादिकम्।।
सृष्टिसूत्रस्वरूपं चाप्याद्यं स्रष्ट्वा तु निर्मितम् ।। ६५ ।।
एतासामंशरूपं यत्स्त्रीरूपं वास्तवं स्मृतम् ।।
तत्प्रशंस्यं यशोरूपं सर्वमङ्गलकारणम् ।। ६६ ।।
शतरूपा देवहूतिस्स्वधा स्वाहा च दक्षिणा ।।
छायावती रोहिणी च वरुणानी शची तथा ।। ६७ ।।
कुबेरवायुपत्नी साऽप्यदितिश्च दितिस्तथा ।।
लोपामुद्राऽनसूया च कैटभी तुलसी तथा ।।६८।।
अहल्याऽरुन्धती मेना तारा मन्दोदरी परा ।।
दमयन्ती वेदवती गंगा च यमुना तथा ।। ६९ ।।
पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा ।।
षष्ठी मंगलचण्डी च मूर्तिर्वै धर्मकामिनी ।। 2.16.७० ।।
स्वस्तिः श्रद्धा च कान्तिश्च तुष्टिः शान्तिस्तथा परा ।।
निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिर्दिनानि च ।। ७१ ।।
सम्पत्तिवृत्तिकीर्त्यश्च क्रियाशोभाप्रभांशकम् ।।
यत्स्त्रीरूपं च सम्भूतमुत्तमं तद्युगे युगे ।। ७२ ।।
कृत्यास्वरूपं तद्यत्तु स्वर्वेश्यादिकमेव च ।।
तदप्रशंस्यं विश्वेषु पुंश्चलीरूपमेव च ।। ७३ ।।
सत्त्वप्रधानं यद्रूपं तच्च शुद्धं स्वभावतः ।।
तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम् ।।७४।।
तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः।।
रजोरूपं तमोरूपं कृत्यासु द्विविधं स्मृतम् ।।७५।।
स्थानाभावात्क्षणाभावान्मध्यवृत्तेरभावतः ।।
देहक्लेशेन रोगेण सत्संसर्गेण सुन्दरि।।७६।।
बहुगोष्ठा वृतेनैव रिपुराजभयेन च ।।
रजोरूपस्य साध्वीत्वमतैनैवोपजायते ।। ७७ ।।
इदं मध्यमरूपं च प्रवदन्ति मनीषिणः ।।
तमोरूपं दुर्निवार्य्यमधमं तद्विदुर्बुधाः।।७८।।
न पृच्छति कुले जातः पण्डितश्च परस्त्रियम्।।
निर्जने दुर्जने वाऽपि रहस्ये वचसां स्त्रियम् ।।७९।।
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना ।।
गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ।। 2.16.८० ।।
अहमेव शङ्खचूडो देवविद्रावकारकः ।।
दनुवंशोद्भवो विश्वे सुदामाऽहं हरेः पुरे ।। ८१ ।।
अहमष्टसु गोपेषु गोगोपीपार्षदेषु च ।।
अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ।। ८२ ।।
जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः ।।
जातिस्मरा त्वं तुलसी संसक्ता हरिणा पुरा ।। ८३ ।।
त्वमेव राधिकाकोपाज्जाताऽसि भारते भुवि ।।
त्वां सम्भोक्तुमिच्छकोऽहं नालं राधाभयात्ततः ।। ८४ ।।
इत्येवमुक्त्वा स पुमान्विरराम महामुने ।।
सस्मिता तुलसी हृष्टा प्रवक्तुमुपचक्रमे ।। ८५ ।।
तुलस्युवाच ।।
एवंविधो बुधो विश्वे बुधेषु च प्रशंसितः ।।
कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः ।। ८६ ।।
त्वयाऽहमधुना सत्यं विचारेण पराजिता ।।
स निन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः ।। ८७ ।।
निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं जनम् ।।
स्त्रीजितं मनसा वाचा पिता भ्राता च निन्दति ।।८८।।
शुध्येद्विप्रो दशाहेन जातके मृतके तथा ।।
भूमिपो द्वादशाहेन वैश्यः पञ्चदशाहतः ।। ८९ ।।
शूद्रो मासेन वेदेषु मातृवद्वर्णसङ्करः।।
अशुचिः स्त्रीजितः शुध्येच्चितादहनकालतः ।। 2.16.९० ।।
न गृह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् ।।
न गृह्णन्तीच्छया देवास्त स्य पुष्पजलादिकम् ।। ९१ ।।
किं तस्य ज्ञानतपसा जपहोमप्रपूजनैः ।।
किं विद्यया वा यशसा स्त्रीभिर्यस्य मनो हृतम् ।। ९२ ।।
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ।।
कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ।। ९३ ।।
वराय गुणहीनाय वृद्धायाज्ञानिने तथा ।।
दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ।। ९४ ।।
अत्यन्तकोपयुक्ताय चात्यन्तदुर्मुखाय च ।।
पंगुलायाङ्गहीनाय चान्धाय बधिराय च ।। ९५ ।।
जडाय चैव मूकाय क्लीबतुल्याय पापिने ।।
ब्रह्महत्यां लभेत्सोऽपि यः स्वकन्यां ददाति च।। ।। ९६ ।।
शान्ताय गुणिने चैव यूने च विदुषेऽपि च ।।
वैष्णवाय सुतां दत्त्वा दशवाजिफलं लभेत् ।। ९७ ।।
यः कन्यापालनं कृत्वा करोति विक्रयं यदि ।।
विपदा धनलोभेन कुम्भीपाकं स गच्छति ।। ९८ ।।
कन्यामूत्रपुरीषं च तत्र भक्षति पातकी ।।
कृमिभिर्दशितः काकैर्यावदिन्द्राश्चतुर्दश ।।९९।।
तदन्ते व्याधयोनौ च लभते जन्म निश्चितम् ।।
विक्रीणाति मांसभारं वहत्येव दिवानिशम् ।। 2.16.१०० ।।
इत्येवमुक्त्वा तुलसी विरराम तपोवने ।।
एतस्मिन्नन्तरे ब्रह्मा तयोरन्तिकमाययौ ।। १०१ ।।
मूर्ध्ना ननाम तुलसी शङ्खचूडश्च नारद ।।
उवास तत्र देवेशश्चोवाच च तयोर्हितम्।।१०२।।
किं करोषि शङ्खचूड संवादमनया सह ।।
गान्धर्वेण विवाहेन त्वमस्या ग्रहणं कुरु ।। १०३ ।।
त्वं च पुरुषरत्नं च स्त्रीरत्नं स्त्रीष्वियं सती ।।
विदग्धाया विदग्धेन सङ्गमो गुणवान्भवेत्।।१०४।।
निर्विरोधसुखं राजन्को वा त्यजति दुर्लभम् ।।
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ।। १०५ ।।
किमुपेक्षसि त्वं कान्तमीदृशं गुणिनं सती ।।
देवानामसुराणां च दानवानां विमर्दनम् ।। १०६ ।।
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका।।
यथा मयि च सावित्री भवानी च भवे यथा ।। १०७ ।।
यथा धरा वराहे च यथा मेना हिमालये ।।
यथाऽत्रावनसूया च दमयन्ती नले यथा ।। १०८ ।।
रोहिणी च यथा चन्द्रे यथा कामे रतिः सती ।।
यथा दितिः कश्यपे च वशिष्ठेऽरुन्धती यथा ।। ।। १०९ ।।
यथाऽहल्या गौतमे च देवहूतिश्च कर्दमे ।।
यथा बृहस्पतौ तारा शतरूपा मनौ यथा ।। 2.16.११० ।।
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ।।
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे ।। १११ ।।
देवसेना यथा स्कन्दे धर्मे मूत्तिर्यथा सती ।।
सौभाग्या सुप्रिया त्वं च शङ्खचूडे तथा भव ।। ११२ ।।
अनेन सार्द्धं सुचिरं सुन्दरेण च सुन्दरि ।।
स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् ।। ११३ ।।
पश्चात्प्राप्स्यसि गोविन्दं गोलोके पुनरेव च ।।
चतुर्भुजं च वैकुण्ठे शंखचूडे मृते सति ।। ११४ ।।
इत्येवमाशिषं कृत्वा स्वालयं प्रययौ विधिः ।।
गान्धर्वेण विवाहेन जगृहे तां च दानवः ।।११५।।
स्वर्गे दुन्दुभिवाद्यं च पुष्पवृष्टिर्बभूव ह ।।
स रेमे रमया सार्द्धं वासगेहे मनोहरे ।। ११६ ।।
मूर्च्छां सम्प्राप तुलसी नवसङ्गमसङ्गता ।।
निमग्ना निर्जने साध्वी सम्भोगसुख सागरे ।। ११७ ।।
चतुःषष्टिकलामानं चतुःषष्टिविधं सुखम् ।।
कामशास्त्रं यन्निरुक्तं रसिकानां यथेप्सितम् ।। ११८ ।।
अङ्गप्रत्यंग संश्लेषपूर्वकं स्त्रीमनोहरम् ।।
तत्सर्वं सुखशृंगारं चकार रसिकेश्वरः ।।११९।।
अतीव रम्येदेशे च सर्वजन्तुविवर्जिते ।।
पुष्पचन्दनतल्पे च पुष्पचन्दनवायुना ।। 2.16.१२० ।।
पुष्पोद्याने नदीतीरे पुष्पचन्दनचर्चिते ।।
गृहीत्वा रसिकां रामां पुष्पचन्दनचर्चिताम् ।। ।। १२१ ।।
भूषितां भूषणैः सर्वैरतीव सुमनोहराम् ।।
सुरतेर्विरतिर्नास्ति तयोः सुरतविज्ञयोः ।। १२२ ।।
जहार मानसं भर्तुर्लीलया तुलसी सती ।।
चेतनां रसिकायाश्च जहार रसभाववित् ।। १२३ ।।
वक्षसश्चन्दनं बाह्वोस्तिलकं विजहार सा ।।
स च जग्राह तस्याश्च सिन्दूरबिन्दुपत्रकम् ।। १२४ ।।
स तद्वक्षसि तस्याश्च नखरेखां ददौ मुदा।।
सा ददौ तद्वामपार्श्वे करभूषणलक्षणम् ।। १२५ ।।
राजा तदोष्ठपुटके ददौ दशनदंशनम् ।।
तद्गण्डयुगले सा च प्रददौ तच्चतुर्गुणम् ।। १२३ ।।
सुरतेर्विरतौ तौ च समुत्थाय परस्परम् ।।
सुवेशं चक्रतुस्तत्र यत्तन्मनसि वाञ्छितम् ।। १२७ ।।
कुङ्कुमाक्तचन्दनेन सा तस्मै तिलकं ददौ ।।
सर्वाङ्गे सुन्दरे रम्ये चकार चानुलेपनम् ।। १२८ ।।
सुवासितं च ताम्बूलं वह्निशुद्धे च वाससी ।।
पारिजातस्य कुसुमं माल्यं चैव सुशोभनम् ।। १२९ ।।
अमूल्यरत्ननिर्माणमंगुलीयकमुत्तमम् ।।
सुन्दरं च मणिवरं त्रिषु लोकेषु दुर्लभम् ।। 2.16.१३० ।।
दासी तवाहमित्येवं समुच्चार्य पुनः पुनः ।।
ननाम परया भक्त्या स्वामिनं गुणशालिनम् ।। १३१ ।।
सस्मिता तन्मुखांभोजं लोचनाभ्यां पपौ पुनः ।।
निमेषरहिताभ्यां च सकटाक्षं च सुन्दरम् ।। १३२ ।।
स च तां च समाकृष्य चकार वक्षसि प्रियाम् ।।
सस्मितं वाससाऽऽच्छन्नं ददर्श मुखपङ्कजम् ।। १३३ ।।
चुचुम्ब कठिने गण्डे बिम्बोष्ठे पुनरेव च ।।
ददौ तस्यै वस्त्रयुग्मं वरुणादाहृतं च यत् ।।
तदाहृतां रत्नमालां त्रिषु लोकेषु विश्रुताम् ।। १३४ ।।
ददौ मञ्जीरयुग्मं च स्वाहायाश्च हृतं च यत् ।।
केयूरयुग्मं छायाया रोहिण्याश्चैव कुण्डलम् ।। १३५ ।।
अंगुलीयकरत्नानि रत्याश्च वरभूषणम् ।।
शङ्खं सुरुचिरं चित्रं यद्दत्तं विश्वकर्मणा ।। १३६ ।।
विचित्रपीठकश्रेणीं शय्यां चापि सुदुर्लभाम् ।।
भूषणानि च दत्त्वा च परीहारं चकार ह ।। १३७ ।।
निर्माय कबरीभारं तस्याश्च माल्यसंयुतम् ।।
सुचित्रं पत्रकं गण्डे जयलेखसमं तथा ।। १३८ ।।
चन्द्रलेखात्रिभिर्युक्तं चन्दनेन सुगन्धिना ।।
परितः परितश्चित्रैः सार्द्धं कुंकुमबिन्दुभिः ।। १३९ ।।
ज्वलत्प्रदीपाकारं च सिन्दूरतिलकं ददौ ।।
तत्पादपद्मयुगले स्थलपद्मविनिन्दिते ।। 2.16.१४० ।।
चित्रालक्तकरागं च नखरेषु ददौ मुदा ।।
स्ववक्षसि मुहुर्न्यस्तं सरागं चरणाम्बुजम् ।। १४१ ।।
हे देवि तव दासोऽहमित्युच्चार्य्य पुनः पुनः ।।
रत्ननिर्माणयानेन तां च कृत्वा स्ववक्षसि ।। १४२ ।।
तपोवनं परित्यज्य राजास्थानान्तरं ययौ।।
मलये देवनिलये शैले शैले वने वने ।। १४३ ।।
स्थाने स्थानेऽतिरम्ये च पुष्पोद्यानेऽतिनिर्जने ।।
कन्दरे कन्दरे सिन्धुतीरे च सुन्दरे वने ।। १४४ ।।
पुष्पभद्रानदीतीरे नीरवातमनोहरे ।।
पुलिने पुलिने दिव्ये नद्यां नद्यां नदे नदे ।। १४५ ।।
मधौ मधुकराणां च मधुरध्वनिनादिते ।।
विनिस्यन्दे सुपवने नन्दने गन्धमादने ।। १४६ ।।
देवोद्याने देववने चित्रे चन्दनकानने ।।
चम्पकानां केतकीनां माधवीनां च माधवे ।।१४७।।
कुन्दानां मालतीनां च कुमुदाम्भोजकानने ।।
कल्पवृक्षे कल्पवृक्षे पारिजातवने वने ।।१४८।।
निर्जने काञ्चनीस्थाने धन्ये काञ्चनपर्वते ।।
काञ्चीवने किञ्चनके कञ्चके काञ्चनाकरे ।। १४९ ।।
पुष्पचन्दनतल्पे च पुंस्कोकिलरुतश्रुते ।।
पुष्पचन्दनसंयुक्तः पुष्पचन्दनवायुना ।। 2.16.१५० ।।
कामुक्या कामुकः कामात्स रेमे रामया सह ।।
न तृप्तो दानवेन्द्रश्च तृप्तिं नैव जगाम सा ।। १५१ ।।
हविषा कृष्णवर्त्मेव ववृधे मदनस्तयोः ।।
तया सह समागत्य स्वाश्रमं दानवस्ततः ।। १५२ ।।
रम्यं क्रीडालयं कृत्वा विजहार पुनस्ततः ।।
एवं संबुभुजे राज्यं शङ्खचूडः प्रतापवान् ।। १५३ ।।
एकमन्वन्तरं पूर्णं राजराजेश्वरो बली ।।
देवानामसुराणां च दानवानां च सन्ततम् ।। १५४ ।।
गन्धर्वाणां किन्नराणां राक्षसानां च शास्तिदः ।।
हताधिकारा देवाश्च चरन्ति भिक्षुका यथा ।। १५५ ।।
पूजाहोमादिकं तेषां जहार विषयं बलात् ।।
आश्रयं चाधिकारं च शस्त्रास्त्रभूषणादिकम् ।। १९६ ।।
निरुद्यमाः सुराः सर्वे चित्रपुत्तलिका यथा ।।
ते च सर्वे विषण्णाश्च प्रजग्मुर्ब्रह्मणः सभाम्।। ।। १५७ ।।
वृत्तान्तं कथयामासू रुरुदुश्च भृशं मुहुः ।।
तदा ब्रह्मा सुरैः सार्द्धं जगाम शङ्करालयम् ।। १५८ ।।
सर्वं संकथयामास विधाता चन्द्रशेखरम् ।।
ब्रह्मा शिवश्च तैः सार्द्धं वैकुण्ठं च जगाम ह ।। १५९ ।।
सुदुर्लभं परं धाम जरामृत्युहरं परम् ।।
सम्प्राप च वरं द्वारमाश्रमाणां हरेरहो ।। 2.16.१६० ।।
ददर्श द्वारपालांश्च रत्नसिंहासनस्थितान् ।।
शोभितान्पीतवस्त्रैश्च रत्नभूषणभूषितान्।। ।। १६१ ।।
वनमालान्वितान्सर्वान्श्यामसुन्दरविग्रहान् ।।
शंखचक्रगदापद्मधरांश्चैव चतुर्भुजान् ।। १६२ ।।
सस्मितान्पद्मवक्त्रांश्च पद्मनेत्रान्मनोहरान् ।।
ब्रह्मा तान्कथयामास वृत्तान्तं गमनार्थकम् ।। १६३ ।।
तेऽनुज्ञां च ददुस्तस्मै प्रविवेश तदाज्ञया ।।
एवं च षोडश द्वारान्निरीक्ष्य कमलोद्भवः ।। १६४ ।।
देवः सार्द्धं तानतीत्य प्रविवेश हरेः सभाम् ।।
देवर्षिभिः परिवृतां पार्षदैश्च चतुर्भुजैः ।। १६५ ।।
नारायणस्वरूपैश्च सर्वैः कौस्तुभभूषितैः ।।
पूर्णेन्दुमण्डलाकारां चतुरस्रां मनोहराम् ।। १६६ ।।
मणीन्द्रसारनिर्माणां हीरासारसुशोभिताम् ।।
अमूल्यरत्नखचितां रचितां स्वेच्छया हरेः ।। १६७ ।।
माणिक्यमालाजालाढ्यां मुक्तापंक्तिविभूषिताम् ।।
मण्डितां मण्डलाकारै रत्नदर्पणकोटिभिः।।१६८।।
विचित्रैश्चित्ररेखाभिर्नानाचित्रविचित्रिताम्।।
पद्मरागेन्द्ररचितै रचितां पद्मकृत्रिमैः ।। ।।१६९।।
सोपानशतकैर्युक्तां स्यमन्तकविनिर्मितैः।।
पट्टसूत्रग्रन्थियुतैश्चारुचन्दनपल्लवैः।।2.16.१७०।।
इन्द्रनीलमणिस्तम्भैर्वेष्टितां सुमनोरमाम्।।
सद्रत्नपूर्णकुम्भानां समूहैश्च समन्विताम् ।। १७१ ।।
पारिजातप्रसूनानां मालाजालैर्विराजिताम् ।।
कस्तूरीकुङ्कुमाक्तैश्च सुगन्धिचन्दनद्रवैः ।। १७२ ।।
सुसंस्कृतां तु सर्वत्र वासिता गन्धवायुना ।।
विद्याधरीसमूहानां सङ्गीतैश्च मनोहरम् ।। १७३ ।।
सहस्रयोजनायामां परिपूर्णां च किंकरैः ।।
ददर्श श्रीहरिं ब्रह्मा शङ्करैश्च सुरैः सह ।। १७४ ।।
वसन्तं तन्मध्यदेशे यथेन्द्रं तारकावृतम् ।।
अमूल्यरत्ननिर्माणचित्रसिंहासनस्थितम् ।। १७९ ।।
किरीटिनं कुण्डलिनं वनमालाविभूषितम् ।।
शङ्खचक्रगदापद्मधारिणं च चतुर्भुजम् ।। ।। १७५ ।।
नवीननीरदश्यामं सुन्दरं सुमनोहरम् ।।
अमूल्यरत्ननिर्माणसर्वाभरणभूषितम् ।। १७७ ।।
चन्दनोक्षितसर्वाङ्गं बिभ्रतं केलिपङ्कजम् ।।
पुरतो नृत्यगीतं च पश्यन्तं सस्मितं मुदा ।। १७८ ।।
शान्तं सरस्वतीकान्तं लक्ष्मीधृतपदाम्बुजम् ।।
भक्तप्रदत्तताम्बूलं भुक्तवन्तं सुवासितम् ।। १७९ ।।
गङ्गया परया भक्त्या सेवितं श्वेतचामरैः ।।
सर्वैश्च स्तूयमानं च भक्तिनम्रात्मकन्धरैः ।। 2.16.१८० ।।
एवं विशिष्टं तं दृष्ट्वा परिपूर्णतमं विभुम् ।।
ब्रह्मादयः सुराः सर्वे प्रणम्य तुष्टुवुस्तदा ।। १८१ ।।
पुलकाङ्कितसर्वाङ्गाः साश्रुनेत्राः सगद्गदाः ।।
भक्त्या परमया भक्ता भीता नम्रात्मकन्धराः ।। १८२ ।।
पुटाञ्जलियुतो भूत्वा विधाता जगतामपि ।।
वृत्तान्तं कथयामास विनयेन हरेः पुरः ।। १८३ ।।
हरिस्तद्वचनं श्रुत्वा सर्वज्ञः सर्वभाववित् ।।
प्रहस्योवाच ब्रह्माणं रहस्यं च मनोहरम् ।। १८४ ।।
श्रीभगवानुवाच ।।
शङ्खचूडस्य वृत्तान्तं सर्वं जानामि पद्मज ।।
मद्भक्तस्य च गोपस्य महातेजस्विनः पुरा ।। १८५ ।।
सुराः शृणुत तत्सर्वमितिहासं पुरातनम् ।।
गोलोकस्यैव चरितं पापघ्नं पुण्यकारणम् ।। १८६ ।।
सुदामा नाम गोपश्च पार्षदप्रवरो मम ।।
स प्राप दानवीं योनिं राधाशापात्सुदारुणात् ।। १८७ ।।
तत्रैकदाऽहमगमं स्वालयाद्रासमण्डलम् ।।
विहाय मानिनीं राधां मम प्राणाधिकां पराम् ।। १८८ ।।
सा मां विरजया सार्द्धं विज्ञाय किंकरीमुखात् ।।
पश्चात्क्रुधा साऽऽजगाम मां ददर्श च तत्र च ।। १८९।।
विरजां च नदीरूपां मां ज्ञात्वा च तिरोहितम् ।।
पुनर्जगाम सा रुष्टा स्वालयं सखिभिः सह ।। 2.16.१९० ।।
मां दृष्ट्वा मन्दिरे देवी सुदाम सहितं पुरा ।।
भृशं मां भर्त्सयामास मौनीभूतं च सुस्थिरम् ।। १९१ ।।
तच् त्वा च सुमहांश्च सुदामा तां चुकोप ह।।
स च तां भर्त्सयामास कोपेन मम सन्निधौ।।१९२।।
तच्छ्रुत्वा सा कोपयुक्ता रक्तपङ्कजलोचना ।।
बहिष्कर्तुं चकाराज्ञां संत्रस्ता मम संसदि।।१९३।।
सखीलक्षं समुत्तस्थौ दुर्वारं तेजसोज्ज्वलम् ।।
बहिश्चकार तं तूर्णं जल्पन्तं च पुनः पुनः ।। १९४ ।।
सा च तद्वचनं श्रुत्वा समारुष्टा शशाप तम् ।।
याहि रे दानवीं योनिमित्येवं दारुणं वचः ।।१९५।।
तं गच्छन्तं शपन्तं च रुदन्तं मां प्रणम्य च ।।
वारयामास सा तुष्टा रुदन्ती कृपया पुनः ।। १९६ ।।
हे वत्स तिष्ठ मा गच्छ क्व यासीति पुनः पुनः ।।
समुच्चार्य्य च तत्पश्चाज्जगाम सा च विस्मिता ।। १९७ ।।
गोप्यश्च रुरुदुः सर्वा गोपाश्चेति सुदुःखिताः ।।
ते सर्वे राधिका चापि तत्पश्चाद्बोधिता मया ।। १९८ ।।
आयास्यति क्षणार्धेन कृत्वा शापस्य पालनम् ।।
सुदामंस्त्वमिहागच्छेत्युवाच सा निवारिता ।। १९९ ।।
गोलोकस्य क्षणार्द्धेन चैकमन्वन्तरं भवेत् ।।
पृथिव्यां जगतां धातरित्येवं वचनं ध्रुवम् ।। 2.16.२०० ।।
स एव शंखचूडश्च पुनस्तत्रैव यास्यति ।।
महाबलिष्ठो योगीशः सर्वमायाविशारदः ।।२०१।।
मम शूलं गृहीत्वा च शीघ्रं गच्छत भारतम् ।।
शिवः करोतु संहारं मम शूलेन रक्षसः ।। २०२ ।।
ममैव कवचं कण्ठे सर्वमङ्गलमङ्गलम् ।।
बिभर्ति दानवः शश्वत्संपारविजयी ततः ।।२०३ ।।
तत्र ब्रह्मन्स्थिते कण्ठे न कोऽपि हिंसितुं क्षमः ।।
तद्याञ्चां च करिष्यामि विप्ररूपोऽहमेव च ।।२०४।।
सतीत्वभङ्गस्तत्पत्न्या यत्र काले भविष्यति ।।
तत्रैव काले तन्मृत्युरिति दत्तो वरस्त्वया ।। २०५ ।।
तत्पत्न्याश्चोदरे वीर्य्यमर्पयिष्यामि निश्चितम् ।।
तत्क्षणेनैव तन्मृत्युर्भविष्यति न संशयः ।। २०६ ।।
पश्चात्सा देहमुत्सृज्य भविष्यति प्रिया मम ।।
इत्युक्त्वा जगतां नाथो ददौ शूलं हराय च ।।२०७।।
शूलं दत्त्वा ययौ शीघ्रं हरिरभ्यन्तरं मुदा ।।
भारतं च ययुर्देवा ब्रह्मरुद्रपुरोगमाः ।। २०८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे तुलस्युपाख्याने षोडशोऽध्यायः ।। १६ ।।