ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः १९

← अध्यायः १८ ब्रह्मवैवर्तपुराणम्
अध्यायः १९
वेदव्यासः
अध्यायः २० →

नारायण उवाच ।।
शिवं प्रणम्य शिरसा दानवेन्द्रः प्रतापवान् ।।
समारुरोह यानं च स्वामात्यैः सह सत्वरः ।। १ ।।
बभूवुस्ते च संक्षुब्धाः स्कन्दशक्त्याऽर्दितास्तदा ।।
नेदुर्दुन्दुभयः स्वर्गे पुष्पवृष्टिर्बभूव ह ।। २ ।।
स्कन्दस्योपरि तत्रैव समरे च भयङ्करे ।।
स्कन्दस्य समरं दृष्ट्वा महदद्भुतमुल्बणम् ।। ३ ।।
दानवानां क्षयकरं यथा प्राकृतिकं लयम् ।।
राजा विमानमारुह्य शरवर्षं चकार ह ।। ४ ।।
नृपस्य शरवृष्टिश्च घनवृष्टिर्यथा तथा ।।
महान्घोरान्धकारश्च वह्न्युत्थानं बभूव ह ।। ५ ।।
देवाः प्रदुद्रुवुश्चान्ये सर्वे नन्दीश्वरादयः ।।
एकाकी कार्त्तिकेयस्तु तस्थौ समरमूर्द्धनि ।। ६ ।।
पर्वतानां च सर्पाणां शिलानां शाखिनां तथा ।।
शश्वच्चकार वृष्टिं च दुर्वाह्यां च भयङ्करीम् ।। ७ ।।
नृपस्य शरवृष्ट्या च प्रच्छन्नः शिवनन्दनः ।
नीरदेन च सान्द्रेण संच्छन्नो भास्करो यथा ।।८।।
धनुस्स्कन्दस्य चिच्छेद दुर्वहं च भयङ्करम् ।।
बभञ्ज च रथं दिव्यं चिच्छेद रथघोटकान् ।। ९ ।।
मयूरं जर्ज्जरीभूतं दिव्यास्त्रेण चकार सः ।।
शक्तिं चिक्षेप सूर्य्याभां तस्य वक्षोविभेदिनीम् ।। 2.19.१० ।।
क्षणं मूर्छां च संप्राप्य चेतनामुपलभ्य सः ।।
गृहीत्वाऽन्यद्धनुर्दिव्यं यद्दत्तं विष्णुना पुरा ।। ११ ।।
रत्नेन्द्रसारखचितं यानमारुह्य चाग्निभूः ।।
शस्त्रमस्त्रं गृहीत्वा च चकार रणमुल्बणम् ।। १२ ।।
सर्पांश्च पर्वतांश्चैव वृक्षांश्च प्रस्तरांस्तथा ।।
सर्वांश्चिच्छेद कोपेन दिव्यास्त्रेण शिवात्मजः ।। १३ ।।
आग्नेयं वारुणास्त्रेण वारयामास वै गुहः ।।
रथं धनुश्च चिच्छेद शंखचूडस्य लीलया ।। १४ ।।
सवाहं सारथिं चैव किरीटं मुकुटोज्ज्वलम् ।।
चिक्षेप शक्तिमुल्काभां दानवेन्द्रस्य वक्षसि ।। १५ ।।
मूर्च्छां संप्राप्य राजोपलभ्य वै चेतनां पुनः ।।
आरुह्य वै यानमन्यं धनुर्जग्राह सत्वरः ।। १६ ।।
चकार शरजालं च मायया मायिनां वरः ।।
गुहं चाच्छाद्य समरे शरजालेन नारद ।। १७ ।।
जग्राह शक्तिमव्यर्थां शतसूर्य्यसमप्रभाम् ।।
प्रलयाग्निशिखारूपां विष्णोर्वै तेजसा वृताम् ।। १८ ।।
चिक्षेप तां च कोपेन महावेगेन कार्त्तिके ।।
पपात शक्तिस्तद्गात्रे वह्निराशिरिवोज्ज्वला ।। १९ ।।
मूर्च्छां संप्राप शक्त्या च कार्त्तिकेयो महाबलः ।।
काली गृहीत्वा तं क्रोडे निनाय शिवसन्निधौ ।। 2.19.२० ।।
शिवस्तं दर्शनादेव जीवयामास लीलया ।।
ददौ बलमनन्तं च स चोत्तस्थौ प्रतापवान् ।। २१ ।।
शिवः स्वसैन्यं देवांश्च प्रेरयामास सत्वरः।।
दानवेन्द्रैः ससैन्यैश्च युद्धारम्भो बभूव ह ।। २२ ।।
स्वयं महेन्द्रो युयुधे सार्द्धं च वृषपर्वणा ।।
भास्करो युयुधे विप्रचित्तिना सह सत्वरः ।। २३ ।।
दम्भेन सह चन्द्रश्च चकार समरं परम् ।।
कालेश्वरेण कालश्च गोकर्णेन हुताशनः ।। २४ ।।
कुबेरः कालकेयेन विश्वकर्मा मयेन च ।।
भयङ्करेण मृत्युश्च संहारेण यमस्तथा ।। २९ ।।
कलविङ्केन वरुणश्चञ्चलेन समीरणः ।।
बुधश्च धृतपुष्टेन रक्ताक्षेण शनैश्चरः ।। २६ ।।
जयन्तो रत्नसारेण वसवो वर्चसां गणैः ।।
अश्विनौ वै दीप्तिमता धूम्रेण नलकूबरः ।। २७ ।।
धनुर्द्धरेण धर्मश्च मण्डूकाक्षेण मङ्गलः ।।
शोभाकरेणैवेशानः पिठरेण च मन्मथः ।।२८।।
उल्कामुखेन धूम्रेण खङ्गेनापि ध्वजेन च ।।
कांचीमुखेन पिण्डेन धूम्रेण सह नन्दिना ।। २९ ।।
विश्वेन च पलाशेन चादित्या युयुधुः परम् ।।
एकादश महारुद्राश्चैकादश भयङ्करैः ।। 2.19.३० ।।
महामारी च युयुधे चोग्रदण्डादिभिः सह ।।
नन्दीश्वरादयः सर्वे दानवानां गणैः सह ।। ३१ ।।
युयुधुश्च महद्युद्धे प्रलये च भयङ्करे ।।
वटमूले च शम्भुश्च तस्थौ काल्या सुतेन च ।। ३२ ।।
सर्वे च युयुधुः सैन्यसमूहाः सततं मुने ।।
रत्नसिंहासने रम्ये कोटिभिर्दानवैः सह ।। ३३ ।।
उवास शंखचूडश्च रत्नभूषणभूषितः ।।
शङ्करस्य च योधाश्च युद्धे सर्वे पराजिताः ।। ३४ ।।
देवाश्च दुद्रुवुः सर्वे भीताश्च क्षतविक्षताः ।।
चकार कोपं स्कन्दश्च देवेभ्यश्चाभयं ददौ ।। ३९ ।।
बलं च स्वगणानां वै वर्द्धयामास तेजसा।।
स्वयमेकश्च युयुधे दानवानां गणैः सह ।। ३६ ।।
अक्षौहिणीनां शतकं समरे स जघान ह ।।
खर्परं पातयामास काली कमललोचना ।। ३७ ।।
पपौ रक्तं दानवानां क्रुद्धा सा शतखर्परम् ।।
दशलक्षं गजेन्द्राणां शतलक्षं च वाजिनाम् ।। ३८ ।।
समादायैकहस्तेन मुखे चिक्षेप लीलया ।।
कबन्धानां सहस्रं च ननर्त्त समरे मुने ।। ३९ ।।
स्कन्दस्य शरजालेन दानवाः क्षतविक्षताः ।।
भीताश्च दुद्रुवुः सर्वे महाबलपराक्रमाः ।। 2.19.४० ।।
वृषपर्वा विप्रचित्तिर्दम्भश्चापि विकङ्कनः ।।
स्कन्देन सार्द्धं युयुधुस्ते च सर्वे क्रमेण च।।४१।।
काली जगाम समरमरक्षत्कार्त्तिकं शिवः ।।
वीरास्तामनुजग्मुश्च ते च नन्दीश्वरादयः ।। ४२ ।।
सर्वे देवाश्च गन्धर्वा यक्षराक्षसकिन्नराः ।।
राज्यभाण्डाश्च बहुशः शतकोटिर्बलाहकाः ।। ४३ ।।
सा च गत्वा च संग्रामं सिंहनादं चकार ह ।।
देव्या वै सिंहनादेन प्रापुर्मूर्च्छां च दानवाः ।। ४४ ।।
अट्टाट्टहासमशिवं चकार च पुनः पुनः ।।
हृष्टा पपौ च माध्वीकं ननर्त्त रणमूर्द्धनि ।। ४५ ।।
उग्रदंष्ट्रा चोग्रचण्डा कौट्टरी च पपौ मधु ।।
योगिनीनां डाकिनीनां गणाः सुरगणादयः ।। ४६ ।।
दृष्ट्वा कालीं शङ्खचूडः शीघ्रमाजिं समाययौ ।।
दानवाश्च भयं प्रापू राजा तेभ्योऽभयं ददौ ।। ४७ ।।
काली चिक्षेप चाग्नेयं प्रलयाग्निशिखोपमम् ।।
राजा निर्वापयामास वारुणेन स लीलया ।। ४८ ।।
चिक्षेप वारुणं सा च तत्तीव्रं महदद्भुतम् ।।
गान्धर्वेण च चिच्छेद दानवेन्द्रश्च लीलया ।। ४९ ।।
माहेश्वरं प्रचिक्षेप काली वह्निशिखोपमम् ।।
राजा जघान तच्छीघ्रं वैष्णवेन च लीलया ।। 2.19.५० ।।
नारायणास्त्रं सा देवी चिक्षिपे मन्त्रपूर्वकम् ।।
राजा ननाम तं दृष्ट्वा चावरुह्य रथादहो ।।५१।।
ऊर्ध्वं जगाम तच्छस्त्रं प्रलयाग्निशिखोपमम् ।।
पपात शङ्खचूडश्च भक्त्या वै दण्डवद्भुवि ।।
ब्रह्मास्त्रं सा च चिक्षेप यत्नतो मन्त्रपूर्वकम् ।। ५२ ।।
ब्रह्मास्त्रेण महाराज निर्वाणं च चकार ह ।।
चिक्षेपातीव दिव्यास्त्रं सा देवी मन्त्रपूर्वकम् ।। ५३ ।।
राजा दिव्यास्त्रजालेन निर्वाणं च चकार ह ।।
देवी चिक्षेप शक्तिं च यत्नतो योजनायताम् ।। ५४ ।।
राजा तीक्ष्णास्त्रजालेन शतखण्डं चकार ह ।।
जग्राह मन्त्रपूर्वं च देवी पाशुपतं रुषा ।। ५५ ।।
निक्षेप्तुं सा निषिद्धा च वाग्बभूवाशरीरिणी ।।
मृत्युः पाशुपते नास्ति नृपस्य च महात्मनः ।। ५६ ।।
यावदस्त्येव कण्ठेऽस्य कवचं हि हरेरिति ।।
यावत्सतीत्वमस्तीह सत्याश्च नृपयोषितः ।। ५७ ।।
तावदस्य जरा मृत्युर्नास्तीति ब्रह्मणो वरः ।।
इत्याकर्ण्य महाकाली न तच्चिक्षेप सा सती।।५८।।
शतलक्षं दानवानामग्रहील्लीलया क्रुधा।।
अत्तुं जगाम वेगेन शंखचूडं भयंकरी।।।।।।
दिव्यास्त्रेण सुतीक्ष्णेन वारयामास दानवः ।।
खङ्गं चिक्षेप सा देवी ग्रीष्मसूर्योपमं परम् ।।2.19.६०।।
दिव्यास्त्रैर्दानवेन्द्रोऽयं शतखण्डं चकार सः ।।
पुनरत्तुं महादेवी वेगेन च जगाम तम् ।। ६१ ।।
सर्वसिद्धेश्वरः श्रीमान्ववृधे दानवेश्वरः ।।
निवारयामास च तां सर्वसिद्धेश्वरो वरः ।।
वेगेन मुष्टिना काली कोपयुक्ता भयंकरी ।।६२।।
बभञ्जाथ रथं तस्य चाहनत्सारथिं सती ।।
सा च शूलं च चिक्षेप प्रलयाग्निशिखोपमम् ।। ६३ ।।
वामहस्तेन जग्राह शंखचूडश्च लीलया ।।
मुष्ट्या जघान तं देवी महाकोपेन वेगतः ।। ६४ ।।
बभ्राम व्यथया दैत्यः क्षणं मूर्च्छामवाप ह ।।
क्षणेन चेतनां प्राप्य समुत्तस्थौ प्रतापवान् ।। ६९ ।।
न चक्रे बाहुयुद्धं स देव्या सह ननाम ताम् ।।
देव्याश्चास्त्रं च चिच्छेद चाग्रहीत्स्वेन तेजसा ।। ६६ ।।
नास्त्रं चिक्षेप तां भक्त्या मातृबुद्ध्या च वैष्णवः ।। ६७ ।।
गृहीत्वा दानवं देवी भ्रामयित्वा पुनः पुनः ।।
ऊर्ध्वं च प्रेरयामास महावेगेन कोपतः ।। ६८ ।।
ऊर्ध्वात्पपात वेगेन शंखचूडः प्रतापवान् ।।
निपत्य च समुत्तस्थौ स नत्वा भद्रकालिकाम् ।।६९।।
रत्नेन्द्रसारखचितं विमानाग्र्यं मनोहरम् ।।
आरुरोह रथं हृष्टो न विश्रान्तो महारणे ।। । ।। 2.19.७० ।।
क्षतजं दानवानां च मांसं च विपुलं क्षुधा ।।
पीत्वा भुक्त्वा भद्रकाली ययौ सा शंकरान्तिकम् ।। ७१ ।।
उवाच रणवृत्तान्तं पौर्वापर्य्यं यथाक्रमम् ।।
श्रुत्वा जहास शम्भुश्च दानवानां विनाशनम् ।।७२।।
लक्षं च दानवेन्द्राणामवशिष्टं रणेऽधुना ।।
उद्वृत्तं भूभृता सार्द्धं तदन्यं भुक्तमीश्वर ।।७३।।
संग्रामे दानवेन्द्रं च हन्तुं पाशुपतेन वै ।।
अवध्यस्तव राजेति वाग्बभूवाशरीरिणी ।। ।। ७४ ।।
राजेन्द्रश्च महाज्ञानी महाबलपराक्रमः ।।
न च चिक्षेप मय्यस्त्रं चिच्छेद मम सायकम् ।। ७५ ।।
इति श्री ब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने कालीशंखचूडयुद्ध एकोनविंशोऽध्यायः ।। १९ ।।