ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः २०

← अध्यायः १९ ब्रह्मवैवर्तपुराणम्
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

नारायण उवाच ।।
शिवस्तत्त्वं समाकर्ण्य तत्त्वज्ञानविशारदः ।।
ययौ स्वयं च समरं स्वगणैः सह नारद ।। १ ।।
शंखचूडः शिवं दृष्ट्वा विमानादवरुह्य च ।।
ननाम परया भक्त्या दण्डवत्पतितो भुवि ।। २ ।।
तं प्रणम्य च वेगेन विमानं ह्यारुरोह सः ।।
तूर्णं चकार सन्नाहं धनुर्जग्राह दुर्वहम् ।। ३ ।।
शिवदानवयोर्युद्धं पूर्णमब्दं बभूव ह ।।
न वै बभूवतुर्ब्रह्मंस्तयोर्जयपराजयौ ।। ४ ।।
न्यस्तशस्त्रश्च भगवान्न्यस्तशस्त्रश्च दानवः ।।
रथस्थः शंखचूडश्च वृषस्थो वृषभध्वजः ।। ५ ।।
दानवानां च शतकमुद्वृत्तं च बभूव ह ।।
रणे ये मृताः शंभोर्जीवयामास तान्विभुः ।। ६ ।।
ततो विष्णुर्महामायो वृद्धब्राह्मणरूपधृक् ।।
आगत्य च रणस्थानमवोचद्दानवेश्वरम्।।७।।
वृद्धब्राह्मण उवाच ।।
देहि भिक्षां च राजेन्द्र मह्यं विप्राय साम्प्रतम् ।।
त्वं सर्वसम्पदां दाता यन्मे मनसि वाञ्छितम् ।। ८ ।।
निराहाराय वृद्धाय तृषितायातुराय च ।।
पश्चात्त्वां कथयिष्यामि पुरः सत्यं च कुर्विति ।।९।।
ओमित्युवाच राजेन्द्रः प्रसन्नवदनेक्षणः ।।
कवचार्थी जनश्चाहमित्युवाच स मायया ।। 2.20.१० ।।
तच्छ्रुत्वा दानवश्रेष्ठो ददौ कवचमुत्तमम् ।।
गृहीत्वा कवचं दिव्यं जगाम हरिरेव च ।। ११ ।।
शङ्खचूडस्य रूपेण जगाम तुलसीं प्रति ।।
गत्वा तस्यां मायया च वीर्य्याधानं चकार ह ।। १२ ।।
अथ शम्भुर्हरेः शूलं दानवार्थं समग्रहीत् ।।
ग्रीष्ममध्याह्नमार्त्तण्डशतकप्रभमुज्ज्वलम् ।। १३ ।।
नारायणाधिष्ठिताग्रं ब्रह्माधिष्ठितमध्यमम् ।।
शिवाधिष्ठितमूलं च कालाधिष्ठितधारकम् ।।१४।।
किरणावलिसंयुक्तं प्रलयाग्निशिखोपमम् ।।
दुर्निवार्यं च दुर्धर्षमव्यर्थं वैरिघातकम् ।। ।। १५ ।।
तेजसा चक्रतुल्यं च सर्वशस्त्रविघातकम् ।।
शिवकेशवयोरन्यद् दुर्वहं च भयंकरम् ।। १६ ।।
धनुस्सहस्रं दैर्घ्येण विस्तृत्या शतहस्तकम् ।।
सजीवं ब्रह्मरूपं च नित्यरूपमनिर्मितम् ।। १७ ।।
संहर्तुं सर्वविध्यण्डमेकदा दैवलीलया ।।
चिक्षेप घूर्णनं कृत्वा शंखचूडे च नारद ।। १८ ।।
राजा चापं परित्यज्य श्रीकृष्णचरणाम्बुजम् ।।
ध्यानं चकार भक्त्या च कृत्वा योगासनं धिया ।। ।।१९।।
शूलं च भ्रमणं कृत्वा न्यपतद्दानवोपरि ।।
चकार भस्मसात्तं च सरथं चैव लीलया ।। 2.20.२० ।।
राजा धृत्वा दिव्यरूपं बालकं गोपवेषकम् ।।
द्विभुजं मुरलीहस्तं रत्नभूषणभूषितम् ।।२१।।
नानारत्नसुभूषाढ्यगोपकोटिभिरावृतम् ।।
गोलोकादागतं यानमारुह्य तत्पुरं ययौ।।२२।।
गत्वा ननाम शिरसा राधामाधवयोर्मुने ।।
भक्त्या तच्चरणाम्भोजं रासे वृन्दावने मुने।।
सुदामानं तौ च दृष्ट्वा प्रसन्न वदनेक्षणौ ।। २३ ।।
तदा च चक्रतुः क्रोडे स्नेहेन परिसंप्लुतौ ।।
अथ शूलश्च वेगेन प्रययौ शूलिनः करम् ।। २४ ।।
शङ्करस्तेन शूलेन दानवस्यास्थिजालकम् ।। २५ ।।
प्रेम्णा च प्रेरयामास लवणोदे च सागरे ।।
अस्थिभिः शंखचूडस्य शंखजातिर्बभूव ह ।। ।। २६ ।।
नानाप्रकाररूपा च श्रेष्ठा पूता सुरार्चने ।।
प्रशस्तं शंखतोयं च देवानां प्रीतिदं परम् ।। २७ ।।
तीर्थतोयस्वरूपं च पवित्रं शंकरं विना ।।
शंखशब्दो भवेद्यत्र तत्र लक्ष्मीश्च सुस्थिरा ।। २८ ।।
स स्नातः सर्वतीर्थेषु यः स्नातः शंखवारिणा ।।
शंखं हरेरधिष्ठानं यत्र शंखस्ततो हरिः ।। २९ ।।
तत्रैव सततं लक्ष्मीर्दूरीभूतममङ्गलम् ।।
स्त्रीणां च शंखध्वनिभिः शूद्राणां च विशेषतः ।।
भीता रुष्टा याति लक्ष्मीः स्थलमन्यं स्थलात्ततः ।।2.20.३०।।
शिवश्च दानवं हत्वा शिवलोकं जगाम सः।।
प्रहृष्टो वृषमारुह्य स्वगणैश्च समावृतः ।। ३१ ।।
सुराः स्वविषयं प्रापुः परमानन्दसंयुताः ।।
नेदुर्दुन्दुभयः स्वर्गे जगुर्गन्धर्वकिन्नराः ।। ।। ३२ ।।
बभूव पुष्पवृष्टिश्च शिवस्योपरि सन्ततम् ।।
प्रशशंसुः सुरास्तं च मुनीन्द्रप्रवरादयः ।। ३३ ।।
इति श्रीब्रह्मवैवर्त्ते महापु राणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे तुलस्युपाख्याने शंखचूडवधे शंखप्रस्तावो नाम विंशोऽध्यायः ।। २० ।।