प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३६ ब्रह्मवैवर्तपुराणम्
अध्यायः ३७
वेदव्यासः
अध्यायः ३८ →

नारद उवाच ।।
हरेर्गुणं समाकर्ण्य ज्ञानं प्राप्य पुरन्दरः ।।
किं चकार गृहं गत्वा तन्मे व्याख्यातुमर्हसि ।।१।।
नारायण उवाच ।।
श्रीकृष्णस्य गुणं श्रुत्वा वीतरागो बभूव स ।।
वैराग्यं वर्द्धयामास तदा ब्रह्मन्दिने दिने ।। २ ।।
मुनिस्थानाद्गृहं गत्वा स ददर्शामरावतीम् ।।
दैत्यैरसुरसंघैश्च समाकीर्णां भयाकुलाम् ।।३।।
विषण्णबान्धवां चैव बन्धुहीनां च कुत्रचित् ।।
पितृमातृकलत्रादिविहीनामतिचञ्चलाम् ।। ४ ।।
शत्रुग्रस्तां च दृष्ट्वा तामगमद्वाक्पतिं प्रति ।।
शक्रो मन्दाकिनीतीरे ददर्श गुरुमीश्वरम् ।। ५ ।।
ध्यायमानं परं ब्रह्म गङ्गातोये स्थितं परम् ।।
सूर्य्याभिसंमुखं पूर्वमुखं वै विश्वतो मुखम् ।। ६ ।।
साश्रुनेत्रं पुलकितं परमानन्दसंयुतम् ।।
वरिष्ठं च गरिष्ठं च धर्मिष्ठं चेष्टसेविनम् ।। ७ ।।
श्रेष्ठं च वन्धुवर्गाणामतिश्रेष्ठं च मानिनाम् ।।
ज्येष्ठं च बन्धुवर्गाणां नेष्टं च सुरवैरिणाम् ।। ८ ।।
दृष्ट्वा गुरुं जपन्तं च तत्र तस्थौ सुरेश्वरः ।।
प्रहरान्ते गुरुं दृष्ट्वा चोत्थितं प्रणनाम सः ।। ९ ।।
प्रणम्य चरणाम्भोजे रुरोदोच्चैर्मुहुर्मुर्हुः ।।
वृत्तान्तं कथयामास ब्रह्मशापादिकं तथा ।।2.37.१०।।
पुनर्वरो मया लब्धो ज्ञानिनामपि दुर्लभाम् ।।
वैरिग्रस्तां स्वीयपुरीं क्रमेणैव सुरेश्वरः ।। ११ ।।
शिष्यस्य वचनं श्रुत्वा सतां बुद्धिमतां वरः ।।
बृहस्पतिरुवाचेदं कोपरक्तान्तलोचनः ।। १२ ।।
बृहस्पतिरुवाच ।।
श्रुतं सर्वं सुरश्रेष्ठ मा रोदीर्वचनं शृणु ।।
न कातरो हि नीतिज्ञो विपत्तौ स्यात्कदाचन ।। १३ ।।
सम्पत्तिर्वा विपत्तिर्वा नश्वरा स्वप्नरूपिणी ।।
पूर्वस्वकर्मायत्ता च स्वयं कर्त्ता तयोरपि ।। ।। १४ ।।
सर्वेषां च भ्रमत्येव शश्वज्जन्मनि जन्मनि ।।
चक्रनेमिक्रमेणैव तत्र का परिदेवना ।। १५ ।।
भुङ्क्ते हि स्वकृतं कर्म सर्वत्रापि च भारते ।।
शुभाशुभं च यत्किंचित्स्वकर्मफलभुक्पुमान् ।। १६ ।।
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।। १७ ।।
इत्येवमुक्तं वेदे च कृष्णेन परमात्मना ।।
साम्नि कौथुमशाखायां संबोध्य स्वकुलोद्भवम् ।। ।।१८।।
जन्म भोगावशेषे च सर्वेषां कृतकर्मणाम् ।।
अनुरूपं च तेषां वै भारतेऽन्यत्र चैव हि ।।१९।।
कर्मणा ब्रह्मशापं च कर्मणा च शुभाशिषम् ।।
कर्मणा च महालक्ष्मीं लभेद्दैन्यं च कर्मणा ।। 2.37.२० ।।
कोटिजन्मार्जितं कर्म जीविनामनुगच्छति ।।
नहि त्यजेद्विना भोगात्तं छायेव पुरन्दर ।। २१ ।।
कालभेदे देशभेदे पात्रभेदे च कर्मणाम् ।।
न्यूनताऽधिकता वाऽपि भवेदेव हि कर्मणाम् ।। ।। २२ ।।
वस्तुदाने च वस्तूनां समं पुण्यं समे दिने ।।
दिनभेदे कोटिगुणमसंख्यं वाऽधिकं ततः ।। २३ ।।
समदेशे च वस्तूनां दाने पुण्यं समं वृषन् ।।
देशभेदे कोटिगुणमसंख्यं वाऽधिकं ततः ।। २४ ।।
समे पात्रे समं पुण्यं वस्तूनां कर्तुरेव च ।।
पात्रभेदे शतगुणमसंख्यं वा ततोऽधिकम् ।। २५ ।।
यथा फलन्ति सस्यानि न्यूनान्यप्यधिकानि च ।।
कर्षकाणां क्षेत्रभेदे पात्रभेदे फलं तथा ।। २६ ।।
सामान्यदिवसे विप्रे दानं समफलं भवेत् ।।
अमायां रविसंक्रान्त्यां फलं शतगुणं भवेत् ।।
चातुर्मास्यां पौर्णमास्यामनन्तफलमेव च ।। २७ ।।
ग्रहणे शशिनः कोटिगुणं च फलमेव च ।।
सूर्य्यस्य ग्रहणे चापि ततो दशगुणं फलम् ।। २८ ।।
अक्षयायामक्षयं चाप्यसंख्यफलमुच्यते ।।
एवमन्यत्र पुण्याहे फलाधिक्यं भवेदिह ।। २९ ।।
यथा दाने तथा स्नाने जपे वै पुण्यकर्मसु ।।
एवं सर्वत्र बोद्धव्यं नराणां कर्मणां फलम् ।। 2.37.३० ।।
सामान्यदेशे दानं च विप्रे समफलं भवेत् ।।
तीर्थे देवगृहे चैव फलं शतगुणं स्मृतम् ।। ३१ ।।
गङ्गायां वै कोटिगुणं क्षेत्रे नारायणेऽव्ययम् ।।
कुरुक्षेत्रे बदर्य्यां च काश्यां कोटिगुणं तथा ।। ३२ ।।
यथा च वै कोटिगुणं तथा वै विष्णुमन्दिरे ।।
केदारे वै लक्षगुणं हरिद्वारे तथा फलम् ।। ३३ ।।
पुष्करे भास्करक्षेत्रे दशलक्षगुणं फलम् ।।
एवं सर्वत्र बोद्धव्यं फलाधिक्यं क्रमेण च ।।३४।।
सामान्यब्राह्मणे दानं सममेव फलं लभेत् ।।
लक्षं त्रिसन्ध्यं पूते च पण्डिते च जितेन्द्रिये ।।३५।।
विष्णुमन्त्रोपासके च बुधे कोटिगुणं फलम्।।
एवं सर्वत्र बोद्धव्यं फलाधिक्यं गुणाधिकं ।।३६।।
यथा दण्डेन सूत्रेण शरावेण जलेन च ।।
कुम्भं निर्माति चक्रेण कुम्भकारो मृदा भुवि।।३७।।
तथैव कर्मसूत्रेण फलं धाता ददाति च ।।
यस्याज्ञया सृष्टिविधौ तं च नारायणं भज ।। ३८ ।।
स विधाता विधातुश्च पातुः पाता जगत्त्रये ।।
स्रष्टुः स्रष्टा च संहर्त्तुः संहर्त्ता कालकालकः ।। ३९ ।।
महाविपत्तौ संसारे यः स्मरेन्मधुसूदनम् ।।
विपत्तौ तस्य सम्पत्तिर्भवेदित्याह शङ्करः ।। 2.37.४० ।।
इत्येवमुक्त्वा जीवश्च समालिङ्ग्य सुरेश्वरम् ।।
दत्त्वा शुभाशिषं चेष्टं बोधयामास नारद ।। ४१ ।।
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे बृहस्पतिमहेन्द्रसंवादे महालक्ष्म्युपाख्याने कर्मफलनिरूपणं नाम सप्तत्रिंशत्तमोऽध्यायः ।।३७।।