प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४६ ब्रह्मवैवर्तपुराणम्
अध्यायः ४७
वेदव्यासः
अध्यायः ४८ →

नारद उवाच ।।
का वा सा सुरभी देवी गोलोका दागता च या ।।
तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः ।। १ ।।
नारायण उवाच ।।
गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः ।।
गवां प्रधाना सुरभी गोलोके च समुद्भवा ।। २ ।।
सर्वादिसृष्टेः कथनं कथयामि निशामय ।।
बभूव तेन तज्जन्म पुरा वृन्दावने वने ।। ३ ।।
एकदा राधिकानाथो राधया सह कौतुकात् ।।
गोपांगनापरिवृतः पुण्यं वृन्दावनं ययौ ।। ४ ।।
सहसा तत्र रहसि विजहार च कौतुकात् ।।
बभूव क्षीरपानेच्छा तदा स्वेच्छापरस्य च।। ५ ।।
ससृजे सुरभीं देवीं लीलया वामपार्श्वतः ।।
वत्सयुक्तां दुग्धवतीं वत्सानां च मनोरमाम् ।। ६ ।।
दृष्ट्वा सवत्सां सुरभीं रत्नभाण्डे दुदोह सः ।।
क्षीरं सुधातिरिक्तं च जन्ममृत्युहरं परम्।। ७।।
तदुष्णं च पयः स्वादु पपौ गोपीपतिः स्वयम् ।।
सरो बभूव पयसा भाण्डविस्रंसनेन च ।।८।।
दीर्घे च विस्तृते चैव परितः शतयोजनम् ।।
गोलोकेषु प्रसिद्धं तद्रम्यं क्षीरसरोवरम् ।। ९ ।।
गोपिकानां च राधायाः क्रीडावापी बभूव सा ।।
रत्नेन रचिता तूर्णं भूता वापीश्वरेच्छया ।। 2.47.१० ।।
बभूव कामधेनूनां सहसा लक्षकोटयः ।।
तावत्यो हि सवत्साश्च सुरभीलोमकूपतः ।। ११ ।।
तासां पुत्राश्च पौत्राश्च संबभूवुरसंख्यकाः ।।
कथिता च गवां सृष्टिस्तया संपूरितं जगत् ।। १२ ।।
पूजां चकार भगवान्सुरभ्याश्च पुरा मुने ।।
ततो बभूव तत्पूजा त्रिषु लोकेषु दुर्लभा ।। १३ ।।
दीपान्विता परदिने श्रीकृष्णस्याज्ञया भवे ।।
बभूव सुरभीपूजा धर्मवक्त्रादिति श्रुतम् ।। १४ ।।
ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्पूजाविधिक्रमम् ।।
वेदोक्तं च महाभाग निबोध कथयामि ते ।। १५ ।।
ॐ सुरभ्यै नम इति मन्त्रोऽयं तु षडक्षरः ।।
सिद्धो लक्षजपेनैव भक्तानां कल्पपादपः ।।१६।।
स्थितं ध्यानं यजुर्वेदे पूजनं सर्वसम्मतम् ।।
ऋद्धिदां वृद्धिदां चैव मुक्तिदो सर्वकामदाम् ।। १७ ।।
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम् ।।
गवामधिष्ठातृदेवीं गवामाद्यां गवां प्रसूम् ।।१८।।
पवित्ररूपां पूज्यां च भक्तानां सर्वकामदाम् ।।
यया पूतं सर्वविश्वं तां देवीं सुरभीं भजे ।। १९ ।।
घटे वा धेनुशिरसि बद्धस्तंभे गवां च वा ।।
शालग्रामे जलेऽग्नौ वा सुरभी पूजयेद्द्विजः ।। 2.47.२० ।।
दीपान्विता परदिने पूर्वाह्णे भक्तिसंयुतः ।।
यः पूजयेच्च सुरभीं स च पूज्यो भवेद्भुवि ।। २१ ।।
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया ।।
क्षीरं जहार सहसा चिन्तिताश्च सुरादयः ।। २२ ।।
ते गत्वा ब्रह्मणो लोकं ब्रह्माणं तुष्टुवुस्तदा ।।
तदाज्ञया च सुरभीं तुष्टुवे पाकशासनः ।। २३ ।।
महेन्द्र उवाच ।।
नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः ।।
गवां बीजस्वरूपायै नमस्ते जगदम्बिके ।। २४ ।।
नमो राधाप्रियायै च पद्मांशायै नमो नमः ।।
नमः कृष्णप्रियायै च गवां मात्रे नमो नमः ।।
कल्पवृक्षस्वरूपायै प्रदात्र्यै सर्वसंपदाम् ।। २५ ।।
श्रीदायै धनदायै च बुद्धिदायै नमो नमः ।।
शुभदायै प्रसन्नायै गोप्रदायै नमो नमः ।। २६ ।।
यशोदायै सौख्यदायै धर्मज्ञायै नमो नमः ।।
स्तोत्रश्रवणमात्रेण तुष्टा हृष्टा जगत्प्रसूः ।। २७ ।।
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ।।
महेन्द्राय वरं दत्त्वा वाञ्छितं सर्वदुर्लभम् ।। २८ ।।
जगाम सा च गोलोकं ययुर्देवादयो गृहम् ।।
बभूव विश्वं सहसा दुग्धपूर्णं च नारद ।। २९ ।।
दुग्धाद् घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ।।
इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् ।। 2.47.३० ।।
स गोमान्धनवांश्चैव कीर्त्तिमान्पुण्यवान्भवेत् ।।
सुस्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।। ३१ ।।
इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरम् ।।
सुचिरं निवसेत्तत्र कुरुते कृष्णसेवनम् ।। ३२ ।।
न पुनर्भवनं तस्य ब्रह्मपुत्र भवे भवेत् ।। ३३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सुरभ्युपाख्याने तदुत्पत्ति तत्पूजादिकथनं नाम सप्तचत्वारिंशत्तमोऽध्यायः ।। ४७ ।।