प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४७ ब्रह्मवैवर्तपुराणम्
अध्यायः ४८
वेदव्यासः
अध्यायः ४९ →

नारद उवाच ।।
नारायण महाभाग नारायणपरायण ।।
नारायणांश भगवन्ब्रूहि नारायणीं कथाम् ।। १ ।।
श्रुतं सुरभ्युपाख्यानमतीव सुमनोहरम् ।।
गोप्यं सर्वपुराणेषु पुराविद्भिः प्रशंसितम् ।। २ ।।
अधुना श्रोतुमिच्छामि राधिकाख्यानमुत्तमम् ।।
तदुत्पत्तिं च तद्ध्यानं स्तोत्रं कवचमुत्तमम् ।। ३ ।।
श्रीनारायण उवाच ।।
पुरा कैलासशिखरे भगवन्तं सनातनम् ।।
सिद्धेशं सिद्धिदं सर्वस्वरूपं शंकरं परम् ।। ४ ।।
प्रफुल्लवदनं प्रीतं सस्मितं मुनिभिः स्तुतम् ।।
कुमाराय प्ररोचन्तं कृष्णस्य परमात्मनः ।। ५ ।।
रासोत्सवरसाख्यानं रासमण्डलवर्णनम् ।।
तदाख्यानावसाने च प्रस्तावावसरे सती ।। ६ ।।
पप्रच्छ पार्वती स्फीता सस्मिता प्राणवल्लभम् ।।
स्तवनं कुर्वती भीता प्राणेशेन प्रसादिता । ।। ७ ।।
प्रोवाच तं महादेवं महादेवी सुरेश्वरी ।।
अपूर्वं राधिकाख्यानं पुराणेषु सुदुर्लभम् ।। ८ ।।
श्रीपार्वत्युवाच ।।
आगमं निखिलं नाथ श्रुतं सर्वमनुत्तमम् ।।
पाञ्चरात्रादिकं नीतिशास्त्रयोगं च योगिनाम् ।। ९ ।।
सिद्धानां सिद्धिशास्त्रं च नानातन्त्रं मनोहरम् ।।
भक्तानां भक्तिशास्त्रं च कृष्णस्य परमात्मनः ।। 2.48.१० ।।
देवीनामपि सर्वासां चरितं त्वन्मुखाम्बुजात् ।।
अधुना श्रोतुमिच्छामि राधिकाख्यानमुत्तमम् ।।१ १।।
श्रुतौ श्रुतं प्रशस्तं च राधायाश्च समासतः ।।
त्वन्मुखात्काण्वशाखाया व्यासेनोक्तां वदाधुना ।। १२ ।।
आगमाख्यानकाले च भवता स्वीकृतं पुरा ।।
नहीश्वरव्याहृतिश्च मिथ्या भवितुमर्हति ।। १३ ।।
तदुत्पतिं च तद्ध्यानं नाम्नो माहात्म्यमुत्तमम् ।।
पूजाविधानं चरितं स्तोत्रं कवचमुत्तमम् ।।१४।।
आराधनविधानं च पूजापद्धतिमीप्सिताम्।।
साम्प्रतं ब्रूहि भगवन्मां भक्तां भक्तवत्सल ।। १५ ।।
कथं न कथितं पूर्वमागमाख्यानकालतः ।।
पार्वतीवचनं श्रुत्वा नम्रवक्त्रो बभूव सः ।। १६ ।।
पञ्चवक्त्रश्च भगवाञ्छुष्ककण्ठोष्ठतालुकः ।।
स्वसत्यभङ्गभीतश्च मौनीभूय विचिन्तयन् ।। १७ ।।
सस्मार कृष्णं ध्यानेनाभीष्टदेवं कृपानिधिम् ।।
तदनुज्ञां च संप्राप्य स्वार्द्धाङ्गां तामुवाच सः ।। १८ ।।
निषिद्धोऽहं भगवता कृष्णेन परमात्मना ।।
आगमारम्भसमये राधाख्यानप्रसंगतः ।। १९ ।।
मदर्द्धांगस्वरूपा त्वं न मद्भिन्ना स्वरूपतः ।।
अतोऽनुज्ञां ददौ कृष्णो मह्यं वक्तुं महेश्वरि ।। 2.48.२० ।।
मदिष्टदेवकान्ताया राधायाश्चरितं सति ।।
अतीव गोपनीयं च सुखदं कृष्णभक्तिदम् ।। २१ ।।
जानामि तदहं दुर्गे सर्वं पूर्वापरं वरम् ।।
यज्जानामि रहस्यं च न तद्ब्रह्मा फणीश्वरः ।। २२ ।।
न तत्सनत्कुमारश्च न च धर्मः सनातनः ।।
न देवेन्द्रो मुनींद्राश्च सिद्धेन्द्राः सिद्धपुङ्गवाः ।। २३ ।।
मत्तो बलवती त्वं च प्राणांस्त्यक्तुं समुद्यता ।।
अतस्त्वां गोपनीयं च कथयामि सुरेश्वरि ।। २४ ।।
शृणु दुर्गे प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।।
चरितं राधिकायाश्च दुर्लभं च सुपुण्यदम् ।। २५ ।।
पुरा वृन्दावने रम्ये गोलोके रासमण्डले ।।
शतशृंगैकदेशे च मालतीमल्लिकावने ।। २६ ।।
रत्नसिंहासने रम्ये तस्थौ तत्र जगत्पतिः ।।
स्वेच्छामयश्च भगवान्बभूव रमणोत्सुकः ।। २७ ।।
रिरंसोस्तस्य जगतां पत्युस्तन्मल्लिकावने ।।
इच्छया च भवेत्सर्वं तस्य स्वेच्छामयस्य च ।। २८ ।।
एतस्मिन्नन्तरे दुर्गे द्विधारूपो बभूव सः ।।
दक्षिणांगं च श्रीकृष्णो वामार्द्धांगा च राधिका ।। २९ ।।
बभूव रमणी रम्या रासेशा रमणोत्सुका ।।
अमूल्यरत्नाभरणा रत्नसिंहासनस्थिता ।। 2.48.३० ।।
वह्निशुद्धांशुकाधाना कोटिपूर्णशशिप्रभा ।।
तप्तकाञ्चनवर्णाभा राजिता च स्वतेजसा।।३१।।
सस्मिता सुदती शुद्धा शरत्पद्मनिभानना ।।
बिभ्रती कबरीं रम्यां मालतीमाल्यमण्डिताम्।।३२।।
रत्नमालां च दधती ग्रीष्मसूर्य्यसमप्रभाम् ।।
मुक्ताहारेण शुभ्रेण गंगाधारानिभेन च ।। ३३ ।।
संयुक्तं वर्तुलोत्तुंगं सुमेरु गिरिसन्निभम् ।।
कठिनं सुन्दरं दृश्यं कस्तूरीपत्रचिह्नितम् ।। ३४ ।।
मांगल्यं मंगलार्हं च स्तनयुग्मं च बिभ्रती ।।
नितम्बश्रोणिभारार्त्ता नवयौवनसुन्दरी ।। ३५ ।।
कामातुरः सस्मितां तां ददर्श रसिकेश्वरः ।।
दृष्ट्वा कान्तां जगत्कान्तो बभूव रमणोत्सुकः ।।३६।।
दृष्ट्वा चैनं सुकान्तं च सा दधार हरेः पुरः ।।
तेन राधा समाख्याता पुराविद्भिर्महेश्वरि ।। ३७ ।।
राधा भजति तं कृष्णं स च तां च परस्परम् ।।
उभयोः सर्वसाम्यं च सदा सन्तो वदन्ति च ।। ३८ ।।
भवनं धावनं रासे स्मरत्यालिंगनं जपन् ।।
तेन जल्पति संकेतं तत्र राधां स ईश्वरः ।। ३९ ।।
राशब्दोच्चारणाद्भक्तो राति मुक्तिं सुदुर्लभाम् ।।
धाशब्दोच्चारणाद्दुर्गे धावत्येव हरेः पदम् ।। ।। 2.48.४० ।।
कृष्णवामांशसम्भूता राधा रासेश्वरी पुरा ।।
तस्याश्चांशांशकलया बभूवुर्देवयोषितः ।। ४१ ।।
रा इत्यादानवचनो धा च निर्वाणवाचकः ।।
ततोऽवाप्नोति मुक्तिं च तेन राधा प्रकीर्तिता ।। ४२ ।।
बभूव गोपीसंघश्च राधाया लोमकूपतः ।।
श्रीकृष्णलोमकूपेभ्यो बभूवुः सर्वबल्लवाः ।। ४३ ।।
राधावामांशभागेन महालक्ष्मीर्बभूव सा ।।
तस्याधिष्ठातृदेवी सा गृहलक्ष्मीर्बभूव सा ।। ४४ ।।
चतुर्भुजस्य सा पत्नी देवी वैकुण्ठवासिनी।।
तदंशा राजलक्ष्मीश्च राजसम्पत्प्रदायिनी ।। ४५ ।।
तदंशा मर्त्यलक्ष्मीश्च गृहिणां च गृहे गृहे ।।
दीपाधिष्ठातृदेवी च सा चैव गृहदेवता ।। ४६ ।।
स्वयं राधा कृष्णपत्नी कृष्णवक्षःस्थलस्थिता ।।
प्राणाधिष्ठातृदेवी च तस्यैव परमात्मनः ।। ४७ ।।
आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव पार्वति ।।
भज सत्यं परं ब्रह्म राधेशं त्रिगुणात्परम् ।। ४८ ।।
परं प्रधानं परमं परमात्मानमीश्वरम् ।।
सर्वाद्यं सर्वपूज्यं व निरीहं प्रकृतेः परम् ।। ४९ ।।
स्वेच्छामयं नित्यरूपं भक्तानुग्रहविग्रहम् ।।
तद्भिन्नानां च देवानां प्राकृतं रूपमेव च ।। 2.48.५० ।।
तस्य प्राणाधिका राधा बहुसौभाग्यसंयुता ।।
महाविष्णोः प्रसूः सा च मूलप्रकृतिरीश्वरी ।। ५१ ।।
मानिनीं राधिकां सन्तः सेवन्ते नित्यशस्सदा ।।
सुलभं यत्पदाम्भोजं ब्रह्मादीनां सुदुर्लभम् ।। ५२ ।।
स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः ।।
स्वयं देवी हरेः क्रोडे छायारूपेण कामिनी ।। ५३ ।।
स च द्वादशगोपानां रायाणप्रवरः प्रिये ।।
श्रीकृष्णांशश्च भगवान्विष्णुतुल्यपराक्रमः ।। ५४ ।।
सुदामशापात्सा देवी गोलोकादागता महीम् ।।
वृषभानुगृहे जाता तन्माता च कलावती ।।५५।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गत हरगौरीसंवादे राधोपाख्याने राधोत्पत्तितत्पूजादिकथनं नामाष्टचत्वारिंशत्तमोऽध्यायः ।। ४८ ।।