← अध्यायः ५० ब्रह्मवैवर्तपुराणम्
अध्यायः ५१
वेदव्यासः
अध्यायः ५२ →


श्रीपार्वत्युवाच ।।
किमूचुर्ब्राह्मणं ब्रह्मन्ब्राह्मणा ब्रह्मणः सुताः ।।
नीतिज्ञा नीतिवचनं तन्मां व्याख्यातुमर्हसि ।। १ ।।
श्रीमहादेव उवाच ।।
सन्तोष्य तं ब्राह्मणं च स्तवेन विनयेन च ।।
क्रमेण वक्तुमारेभे मुनिसंघो वरानने ।। २ ।।
सनत्कुमार उवाच ।।
त्वत्पश्चादागता लक्ष्मीः कीर्त्तिः सत्त्वं यशस्तथा ।।
सुशीलं च महैश्वर्यं पितरोऽग्निः सुरास्तथा ।। ३ ।।
आगता नृपगेहेभ्यः कृत्वा भ्रष्टश्रियं नृपम् ।।
भव तुष्टो द्विजश्रेष्ठ चाशुतोषश्च वाडवः ।।४।।
ब्राह्मणानां तु हृदयं कोमलं नवनीतवत् ।।
शुद्धं सुनिर्मलं चैव मार्जितं तपसा मुने ।। ५ ।।
क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ।।
आशिषं कुरु तस्मै त्वं पवित्रपदरेणुना ।।६।।
भृगुरुवाच ।।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्त्तते ।।
पितरस्तस्य देवाश्च वह्निश्चैव तथैव च ।। ७ ।।
निराशाः प्रतिगच्छन्ति चातिथेरप्रतिग्रहात्।।
क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ।। ८ ।।
स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ।।
तुल्यदोषो भवत्येतैर्यस्यातिथिरनर्चितः ।। ९ ।।
पुलस्त्य उवाच ।।
पश्यन्ति ये वक्रदृष्ट्या चातिथिं गृहमागतम् ।।
दत्त्वा स्वपापं तस्मै तत्पुण्यमादाय गच्छति ।। 2.51.१० ।।
क्षमस्व नृपदोषं च गच्छ वत्स यथासुखम् ।।
राजा स्वकर्मदोषेण नोत्तस्थौ तत्क्षमां कुरु ।। ११ ।।
पुलह उवाच ।।
राजश्रिया विद्यया वा ब्राह्मणं योऽवमन्यते ।।
विप्रस्त्रिसन्ध्याहीनो यः श्रीहीनः क्षत्रियो भवेत् ।। १२ ।।
एकादशीविहीनश्च विष्णुनैवेद्यवञ्चितः ।।
क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम् ।। १३ ।।
क्रतुरुवाच।।
ब्राह्मणः क्षत्रियो वाऽपि वैश्यो वा शूद्र एव च।।
दीक्षाहीनो भवेत्सोऽपि ब्राह्मणं योऽवमन्यते।।१४।।
धनहीनः पुत्रहीनो भार्य्याहीनो भवेद्ध्रुवम् ।।
क्षमस्वागच्छ भगवञ्छुद्धं कुरु नृपालयम् ।। १५ ।।
अङ्गिरा उवाच ।।
ज्ञानवान्ब्राह्मणो भूत्वा ब्राह्मणं योऽवमन्यते।।
वृषवाहो भवेत्सोऽपि भारते सप्तजन्मसु।।१६।।
मरीचिरुवाच।।
पुण्यक्षेत्रे भारते च देवं च ब्राह्मणं गुरुम्।।
विष्णुभक्तिविहीनश्च स भवेद्योऽवमन्यते ।। १७ ।।
कश्यप उवाच ।।
वैष्णवं ब्राह्मणं दृष्ट्वा योऽसत्यमवमन्यते ।।
विष्णुमन्त्रविहीनश्च तत्पूजाविरतो भवेत् ।।१८।।
प्रचेता उवाच ।।
अतिथिं ब्राह्मणं दृष्ट्वा नाभ्युत्थानं करोति यः ।।
पितृभक्तिविहीनस्स्यात्स भवेद्भारते भुवि।।१९।।
प्राप्नोति कौञ्जरीं योनिं स मूढः सप्तजन्मसु ।।
शीघ्रं गच्छ द्विजश्रेष्ठ राज्ञे देह्याशिषश्शुभाः ।।2.51.२०।।
दुर्वासा उवाच ।।
गुरुं वा ब्राह्मणं वाऽपि देवताप्रतिमामपि ।।
दृष्ट्वा शीघ्रं न प्रणमेत्स भवेत्सूकरो भुवि ।।२१।।
मिथ्यासाक्षी च भवति तथा विश्वासघातकः ।।
क्षमस्व सर्वमस्माकमातिथ्यग्रहणं कुरु ।। २२ ।।
राजोवाच ।।
छलेन कथितो धर्मो युष्माभिर्मुनिपुङ्गवैः ।।
सर्वं कृत्वा च विस्पष्टं मां मूढं बोधयन्त्वहो ।। २३ ।।
स्त्रीघ्नगोघ्नकृतघ्नानां गुरुस्त्रीगामिनां तथा ।।
ब्रह्मघ्नानां च को दोषो ब्रूत मां योगिनां वराः ।। २४ ।।
वसिष्ठ उवाच ।।
कामतो गोवधे राजन्वर्षं तीर्थं भ्रमेन्नरः ।।
यवयावकभोजी च करेण च जलं पिबेत् ।। २५ ।।
तदा धेनुशतं दिव्यं ब्राह्मणेभ्यः सदक्षिणम् ।।
दत्त्वा मुञ्चति पापाच्च भोजयित्वा शतं द्विजान् ।। २६ ।।
प्रायश्चित्ते तु वै चीर्णे सर्वपापान्न मुच्यते ।।
पापावशेषाद्भवति दुःखी चाण्डाल एव च ।। २७ ।।
आतिदेशिकहत्यायां तदर्धं फलमश्नुते ।।
प्रायश्चित्तानुकल्पेन सर्वपापान्न मुच्यते।।।। २८ ।।
शुक्र उवाच ।।
गोहत्याद्विगुणं पापं स्त्रीहत्यायां भवेद्ध्रुवम् ।।
षष्टिवर्षसहस्राणि कालसूत्रे वसेद्ध्रुवम् ।। २९ ।।
ततो भवेन्महापापी सूकरः सप्तजन्मसु ।।
ततो भवति सर्पश्च सप्तजन्मन्यतः शुचिः ।। 2.51.३० ।।
बृहस्पतिरुवाच ।।
स्त्रीहत्याद्विगुणं पापं ब्रह्महत्याकृतो भवेत् ।।
लक्षवर्षं महाघोरे कुम्भीपाके वसेद्ध्रुवम्।। ३३ ।।
ततो भवेन्महापापी विष्ठाकीटः शताब्दकम्।।
ततो भवति सर्पश्च सप्तजन्मन्यतः शुचिः ।। ३२ ।।
गौतम उवाच ।।
दोषः कृतघ्ने राजेन्द्र ब्रह्महत्याचतुर्गुणः ।।
निष्कृतिर्नास्ति वेदोक्ता कृतघ्नानां च निश्चितम् ।। ३३ ।।
राजोवाच ।।
लक्षणं च कृतघ्नानां वद वेदविदां वर ।।
कृतघ्नः कतिधा प्रोक्तः केषु को दोष एव च।।३४।।
ऋष्यशृङ्ग उवाच ।।
कृतघ्नाः षोडशविधाः सामवेदे निरूपिताः ।।
सर्वः प्रत्येकदोषेण प्रत्येकं फलमश्नुते ।। ३५ ।।
कृते सत्ये च पुण्ये च स्वधर्मे तपसि स्थिते ।।
प्रतिज्ञायां च दाने च स्वगोष्ठीपरिपालने ।। ३६ ।।
गुरुकृत्ये देवकृत्ये काम्यकृत्ये द्विजार्चने ।।
नित्यकृत्ये च विश्वासे परधर्मप्रदानयोः ।। ३७ ।।
एतान्यो हन्ति पापिष्ठः स कृतघ्न इति स्मृतः ।।
एतेषां सन्ति लोकाश्च तज्जन्म भिन्नयोनिषु ।। ३८ ।।
यान्यांश्च नरकांस्ते च यान्ति राजेन्द्र पापिनः ।।
ते ते च नरकाः सन्ति यमलोके सुनिश्चितम् ।।३९।।
सुयज्ञ उवाच।।
के किं कृत्वा कृतघ्नाश्च कांस्कान्गच्छन्ति रौरवान् ।।
प्रत्येकं श्रोतुमिच्छामि वक्तुमर्हसि मे प्रभो।।।। 2.51.४० ।।
कात्यायन उवाच ।।
कृत्वा शपथरूपं च सत्यं हन्ति न पालयेत् ।।
स कृतघ्नः कालसूत्रे वसेदेव चतुर्युगम् ।। ४१ ।।
सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः ।।
ततः शूद्रो महाव्याधिः सप्तजन्मस्वतः शुचिः ।। ४२ ।।
श्रीसनन्दन उवाच ।।
पुण्यं कृत्वा वदत्येव कीर्तिवर्द्धनहेतुना ।।
स कृतघ्नस्तप्तसूर्म्यां वसत्येव युगत्रयम् ।। ४३ ।।
पञ्चजन्मसु मण्डूकस्त्रिषु जन्मसु कर्कटः ।।
तदा मूको महाव्याधिर्दरिद्रश्च ततः शुचिः ।। ४४ ।।
सनातन उवाच ।।
स्वधर्मं हन्ति यो विप्रः सन्ध्यात्रयविवर्जितः ।।
अतर्पयंश्च यः स्नाति विष्णुनैवेद्यवर्जितः ।। ४५ ।।
विष्णुपूजाविहीनश्च विष्णुमन्त्रविहीनकः ।।
एकादशीविहीनः श्रीकृष्णजन्मदिने तदा ।।।। ४६ ।।
शिवरात्रौ च यो भुङ्क्ते श्रीरामनवमीदिने ।।
पितृकृत्यादिहीनो यः स कृतघ्र इति स्मृतः ।। ४७ ।।
कुम्भीपाके वसत्येव यावदिन्द्राश्चतुर्दश ।।
ततश्चाण्डालतां याति सप्तजन्मसु निश्चितम् ।। ४८ ।।
शतजन्मनि गृध्रश्च शतजन्मनि सूकरः ।।
ततो भवेद्ब्राह्मणश्च शूद्राणां सूपकारकः ।। ४९ ।।
ततो भवेज्जन्म सप्त ब्राह्मणो वृषवाहकः ।।
शूद्राणां शवदाही च भवेत्सप्तसु जन्मसु ।।।। 2.51.५० ।।
द्विजो भूत्वा सप्तजनौ भारते वृषलीपतिः ।।
भुक्त्वा स्वभोगलेशं च भ्रमित्वा याति रौरवम् ।। ५१ ।।
पुनः पुनः पापयोनिं नरकं च पुनः पुनः ।।
ततो भवेद्गर्दभश्च मार्जारः पञ्चजन्मसु ।। ५२ ।।
पञ्चजन्मसु मण्डूको भवेच्छुद्धस्ततः क्रमात्।।५३।।
सुयज्ञ उवाच ।।
शूद्राणां सूपकरणे शूद्राणां शवदाहने ।।
शूद्रान्नभोजने वाऽपि शूद्रस्त्रीगमनेऽपि च।।५४।।
ब्राह्मणानां च को दोषो वृषाणां वाहने तथा ।।
एतान्सर्वान्समालोच्य ब्रूहि मां निश्चयं मुने ।। ५५ ।।
पराशर उवाच ।।
शूद्राणां सूपकारश्च यो विप्रो ज्ञानदुर्बलः ।।
असिपत्रे वसत्येव युगानामेकसप्ततिः ।। ५६ ।।
ततो भवेद्गर्दभश्च मूषिकः सप्तजन्मसु।।
तैलकीटस्सप्तजन्मस्वतः शुद्धो भवेन्नरः ।। ५७ ।।
जरत्कारुरुवाच ।।
भृत्यद्वारा स्वयं वाऽपि यो विप्रो वृषवाहकः ।।
स कृतघ्न इति ख्यातः प्रसिद्धो भारते नृप ।। ५८ ।।
ब्रह्महत्यासमं पापं तन्नित्यं वृषताडने ।।
वृषपृष्ठे भारदानात्पापं तद्द्विगुणं भवेत ।। ५९ ।।
सूर्य्यातपे वाहयेद्यः क्षुधितं तृष्टितं वृषम् ।।
ब्रह्महत्याशतं पापं लभते नात्र संशयः ।। 2.51.६० ।।
अन्नं विष्ठा जलं मूत्रं विप्राणां वृषवाहिनाम् ।।
नाधिकारो भवेत्तेषां पितृदेवार्चने नृप ।।६१ ।।
लालाकुण्डे वसत्येव यावच्चन्द्रदिवाकरौ ।।
विष्ठाभक्ष्यं मूत्रजलं तत्र तस्य भवेद्ध्रुवम् ।। ६२ ।।
त्रिसन्ध्यं ताडयेत्तं च शूलेन यमकिङ्करः ।।
उल्कां ददाति मुखतः सूच्या कृन्तति सन्ततम् ।।६३।।
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत् ।।
ततः काकः पञ्चजन्मस्वथैवं बक एव च ।। ६४ ।।
पञ्चजन्मसु गृध्रश्च शृगालः सप्तजन्मसु ।।
ततो दरिद्रः शूद्रश्च महाव्याधिस्ततः शुचिः ।। ६९ ।।
भारद्वाज उवाच ।।
शूद्राणां शवदाही यः स कृतघ्न इति स्मृतः ।।
वयःप्रमाणां राजेन्द्र ब्रह्महत्यां लभेद्ध्रुवम् ।। ६६ ।।
तत्तुल्ययोनिभ्रमणात्तत्तुल्यनरकाच्छुचिः ।।
यो दोषो ब्राह्मणानां च शूद्राणां शवदाहने ।। ६७ ।।
तावदेव भवेद्दोषः शूद्रश्राद्धान्नभोजने ।। ६८ ।।
विभाण्डक उवाच ।।
पितृश्राद्धे च शूद्राणां भुङ्क्ते यो ब्राह्मणोऽधमः।।
सुरापीती ब्रह्मघाती पितृदेवार्चनाद्बहिः ।। ६९ ।।
मार्कण्डेय उवाच ।।
यो दोषो ब्राह्मणानां च शूद्रस्त्रीगमने नृप ।।
अहं वक्ष्यामि वेदोक्तं सावधानं निशामय ।।2.51.७०।।
कृतघ्नानां प्रधानश्च यो विप्रो वृषलीपतिः ।।
कृमिदंष्ट्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश।।७१।।
कृमिभक्ष्यो भवेद्विप्रो विह्वलो यमकिङ्करैः ।।
प्रतिमां तां तप्तलौहीमाश्लेषयति नित्यशः ।। ७२ ।।
ततश्च पुंश्चलीयोनौ कृमिर्भवति निश्चितम् ।।
एवं वर्षसहस्रं च ततः शूद्रस्ततः शुचिः।।७३।।
सुयज्ञ उवाच।।
अन्येषां च कृतघ्नानां वद कर्मफलं मुने।।
श्लाघ्यो मे ब्राह्मशापश्च कस्य सम्पद्विनाऽऽपदम् ।। ७४ ।।
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम ।।
आगतास्तु यतो मुक्ता मद्गेहे मुनयः सुराः ।। ७५ ।।

इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वि० प्र० नारदनारायणसंवादान्तर्गतहरगौरीसंवादे नृपमुनिसंवादे राधोपाख्याने कर्मविपाको नामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।