प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४९ ब्रह्मवैवर्तपुराणम्
अध्यायः ५०
वेदव्यासः
अध्यायः ५१ →

पार्वत्युवाच ।।
को वा सुयज्ञो नृपतिः कुत्र वंशे बभूव सः ।।
कथं विप्राभिशप्तश्च कथं संप्राप राधिकाम् ।। १ ।।
सर्वात्मनश्च कृष्णस्य पत्नीं श्रीकृष्णपूजिताम् ।।
कथं विण्मूत्रधारी च सिषेवे परमेश्वरीम् ।। २ ।।
षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः ।।
यत्पादाम्भोजरेणूनां लब्धये पुष्करे विभुः ।। ३ ।।
कथं ददर्श तां देवो महालक्ष्मीं पुरा सतीम् ।।
दुर्दर्शामपि युष्माकं दृश्या साऽभूत्कथं नृणाम् ।। ४ ।।
कथं त्रिजगतां धाता तस्मै तत्कवचं ददौ ।।
ध्यानं पूजाविधिं स्तोत्रं तस्या व्याख्यातुमर्हसि ।। ५ ।।
श्रीमहादेव उवाच ।।
स्वायम्भुवो मनुर्देवि मनूनामादिरेव च ।।
ब्रह्मात्मजस्तपस्वी च शतरूपापतिः प्रभुः ।।६।।
उत्तानपादस्तत्पुत्रस्तत्पुत्रो ध्रुव एव च ।।
ध्रुवस्य कीर्तिर्विख्यातस्त्रैलोक्ये शैलकन्यके ।।७।।
उत्कलस्तस्य पुत्रश्च नारायणपरायणः ।।
सहस्रं राजसूयानां पुष्करे स चकार ह ।। ८ ।।
सर्वाणि रत्नपात्राणि ब्राह्मणेभ्यो ददौ मुदा ।।
अमूल्यरत्नराशीनां सहस्रं तेजसा वृतम् ।। ९ ।।
ब्राह्मणेभ्यो ददौ राजा यज्ञान्ते स महोत्सवे ।।
दृष्ट्वा तच्छोभनं यज्ञं विधाता जगतां प्रिये ।। 2.50.१० ।।
सुयज्ञं नाम नृपतिं चकार सुरसंसदि ।।
स च राजा सुयज्ञश्च मनुवंशसमुद्भवः ।। ११ ।।
अन्नदाता रत्नदाता दाता वै सर्वसम्पदाम् ।।
दशलक्षं गवां चैव रत्नशृङ्गपरिच्छदम् ।। १२ ।।
नित्यं ददौ स विप्रेभ्यो मुदायुक्तः सदक्षिणम् ।।
गवां द्वादशलक्षाणां ददौ नित्यं मुदाऽन्वितः ।। १३ ।।
सुपक्वानि च मांसानि ब्राह्मणेभ्यश्च पार्वति ।।
षट्कोटीर्ब्राह्मणानां च भोजयामास नित्यशः ।। १४ ।।
चोष्यैश्चर्व्यैर्लेह्यपेयैरतितृप्तं दिने दिने ।।
विप्रलक्षं सूपकारं भोजयामास तत्परम् ।। १५ ।।
पूर्णमन्नं च सूपाक्तं सगव्यं मांसवर्जितम् ।।
विप्रा भोजनकाले च मनुवंशसमुद्भवम् ।। १६ ।।
न तुष्टुवुः सुयज्ञं च तुष्टुवुस्तत्पितॄंश्च ते ।।
दिने सुयज्ञयज्ञान्ते षट्त्रिंशल्लक्षकोटयः ।। १७ ।।
चक्रुः सुभोजनं विप्राश्चातितृप्ताश्च सुन्दरि ।।
गृहीतानि च रत्नानि स्वगृहं वोढुमक्षमाः ।। १८ ।।
वृषलेभ्यो ददुः किञ्चित्किञ्चित्पथि च तत्यजुः ।।
विप्राणां भोजनान्ते च विप्रान्येभ्यो ददौ नृपः ।। १९ ।।
तथाप्युर्वरितं तत्र चान्नराशिसहस्रकम् ।।
कृत्वा यज्ञं महाबाहुः समुवास स्वसंसदि ।। ।। 2.50.२० ।।
रत्नेन्द्रसारसंक्लृप्तच्छत्रकोटिसमन्विते ।।
रत्नसिंहासने रम्ये पट्टवस्त्रैः सुसंस्कृते ।। २१ ।।
चन्दनादिसुसंसृष्टे रम्ये चन्दनपल्लवैः ।।
शाखायुक्तैः पूर्णकुम्भै रम्भावृक्षैश्च शोभिते ।। २२ ।।
चन्दनागुरुकस्तूरीवनसिन्दूरसंस्कृते ।।
वसुवासवचन्द्रेन्द्ररुद्रादित्य समन्विते ।। २३ ।।
मुनिनारदमन्वादिब्रह्मविष्णुशिवान्विते ।।
एतस्मिन्नन्तरे तत्र विप्र एकः समाययौ ।। २४ ।।
रूक्षो मलिनवासाश्च शुष्ककण्ठौष्ठतालुकः ।।
रत्नसिंहासनस्थं च माल्यचन्दनचर्चितम् ।। २५ ।।
राजानमाशिषं चक्रे सस्मितः सम्पुटाञ्जलिः ।।
प्रणनाम नृपस्तं च नोत्तस्थौ किंचिदेव हि ।।२६।।
सभासदश्च नोत्तस्थुर्जहसुः स्वल्पमेव च ।।
मुनिभ्योऽपि च देवेभ्यो नमस्कृत्य द्विजोत्तमः ।। २७ ।।
शशाप नृपतिं क्रोधात्तत्रातिष्ठन्निरंकुशः ।।
गच्छ दूरमतो राज्याद्भ्रष्टश्रीर्भव पामर ।। २८ ।।
भवाचिरं गलत्कुष्ठी बुद्धिहीनोऽप्युपद्रुतः ।।
इत्युक्त्वा कम्पितः क्रोधात्सभास्थाञ्छप्तुमुद्यतः ।। २९ ।।
ये यत्र जहसुः सर्वे समुत्तस्थुः सभासदः ।।
सर्वे चक्रुः प्रणामं ते क्रोधं तत्याज वाडवः ।। 2.50.३० ।।
प्रणम्यागत्य राजा तं रुरोद भयकातरः ।।
निस्ससार सभामध्याद्धृदयेन विदूयता ।। ३१ ।।
ब्राह्मणो गूढरूपी च प्रज्वलन्ब्रह्मतेजसा ।।
तत्पश्चान्मुनयः सर्वे प्रययुर्भयकातराः ।। ३२ ।।
हे विप्र तिष्ठ तिष्ठेति समुच्चार्य्य पुनः पुनः ।।
पुलहश्च पुलस्त्यश्च प्रचेता भृगुरंगिराः ।। ३३ ।।
मरीचिः कश्यपश्चैव वसिष्ठः क्रतुरेव च ।।
शुक्रो बृहस्पति श्चैव दुर्वासा लोमशस्तथा ।। ३४ ।।
गौतमश्च कणादश्च कण्वः कात्यायनः कठः ।।
पाणिनिर्जाजलिश्चैव ऋष्यशृंगो विभाण्डकः ।। ३५ ।।
तैत्तिरिश्चाप्यापिशलिर्मार्कण्डेयो महातपाः ।।
सनकश्च सनन्दश्च वोढुः पैलः सनातनः ।। ३६ ।।
सनत्कुमारो भगवान्नरनारायणावृषी ।।
पराशरो जरत्कारुः संवर्त्तः करभस्तथा ।। ३७ ।।
भरद्वाजश्च वाल्मीकिरौर्वश्च च्यवनस्तथा ।।
अगस्त्यो ऽत्रिरुतथ्यश्च सङ्कर्ताऽऽस्तीक आसुरिः ।। ३८।।
शिलालिर्लाङ्गलिश्चैव शाकल्यः शाकटायनः ।।
गर्गो वत्सः पञ्चशिखो जमदग्निश्च देवलः ।। ३९ ।।
जैगीषव्यो वामदेवो वालखिल्यादयस्तथा ।।
शक्तिर्दक्षः कर्दमश्च प्रस्कन्नः कपिलस्तथा ।। 2.50.४० ।।
विश्वामित्रश्च कौत्सश्चाप्यृचीकोऽप्यघमर्षणः ।।
एते चान्ये च मुनयः पितरोऽग्निर्हरिप्रिया ।।४१।।
दिक्पाला देवताः सर्वा विप्रं पश्चात्समाययुः।।
ब्राह्मणं बोधयामासुर्वासयामासुरीश्वरि ।। ४२ ।।
समूचुस्तं क्रमेणैव नीतिं नीतिविशारदाः ।। ४३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञोपाख्यानं नाम पञ्चाशत्तमोऽध्यायः ।।५०।।