प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५५ ब्रह्मवैवर्तपुराणम्
अध्यायः ५६
वेदव्यासः
अध्यायः ५७ →

श्रीपार्वत्युवाच ।।
पूजाविधानं स्तोत्रं च श्रुतमत्यद्भुतं मया ।।
अधुना कवचं ब्रूहि श्रोष्यामि त्वत्प्रसादतः ।। १ ।।
श्रीमहेश्वर उवाच ।।
शृणु वक्ष्यामि हे दुर्गे कवचं परमाद्भुतम् ।।
पुरा मह्यं निगदितं गोलोके परमात्मनः ।। २ ।।
अतिगुह्यं परं तत्त्वं सर्वमन्त्रौघविग्रहम् ।।
यद्धृत्वा पठनाद्ब्रह्मा संप्राप्तो वेदमातरम् ।। ३ ।।
यद्धृत्वाऽहं तव स्वामी सर्वमाता सुरेश्वरी ।।
नारायणश्च यद्धृत्वा महालक्ष्मीमवाप सः ।। ४ ।।
यद्धृत्वा परमात्मा च निर्गुणं प्रकृतेः परः ।।
बभूव शक्तिमान्कृष्णः सृष्टिं कर्तुं पुरा विभुः।।५।।
विष्णुः पाता च यद्धृत्वा संप्राप्तस्सिन्धुकन्यकाम् ।।
शेषो बिभर्ति ब्रह्माण्डं मूर्ध्नि सर्षपवद्यतः ।।६।।
प्रत्येकं लोमकूपेषु ब्रह्माण्डानि महान्विराट्।।
बिभर्ति धारणाद्यस्य सर्वाधारो बभूव सः ।।७।।
यद्धारणाच्च पठनाद्धर्म्मः साक्षी च सर्वतः।।
यद्धारणात्कुबेरश्च धनाध्यक्षश्च भारते ।। ८ ।।
इन्द्रः सुराणामीशश्च पठनाद्धारणाद्विभुः ।।
नृपाणां मनुरीशश्च पठनाद्धारणात्प्रभुः ।। ।।। ९ ।।
श्रीमांश्चन्द्रश्च यद्धृत्वा राजसूयं चकार सः ।।
स्वयं सूर्यस्त्रिलोकेशः पठनाद्धारणाद्धरिः ।।2.56.१०।।
यद्धृत्वा पठनादग्निर्जगत्पूतं करोति च।।
यद्धृत्वा वाति वातोऽयं पुनाति भुवनत्रयम्।। ११ ।।
यद्धृत्वा च स्वतन्त्रो हि मृत्युश्चरति जन्तुषु।।
त्रिःसप्तकृत्वो निःक्षत्रां चकार च वसुन्धराम् ।। १२ ।।
जामदग्न्यश्च रामश्च पठनाद्धारणात्प्रभू ।।
पपौ समुद्रं यद्धृत्वा पठनात्कुम्भसम्भवः ।। १३ ।।
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां गुरुः ।।
जीवन्मुक्तौ च सिद्धौ च नरनारायणावृषी ।।१४।।
यद्धृत्वा पठनात्सिद्धो वसिष्ठो ब्रह्मपुत्रकः।।
सिद्धेशः कपिलो यस्माद्यस्माद्दक्षः प्रजापतिः ।।१५।।
यस्माद्भृगुश्च मां द्वेष्टि कूर्म्मः शेषं बिभर्त्ति च ।।
सर्वाधारो यतो वायुर्वरुणः पवनो यतः ।। १६ ।।
ईशानो दिक्पतिश्चैव यमः शास्ता यतः शिवे ।।
कालः कालाग्निरुद्रश्च संहर्त्ता जगतां यतः ।।१७।।
यद्धृत्वा गौतमः सिद्धः कश्यपश्च प्रजापतिः ।।
वसुदेवसुतां प्राप चैकांशेन तु तत्कलाम् ।।१८।।
पुरा स्वजायाविच्छेदे दुर्वासा मुनिपुङ्गवः।।
संप्राप रामः सीतां च रावणेन हृतां पुरा ।।१९।।
पुरा नलश्च संप्राप दमयन्तीं यतः सतीम् ।।
शङ्खचूडो महावीरो दैत्यानामीश्वरो यतः ।। 2.56.२० ।।
वृषो वहति मां दुर्गे यतो हि गरुडो हरिम् ।।
एवं संप्राप संसिद्धिं सिद्धाश्च मुनयः पुरा ।।२१ ।।
यद्धृत्वा च महालक्ष्मीः प्रदात्री सर्वसम्पदाम् ।।
सरस्वती सतां श्रेष्ठा यतः क्रीडावती रतिः ।।२२।।
सावित्री वेदमाता च यतः सिद्धिमवाप्नुयात्।।
सिन्धुकन्या मर्त्यलक्ष्मीर्यतो विष्णुमवाप सा ।। २३ ।।
यद्धृत्वा तुलसी पूता गङ्गा भुवनपावनी ।।
यद्धृत्वा सर्वसस्याढ्या सर्वाधारा वसुन्धरा ।। २४ ।।
यद्धृत्वा मनसादेवी सिद्धा वै विश्वपूजिता ।।
यद्धृत्वा देवमाता च विष्णुं पुत्रमवाप सा ।। २५ ।।
पतिव्रता च यद्धृत्वा लोपामुद्राऽप्यरुन्धती ।।
लेभे च कपिलं पुत्रं देवहूती यतः सती ।। २६ ।।
प्रियव्रतोत्तानपादौ सुतौ प्राप च तत्प्रसूः ।।
त्वन्माता चापि संप्राप त्वां देवीं गिरिजां यतः ।। २७ ।।
एवं सर्वे सिद्धगणाः सर्वैश्वर्य्यमवाप्नुयुः ।।
श्रीजगन्मङ्गलस्यास्य कवचस्य प्रजापतिः ।। २८ ।।
ऋषिच्छन्दोऽस्य गायत्री देवी रासेश्वरी स्वयम् ।।
श्रीकृष्णभक्ति संप्राप्तौ विनियोगः प्रकीर्त्तितः ।। २९ ।।
शिष्याय कृष्णभक्ताय ब्राह्मणाय प्रकाशयेत् ।।
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ।। 2.56.३० ।।
राज्यं देयं शिरो देयं न देयं कवचं प्रिये ।।
कण्ठे धृतमिदं भक्त्या कृष्णेन परमात्मना ।। ३१ ।।
मया दृष्टं च गोलोके ब्रह्मणा विष्णुना पुरा ।।
ॐ राधेति चतुर्थ्यन्तं वह्निजायान्तमेव च ।। ३२ ।।
कृष्णेनोपासितो मन्त्रः कल्पवृक्षः शिरोऽवतु ।।
ॐ ह्रीं श्रीं राधिकां ङेन्तं वह्निजायान्तमेव च ।। ३३ ।।
कपालं नेत्रयुग्मं च श्रोत्र युग्मं सदाऽवतु ।।
ॐ एं ह्रीं श्रीं राधिकायै वह्निजायान्तमेव च ।। ३४ ।।
मस्तकं केशसंघांश्च मन्त्रराजः सदाऽवतु ।।
ओं रां राधाचतुर्थ्यन्तं वह्निजायान्तमेव च ।। ३५ ।।
सर्वसिद्धिप्रदः पातु कपोलं नासिकां मुखम् ।।
क्लीं श्रीकृष्णप्रिया ङेन्तं कण्ठं पातु नमोऽन्तकम् ।। ३६ ।।
ओं रां रासेश्वरीं ङेन्तं स्कंधं पातु नमोऽन्तकम् ।।
ओं रां रासविलासिन्यै स्वाहा पृष्ठं सदाऽवतु ।।३७।।
वृन्दावनविलासिन्यै स्वाहा वक्षः सदाऽवतु ।।
तुलसीवनवासिन्यै स्वाहा पातु नितम्बकम् ।। ३८ ।।
कृष्णप्राणाधिका ङेन्तं स्वाहान्तं प्रणवादिकम् ।।
पादयुग्मं च सर्वाङ्गं सन्ततं पातु सर्वतः ।। ३९ ।।
प्राच्यां रक्षतु सा राधा वह्नौ कृष्णप्रियाऽवतु ।।
दक्षे रासेश्वरी पातु गोपीशा नैर्ऋतेऽवतु ।। 2.56.४० ।।
पश्चिमे निर्गुणा पातु वायव्ये कृष्णपूजिता ।।
उत्तरे सन्ततं पातु मूलप्रकृतिरीश्वरी ।। ४१ ।।
सर्वेश्वरी सदैशान्यां पातु मां सर्वपूजिता ।।
जले स्थले चान्तरिक्षे स्वप्ने जागरणे तथा ।। ४२ ।।
महाविष्णोश्च जननी सर्वतः पातु सन्ततम् ।।
कवचं कथितं दुर्गे श्रीजगन्मङ्गलं परम् ।। ४३ ।।
यस्मै कस्मै न दातव्यं गुह्याद्गुह्यतरं परम् ।।
तव स्नेहान्मयाऽऽ ख्यातं प्रवक्तव्यं न कस्यचित्।।४४।।
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः।।
कण्ठे वा दक्षिणे बाहौ धृत्वा विष्णुसमो भवेत् ।।४५।।
शतलक्षजपेनैव सिद्धं च कवचं भवेत् ।।
यदि स्यात्सिद्धकवचो न दग्धो वह्निना भवेत् ।। ४६ ।।
एतस्मात्कवचाद्दुर्गे राजा दुर्य्योधनः पुरा ।।
विशारदो जलस्तम्भं वह्निस्तम्भं च निश्चितम् ।। ४७ ।।
मया सनत्कुमाराय पुरा दत्तं च पुष्करे।।
सूर्य्यपर्वणि मेरौ च स सान्दीपनये ददौ।।४८।।
बल्लाय तेन दत्तं च ददौ दुर्य्योधनाय सः।।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः।।४९।।
नित्यं पठति भक्त्येदं तन्मन्त्रोपासकश्च यः।।
विष्णुतुल्यो भवेन्नित्यं राजसूयफलं लभेत्।।2.56.५०।।
स्नानेन सर्वतीर्थानां सर्वदानेन यत्फलम्।।
सर्वव्रतोपवासेन पृथिव्याश्च प्रदक्षिणैः।।५१।।
सर्वयज्ञेषु दीक्षायां नित्यं वै सत्यरक्षणे ।।
नित्यं श्रीकृष्णसेवायां कृष्णनैवेद्यभक्षणे ।। ।। ५२ ।।
पाठे चतुर्णां वेदानां यत्फलं च लभेन्नरः ।।
तत्फलं लभते नूनं पठनात्कवचस्य च ।। ५३ ।।
राजद्वारे श्मशाने च सिंहव्याघ्रान्विते वने ।।
दावाग्नौ संकटे चैव दस्युचौरान्विते भये ।। ५४ ।।
कारागारे विपद्ग्रस्ते घोरे च दृढबन्धने ।।
व्याधियुक्तो भवेन्मुक्तो धारणात्कवचस्य च ।। ५५ ।।
इत्येतत्कथितं दुर्गे तवैवेदं महेश्वरि।।
त्वमेव सर्वरूपा मां माया पृच्छसि मायया ।।५६।।
श्रीनारायण उवाच ।।
इत्युक्त्वा राधिकाख्यानं स्मारंस्मारं च माधवम् ।।
पुलकाङ्कितसर्वाङ्गः साश्रुनेत्रो बभूव सः ।। ९७ ।।
न कृष्णसदृशो देवो न गङ्गासदृशी सरित् ।।
न पुष्करात्परं तीर्थं न वर्णो ब्राह्मणात्परः ।। ५८ ।।
परमाणोः परं सूक्ष्मं महाविष्णोः परो महान् ।।
नभः परं च विस्तीर्णं यथा नास्त्येव नारद ।। ५९ ।।
यथा न वैष्णवाज्ज्ञानी योगीन्द्रः शङ्करात्परः ।।
कामक्रोधलोभमोहा जितास्तेनैव नारद ।। 2.56.६० ।।
स्वप्ने जागरणे शश्वत्कृष्णध्यानरतः शिवः ।।
यथा कृष्णस्तथा शम्भुर्न भेदो माधवेशयोः ।। ६१ ।।
यथा शम्भुर्वैष्णवेषु यथा देवेषु माधवः ।।
तथेदं कवचं वत्स कवचेषु प्रशस्तकम् ।। ६२ ।।
शिशब्दो मङ्गलार्थश्च वकारो दातृवाचकः ।।
मङ्गलानां प्रदाता यः स शिवः परिकीर्त्तितः ।। ६३ ।।
नराणां सन्ततं विश्वे शं कल्याणं करोति यः ।।
कल्याणं मोक्ष इत्युक्तं स एवं शङ्करः स्मृतः।।६४।।
ब्रह्मादीनां सुराणां च मुनीनां वेदवादिनाम्।।
तेषां च महतां देवो महादेवः प्रकीर्तितः।।६५।।
महती पूजिता विश्वे मूलप्रकृतिरीश्वरी। ।।
तस्या देवः पूजितश्च महादेवः स च स्मृतः ।। ६६ ।।
विश्वस्थानां च सर्वेषां महतामीश्वरः स्वयम् ।।
महेश्वरं च तेनेमं प्रवदन्ति मनीषिणः ।। ६७ ।।
हे ब्रह्मपुत्र धन्योऽसि यद्गुरुश्च महेश्वरः ।।
श्रीकृष्ण भक्तिदाता यो भवान्पृच्छति मां च किम् ।। ६८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे राधिकोपाख्याने तन्मन्त्रादिकथनं नाम षट्पञ्चाशत्तमोऽध्याय।।५६।।

इति राधोपाख्यानम् ।।