प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ५६ ब्रह्मवैवर्तपुराणम्
अध्यायः ५७
वेदव्यासः
अध्यायः ५८ →

नारद उवाच ।।
सर्वाख्यानं श्रुतं ब्रह्मन्नतीव परमाद्भुतम्।।
अधुना श्रोतुमिच्छामि दुर्गोपाख्यानमुत्तमम्।।१।।
दुर्गा नारायणीशाना विष्णुमाया शिवा सती ।।
नित्या सत्या भगवती शर्वाणी सर्वमङ्गला।।२।।
अम्बिका वैष्णवी गौरी पार्वती च सनातनी।।
नामानि कौथुमोक्तानि सर्वेषां शुभदानि च।।३।।
अर्थं षोडशनाम्नां च सर्वेषामीप्सितं वरम्।।
ब्रूहि वेदविदां श्रेष्ठ वेदोक्तं सर्वसम्मतम् ।।४।।
केन वा पूजिता साऽऽदौ द्वितीये केन वा पुरा ।।
तृतीये वा चतुर्थे वा केन सर्वत्र पूजिता ।। ५ ।।
नारायण उवाच ।।
अर्थं षोडशनाम्नां च विष्णुर्वेदे चकार सः ।।
ज्ञात्वा पुनः पृच्छसि त्वं कथयामि यथागमम् ।। ६ ।।
दुर्गो दैत्ये महाविघ्ने भवबन्धे च कर्म्मणि ।।
शोके दुःखे च नरके यमदण्डे च जन्मनि ।। ७ ।।
महाभयेऽतिरोगे चाप्याशब्दो हन्तृवाचकः ।।
एतान्हन्त्येव या देवी सा दुर्गा परिकीर्त्तिता ।।८।।
यशसा तेजसा रूपैर्नारायणसमा गुणैः ।।
शक्तिर्नारायणस्येयं तेन नारायणी स्मृता ।। ९ ।।
ईशानः सर्वसिद्ध्यर्थे चाशब्दो दातृवाचकः ।।
सर्वसिद्धिप्रदात्री या साऽपीशाना प्रकीर्त्तिता ।।2.57.१०।।
सृष्टा माया पुरा सृष्टौ विष्णुना परमात्मना ।।
मोहितं मायया विश्वं विष्णुमाया प्रकीर्त्तिता ।।११।।
शिवे कल्याणरूपा च शिवदा च शिवप्रिया ।।
प्रिये दातरि चाशब्दः शिवा तेन प्रकीर्तिता ।।१२।।
सद्बुद्ध्यधिष्ठातृदेवी विद्यमाना युगे युगे।।
पतिव्रता सुशीला च सा सती परिकीर्तिता।।१३।।
यथा नित्यो हि भगवान्नित्या भगवती तथा।।
स्वमायया तिरोभूता तत्रेशे प्राकृते लये।।१४।।
आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव कृत्रिमम्।।
दुर्गा सत्यस्वरूपा सा प्रकृतिर्भगवान्यथा।।१५।।
सिद्धैश्वर्यादिकं सर्वं यस्यामस्ति युगे युगे ।।
सिद्धादिके भगो ज्ञेयस्तेन सा भगवती स्मृता ।।१६।।
सर्वान्मोक्षं प्रापयति जन्ममृत्युजरादिकम् ।।
चराचरांश्च विश्वस्थाञ्छर्वाणी तेन कीर्तिता ।। १७ ।।
मङ्गलं मोक्षवचनं चाशब्दो दातृवाचकः ।।
सर्वान्मोक्षान्या ददाति सैव स्यात्सर्वमङ्गला ।। १८ ।।
हर्षे सम्पदि कल्याणे मंगलं परिकीर्तितम् ।।
तान्ददाति च सर्वेभ्यस्तेन सा सर्वमंगला ।।१९।।
अम्बेति मातृवचनो वन्दने पूजने सदा ।।
पूजिता वन्दिता माता जगतां तेन साऽम्बिका ।। 2.57.२० ।।
विष्णुभक्ता विष्णुरूपा विष्णोः शक्तिस्वरूपिणी ।।
सृष्टौ च विष्णुना सृष्टा वैष्णवी तेन कीर्तिता ।। २१ ।।
गौरः पीते च निर्लिप्ते परे ब्रह्मणि निर्मले ।।
तस्यात्मनः शक्तिरियं गौरी तेन प्रकीर्तिता ।। २२ ।।
गुरुः शम्भुश्च सर्वेषां तस्य शक्तिः या सती ।।
गुरुः कृष्णश्च तन्माया गौरी तेन प्रकीर्त्तिता ।। ।। २३ ।।
तिथिभेदे पर्वभेदे कल्पभेदेऽन्यभेदके ।।
ख्यातौ तेषु च विख्याता पार्वती तेन कीर्तिता ।। २४ ।।
महोत्सवविशेषे च पर्वन्निति सुकीर्तिता ।।
तस्याधिदेवी या सा च पार्वती परिकीर्त्तिता।।२५।।
पर्वतस्य सुता देवी साऽऽविर्भूता च पर्वते।।
पर्वताधिष्ठातृदेवी पार्वती तेन कीर्त्तिता ।। २६ ।।
सर्वकाले सना प्रोक्तो विस्तृते च तनीति च ।।
सर्वत्रसर्वकाले च विद्यमाना सनातनी ।।२७।।
अर्थः षोडशनाम्नां च कीर्त्तितश्च महामुने।।
यथागमं त्वं वेदोक्तोपाख्यानं च निशामय ।।२८।।
प्रथमे पूजिता सा च कृष्णेन परमात्मना।।
वृन्दावने च सृष्ट्यादौ गोलोके रासमण्डले ।। २९ ।।
मधुकैटभभीतेन ब्रह्मणा सा द्वितीयतः ।।
त्रिपुरप्रेरितेनैव तृतीये त्रिपुरारिणा।। ।। 2.57.३० ।।
भ्रष्टश्रिया महेन्द्रेण शापाद्दुर्वाससः पुरा ।।
चतुर्थे पूजिता देवी भक्त्या भगवती सती ।। ३१ ।।
तदा मुनीन्द्रैः सिद्धेन्द्रैर्देवैश्च मुनिपुङ्गवैः ।।
पूजिता सर्वविश्वेषु समभूत्सर्वतः सदा ।। ३२ ।।
तेजस्सु सर्वदेवानां साऽऽविर्भूता पुरा मुने ।।
सर्वे देवा ददुस्तस्यै शस्त्राण्याभरणानि च ।। ३३ ।।
दुर्गादयश्च दैत्याश्च निहता दुर्गया तया ।।
दत्तं स्वराज्यं देवेभ्यो वरं च यदभीप्सितम् ।। ।। ३४ ।।
कल्पान्तरे पूजिता सा सुरथेन महात्मना ।।
राज्ञा च मेधशिष्येण मृन्मय्यां च सरित्तटे ।। ३५ ।।
मेषादिभिश्च महिषैः कृष्णसारैश्च मण्डकैः ।।
छागैरिक्षुसुकूष्माण्डैः पक्षिभिर्बलिभिर्मुने ।। ३६ ।।
वेदोक्तांश्चैव दत्त्वैवमुपचारांस्तु षोडश ।।
ध्यात्वा च कवचं धृत्वा संपूज्य च विधानतः ।। ३७ ।।
राजा कृत्वा परीहारं वरं प्राप यथेप्सितम् ।।
मुक्तिं संप्राप वैश्यश्च संपूज्य च सरित्तटे ।।३८।।
तुष्टाव राजा वैश्यश्च साश्रुनेत्रः कृताञ्जलिः ।।
ससर्ज मृन्मयीं तां वै गभीरे निर्मले जले ।।३९।।
मृन्मयीं तामदृष्ट्वा च जलधौतां नराधिपः ।।
रुरोद च तदा वैश्यस्ततः स्थानान्तरं ययौ ।। 2.57.४० ।।
त्यक्त्वा देहं च वैश्यस्तु पुष्करे दुष्करं तपः ।। ४१ ।।
कृत्वा जगाम गोलोकं दुर्गादेवीवरेण सः ।।
राजा ययौ स्वराज्यं च पूज्यो निष्कण्टकं बली ।। ४२ ।।
भोगं च बुभुजे भूपः षष्टिवर्षसहस्रकम् ।।
भार्यां स्वराज्यं संन्यस्य पुत्रे वै कालयोगतः ।।४३।।
मनुर्बभूव सावर्णिस्तप्त्वा वै पुष्करे तपः ।।
इत्येवं कथितं वत्स समासेन यथागमम्।।४४।।
दुर्गाख्यानं मुनिश्रेष्ठ किं भूयः श्रोतुमिच्छसि।।९१।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृ० नारदनारायणसंवादे दुर्गोपाख्याने दुर्गादिनामव्युत्पत्त्यादिकथनं नाम सप्तपञ्चाशत्तमोऽध्यायः।।५७।।