प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६० ब्रह्मवैवर्तपुराणम्
अध्यायः ६१
वेदव्यासः
अध्यायः ६२ →

नारद उवाच ।।
ततः परं किं रहस्यं बभूवासुरदेवयोः ।।
श्रोतुमिच्छामि भगवन्परं कौतूहलं मम ।। १ ।।
नारायण उवाच ।।
ब्रह्मा जगाम निलयं शुक्रस्य च महात्मनः ।।
नानादैत्यगणाकीर्णं रत्नमण्डपभूषितम् ।। २ ।।
पञ्चाशत्कोटिभिः शिष्यैः परीतं ब्रह्मवादिभिः ।।
सप्तभिः परिखाभिश्च वेष्टितं दुर्गमेव च ।। ३।।
रक्षितं रक्षकगणैर्दैत्यैश्च शतकोटिभिः ।।
पद्मरागैर्विरचितैः प्रावारैः परिशोभितम् ।। ४ ।।
ददर्श जगतां धाता सभायां भृगुनन्दनम् ।।
स्तुतं मुनिगणैर्दैत्यै रत्नसिंहासनस्थितम् ।। ५ ।।
जपन्तं परमं ब्रह्म कृष्णमात्मानमीश्वरम् ।।
कोटिसूर्य्यप्रभं शश्वज्ज्वलन्तं ब्रह्मतेजसा ।। ६ ।।
दृष्ट्वा पौत्रं प्रभायुक्तं विधाता हृष्टमानसः ।।
आत्मानं कृतिनं मेने पुत्रं पौत्रं च नारद ।। ७ ।।
दृष्ट्वा पितामहं शुक्रो धातारं जगतां प्रभुम् ।।
उत्थाय सहसा भीतः प्रणनाम कृताञ्जलिः ।। ८ ।।
आदाय पूजयामास चोपचारांस्तु षोडश ।।
तुष्टाव परया भक्त्या सम्भ्रमेण यथागमम् ।। ९ ।।
विद्या मन्त्रप्रदातारं दातारं सर्वसम्पदाम् ।।
स्वकर्मणां च फलदं सर्वेषां विश्वतो वरम् ।2.61.१०।।
शुक्रस्य स्तवनेनैव सन्तुष्टो जगतां पतिः।।
अवरुह्य रथात्तूर्णमवसत्तत्र संसदि ।। ११ ।।
शुक्रेण शिरसा दत्तरत्नसिंहासने वरे।।
तेजसा ज्वलिते रम्ये निर्मिते विश्वकर्मणा।। ।। १२ ।।
शुक्रः प्रणम्य ब्रह्माणं कुमारं शकुनं क्रतुम् ।।
वसिष्ठं च मरीचिं च सनन्दं च सनातनम् ।। १३ ।।
कपिलं वै पञ्चशिखं वोढुमंगिरसं मुने ।।
धर्मं मां च नरं भक्त्या प्रणनाम कृताञ्जलिः ।।१४।।
प्रत्येकं पूजयामास सादरं च यथोचितम् ।।
सिंहासनेषु रत्नेषु वासयामास धार्मिकः ।। १५ ।।
प्रहृष्टवदनाः सर्वे प्रणेमुर्दितिनन्दनाः ।।
ऋषिसंघाश्च धातारं तुष्टुवुश्च यथागमम् ।। १६ ।।
सर्वान्संस्तूय स कविरवोचत्सम्पुटाञ्जलिः ।।
साश्रुनेत्रः सपुलकः प्रणतो विनयान्वितः ।। १७ ।।
शुक्र उवाच ।।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ।।
स्वयं विधाता भगवान्साक्षाद्दृष्टः स्वमन्दिरे ।। १८ ।।
साक्षाद्दृष्टाश्च तत्पुत्रा भगवन्तः सनातनाः ।।
तुष्टः कृष्णोऽथ मामेवं परमात्मा परात्परः ।। १९ ।।
कृतार्थं कर्तुमीशा मां युष्माकं स्वागतं शिशुम् ।।
स्वात्मारामेषु कुशलप्रश्नमेवं विडम्बनम् ।। 2.61.२० ।।
पवित्रं कर्तुमीशा मां हेतुरागमनेऽत्र वः ।।
अपरं ब्रूथ किं वाऽपि शास्त नः करवामि किम् ।। २१ ।।
ब्रह्मोवाच ।।
उद्विग्नश्चिरविच्छेदात्त्वां पौत्रं द्रष्टुमागतः ।।
विच्छेदः पुत्रपौत्राणां मरणादतिरिच्यते ।। २२ ।।
कुशलं ते मुनिश्रेष्ठ पुत्रयोश्चापि योषितः ।।
कुशलं ते स्वधर्माणां काम्यानां तपसामपि ।। २३ ।।
दिने दिनेऽपरिच्छन्नं श्रीकृष्णार्चनमीप्सितम् ।।
स्व गुरोः सेवनं नित्यमविच्छिन्नं भवेत्तव ।। २४ ।।
गुर्विष्टयोः पूजनं च सर्वमङ्गलकारणम् ।।
पापाधिरोगशोकघ्नं पुण्यहर्षप्रदं शुभम्।। ।। २९ ।।
अभीष्टदेवः सन्तुष्टो गुरौ तुष्टे नृणामिह ।।
इष्टदेवे च सन्तुष्टे सन्तुष्टाः सर्वदेवताः ।। २६ ।।
गुरुर्विप्रः सुरो रुष्टो येषां पातकिनामिह ।।
तेषां च कुशलं नास्ति विघ्नस्तस्य पदे पदे ।। २७ ।।
तुष्टश्च सततं वत्स श्रीकृष्णः प्रकृतेः परः ।।
सर्वान्तरात्मा भगवांस्तव भक्त्या च निर्गुणः ।। २८ ।।
तव तुष्टो गुरुरहं विधाता जगतामपि ।।
मयि तुष्टे हरिस्तुष्टो हरौ तुष्टे तु देवताः ।।२९।।
साम्प्रतं शृणु मे धीमन्नत्रागमनकारणम् ।।
प्रेषितस्य सुराणां च विश्वसंहर्तुरेव च ।। 2.61.३० ।।
शिवस्य गुरुपुत्रस्य साध्वीं तारां बृहस्पतेः ।।
अपहृत्य निशानाथस्तवैव शरणागतः ।। ३१ ।।
शम्भुर्धर्मश्च सूर्य्यश्च शक्रोऽनन्तश्च पुत्रक ।।
आदित्या वसवो रुद्रा दिक्पालाश्च दिगीश्वराः ।। ३२ ।।
युद्धायायान्ति सन्नद्धास्तिस्रः कोट्यश्च देवताः ।।
नागाः किम्पुरुषाश्चैव यक्षराक्षसगुह्यकाः ।। ३३ ।।
भूताः प्रेताः पिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।।
किराताश्चैव गन्धर्वाः समुद्रपुलिनेऽधुना ।। ३४ ।।
तारकामयसंग्रामे मध्यस्थो ऽहं सुतैः सह ।।
देहि तारां रणं किं वा त्यज चन्द्रं च कामिनम् ।।३५।।
शुक्र उवाच ।।
आगच्छन्तु सुराः सर्वे सन्नद्धा रणदुर्मदाः।।
योत्स्ये विना महेशं च सर्वेषां च गुरुं परम् ।।३६।।
दैत्या ऊचुः ।। उभयेषां गुरुः शम्भुर्मान्यो वन्द्यश्च सर्वदा ।।
धर्मश्च साक्षी सर्वेषां त्वमेव च पितामहः ।।३७।।
अन्यांश्च तृणतुल्यांश्च नहि मन्यामहे वयम् ।।
आगच्छन्तु च योत्स्यामो व्रज ब्रूहि जगद्गुरो।। ।। ३८ ।।
कृपया गुरुपुत्रस्य यद्यायाति महेश्वरः ।।
आग्नेयास्त्रं प्रयोक्ष्यामः पश्चाद्योत्स्यामहे प्रभो ।। ३९ ।।
ब्रह्मोवाच ।।
कालाग्निरुद्रः संहर्त्ता विश्वस्य बलिनां वरः ।।
हे वत्सास्तेन सार्द्धं च को वा युद्धं करिष्यति ।। 2.61.४० ।।
भद्रकाली जगन्माता खड्गखर्पर धारिणी ।।
तया दुर्द्धर्षया सार्द्धं को वा युद्धं करिष्यति ।। ४१ ।।
सा सहस्रभुजा देवी मुण्डमालाविभूषणा ।।
योजनायतवक्त्रा च दशयोजनविस्तृता ।। ४२ ।।
सप्ततालप्रमाणाश्च यस्या दन्ता भयानकाः ।।
क्रोशप्रमाणजिह्वा च माहालोला भयङ्करी ।। ।। ४३ ।।
अतीव रौद्रा सन्नद्धा भीमाः शंकरकिंकराः ।।
अतिभीमा भैरवाश्च नन्दी च रणकर्कशः ।। ४४ ।।
शिवस्य पार्षदाः सर्वं महाबलपराक्रमाः ।।
वीरभद्रादयः शूराः कोटिसूर्य्यसमप्रभाः ।। ४५ ।।
सहस्रमूर्ध्नः शेषस्य फणामण्डलभूषणम् ।।
विश्वं सर्षपतुल्यं च को वा योद्धा च तत्समः।।४६।।
कालाग्निरुद्रः संहर्त्ता यस्य शम्भोश्च किंकरः।।
शूलिनस्त्रिपुरघ्नस्य ज्वलतो ब्रह्मतेजसा।।४७।।
यस्य पाशुपतास्त्रेण दुर्निवार्येण पुत्रकाः ।।
भस्मीभूतं भवेद्विश्वं दैत्यानां चैव का कथा ।।४८।
यस्य शूलेन भिन्नश्च शङ्खचूडः प्रतापवान् ।।
सुदामा पार्षदवरः कृष्णस्य परमात्मनः।।४९।।
त्रिकोटिसूर्य्यसदृशस्तेजस्वी परमाद्भुतः ।।
राधाकवचकण्ठश्च सर्वदैत्यजनेश्वरः ।।2.61.५०।।
मधुकैटभयोर्हन्ता हिरण्यकशिपोश्च यः ।।
स च विष्णुः समायाति श्वेतद्वीपात्स्वयं प्रभुः ।। ५१ ।।
इत्युक्त्वा जगतां धाता विरराम च संसदि ।।
प्रहस्योवाच दैतेयो दानवानामधीश्वरः ।। ५२ ।।
प्रह्राद उवाच ।।
नमस्तुभ्यं जगद्धातः सर्वेषां प्राक्तनेश्वर ।।
सर्वपूज्यः सर्वनाथः किं वक्ष्यामि तवाग्रतः ।। ५३ ।।
हिरण्यकशिपोर्हन्ता मधुकैटभयोश्च यः ।।
सा कला यस्य कृष्णस्य परिपूर्णतमस्य च ।। ।। ५४ ।।
सर्वान्तरात्मनस्तस्य चक्रं नाम सुदर्शनम् ।।
अस्माकं लोकमस्मांश्च तद्द्राग्धक्ष्यति दुस्सहम् ।। ५५ ।।
ततो न बलवाञ्छम्भुर्न च पाशुपतं विधे ।।
न च काली न शेषश्च न च रुद्रादयः सुराः ।। ५६ ।।
यस्य लोमसु विश्वानि निखिलानि जगत्पते ।।
सर्वाधारस्य च विभोः स्थूलात्स्थूलतरस्य च ।। ९७ ।।
षोडशांशो भगवतः स चैव हि महान्विराट् ।।
अनन्तो नहि तत्स्थूलो न काली बृहती ततः ।। ५८ ।।
आगच्छन्तु सुराः सर्वे युद्धं कुर्वन्तु साम्प्रतम् ।।
न बिभेमि शरेभ्यश्च न च पाशुपताद्धरात् ।। ५९ ।।
नमस्तस्मै भगवते शिवाय शिवरूपिणे ।।
नमोऽनन्ताय साधुभ्यो वैष्णवेभ्यः प्रजापते ।। 2.61.६० ।।
श्रीकृष्णस्य प्रसादेन निर्भयोऽहं निरामयः ।।
न मे स्वात्मबलं ब्रह्मंस्तद्बलं यत्प्रभोर्बलम् ।। ६१ ।।
स्वपापेन मृतस्तातो पुरा वै विष्णुनिन्दया ।।
निर्बन्धाच्छङ्खचूडश्च दर्पाच्च मधुकैटभौ ।। ६२ ।।
त्रिपुरः किङ्करोऽस्माकं वीरत्वेन न गण्यते ।।
तथाऽपि प्रेरितस्तेन स रथस्थो महेश्वरः ।। ६३ ।।
इत्युक्त्वा दानवश्रेष्ठो विरराम च संसदि ।।
उवाच जगतां धाता पुनरेव च नारद ।। ६४ ।।
ब्रह्मोवाच ।।
विनाशकारणं युद्धमुभयोर्दैत्यदेवयोः।।
सुप्रीत्या चरणं वत्स सर्वमङ्गलकारणम् ।। ६५ ।।
तारां भिक्षां देहि मह्यं भिक्षुकाय च वेधसे ।।
विमुखे भिक्षुके राजन्गृहस्थः सर्वपापभाक् ।। ६६ ।।
सनत्कुमार उवाच ।।
स्वकीर्तिं रक्ष राजेन्द्र सिंहस्त्वं सुरदैत्ययोः ।।
यस्य भिक्षुर्जगद्धाता तस्य कीर्तेश्च का कथा ।। ६७ ।।
सनातन उवाच ।।
न जितस्त्वं सुरेन्द्रैश्च ब्रह्मेशानपुरोगमैः ।।
रक्षितः कृष्णचक्रेण वैष्णवः पुण्यवाञ्छुचिः ।। ६८ ।।
सनन्दन उवाच ।।
यस्येष्टदेवः सर्वात्मा श्रीकृष्णः प्रकृतेः परः ।।
गुरुश्च वैष्णवः शुक्रः स च केन जितो महान् ।। ६९ ।।
सनक उवाच ।।
पुण्यवान्न जितः केन जितः पापी स्वपातकैः ।।
पुण्यदीपो न निर्वाति पाषण्डेनैव वायुना ।। 2.61.७० ।।
ऋषय ऊचुः ।।
देहि तारां महाभाग चन्द्र प्राणाधिकं गुरोः ।।
स्वकीर्तिं रक्ष सुचिरं प्रार्थयामः पुनः पुनः ।। ७१ ।।
प्रह्राद उवाच ।।
स्थिते मदीश्वरे साक्षान्नहि भृत्यो विराजते ।।
कर्त्तारं ब्रूहि मन्नाथं गुरुं शुक्रं सतां वरम् ।। ७२ ।।
शिष्याणामाधिपत्ये च साधूनां गुरुरीश्वरः ।।
गुरौ समर्पितं पूर्वं सर्वैश्वर्य्यं मुनीश्वरं ।। ७३ ।।
वयं भृत्याश्च पोष्याश्च स्वगुरोः परिचारकाः ।।
ते च शिष्याः कुशलिनो गुर्वाज्ञां पालयन्ति ये ।। ७४ ।।
प्रह्रादस्य वचः श्रुत्वा चकार प्रार्थनां कविम् ।।
ददौ शुक्रश्च तारां तां चन्द्रं च मलिनं मुने ।। ७५ ।।
दत्त्वा तारां विधुं शुक्रः प्रणनाम विधेः पदे ।।
नमस्कृत्य मुनिभ्यश्च प्रणतः स्वपुरं ययौ ।। ७६ ।।
प्रह्लादः सगणो भक्त्या नमस्कृत्य विधेः पदे ।।
प्रत्येकं वै मुनिगणान्प्रणतः स्वगृहं ययौ ।। ७७ ।।
ब्रह्मा ददर्श तारां च प्रणतां स्वपदे सतीम् ।।
लज्जया नम्रवक्त्रां च रुदतीं गुर्विणीं मुने ।। ७८ ।।
चन्द्रं च प्रणतं धाता क्रोडे संस्थाप्य मायया ।।
उवाच मलिनां तारां कातरां च कृपामयः ।।७९।।
तारे त्यज भयं मत्तः भयं किं ते मयि स्थिते ।।
सौभाग्ययुक्ता स्वपतौ भविष्यसि वरेण मे ।।2.61.८०।।
दुर्बला बलिना ग्रस्ता निष्कामा न च्युता भवेत् ।।
प्रायश्चित्तेन शुद्धा सा न स्त्री जारेण दुष्यति ।। ८१ ।।
सकामा कामतो जारं भजते स्वसुखेन च ।।
प्रायश्चित्तान्न शुद्धा सा स्वामिना परिवर्जिता ।। ८२ ।।
कुम्भीपाके पच्यते सा यावच्चन्द्रदिवाकरम् ।।
अन्नं विष्ठा जलं मूत्रं स्पर्शनं सर्वपापदम् ।। ८३ ।।
पापी यस्याश्च तस्याश्च साधुभिः परिवर्जितम् ।।
कस्य गर्भं वद शुभे गच्छ वत्से गुरोर्गृहम् ।। ८४ ।।
त्यज लज्जां महाभागे सर्वं च प्राक्तनाद्भवेत्।।
ब्रह्मणो वचनं श्रुत्वा तमुवाच सती तदा ।।८५।।
चन्द्रस्य गर्भं हे तात बिभर्म्यद्य स्वकर्मणा ।।
सर्वे मे साक्षिणः सन्ति दुर्बलायाः प्रजापते ।। ८६ ।।
यदा जग्राह चन्द्रो मां दयाहीनश्च दुर्मतिः।।
इत्युक्त्वा तारका देवी सुषाव कनकप्रभम् ।। ८७ ।।
कुमारं सुन्दरं तत्र ज्वलन्तं ब्रह्मतेजसा ।।
गृहीत्वा तनयं चन्द्रो नत्वा ब्रह्माणमीश्वरम् ।। ८८ ।।
जगाम स स्वभवनं ब्रह्मा सिन्धुतटं ययौ ।।
साध्वीं तारां च गुरवे देवेभ्योऽप्यभयं ददौ ।।८९।।
आशिषं शम्भुधर्माभ्यां दत्त्वा लोकं ययौ विधिः ।।
देवा ययुः स्वभवनं स्वगृहं च बृहस्पतिः ।। 2.61.९० ।।
भावानुरक्तवनितां प्राप्य संहृष्टमानसः ।।
तारकागर्भसंभूतः स एव च बुधः स्वयम् ।। ९१ ।।
तेजस्वी सद्ग्रहो ब्रह्मश्चन्द्रस्य तनयो महान् ।।
स एव नन्दनवने चित्रां संप्राप्य निर्जने ।। ९२ ।।
घृताच्या गर्भसंभूतां कुबेरस्य च रेतसा ।।
दृष्ट्वा च निर्जने रम्यां कन्यां कमललोचनाम् ।। ९३ ।।
अतीव यौवनस्थां च बालां षोडशवार्षिकीम् ।।
गान्धर्वेण विवाहेन तां जग्राह विधोः सुतः ।। ९४ ।।
तस्यामथायं रहसि वीर्य्याधानं चकार सः ।।
बभूव राजा चित्रायां चैत्रो वै मण्डलेश्वरः ।।९५।।
सप्तद्वीपवतीं पृथ्वीं शास्ति वै धार्मिको बली ।।
शतं नद्यो घृतानां च दध्नां नद्यः शतानि च ।। ९६ ।।
शतानि नद्यो दुग्धानां मधुनद्यश्च षोडश ।।
दश नद्यश्च तैलानां शर्करालक्षराशयः ।। ९७ ।।
मिष्टान्नानां स्वस्तिकानां लक्षराशिश्च नित्यशः ।।
पञ्चकोटिगवां मांसं सापूपं स्वन्नमेव च ।। ९८ ।
एतेषां च नदीराशीर्भुञ्जते ब्राह्मणा मुने ।।
गवां लक्षं च रत्नानां मणीनां लक्षमेव च ।। ९९ ।।
शतलक्षं सुवर्णानां लक्षं वै सूक्ष्मवाससाम् ।।
रत्नानां भूषणं पात्रमतीव सुमनोहरम् ।। 2.61.१०० ।।
ददौ द्विजातये राजा नित्यं वै जीवितावधि ।।
तस्य चैत्रस्य पुत्रश्च राजाऽधिरथ एव च ।। १०१ ।।
तस्य पुत्रश्च सुरथश्चक्रवर्त्ती बृहच्छ्रवाः ।।
महाज्ञानं च संप्राप्य मेधसो मुनिसत्तमात् ।। १०२ ।।
भेजे पुरा विष्णुमायां पुण्यक्षेत्रे च भारते ।।
शरत्काले महापूजां चकार स सरित्तटे।।१०३।।
वैश्येन सार्धं स महाञ्ज्ञानिनां मुनिसत्तम।।
राजा कलिङ्गदेशस्य विराधश्च विशां वरः ।। १०४ ।।
तस्य पुत्रो महायोगी द्रुमिणो ज्ञानिनां वरः ।।
द्रुमिणो वैष्णवः प्राज्ञः पुष्करे दुष्करं तपः ।। १०५ ।।
कृत्वा समाधिं संप्राप ज्ञानिनां वैष्णवाग्रणीः ।।
पुत्रैर्दारैर्निरस्तश्च धनलोभाद्दुरात्मभिः ।।१०६।।
स च कोटिसुवर्णं च नित्यं दत्त्वा जलं पपौ ।।
मुक्तिं संप्राप संसेव्य विष्णुमायां सनातनीम्।।१०७।।
राजा लेभे मनुत्वं च राज्यं निष्कण्टकं मुने ।।
उवाच मधुरं वाक्यं धाता त्रिजगतां पतिः ।। १०८ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने गुरोस्ताराप्राप्तिबुधोत्पत्त्यादिवर्णनं नामैकषष्टितमोऽध्यायः ।। ६१ ।।